60 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पष्टितमः सर्गः

श्रीरामपराभूतभीतेनरावणेन सभायांमन्त्रिमध्ये स्वस्थनानाशापप्राप्तिनिवेदनेनशोचन -पूर्वकं राक्षसान्प्रति कुंभकर्णप्रबोधननियोजनम् ॥ १ ॥ राक्षसैर्महताप्रयासेन कुंभकर्णप्रबोधनम् ॥ २ ॥ राक्षसैर्विनिवेदितनिखिलवृत्तान्तेनतेन रावणाज्ञयातदबलोकनायातिविपुल निजशरीराव -लोकनजभयविद्रुतकपिकुलेनसता राजमार्गेनिर्गमनम् ॥ ३ ॥

 

स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः ।

भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥ १ ॥

अथ कुम्भकर्णप्रबोधनं षष्टौ – स प्रविश्येत्यादि ॥ रामाबाणभयार्दितः किमिदानीमपि रामबाणा: पतेयुरिति भयपीडितः । व्यथितेन्द्रियः दुःखितमनस्कः ॥ १ ॥

 

मातङ्ग इव सिंहेन गरुडेनेव पन्नगः ।

अभिभूतोऽभवद्राजा राघवेण महात्मना ॥ २ ॥

मनोव्यथामुपपादयितुं तद्धेतुं सदृष्टान्तमनुवदति – मातङ्ग इवेति ।। महात्मना महास्वभावेन । बलवतेत्यर्थः ॥ २ ॥

 

ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् ।

स्मरन्राघवबाणानां विव्यथे राक्षसेश्वरः ॥ ३ ॥

स काञ्चनमयं दिव्यमाश्रित्य परमासनम् ।

विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ॥ ४ ॥

ब्रह्मदण्डेति । ब्रह्मदण्डः ब्रह्मशापः । सर्वास्त्रनिगरणक्षमो वसिष्ठदण्डो वा ब्रह्मास्त्रं वा । युगान्तकालसमुत्थितोग्निवर्णो धूमकेतुरित्येके । तत्प्रकाशानां बाणानामिति अधीगर्थदयेशां कर्मणि इति षष्ठी ॥ ३-४ ॥

 

सर्वं तत्खलु मे मोघं यतप्तं परमं तपः ।

यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः ॥ ५ ॥

मे मया । यत्तपस्तप्तं तत् सर्वे मोघं जातमिति शेषः ॥ ५ ॥

 

इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् ।

मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ॥ ६ ॥

ब्रह्मवाक्यं तु फलितमित्याह – इदमिति ॥ त्वं मानुषेभ्यो भयं विजानीहीति यत् ब्रह्मणो घोरं वाक्यं तदिदं मामभि मां प्रति । उपस्थितं मयि फलितमित्यर्थः । यतस्तत् ब्रह्मवाक्यं । तथा । नतु मोघं भविष्यतीत्यर्थः ॥ ६ ॥

 

देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ।

अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ॥ ७ ॥

प्राप्तं चाचित्वा प्राप्तं । मानुषेभ्योऽवध्यत्वं नैव याचितमित्यर्थः ॥ ७ ॥

 

विदितं मानुषं मन्ये रामं दशरथात्मजम् ।

इक्ष्वाकुकुलनाथेन अनरण्येन यत्पुरा ॥ ८ ॥

उत्पत्स्यते हि मद्वंशे पुरुषो राक्षसाधम ।

यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ।

निहनिष्यति संग्रामे त्वां कुलाधम दुर्मते ॥ ९ ॥

विदितमित्यादिसार्धश्लोकद्वयमेकान्वयं । यस्त्वामित्यत्र तु आमिति छेदः । आमित्यङ्गीकारे । यस्तु पुरुषस्त्वां संग्रामे निहनिष्यति सः मद्वंशे उत्पत्स्यते । आं निश्चितं । इत्येवंप्रकारेण इक्ष्वाकुकुलनाथेन अनरण्येन यत् यस्मात् । पुरा विदितं प्रतिज्ञातं । विदितौ ज्ञातविश्रुतौ इति नानार्थरत्नमाला । तस्मात् मानुषं रामं दशरथात्मजं दशरथपुत्रत्वेन जातं । मन्ये । राक्षसाधम कुलाधमेति जातित: कुलतश्च नीचत्वमुच्यते । दुःखातिरेकादनरण्योक्तपरुषानुवादः । अन्येतु त्वामिति द्विरुतिरनुस्मरणार्थेत्याहुः । अपरे त्वाग्रहातिशयेन द्विरुक्तिरिति । त्वां प्रत्युत्पत्स्यत इति द्वितीयत्वांशब्दान्वय इत्येके ॥ ८–९ ॥

 

शप्तोऽहं वेदवत्या च यदा सा धर्षिता पुरा ।

सेयं सीता महाभागा जाता जनकनन्दिनी ॥ १० ॥

किं चाहं पुरा वेदवत्या शप्तोस्मि । मत्कृते तव विनाशो भविष्यतीति । कदे त्यत्राह — यदेति । सा वेदवती । यदा धर्षिता वलातत्कृता । तदा । अद्य तया किं क्रियते सीता ह्येतदुपद्रवमूलमित्यत्राह – सेयमिति । सा वेदवती स्वशापनिर्वाहार्थं सीता जाता ॥ १० ॥

 

उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ।

यथोक्तास्तपसा प्राप्तं न मिथ्या ऋषिभाषितम् ॥ ११ ॥

उमादयश्चत्वारः तपसा तपःप्रभावेन । यथोक्ताः यथोक्तवन्तः । तथा प्राप्तं सिद्धं । ऋषिभाषितं न मिथ्या भवति हि । नन्दीश्वररम्भाशापावुत्तररामायणे प्रोक्तौ । उमावरुणकन्यकाशापौ चानेनैव सिद्धौ ॥ ११ ॥

 

ऐतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ ।

राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु ॥ १२ ॥

एतत् शापस्वरूपं । अभ्युपागम्य ज्ञात्वा । इह् प्रकृते शत्रुविज़ये कार्ये । यत्नं अवधानं । कर्तुमर्हथ । चर्याः गोपुरपार्श्वस्थभटसंचारप्रदेशाः ॥ १२ ॥

