श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चाशः सर्गः
सुग्रीवचोदितेनजांबवता रामसमीपमागच्छतिगदापणौविभीषणे इन्द्रजिद्रामेणविद्रवतां -वानराणां तस्यविभीषणत्वभाषणेनसमाश्वासनपूर्वकं प्रतिनिवर्तनम् ॥ १ ॥ रामलक्ष्मण -समीपमेत्य सलिलेनतन्नयनपरिमार्जनपूर्वकंविलपतोविभीषणस्यसुग्रीवेणसमाश्वासनम् ॥ २ ॥ सुग्रीवेण स्वयंरावणवधप्रतिज्ञानपूर्वकं राघवयोः किष्किन्धाप्रापणं -चोदितेनसुषेणेन तंप्रति संजीव करण्यादिमहौषधिसमानयनाय क्षीरोदंप्रतिहनुमच्चोदनचोदना ॥ ३ ॥ अत्रान्तरेस्वय -मेव सत्वरसमागतेन गरुडेनरामलक्ष्मणयोनांगपाशविध्वंसनपूर्वकं परिष्वङ्गः ॥ ४ ॥ राम प्रश्नेननिजस्वरूपनिवेदनपूर्वकं सप्रदक्षिणंगतेगरुडे वानरैर्हर्षादुच्चैरुद्धोषणम् ॥ ५ ॥
अथोवाच महातेजा हरिराजो महाबलः ।
किमियं व्यथिता सेना मूढवातेव नौर्जले ॥ १ ॥
अथ रामस्य नागपाशविमोचनं पंञ्चाशे–अथोवाचेत्यादि ॥ तादात्विकसेनापलायननिमित्तमजानान: पृच्छति–किमिति । किं किमर्थ । उवाच वानरानिति शेषः । मूढः मूर्च्छितः । विरुद्धदिग्वाय्वन्तराभिहत इत्यर्थः । वात्याहतेति यावत् ॥ १ ॥
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ॥ २ ॥
सुग्रीवस्येत्यर्धं ॥ २ ॥
नै त्वं पश्यसि रामं च लक्ष्मणं च महाबलम् ।
शरजालाचितौ वीरावुभौ दशरथात्मजौ ॥
शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ॥ ३ ॥
रामव्यथां विना किमन्यन्निमित्तमित्युत्तरयति – न त्वमिति ॥ अत्र काकुः । त्वं न
पश्यसि किमित्यर्थः । रामं लक्ष्मणं चेत्युभावित्यन्वयः ॥ ३ ॥
अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् ।
नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ॥ ४ ॥
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः ।
प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ॥ ५॥
अन्योन्यस्य न लजन्ते न निरीक्षन्ति पृष्ठतः ।
विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ॥ ६ ॥
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः ।
सुग्रीवं वर्धयामास राघवं च निरैक्षत ॥ ७ ॥
विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् ।
ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ॥ ८ ॥
विभीषणोऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः ।
विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया ॥ ९ ॥
स्वयमुद्घाटयति — अथेत्यादिना ॥ इदं रघुसिंहयो: शरतल्पशयनं । अनिमित्तं न भवतीति मन्ये । अन्येन भयनिमित्तेन भवितव्यमित्यर्थः । तत्र हेतुमाह – विषण्णेत्यादिना ॥ त्यक्तप्रहरणाः त्यक्तशिलाद्यायुधाः । अन्योन्यस्य अन्योन्यं । विप्रकर्षन्ति द्रुतगमनार्थमाकर्षन्ति ।। ४-९ ।।
शीघ्रमेतान्सुसंत्रस्तान्बहुधा विप्रधावितान् ।
पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ॥ १० ॥
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः ।
वानरान्सान्त्वयामास सन्निरुध्य प्रधावतः ॥ ११ ॥
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसंभ्रमाः ।
ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् १२
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् ।
लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः ॥ १३ ॥
जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च ।
शोकसंपीडितमना रुरोद बिललाप च ॥ १४ ॥
इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ ।
इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः ।। १५ ।।
विप्रधावितान् पलायमानान् ॥ १०-१५ ।।
भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना ।
राक्षस्या जिह्वया बुद्ध्या चालितावृजुविक्रमौ ॥ १६ ॥
