श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकपञ्चाशः सर्गः
वानराणांविषादसमयेतदीयहर्षोद्धोषश्रवणविषण्णेनरावणेन राक्षसान्प्रति तद्धर्षकारणा -वगमचोदना ॥ १ ॥ राक्षसै रणाङ्गणमेत्यतदवगमेन रावणंप्रति राघवयोर्नागास्त्रविमोक्षणस्य तत्कारणत्वनिवेदनम् ॥ २ ॥ धूम्राक्षेण रावणचोदनया राक्षसैस्सहपश्चिमद्वारगमनम् ॥ ३ ॥
तेषां सुतुमुलं शब्दं वानराणां तरंस्विनाम् ।
नदतां राक्षसैः सार्धं तदा शुश्राव रावणः ॥ १ ॥
अथ धूम्राक्षनिर्गम एफपञ्चाशे – तेषामित्यादि राक्षसैः सह शुश्रावेत्यन्वयः ॥ १ ॥
स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् ।
सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥ २ ॥
निर्घोषः ध्वनिः ।। २ ।।
यथाऽसौ संप्रहृष्टानां वानराणां समुत्थितः ।
बहूनां सुमहानादो मेघानामिव गर्जताम् ॥
व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ॥ ३ ॥
यथासावित्यादिसार्धश्लोक एकान्वयः ॥ यथा येन कारणेन । सुमहानादः समुत्थितः ततः एतेषां सुमहती प्रीतिः । अस्तीतिशेषः ॥ ३ ॥
तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः ॥ ४ ॥
तथा हीत्यर्धं ॥ तथा प्रसिद्धप्रकारः ॥ ४ ॥
तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ ।
अयं च सुमहान्नादः शङ्कां जनयतीव मे ॥ ५ ॥
एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः ।
उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः ॥ ६ ॥
तौ त्विति । तुशब्दश्चार्थः । तौ च बद्धौ नादश्च श्रूयते । स च प्रकृतविरुद्धो नादः । शङ्कां राजपुत्रयोः शरबन्धापगमशङ्कां । जनयतीव । इवशब्दः संभावनायां ॥ ५-६ ॥
ज्ञायतां तूर्णमेतेषां सर्वेषां वनचारिणाम् ।
शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ॥ ७ ॥
तथोक्तास्तेन संभ्रान्ताः प्राकारमधिरुह्य ते ।
ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥ ८ ॥
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ ।
समुत्थितौ महावेगौ विपेदुः प्रेक्ष्य राक्षसाः ॥ ९ ॥
उत्थितं हर्षकारणं ज्ञायतामित्यन्वयः ॥ ७–९ ।।
संत्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते ।
विषण्णवदना घोरा राक्षसेन्द्रमुपस्थिताः ॥ १० ॥
तदप्रियं दीनमुखा रावणस्य निशाचराः ।
कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ॥ ११ ॥
उपस्थिताःप्राप्ताः ॥ १०-११ ॥
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ ।
निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥ १२ ॥
यौ तौ । यावित्यर्थः ॥ १२ ॥
विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे ।
पाशानिव गजौ छित्वा गजेन्द्रसमविक्रमौ ॥ १३ ॥
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ।
चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत् ॥ १४ ॥
पाशानिति । पाशान् छित्त्वा स्थितौ गजाविव भासमानावित्यर्थः ॥ १३–१४ ॥
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः ।
अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि ॥ १५ ॥
दत्तवरैः वरदत्तैः । प्रमथ्य बलात्कृत्य । बद्धौ अभूतामिति शेषः ॥ १५ ॥
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ।
संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ॥ १६ ॥
संशयस्थं प्राणसंशयस्थं ॥ १६ ॥
निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः ।
आदत्तं यैः सुसंग्रामे रिपूणां मम जीवितम् ॥ १७ ॥
एवमुक्त्वा तु संक्रुद्धो निःश्वसन्नुरगो यथा ।
अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम् ॥ १८ ॥
आदतं आत्तं ।। १७–१८ ।।