 

स चाप्रतिमगम्भीरो देवदानवदर्पहा ।

ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् ॥ १३ ॥

ब्रह्मशापाभिभूतः ब्रह्मशापकृतनिद्रापरवश इत्यर्थः ॥ १३ ॥

 

स पराजितमात्मानं प्रहस्तं च निषूदितम् ।

ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ॥ १४ ॥

किमर्थं कुम्भकर्णो विबोध्यत इत्याशङ्क्य कविराह-स पराजितमिति ॥ आदिदेश कुम्भकर्णविबोधनार्थमिति शेषः ॥ १४ ॥

 

द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम् ।

निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् ॥ १५ ॥

द्वारेषु अवान्तरद्वारेषु । यत्नः क्रियतां, प्राकारश्चाधिरुह्यतां । वानरानारोहार्थमिति भावः । निद्रावशसमाविष्ट: निद्रावशेन शयानः । सद्यः कर्तव्यत्वाय पुनरुक्तिः ॥ १५ ॥

 

सुखं स्वपिति निश्चिन्तः कालोपहतचेतनः ।

नैव षट् सप्त चाष्टौ च मासान्स्स्वपिति राक्षसः ॥ १६ ॥

सुखमिति । दुःखिते चिन्ताकुले अनवाप्तकामे मयि जाग्रति सतीति शेषः । न केवलमिदानीमेव सर्वदाप्येवमेवेत्याह – नवेति । कदाचिन्नवमासान् कदाचित् षण्मासान् कदाचित्सप्तमासान् कदाचिदष्टमासांचनियमेन स्वपितीत्यर्थः । अतएवोत्तरकाण्डे अविशेषेण वरप्रार्थना कुम्भकर्णेन – क्रियते – स्वप्नुं वर्षाण्यनेकानि देवदेव ममेप्सितं इति । उत्तरत्र रामंप्रति विभीषणवचने – शयिता ह्येष षण्मासानेकाहं जागरिष्यति इति वचनं तु पक्षान्तराणामप्युपलक्षकं । अन्यूनाभिप्रायं वा । सप्तमासादिस्वापासंभवेपि षण्मासखापः संभवत्येव । यद्वा, नवसप्तदशाष्टौ च मासान्स्वपिति राक्षस: इति पाठः । दशाष्टौ दशमासहानौ सत्यां नवसप्तमासान् षण्मासानित्यर्थः । अष्टिरशनं नाश इति यावत् । नवसप्तमासाः षोडशमासाः तेषु दशमासलोपे हि षण्मासा एवावशिष्यन्ते । अथवा षडह्रैर्मासान्त्संपाद्याहरुत्सृजन्ति षडहैर्हि मासान्त्संपश्यन्त्यर्धमासैर्मासान्त्संपाद्याहरुत्सृजन्त्यर्ध -मासैर्हि मासान्त्संपश्यन्त्यमावास्यया मासान्संपाद्याहरुत्सृजन्त्यमावास्यया हि मासान्संपश्यन्ति पौर्णमास्या मासान्त्संपाद्याहरुत्सृजन्ति पौर्णमास्या हि मासान्त्संपश्यन्तीत्युक्तमासविकल्पेषु षडहानामपि मासत्वश्रवणात्तत्प्रकारेण नवषडित्युक्त -त्रिंशन्मासा अपि अशीत्युत्तरशतदिनतया अमावास्यया पौर्णमास्या वा परिगणनेन षण्मासा एव संपद्यन्त इति न कश्चिद्विरोधः । तथाहि अस्ति किंचित् उत्सर्गिणामयनं नाम सत्रं गवामयनस्य विकृतिः । तत्र प्रकृतौ द्वादशमासेष्वनुष्ठेयानां सोम यागविशेषाणां त्रिंशतोनुष्ठेयत्वान्न किंचिदहरुत्स्रष्टुं शक्यते । तद्विकृतावत्र प्रतिमासमेकस्मिन्नहनि सोमयागपरित्यागो विधीयते । तत्र कतममहस्त्यज्यतामित्यपेक्षायामुच्यते – अमावास्यया मासान्त्संपाद्याहरुवादे प्रसिद्धिवाचिना हिशब्देन अमावास्याया मासान्तत्वं । उत्तरवाक्ये पौर्णमास्या मासान्तत्वं च श्रुतं । अर्धमासैर्मासान्त्संपाद्याहरुत्सृजन्त्यर्धमासहि षड है मासान्संपाद्याहरुत्सृजन्ति मासान्संपश्यन्तित्सृजन्त्यमावास्यया हि मासान्त्संपश्यन्ति पौर्णमास्या मासान्त्संपाद्याहरुत्सृजन्ति पौर्णमास्या हि मासान्त्संपश्यन्तीति । अस्यार्थः अमावास्यायामनुष्ठेयेन यागेन पूर्वमासं परिसमाप्य उत्तरस्यादिभूतमहस्त्यज्यतामिति । पौर्णमास्यामनुष्ठेयेन यागेन पूर्वमासं परिसमाप्य उत्तरस्यादिभूतमहस्त्यज्यतामिति च । अस्मिन्विधाने अर्थएवं षडहैर्हि मासान्त्संपश्यन्तीत्यत्रापि पक्षात्मकः षडहात्मकोपि मासोस्तीति हिशब्देन दर्शितं । ननु च षडहैरिति बहुवचननिर्देशात् पञ्चभिः षडहैरिति व्याख्यानेन त्रिंशद्दिनात्मको मास एवात्र कथ्यत इति चेन्न । अर्धमासैरित्यत्रापि तथात्वापत्तेः । तदानीं बह्वर्धमासानां मासत्वस्वीकारे पक्षत्रयस्यापि मासत्वप्रसङ्गः । तत्र पक्षा वै मासा इत्युक्तरीत्या एकैकस्य पक्षस्य मासत्वस्वीकारे अत्राप्येकैकस्यैव षडहस्य मासत्वस्वीकारो युक्तः । पूर्वकल्पेष्विवात्रापि प्रसिद्धिवाच कहिशब्दप्रयोगात् । अन्यथा उत्तरानुवाके षडहैर्मासान्त्संपाद्य यत्सप्तम महस्तस्मिन्नुत्सृजेयुरिति वाक्यविरोध: स्यात् । सप्तमत्वं ह्यत्र विशिष्यते । षडहैर्मासानित्यत्र मासशब्दस्य मासैकदेशलक्षणाङ्गीकारे स एव दोषः । तस्मात् षडहात्मकोपि मासोस्तीति सिद्धम् । तमिमं श्रौतं षडहमासत्वपक्षमनुस्मरन्तः षण्मासानेव वदन्ति नव षट् सप्त चाष्टौ च मासान्स्वपिति राक्षसः इति ॥ १६ ॥

