38 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टत्रिंशः सर्गः

सूर्येणास्ताचलारोहणे रामेण सुग्रीवादिभिः सह लङ्कावलोकनाय सुवेलाचलारोहणम् ॥ १ ॥

स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति
लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत्
।। ।।

विभीषणं च धर्मज्ञमनुरक्तं निशाचरम्
मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा
।। ।।

अथ लङ्कादर्शनार्थं सुवेलारोहणमष्टत्रिंशे–स त्वित्यादिश्लोकद्वयमेकान्वयं ।। धर्मज्ञत्वादि सुग्रीवस्यापि विशेषणं । सुवेलो नाम लङ्कासमतुङ्गताको गिरिविशेषः । विधिज्ञं कार्यज्ञं ॥ १–२ ॥

 

सुवेलं साधुशैलेन्द्रमिमं धातुशतैश्चितम्
अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम्
।। ।।

चितं व्याप्तं । अध्यारोहामहे आरोक्ष्यामः । अयंच समुद्रतरणदिवसवृत्तान्तः पूर्वं संग्रहेणोक्तः । अद्य सविशेषमुच्यते ॥ ३ ॥

 

लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः
येन मे मरणान्ताय हृता भार्या दुरात्मना
।। ।।

येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा
राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम्
।। ।।

लङ्कामित्यादिश्लोकद्वयमेकान्वयं ॥ लङ्कालोकने निमित्तमाह – निलयमिति । मे भार्येति । संबन्ध: । मरणान्ताय मरणरूपफलाय । तत् प्रसिद्धं । वृत्तं धर्मशास्त्रविहितस्वकुलाचार: । कुलं स्वकुलातिशयः । एतत्सर्वं भार्यापहरणनिवृत्तिहेतुः तन्नासीदित्यर्थः । तर्हि केन हेतुना कृतमित्यत्राह – राक्षस्येति । तत् भार्यापहरणं ॥ ४ – ५ ॥

 

स्मिन्मे वर्तते रोषः कीर्तिते राक्षसाधमे
यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम्
।। ।।

एतादृशस्य निलयदर्शने किं फलं तत्राह – तस्मिन्निति ॥ वर्तते उत्पद्यते । तर्हि तन्मात्रवधे यत्नः क्रियतामित्यत्राह—यस्येति ॥ ६ ॥

 

एको हि कुरुते पापं कालपाशवशं गतः
नीचेनात्मापचारेण कुलं तेन विनश्यति
।। ।।

अन्यस्य दोषेणान्यवधः किमर्थक्रियत इत्यत्राह – एक इति ॥ एकः पापं कुरुते नीचेन तेन कर्त्रा आत्मापचारेण तद्दोषेण कारणेन कुलं तत्संबन्धिनः सर्वे विनश्यन्ति ॥ ७ ॥

 

एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति
रामः सुवेलं वासाय चित्रसानुमुपारुहत्
।। ।।

संमन्त्रयन् वदन् । उपारुहत् उपारुक्षत् ॥ ८ ॥

 

पृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः
सशरं चापमुद्यम्य सुमहद्विक्रमे रतः

तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः ।। ।।

पृष्ठत इत्यादि सार्धश्लोकः ॥ समाहितः सावधानः ॥ ९ ॥


हनूमानङ्गदो नीलो मैन्दो द्विविद एव च

गजो गवाक्षो गवयः शरभो गन्धमादनः ।। १० ।।
पनसः कुमुदश्चैव हरो रम्भश्च यूथपः

जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः ।। ११ ।।

दुर्मुखश्च महातेजास्तथा शतबलिः कपिः ।

एते चान्ये च बहवो वानराः शीघ्रगामिनः ।। १२ ।।
ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः

अध्यारोहन्त शतशः सुवेलं यत्र राघवः
।। १३ ।।

[ ततः सुवेलमारुह्य रामस्तैस्सह वानरैः ।

निषासाद गिरेस्तस्य शृङ्गे समतले शुभे ।। १४ ।।

ततः कपिगणास्सर्वे समावृत्य द्वियोजनम् ।

सुवेलमध्यारोहंस्ते प्लवन्तो दक्षिणामुखाः ।। १५ ।। ]

सामात्य इत्युक्तं विवृणोति – हनुमानित्यादिचतुःश्लोकी ॥ हनुमानिति पृथगुक्त्या रामलक्ष्मणौ पद्भ्यामेवारूढाविति गम्यते । ते प्रसिद्धाः । एते चान्ये च । वायुवेगप्रवणाः वायुवेगेन गच्छन्तः । प्रुङ् गतौ इति धातोर्बहुलग्रहणात्कर्तरि युट् । अतएव शीघ्रगामिनः सन्तः अध्यारोहन्त ।। १०-१५ ॥

 

ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः
ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम्
।। १६ ।।

ते रामादयः । तस्य प्रसिद्धस्य त्रिकूटस्य । खे विषक्तां आकाशे लम्बमानामिव स्थितां । पुरीं लङ्कां । सर्वतो ददृशुः ॥ १६ ॥

 

तां शुभां प्रवरद्वारां प्राकारपरिशोभिताम्
लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः
।। १७ ।।

वानराश्च ददृशुरित्याह – तामिति ॥ स्पष्टः ।। १७ ।।

 

प्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः
ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम्
।। १८ ।।

ते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्क्षिणः
मुमुचुर्वि
विधान्नादांस्तत्र रामस्य पश्यतः ।। १९ ।।

प्राकारस्य चयः वनं तत्र स्थितैः । स्याच्चयो वप्रमस्त्रियां इत्यमरः ।। १८ – १९ ॥

 

ततोऽस्तमगमत्सूर्यः सन्ध्यया प्रतिरञ्जितः
पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते
।। २० ।।

प्रतिरञ्जितः रक्तवर्णीकृतः । पूर्णचन्द्रप्रदीप्तेति । अनेन पौर्णमास्यां सुवेलारोहणमित्युक्तं । प्रथमायां युद्धारम्भ इत्याहुः । यद्वा पूर्णचन्द्रतुल्यप्रदीपवतीति वाऽर्थः । संभवन्ति हि वानरसेनायामपि प्रकाशार्थमारोपिता दीपाः ॥ २० ॥

 

ततः स रामो हरिवाहिनीपतिर्विभीषणेन प्रतिनन्द्य सत्कृतः
सलक्ष्मणो यूथपयूथसंवृतः
सुवेल पृष्ठे न्यवसद्यथासुखम् ।। २१ ।।

वाहिनीपतिः वानरसेनानिर्वाहकः ॥ २१ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टत्रिंशः सर्गः ॥ ३८

इति श्रीगोविन्दराज विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टत्रिंशः सर्गः ॥ ३८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.