बलेन महता युक्तो रक्षसां भीमविक्रम ।
त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ॥ १९ ॥
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता ।
कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् ॥ २० ॥
त्वं वधायाभिनिर्याहीत्यमङ्गलसूचकं वचः ।। १९-२० ।।
अभिनिष्क्रम्य तद्वारं बलाध्यक्षमुवाच ह ।
त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः ॥ २१ ॥
द्वारमभिनिष्क्रम्य द्वारान्निष्क्रम्य । युयुत्सतः ममेतिशेषः । किं चिरेण किं विलम्बेन ॥ २१ ॥
धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः ।
बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ॥ २२ ॥
रावणस्याज्ञया रावणाज्ञाकृतं धूम्राक्षवचनं श्रुत्वेत्यर्थः ॥ २२ ॥
ते बद्धघण्टा बलिनो घोररूपा निशाचराः ।
विगर्जमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ।
विविधायुधहस्ताश्च शूलमुद्गरपाणयः ॥ २३ ॥
बद्धघण्टाः शूरत्वज्ञापनाय कटिबद्धघण्टा इत्यर्थः । ते पूर्वोक्तसेनास्था: । विविधेति । आयुधानि शूलादिभिन्नानि । अस्यार्धस्य पूर्वेणान्वयः ॥ २३ ॥
गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैर्भृशम् ।
परिषैर्भिन्दिपालैश्च भल्लैः प्रासैः परश्वधैः ।
निर्ययू राक्षसा दिग्भ्यो नर्दन्तो जलदा यथा ॥ २४ ॥
गदाभिरित्यादि । गदा प्रसिद्धा । पट्टिश: दण्डविशेष: । परिघः भिन्दिपालः । भल्लः अयोमयः शरः । प्रासैः परश्वधैः । दिग्भ्यो जलदा इवेत्यन्वयः ॥ २४ ॥
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः ।
सुवर्णजालविहितैः खरैश्च विविधाननैः ॥ २५ ॥
हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः ।
निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः ॥ २६ ॥
वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः ।
आरुरोह रथं दिव्यं धूम्राक्षः स्वरनिःस्वनः ॥२७॥
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः ।
प्रहसन्पश्चिमद्वारं हनूमान्यत्र यूथपः ॥
रथप्रवरमास्थाय स्वरयुक्तं स्वरस्वनम् ॥ २८ ॥
अन्ये कवचिनः । ध्वजैः विविधाननैः खरैश्च समलङ्कृतैः स्थैर्निर्ययुः । अन्ये हयैः अन्ये गजैश्च निर्ययुरित्यन्वयः ॥ २५–२८ ॥
प्रयान्तं तु महाघोरं राक्षसं भीमविक्रमम् ।
अन्तरिक्षगता घोराः शकुनाः प्रत्यवारयन् ॥ २९ ॥
शकुनाः निमित्तसूचका: पक्षिणः ।। २९ ।।
रथशीर्षे महान्भीमो गृध्रव निपपात ह ।
ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः ॥ ३० ॥
कुणपाशनाः गृध्राः । प्रथिता: मिलिताः ॥ ३० ॥
रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुवि ।
विस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः ॥ ३१ ॥
विस्वरमिति क्रियाविशेषणं ॥ ३१ ॥
ववर्ष रुधिरं देवः संचचाल च मेदिनी ।
प्रतिलोमं ववौ वायुर्निर्घातसमनिःस्वनः ॥ ३२ ॥
तिमिरौघ्रावृतास्तत्र दिशश्च न चकाशिरे ॥ ३३ ॥
स तूत्पातांस्तदा दृष्ट्वा राक्षसानां भयावहान् ।
प्रादुर्भूतान्सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् ॥ ३४ ॥
देवः पर्जन्य: । प्रतिलोमं प्रतिकूलं ॥ ३२–३४ ॥
मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः ॥ ३५ ॥
मुमुहुरित्यर्धं ॥ पुरःसराः अग्रगाः ।। ३५ ।।
ततः सुभीमो बहुभिर्निशाचरैर्वृतोभिनिष्क्रम्य रणोत्सुको बली ।
ददर्श तां राघवबाहुपालितां मेहौघकल्पां बहुवानरीं चमूम् ॥ ३६ ॥
अभिनिष्क्रम्य पुरादिति शेषः । महौघकल्पां महानोघो अस्मिन्निति महौघ: सागर : तत्कल्पां । बहुवानरीं ङीबत्रार्ष: । द्वितीयायां प्रातर्धूम्राक्षनिर्गम: ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ ५१ ॥