 

मन्त्रयित्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि ।

तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् ॥ १७ ॥

ननु सुप्तः कथं बोधयितुं शक्य इत्याशय इदानीमेव स्वापारम्भात्सुप्रबोधोयमित्या -शयेनाह-मन्त्रयित्वेति ।। अत्र केचित् एकाहं जागरिष्यतीति कुम्भकर्णस्य स्वापोत्सर्जनान अन्तरमेकस्मिन्दिन एव प्रबोधनियमस्योक्तत्वान्मन्त्रकरणदिनसमनन्तरदिन एव कुम्भकर्णस्य स्वापारम्भः । आजगाममुहूर्तेनेत्यनेन विभीषणागमनमपि मन्त्रदिन एव, विभीषणेनाशु जगाम संगमं इत्यनेन तदागमनानन्तरमेव तस्य स्वीकारः । तदिवसप्रभृति । दिवसप्रत्यये समुद्रप्रार्थनार्थं रामस्य दर्भशयनं । तदनन्तरं पञ्चदिनेषु सेतुबन्धः । सेतुबन्धपूर्तिदिवस एव सायंकाले सुबेलारोहणं । तस्यामेव रात्रौ सुग्रीवरावणयोर्द्वन्द्वयुद्धं । समनन्तरदिने तुमुलयुद्धं । तत्रैव रात्रौ नागपाशवन्धमोक्षौ । धूम्राक्षवज्रदंष्ट्राकम्पनवधश्च । अनन्तरदिने प्रहस्तबधः रावणमुकुटभङ्गश्च । एवं दिवसगणनोपपत्तिरिति वदन्ति । तच्चिन्त्यं । सुवेलारोहणरात्रौ पूर्णचन्द्रोदयवर्णनेन सुबेलारोहणदिनं पौर्णमासीति सिद्धं । रावणमरणदिनं चामावास्येति स्फुटं । एवंच त्वदुक्तरीत्या द्वितीयायामेव मुकुटभङ्गे रावणस्य दर्शपर्यन्तं विलम्ब्य युद्धकरणं चिन्त्यं । वंस्तुतस्तु इतः प्रसक्तायुद्धारम्भदिनादित्यर्थः । तद्दिनमपहाय तत्पूर्वदिनापेक्षया नवमेहनि तत्पूर्वदिनकृतमन्त्रः प्रसुप्तः । तथाच पौर्णमास्यां सुवेळारोहणं प्रथमायां युद्धारम्भः । तत्पूर्वं नवमदिनं सप्तमी । तस्यां कुम्भकर्ण: सुप्तः । रामस्य दर्भशयनारम्भन्ध । षष्ठयां कुम्भकर्णादिभिर्मन्नविचारः । तस्यामेव विभीषणनिर्गम इति । इत्थं चाहुः । सीताहरणात्पूर्वं त्रयोदशसंवत्सरा गताः । चतुर्दशवर्षारम्भे सीता हृता पम्पातीरे वसन्तवर्णनात् । आषाढे वालिवधः । तदनन्तरं वर्षर्तुवर्णनात् । आश्वयुजे । सीतान्वेषणसमुत्साहनमिति स्फुटं । स्वयंप्रभाविले बहुकालो गतः । फाल्गुनशुद्धत्रयोदश्यां हनुमतो लङ्काप्रवेशः । पुष्पिताप्रान्वसन्तादौ ददर्श विविधान्दुमान् इति वसन्तादिभूतफाल्गुनमासतासूच- कवृक्षाप्रपुष्पितत्वोक्त्या तथाप्रतीतेः । स्थितः ककुद्मानिव तीक्ष्णशृङ्गः इति श्लोके प्रतिपूर्णशृङ्ग इति पदेन प्रतिपूर्णशृङ्गवच्चन्द्रवर्णनस्य तस्यामेवसंभवात् । यस्मिन्दिने रात्रौ लङ्कायां सीतान्वेषणं तदनन्तरदिन एव प्रातर्लङ्कादाहः । अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये इत्युक्तत्वात् । अनन्तरं तस्मिन्नेव दिने अविलम्बेन प्रत्यागमनं । यदि वा मन्यसे वीर वसैकाहमरिन्दम इति सीतया पृष्टे, एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः । गमनाय मतिं चक्रे इत्युक्तेः । उषसि लङ्कादाहानन्तरं तस्मिन्नेव दिने मध्याह्वात्पूर्वमेवाङ्गदादिभिर्मधुवन विधमनपूर्वकं रामप्राप्तिः । अरिष्टपर्वतारोहणे तद्वर्णनव्याजेन बोध्यमानमिवप्रीत्यादिवाकरकरैः सुखै: इति सूर्योदय समयमुक्त्वा अनन्तरमस्तमयानुक्तेः । तस्मिन्नेव दिवसे चतुर्दशीशेषयुक्तपौर्णमासीयुते मध्याह्ने युद्ध अत्र अस्मिन्मुहूर्तेसुग्रीव प्रयाणमभिरोचये । युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः इत्युक्तेः । यस्मिन्दिनेभिजिति प्रस्थानं तत्परेद्युरेव समुद्र तीरे सेनानिवेशः । सा स्म याति दिवारात्रं महती हरिवाहिनी इत्यारभ्य, मुहूर्त कापि नासतेत्युक्तेः । यत्र दिने लङ्कादाहस्तत्रैव दिवसे सभायां मन्त्रिभिः सह किंचिद्विचारमुक्त्वा, विसर्जयित्वा तान्सर्वान्प्रविवेश स्वकं गृहं इत्यन्तेन लङ्कादाहदिनवृत्तान्तं परिसमाप्य, ततः प्रत्युषसि प्राप्ते इत्यादिना अनन्तरदिने उषःकाले विभीषणोपदेशं द्वितीयमुक्त्वा ततो मन्त्रविचाराय रावणे कुम्भकर्णविभीषणादिभिः सभां प्रविष्टे विभीषणस्य तृतीयमुपदेशमुक्त्वा, इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्मण: इत्यविच्छेदेन लङ्कादाह दिनानन्तरदिन एव समुद्रतीरे रामसकाशागमवर्णनेन च द्वितीयदिने रामेण समुद्रतीरं प्राप्तमित्यव गम्यते । समुद्रतीरप्राप्तिदिनं च शिष्टफाल्गुनपौर्ण मासी । अतएव, उत्तराफल्गुनी ह्यद्ये ति चतुर्थ सर्गलोके प्रस्थान दिनस्य पौर्णमासीयुक्तत्ववचनमप्यविरुद्धं । समुद्रतीरप्राप्तिदिनस्य पौर्णमासीयुक्तत्वं च, चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये । चन्द्रोदयसमुद्भूतं प्रतिचन्द्रसमाकुलं इति, संध्यासमय एव चन्द्रोदयप्रतिपादनात्सिद्धं । सेनानिवेशवृत्तान्तो विभीषणागमनवृत्तान्तश्च एकदिनभाव्यपि वाचः क्रमवर्तित्यात्क्रमेणोक्तः । प्रथमायां रामस्य दुर्भशयनारम्भः कुम्भकर्णस्वापारम्भश्च । चतुर्थीपञ्चमीषष्ठीसप्तम्यष्ट मीषु सेतुबन्धः । अष्टम्यां रात्रौ सुवेलारोहणं । यत्तु सुवेले, पूर्णचन्द्रप्रदीपा च निशा समभिवर्तत इति वचनं तत्पूर्णचन्द्र इव प्रदीपा यस्यां निशायामित्येवमर्थकं व्याख्येयं । सुग्रीवसेनायां भेर्यादीनामिव प्रदीपादीनामपि संभवात् । सुवेलारोहणानन्तरदिने दिवा लङ्कानिरोध: । तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः । लङ्कायां ददृशुर्वीरा वनान्युपवनानि च इत्युपक्रम्य युद्धवर्णनात् । तत्रैव प्रथमदिनयुद्धे रात्रौ नागास्त्रबन्धतद्विमोक्षादि । युध्यतामेव तेषां तु तथा वानररक्षसाम् । रविरस्तं गतो रात्रि: प्रवृत्ता प्राणहारिणी इत्यारभ्य, सा बभूव निशा घोरा हरिराक्षसहारिणी । ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे । राममेवाभ्यवर्तन्त । तं भीमवेगा हरयो नाराचैः क्षतविग्रहाः । अन्धकारे न ददृशुः इत्यादिभिस्तामेव रात्रिं प्रत्यभिज्ञाप्य, निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्मणौ । क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः इत्यादिप्रतिपादनात् । तत्रैव निशीथे वानरहर्षनादकुपितेन रावणेन प्रेषितयोर्धूम्राक्षवज्रदंष्ट्रयोर्युद्धं तद्वधश्च । तयोर्युद्धे दिवा ज्ञापकाभावात् वानरहर्षानन्तर्यश्रवणाच्च । रात्रिशेषेण तयोर्वधानन्तरं द्वितीयदिने अकम्पनयुद्धं । तन्निर्गमनवेलायां —  अभवत्सुदिने चापि दुर्दिनं रूक्षमारुतं इति दिवा ज्ञापकसत्त्वात् । अकपम्पनवदानन्तरमेव रावणस्य पूर्वाह्ना एव पुरूपर्यटनं । अकम्पनवधानन्तरं प्रहस्तयुद्धमविलम्बेन तस्मिन्नेव दिने मध्यान्हे । ननु, अन्योन्यमभिसंधा ग्रहाश्च न चकाशिरे इति ग्रहाणां प्रकाशप्रतिषेधेन प्रहस्तयुद्धं रात्राविति चेन्न । उत्तरत्र दिवायुद्धेषु दिवादर्शनायोग्यानामप्यर्थानां प्रतिपादनात् । यथा रावणयुद्धे । प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् । समाक्रम्य बुधस्तस्थौ प्रजानामशुभावह: इत्यादि । नच सर्वरात्रमवर्ततेति पाठानुरोधाद्रात्रावेव तत्प्रतिपादनमिति वक्तुं शक्यं । तद्पपाठत्वस्यान्ते वक्ष्यमाणत्वात् । तस्मिन्नेव द्वितीयदिने रावणपराजयकुम्भकर्णप्रबोधनकुम्भकर्णयुद्धानि । कालविशेषमसंकीर्त्यानन्तरमविच्छेदेन तदुक्तिपूर्वकमग्रिमकृत्ये ब्रह्मास्त्रबन्धनतद्विमोक्षरूपे कालविशेषकीर्तनात् । दृश्यते हि सप्तषष्टिर्हता: कोट्यो वानराणां तरस्विनाम् । अह्नः पञ्चमशेषेण वल्लभेन स्वयंभुव: इति ।। अत्र अह्नः पञ्चमशेषोनाम सायंकाल एव । प्रात:संगवमध्याह्नापराह्नाः सायमित्यमी । एकस्याह्नः पञ्च भागा विहिताः कालचिन्तकै: इति वचनात् ॥ तस्यामेव द्वितीयायां रात्रौ ब्रह्मास्त्रविमोक्षानन्तरं पुनर्लङ्कानिरोधतद्दाहकुम्भनिकुम्भयूपाक्षशोणिताक्षप्रजंघाकम्पनमकराक्षवधा: । ततोस्तंगत आदित्ये रात्रौ तस्मिन्निशामुखे । लङ्कामभिमुखाःसोल्का जग्मुस्ते लवगर्षभाः इत्युक्तेः ॥ एवं परिपूर्णदिनद्वयेन मूलबलेन्द्र जिद्रावणव्यतिरिक्तेषु व्यपदिष्टराक्षसेषु हतेषु तृतीयदिनमारभ्य दिनत्रयेणेन्द्रजियुद्धं । अहो रात्रैस्त्रिमिर्वीरः कथंचिद्विनिपातितः इत्युक्तत्वात् । अथ षष्ठदिने मूलबलवधः । तस्मिन्दिने सायंकालमारभ्य दिवारात्रं रावणयुद्धं । सप्तमदिने रावणवधः । अथवा सप्तमदिने रावणयुद्धं । अष्टमदिने प्रातःकाले रावणवधः । अभ्युत्थानं त्वमद्यैव कृष्णपक्ष चतुर्दशीम् । कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः इत्यादिसंदर्भस्योभयथापि योजयितुं शक्यत्वात् । पुच्छामावस्यायां रावणवध इति कृत्वा अमावास्यायां रावणवध इति प्रवादः । एवंसति रामरावणयोयुद्धं सप्तरात्रमवर्तत इत्यादिपाठोपि सेनासहितरावणयुद्धापेक्षया संगच्छते । मन्त्रयित्वा प्रसुतोयमितस्तु नवमेहनि इति सकलकोशस्थितवचनं च संगच्छते । इतः अस्मादिनात् मम मुकुटभङ्गदिनादित्यर्थः नवमेहनि एतद्दिनमपहाय एतत्पूर्वदिनापेक्षया नवमेहनि । मन्त्रयित्वा प्रसुप्तः । तत्पूर्वदिने मन्त्रं कृत्वा तस्मिन् दिने प्रसुप्त इत्यर्थ: । ननु हनुमतो लङ्काप्रवेशकालो दशममास इत्यवगम्यते । तथाहि सीतांप्रति रावणवचनं द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृत: इति । हनुमन्तं प्रति सीतावचनं च द्वौ मासौ तेन मे कालोजीवितानुग्रहः कृतः । वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम इत्यादि । अतः कथमुक्तप्रक्रियासंगतिरिति चेत् । मैवं ऊर्ध्वं मासान्न जीवेयं मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज इत्यादिवचनविरोधेन तादृशवचनस्य रावणाभिप्रायविषयत्वात् । रावणो हि सीतासान्त्वनाय तथोक्तवान् । सीता तु वर्तमानमासमात्रेण चतुर्दशवर्षपूर्ति जानन्ती, मासादूर्ध्वं न जीविष्य इति संदिदेशेति सर्वं सुस्थम् ॥ १७ ॥