दुष्पुत्रेण कपटयुद्धेन पितुरवद्यावहेन । चालितौ वञ्चितौ । ऋजुविक्रमौ अकपटविक्रमौ ॥ १६ ॥
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ ।
वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ॥ १७ ॥
सुप्तौ सुप्तसदृशौ । शल्यकौ कण्टकिवराहौ ॥ १७ ॥
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया ।
तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ॥ १८ ॥
जीवन्नद्य विपन्नोस्मि नष्टराज्यमनोरथः ।
प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ॥ १९ ॥
एवं विलपमानं तं परिष्वज्य विभीषणम् ।
सुग्रीवः सत्वसंपन्नो हरिराजोऽब्रवीदिदम् ॥ २० ॥
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः ।
रावणः सह पुत्रेण स कामं नेह लप्स्यते ॥ २१ ॥
ययोरित्यादिचतुःश्लोकी ॥ अत्र वक्तव्यं सर्वमभयप्रदाने दर्शितं ॥ १८-२१ ।।
न रुजापीडितावेतावुभौ राघवलक्ष्मणौ ।
त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ॥ २२ ॥
तमेनं सान्त्वयित्वा तु समाश्वास्य च राक्षसम् ।
सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ॥ २३ ॥
सह शूरैर्हरिगणैर्लब्धसंज्ञावरिन्दमौ ।
गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ॥ २४ ॥
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् ।
मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ॥ २५ ॥
न रुजापीडितौ इयं रुजा अनयोरात्यन्तिकहानिकरी न भवति । किंतु मोहमात्रकारिणीत्यर्थः ॥ २२-२५ ॥
श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् ।
दैवासुरं महद्युद्धमनुभूतं सुदारुणम् ॥ २६ ॥
तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाः ।
निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ॥ २७ ॥
अनुभूतं मया ज्ञातं । शरसंस्पर्शकोविदाः शरप्रयोगसमर्थाः । स्पर्शो दानमिति पर्यायः ।। २६-२७ ।।
तानार्तान्नष्टसंज्ञांच परासूंश्च बृहस्पतिः ।
विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ २८ ।।
मन्त्रयुक्ताभिः मन्त्रप्रचुराभिः । विद्याभिः मृतसंजीविनीप्रभृतिभिः । चिकित्सति अचिकित्सत् ॥ २८ ॥
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् ।
जवेन वानराः शीघ्रं संपातिपनसादयः ॥
हरयस्तु विजानन्ति पार्वतीस्ता महौषधीः ॥ २९ ॥
तान्यौषधानीत्यादिसार्धश्लोक: ॥ २९ ॥
संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ॥ ३० ॥
संजीवकरणीमित्यर्धमेकं वाक्यं ॥ अत्रानयितुं यान्त्वित्यनुषज्यते । पूर्वोक्तक्षीरोदमध्ये संजीव करणीं विशल्यां चानयितुं यान्त्वित्यर्थः । तयोरेवात्रोपयोगादिति भावः ॥ ३० ॥
चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे ।
अमृतं यत्र मथितं तत्र ते परमौषधी ॥
ते तत्र निहिते देवैः पर्वते परमौषधी ॥ ३१ ॥
ते कुत्र विद्येते इत्यत्राह – चन्द्रश्चेत्यादिना ॥ सागरोत्तमे क्षीरोदे । यत्र प्रदेशे अमृतं मथितं तत्र चन्द्रद्रोणाख्यौ पर्वतौ स्तः तयोस्ते महौषधी स्त इत्यर्थः । तत्रावस्थाने हेतुमाह – ते तत्रेति । पर्वते पर्वतयोः । जात्येकवचनं ॥ ३१ ॥
अयं वायुसुतो राजन्हनुमांस्तत्र गच्छतु ॥ ३२ ॥
अयमित्यर्धं ।। औषध्यन्तरानयने पनसादयो गच्छन्तु । संजीवविशल्यानयने तु हनुमान् गच्छत्विति विज्ञेयं ॥ ३२ ॥
एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः ।
पर्यस्यन्सागरे तोयं कम्पयन्निव मेदिनीम् ॥ ३३ ॥
महता पक्षवातेन सर्वद्वीपमहाद्रुमाः ।
निपेतुर्भिन्नविटपा: समूला लवणाम्भसि ॥ ३४ ॥
मेघान् सागरतोयं च पर्यस्यन् पर्वतान्कम्पयन्निव गरुडपक्षवायुरुदभूदिति शेषः । सर्वद्वीपमहाद्रुमाः । सर्वपदं द्रुमविशेषणं । द्वीपं च लङ्का । लवणाम्भसि लवणसमुद्रे ।। ३३ – ३४ ।।