 

स तु संख्ये महाबाहुः ककुदः सर्वरक्षसाम् ।

वानरान्राजपुत्रौ च क्षिप्रमेव वधिष्यति ॥ १८ ॥

एष केतुः परः संख्ये मुख्यो वै सर्वरक्षसाम् ।

कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ॥ १९ ॥

रामेण हि निरस्तस्य संग्रामेसिन्सुदारुणे ।

भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ॥ २० ॥

स तु अहमिव न शापग्रस्त इत्यर्थः । ककुद: प्रधानं । प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोस्त्रियां इत्यमरः ॥ १८-२० ॥

 

किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ।

ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते ॥ २१ ॥

अकाले तत्प्रबोधनमनुचितमित्यत्राह – किं करिष्यामीति  साह्याय साहाय्याय ॥ २१ ॥

 

ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ।

जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम् ॥ २२ ॥

परमसंभ्रान्ताः कथमेनमकाले प्रबोधयिष्याम इति व्याकुलाः ॥ २२ ॥

 

ते रावणसमादिष्टा मांसशोणितभोजनाः ।

गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः ॥ २३ ॥

त इति । प्रबोधशक्तिविवृद्ध्यर्थं मांसादिकं भुक्त्वा कुम्भकर्णस्य प्रबोधकालिकक्षुत्तापा -दिशान्तये गन्धमाल्यादिकं गृहीत्वा ययुरित्यर्थः ॥ २३ ॥

 

तां प्रविश्य महाद्वरां सर्वतो योजनायताम् ।

कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् ॥ २४ ॥

कुम्भकर्णस्य निश्श्वासादवधूता महाबलाः ।

प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम् ॥ २५ ॥

तामित्यादिश्लोकद्वय मेकान्वयं ।। सर्वतः चतसृषु दिक्षु । सर्वगन्धप्रवाहिनीं कुम्भकर्णानुलिप्तचन्दनादिगन्धप्रवाहवतीं । कुम्भकर्णगुहां प्रविश्य निःश्वासावधूताः सन्त: कृच्छ्रेण प्रतिष्ठमानाः अभिमुखं गच्छन्तः यत्त्त्रात्तां गुहां विविशुरिति योजना ॥ २४ – २५ ॥

 

तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् ।

ददृशुर्नैर्ऋतव्याघ्रं शयानं भीमदर्शनम् ॥ २६ ॥

काचनकुट्टिमां स्वर्णमयनिबद्धभूमिं ॥ २६ ॥

 

ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ।

कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् ॥ २७ ॥

विकृतं निद्राकालिक विकारयुक्तं । विकीर्ण शिथिलं ॥ २७ ॥

 

ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् ।

त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् ॥ २८ ॥

भीमनासापुटं तं तु पातालविपुलाननम् ।

शय्यायां न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ॥ २९ ॥

काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिन्दमम् ।

ददृशुर्नैर्ऋतव्याघ्रं कुम्भकर्णं महाबलम् ॥ ३० ॥

ऊर्ध्वेत्यादिश्लोक त्रयमेकान्वयं  ऊर्ध्वरोमाञ्चिततनुं ऊर्ध्वभूतरोम व्याप्ततनुं । भीमनासापुटं भयंकरनासारन्ध्रं । मेदोरुधिरेति । पीतावशिष्टेति शेषः ॥ २८-३० ॥

 

ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा ।

मांसानां मेरुसंकाशं राशिं परमतर्पणम् ॥ ३१ ॥

अग्रतश्चक्रुः पुरतश्चिक्षिपुरित्यर्थ: । परमतर्पणं अत्यन्ततृप्तिकरं ॥ ३१ ॥

 

मृगाणां महिषाणां च वराहाणां च संचयान् ।

चकुर्नैर्ऋतशार्दूला राशिमन्नस्य चाद्भुतम् ।। ३२ ।।

राशिं चक्रुः अग्रतो राशि चक्रुरित्यर्थः ॥ ३२ ॥

 

ततः शोणितकुम्भांश्च मैद्यानि विविधानि च ।

पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः ॥ ३३ ॥

मयानि मद्यकुम्भानित्यर्थः ॥ ३३ ॥

 

लिलिपुश्च परार्ध्येन चन्दनेन परंतपम् ।

दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः ॥ ३४ ॥

लिलिपुः लेपनं चक्रुः । परार्ध्येन श्लाध्यगन्धेन । माल्यगन्धैः माल्यचन्दनैः ॥ ३४ ॥

 

धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् ।

जलदा इव चोन्नेदुर्यातुधानास्ततस्ततः ॥ ३५ ॥

ततस्ततः पुनः-पुनरित्यर्थः ॥ ३५ ॥

 

शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् ।

तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ॥ ३६ ॥

तुमुलं निरन्तरं यथातथा । युग पद्विनेदुः अमर्षिताः महता प्रयत्नेनाप्यनुत्थानाजात क्रोधाः सन्तः । नेदुः ॥ ३६ ॥

 

नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः ।

कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ॥ ३७ ॥

आस्फोटयामासुः ताडयामासुः । चिक्षिपुः शरीरं कम्पयामासुः । कुम्भेति । इत्थं कुम्भकर्णबिबोधार्थं विपुलं स्वनं चक्रुरिति संग्रहः ॥ ३७ ॥

 

सशङ्खभेरीपणवप्रणादमास्फोटितक्ष्वेलितसिंहनादम् ।

दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः ॥ ३८ ॥

आस्फोटितं बाहुताडनजन्यशब्दः । क्ष्वेलितशब्देन गर्जितमात्रमुच्यते । सिंहनादमित्येकवद्भावः । तद्विहङ्गाः श्रुत्वा भयेन सर्वा दिशो द्रवन्तः गच्छन्तः । तत्रापि भयनिवृत्त्यदर्शनात् त्रिदिवं आकाशं । किरन्त: विशन्तः । तत्रापि भयशान्तिमलभमानाः सहसा निपेतुः भूमौ निपतन्ति स्म ॥ ३८ ॥

 

यदा भृशातैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः ।

ततो मुसुण्ठीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ॥ ३९ ॥

भृशाः अत्यन्तार्तिपूर्वकै उच्चावचैरित्यर्थः । भृशं तैरिति पाठान्तरं । महात्मा महाशरीरः । ततः तदा । मुसुण्ठी मुद्गरविशेषः ॥ ३९ ॥

 

तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च ।

सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ॥ ४० ॥

गृहीत्वा प्रजघ्नुश्चेत्याह-तमिति ॥ ४० ॥

 

तस्य निश्श्वासवातेन कुम्भकर्णस्य रक्षसः ।

राक्षसा बलवन्तोपि स्थातुं नाशक्नुवन्पुरः ॥ ४१ ॥

रक्षस इति विशेषणं निश्वासातिशयद्योतनाय ॥ ४२ ॥

 

ततः परिहिता गाढं राक्षसा भीमविक्रमाः ॥ ४२ ॥

तत इत्यर्धमेकं वाक्यं ।। परिहिताः दृढीकृतपरिधानाः । आसन् । वक्ष्यमाणकार्ये सावधाना आसन्नित्यर्थः ॥ ४२ ॥ ॥

 

मृदङ्गपणवान्भेरीः शङ्खकुम्भगणांस्तदा ।

दशराक्षससाहस्रा युगपत्पर्य वादयन् ॥ ४३ ॥

शङ्खकुम्भगणान् शङ्खकुम्भवाद्यगणान् । दशराक्षससाहस्रा: दश राक्षससहस्राणि परिवारभूतानि येषां ते तथोक्ताः ॥ ४३ ॥

 

नीलाञ्जनचयाकारास्ते तु तं प्रत्यबोधयन् ।

अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः ॥ ४४ ॥

ते राक्षसाः । अभिघ्नन्तो नदन्तश्च सन्तः तं प्रत्यबोधयन्नित्यनुवादः । प्रतिबोधनेपि स न संविविदे न बुबुधे । नीलाञ्जनचयाकारा इति परितः संचारित्वद्योतनायोक्तं ॥ ४४ ॥

 

यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ।

ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् ॥ ४५ ॥

गुरुतरं यत्नमुपाक्रमन् प्रवलं बोधनोपायमारेभिर इत्यर्थः ।। ४५ ।।

 

अश्वानुष्ट्रान्स्वरानागाञ्जघ्नुर्दण्डकशाङ्कुशैः ।

भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् ॥ ४६ ॥

तमेव यत्नं दर्शयति — अश्वानिति । तस्योपरिधावनायेतिभावः । सर्वप्राणैः सर्वबलैः ॥ ४६ ॥

 

निजघ्नुश्वास्य गात्राणि महाकाष्ठकटङ्करैः ।

मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः ॥ ४७ ॥

महाकाष्ठकटङ्करैः महाकाष्ठाग्रस्तंवैः । काष्ठाग्रस्थकशाभिरित्यर्थः । कटङ्करः स्तम्भभेद इति केचित् । सर्वप्राणसमुद्यतैः सर्वबलेन समुद्यतैः ।। ४७ ।।

 

तेन शब्देन महता लङ्का समभिपूरिता ।

सपर्वतवना सर्वा सोपि नैव प्रबुध्यते ॥ ४८ ॥

प्रबुध्यते प्राबुध्यत ॥ ४८ ॥

 

ततः सहस्रं भेरीणां युगपत्समहन्यत ।

मृष्टकाञ्चनकोणानामासक्तानां समन्ततः ॥ ४९ ॥

मृष्टकाञ्चनकोणानां मृष्टकाञ्चनं शोधितकाञ्चनं तन्निर्मिताः कोणाः वादनदण्डाः यासां ताः तथोक्ता: । आसक्तानां संहतानां ॥ ४९ ॥

 

एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यते ।

शापस्य वशमापनस्ततः क्रुद्धा निशाचराः ॥ ५० ॥

शापस्य ब्रह्मशापस्य । क्रुद्धाः पूर्वमेव कुपिताः ॥ ५० ॥

 

महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ।

तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ।। ५१ ।।

पुनरपि महाक्रोधसमाविष्टा: अभवन् । पराक्रमं मुष्टिप्रहारादिकं ॥ ५१ ॥

 

अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् ।

केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ॥ ५२ ॥

महास्वनं महागर्जितं । प्रलुलुपुः लुप्तवन्तः । दशन्ति अदशन् ॥ ५२ ॥

 

उदकुम्भशतान्यन्ये समसिञ्चन्त कर्णयोः ।

न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ॥ ५३ ॥

उदकुम्भशतानि आदायेति शेषः ॥ ५३ ॥

 

अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः ।

मूर्ध्नि वक्षसि गात्रेषु पातयन्कूटमुद्गरान् ॥ ५४ ॥

कूटमुद्गरपाणयइत्यनेन तत्प्रहारपरिचयोलक्ष्यते । पातयन् अपातयन् ॥ ५४ ॥

 

रज्जुबन्धनवद्धाभिः शतघ्नीभिश्व सर्वतः ।

वध्यमानो महाकायो न प्राबुध्यत राक्षसः ॥ ५५ ॥

बध्यन्ते एभिरिति बन्धनानि चर्मादीनि । रज्जवश्च बन्धनानि च तैर्बद्धाभिः । रज्जुबन्धनादिना दृढीकृताभिरित्यर्थः । शतघ्नीभिः गदाविशेषैः । वध्यमानः पीड्यमानः ॥ ५५ ॥

 

वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् ।

कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ॥ ५६ ॥

स्पर्शं परमबुध्यत वारणप्रधावनं केवलस्पर्शमबुध्यत । कीटादिस्पर्शोयमिति मन्यते स्म । बुद्ध: विरतनिद्रः ॥ ५६ ॥

 

पात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान्विपुलान्प्रहारान् ।

निद्राक्षयात्क्षुद्भयपीडितच विजृम्भमाणः सहसोत्पपात ॥ ५७ ॥

पात्यमानैः प्रबोधेप्युत्थानाय पुनः क्षिप्य माणैः । क्षुद्भयपीडितः क्षुद्धयाभ्यां पीडितः । भयमत्राकालबोधनकृतं । क्षुद्र्पभयपीडित इति वा । विजृम्भमाण: गात्रभङ्गंकुर्वाण: । उत्पपात उदतिष्ठत् ॥ ५७ ॥

 

स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू गिरिशृङ्गसारौ ।

विवृत्य वक्रं वडबामुखाभं निशाचरोसौ विकृतं जजृम्भे ॥ ५८ ॥

विजृम्भमाणइत्युक्तं विवृणोति —स इति ॥ दैर्ध्ये नागभोगदृष्टान्तः । काठिन्ये अचलशृङ्गदृष्टान्तः । यद्वा पीनत्वे दृष्टान्तः । गिरिशृङ्गारौ गिरि शृङ्गबलौ । सारो बले स्थिरांशे च इत्यमरः । विवृत्य व्यादाय । बडबा समुद्रमध्यवर्तिन्यश्वस्त्री । विकृतं भयंकरं यथा भवति तथा ॥ ५८ ॥

 

तस्य जाजृम्भमाणस्य वक्रं पातालसन्निभम् ।

ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ॥ ५९ ॥

जाजृम्भमाणस्य । यङ्लुक्यात्मनेपदरुगागमाभावावार्षौ । मेरुशृङ्गाग्रे । मेरुरत्र सावर्णिमेरुः तदग्रस्यैव सूर्यसंबन्धसंभवात् । अत्र दिवाकरस्योदितत्वं महामेरोरुत्तरभागस्थपुर्यपेक्षया । यद्वा उदित दृष्ट इत्यर्थः । गत्यर्थानां बुद्ध्यर्थत्वात् ॥ ५९ ॥

 

स जृम्भमाणोतिबलः प्रतिबुद्धो निशाचरः ।

निश्वासश्वास्य संजज्ञे पर्वतादिव मारुतः ।। ६० ।।

प्रतिबुद्धः अभूदिति शेष: । सम्यक् प्रबोधोत्र विवक्षितः ॥ ६० ॥

 

रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ ।

तपान्ते सबलाकस्य मेघस्येव विवर्षतः ॥ ६१ ॥

तस्य साभरणस्येत्यर्थः । अतः सबलाकस्येति नाधिकोपमा । विवर्षत इति नीलरूपातिशयोक्तिः ॥ ६१ ॥

 

तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ।

ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ॥ ६२ ॥

विद्युत्सदृशवर्चसीइति निद्राविरामकालिकचाञ्चल्योक्तिः । महाग्रहौ शन्यङ्गारकाविति परपीडकत्वोक्तिः । दीप्ताग्निसदृशे इति क्रौर्यातिशयोक्तिः ।। ६२ ।।

 

ततस्त्वदर्शयन्सर्वान्भक्ष्यांश्च विविधान्बहून् ।

वराहान्महिषांश्चैव स बमक्ष महाबलः ॥ ६३ ॥

अदन्बुभुक्षितो मांसं शोणितं तृषितः पिबन् ।

मेदः कुम्भांश्च मद्यं च पपौ शक्ररिपुस्तदा ॥ ६४ ॥

अदर्शयन् राक्षसा इति शेषः । सर्वान् सर्वविधान् । तदवान्तरभेदतो विविधान् । बहून्विपुलान् । वराहान् वराहविकारान् । बभक्ष भक्षयामास । बुभुक्षितो मांसमदन् बुभुक्षाशान्त्यर्थं मांसमदन्नित्यर्थः । तृषितः शोणितं पिबन् तृष्णाशान्यर्थं शोणितं पिबन्नित्यर्थः । पुनराण्यायनार्थं मेद: कुम्भान् मद्यं च पपौ । कुम्भपरिमितमेदांसीत्यर्थः ॥ ६३-६४ ।।