अभवन्पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः ।
शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ॥ ३५ ॥
ततो मुहूर्ताद्गरुडं वैनतेयं महाबलम् ।
वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ॥ ३६ ॥
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः ।
यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ ।। ३७ ॥
ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्दितः ।
विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रमे ॥ ३८ ॥
भोगिनः प्रशस्तकायाः । तत्रवासिनः लङ्काद्वीपवासिनः । यादांसि जलजन्तवश्च । लवणार्णवं लवणार्णवमध्यं । भयादन्तर्मग्ना इत्यर्थः ॥ ३५-३८ ॥
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः ।
सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ॥ ३९ ॥
व्रणा: क्षतानि । संरुरुहु: संरूढाः । अज्ञातस्वरूपा बभूवुरित्यर्थः ॥ ३९ ॥
तेजो वीर्य बलं चौज उत्साहश्च महागुणः ।
प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ॥ ४० ॥
तेजः पराभिभवनसामर्थ्यं । पराधिक्षेपासहनं वा । वीर्यं पराक्रमः । बलं शारीरं । ओजः कान्तिः । उत्साहः लोकोत्तरकार्येषु स्थिरतरप्रयत्नः । प्रदर्शनं सूक्ष्मार्थपरिज्ञानं । बुद्धिः विवेकः । स्मृति: अनुभूतार्थाविस्मरणं । एतत् सर्वं द्विगुणं वैनतेयसंस्पर्शवशात् पूर्वतोप्यधिकं जातमित्यर्थः । अत्र धीरिति गायत्र्याः सप्तदशाक्षरं । षोडशसहस्रश्लोका गताः ॥ ४० ॥
तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ ।
उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ॥ ४१ ॥
ताविति । क्रियाभेदात्तच्छन्दद्वयं ॥ ४१ ॥
भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् ।
आवामिह व्यतिक्रान्तौ पूर्ववद्बलिनौ कृतौ ॥ ४२ ॥
यथा तातं दशरथं यथाऽजं च पितामहम् ।
तथा भवन्तमासाद्य हृदयं मे प्रसीदति ॥ ४३ ॥
व्यतिक्रान्तौ लङ्घितवन्तौ । गत्यर्थत्वात्कर्तरि क्तः ॥ ४२-४३ ॥
को भवान्रूपसंपन्नो दिव्यस्रगनुलेपनः ।
वसानो बिरजे वस्त्रे दिव्याभरणभूषितः ॥ ४४ ॥
तमुवाच महातेजा वैनतेयो महाबलः ।
पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ॥ ४५ ॥
विरजे निर्मले ॥ ४४-४५ ।।
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः ।
गरुत्मानिह संप्राप्तो युवाभ्यां साह्यकारणात् ॥४६॥
असुरा वा महावीर्या दानवा वा महाबलाः ।
सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥ ४७ ॥
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् ।
मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ॥ ४८ ॥
सखा वाहनत्वेन सहाय इति गूढोक्तिः युवाभ्यां युवयोः । षष्ठ्यर्थे तृतीया । साह्यकारणात् साहाय्यार्थं ॥ ४६-४८ ।।
एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः ।
रक्षोमायाप्रभावेन शरा भूत्वा त्वदाश्रिताः ॥ ४९ ॥
सभाग्यश्वासि धर्मज्ञ राम सत्यपराक्रम ।
लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ॥ ५० ॥
काद्रवेयाः कद्रपुत्राः । मायाबलात् आश्चर्यशक्तिरूपबलात् ॥ ४९-५० ॥
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः ।
संहसा युवयोः स्नेहात्सखित्वमनुपालयन् ॥ ५१ ॥
सहसा जवेन ॥ ५१ ।।
मोक्षितौ च महाघोरादस्मात्सायकबन्धनात् ।
अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥ ५२ ॥
अप्रमादश्चकर्तव्य इति । तत्तदस्रानुगुणप्रत्यस्त्रप्रयोगेषु सावधानाभ्यां भवितव्यमित्यर्थः ॥ ५२ ॥
प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः ।
शूराणां शुद्धभावानां भवतामार्जवं बलम् ।। ५३ ।।
तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे ।
एतेनैवोपमानेन नित्यं जिह्ना हि राक्षसाः ॥ ५४ ॥
एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः ।
परिष्वज्य सुहृत्स्नग्धमाप्रष्टुमुपचक्रमे ॥ ५५ ॥
प्रकृत्येत्यादिश्लोकद्वयं ॥ एतेनैवोपमानेनेति । अनेन दृष्टान्तेन राक्षसा जिह्या ज्ञेया इत्यर्थः ॥ ५३–५५ ॥
सखे राघव धर्मज्ञ रिपूणामपि वत्सल ।
अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् ॥ ५६ ॥
रिपूणामपि वत्सलेल्यनेन इन्द्रजिद्वधोपायो ज्ञात इति द्योत्यते ॥ ५६ ॥
न च कौतूहलं कार्य सखित्वं प्रति राघव ।
कृतकर्मा रणे वीर सखित्वमनुवेत्स्यसि ॥ ५७ ॥
अहं सखा ते काकुत्स्थेत्यादिनोक्तं सखित्वं कथमिति रामाशयमाशङ्क्य रहस्यत्वादिदानीं तद्विषयप्रश्नो न कर्तव्यः रावणवधानन्तरं स्वयमेव ज्ञास्यसीत्याह – न चेति ॥ सखित्वं प्रति सखित्वप्रश्नं प्रतीत्यर्थः ॥ ५७ ॥
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः ।
रावणं च रिपुं हत्वा सीतां सर्मुपलप्स्यसे ॥ ५८ ॥
रामस्योत्साहवर्धनाय भाविनमर्थं कथयति – बालेत्यादिना ॥ शरोर्मिभिः शरपरंपराभिः ॥ ५८ ॥
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः ।
रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ॥ ५९ ॥
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् ।
जगामाकाशमाविश्य सुपर्णः पवनो यथा ॥ ६० ॥
शीघ्रविक्रमः शीघ्रगतिः । क्रियाभेदेन सुपर्णपदद्वयान्वयः ।। ५९-६० ।।
निरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः ।
सिंहनादांस्तदा नेदुर्लाङ्गूलान्दुधुवुस्तदा ॥ ६१ ॥
सिंहनादं नेदुः सिंहनादं चक्रुरित्यर्थः । दुधुवुः अकम्पयन् ॥ ६१ ॥
ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यनादयन् ।
दध्मः शङ्खान्संप्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ॥ ६२ ॥
आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः ।
द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ॥६३॥
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् ।
लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवङ्गमाः ॥ ६४ ॥
ततस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् ।
क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ॥ ६५ ॥
यथापुरं यथापूर्वं । ननु पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान् । अङ्गुल्यग्रेण तान्हन्यां इत्युक्तनिरवधिकशक्तिसंपन्नः सर्वज्ञो रामः कथमज्ञ इवाशक्त इवेन्द्रजिता हतो लोहिताक्तो भूमौ स्थित इवाभावयत् । उच्यते । लोके समाचारप्रवर्तनायैवं स्थितः । इन्द्रजित्पराजयेन ह्ययमर्थोवगम्यते । शुचीनां शुद्धभावानामृजूनां प्राणसन्देहदायिविपद्यपि न विनाशः । विपरीतानां पापिष्ठानां तु करतलगतापि कार्यसिद्धिर्विगलति । अतः शुचित्वार्जवादिगुणयुक्तैः पुम्भिर्भवितव्यमिति सतां धर्मनिश्चयप्रतिपत्तिजयते । ननु रावणवधार्थं दैवतैरर्थितो हि विष्णू रामत्वेनावतीर्णः । सत्यं दुष्कृद्विनाशवद्धर्मसंस्थापनमपि ह्यवतारप्रयोजनं । रावणवधमात्रस्य प्रयोजनत्वे ह्येतावान्प्रयासो व्यर्थ: स्यात् । अतएवोक्तं – चातुर्वर्ण्यं च लोकेस्मिन्स्वे स्वे धर्मे नियोक्ष्यति इति । नच धर्मोपदेशमात्रेण तत्सिद्धिः । तादृशोपदेशस्य श्रुतिस्मृतिभिरेव कृतत्वात् । स्वाचारमुखेन धर्मप्रवचनाय हि मानुषभावना च कृता । अतः स्वाचारमुखेन धर्मप्रवर्तनमित्यादिप्रबन्धादावेवोक्तं ॥ ६२-६५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चाशः सर्गः ॥ ५० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटा ख्याने युद्धकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० ॥