 

ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः ।

शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥ ६५ ॥

समुत्पेतुरितिपूर्वं कुम्भकर्णभयादन्तर्धायस्थिताः । इदानीं तृप्तत्वेन शान्तक्रोधत्वात् प्रकाशमाजग्मुरित्यर्थः ॥ ६५ ॥

 

निद्राविशदनेत्रस्तु कलुषीकृतलोचनः ।

चारयन्सर्वतो दृष्टि तान्ददर्श निशाचरान् ॥ ६६ ॥

निद्रया अविशदे अप्रसन्ने ईषदुन्मीलिते नेत्रे यस्य स तथोक्तः ॥ ६६ ॥

 

स सर्वान्सान्त्वयामास नैर्ऋतानैऋतर्षभः ।

बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् ॥ ६७ ॥

बोधनात् अप्रबोध्यबोधनात् ।। ६७ ।।

 

किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः ।

कच्चित्सुकुशलं राज्ञो भयवानेष वा न किम् ।। ६८ ॥

राज्ञः रावणस्य सुकुशलं कच्चित् । एष राजा च भयवान्न किं भययुक्तो न भवति हि ।। ६८ ।।

 

अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् ।

यदर्थमेवं त्वरितैर्भवद्भिः प्रतिबोधितः ॥ ६९ ॥

एवं संशय्य पुनर्निश्चिनोति- अथवेति ॥ तत्र हेतुमाह – यदर्थमिति । यदर्थं यद्भयनिवृत्त्यर्थं ॥ ६९ ॥

 

अद्य राक्षसराजस्य भयनुत्पाटयाम्यहम् ।

पातयिष्ये महेन्द्रं वा शातयिष्ये तथाऽनलम् ॥ ७० ॥

शातयिष्ये शातयिष्यामि छेत्स्यामीत्यर्थः । श शातने इति धातोर्णिचि शदेरगतौ तः इति तादेशः ॥ ७० ॥

 

न ह्यल्पकारणे सुप्तं बोधयिष्यति मां गुरुः ।

तदाख्यातार्थतत्वेन मत्प्रबोधनकारणम् ॥ ७१ ॥

एवं ब्रुवाणं संरब्धं कुम्भकर्णं महाबलम् ।

यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह ॥ ७२ ॥

अल्पकारणे अल्पकार्यनिमित्तं । गुरु: अग्रजः । आख्यात कथयत । अर्थतत्त्वेन तत्त्वार्थेन याथार्थ्येनेति यावत् ।। ७१–७२ ।।

 

न नो दैवकृतं किंचिद्भयमस्ति कदाचन ।

मानुषातन्नो भयं राजंस्तुमुलं संप्रबाधते ॥ ७३ ॥

दैवकृतं इन्द्रादिकृतं । नः अस्मान् । मानुषाज्जातं तुमुलं भयं संप्रबाधत इत्यन्वयः ॥ ७३ ॥

 

न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् ।

यादृशं मानुषं राजन्भयमस्मानुपस्थितम् ॥ ७४ ॥

वानरैः पर्वताकारैर्लङ्केयं परिवारिता ।

सीताहरणसंतप्ताद्रामानस्तुमुलं भयम् ॥ ७५ ॥

वाशब्दार्थोनुक्तसमुच्चयार्थः । देवेभ्यश्चेत्यर्थः । मानुषं मनुष्यादागतं ॥ ७४-७५ ॥

 

एकेन वानरेणेयं पूर्वं दग्धा महापुरी ।

कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ॥ ७६ ॥

इन्द्रादिंभिरपि दुष्पीडमिदं नगरं कथं वानरैः पीड्यत इत्यत्राह – एकेनेत्यादि । सानुयात्रः सानुगः । एकेनैव महती पीडा कृता । किं पुनरनेकैरिहागतैरिति भावः ।। ७६ ।।

 

स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः ।

मृतेति संयुगे मुक्तो रामेणादित्यतेजसा ॥ ७७ ॥

मृतेति । हे मृतेत्युक्त्वा । वस्तुतस्तु मृतेत्यविभक्तिकनिर्देशः । मृत इति कृत्वेत्यर्थ: । मृतप्राय इति मत्वेत्यर्थ इत्यप्याहुः ॥ ७७ ॥

 

यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः ।

कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥ ७८ ॥

यत् य इत्यर्थ: । प्राणसंशयादिति ल्यब्लोपे पञ्चमी । यो राजा देवादिभिरपि प्राणसंशयं नीत्वा मुक्तो न कृतः स रावणो रामेण प्राणसंशयं नीत्वा अद्य विमुक्तः कृत इत्यर्थः । यद्वा राजा देवादिभिरपि यत् न कृतः न प्रापितः । तत् रामेण कृतः प्राणसंशयाद्विमुक्तश्चेत्यर्थः ॥ ७८ ॥

 

स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् ।

कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥ ७९ ॥

सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् ।

राघवं च रणे हत्वा पश्चाद्रक्ष्यामि रावणम् ॥ ८० ॥

राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः ।

रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ॥ ८१ ॥

पराजयं पराजयबोधकं ।। ७९ – ८१ ।।

 

तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् ।

महोदरो नैर्ऋतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे ॥ ८२ ॥

रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च ।

पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि ॥ ८३ ॥

सगर्वितं सगर्वं । रोषविवृद्धदोष क्रोधविवृद्धदुर्नयं । कुम्भकर्णमिति शेषः ॥ ८२ -८३ ।।

 

महोदरवचः श्रुत्वा राक्षसैः परिवारितः ।

कुम्भकर्णो महातेजाः संप्रतस्थे महाबलः ॥ ८४ ॥

तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् ।

राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ॥ ८५ ॥

संप्रतस्थे प्रस्थातुमुपचक्रमे । शयनादुत्पपात हे त्युत्तरत्र वक्ष्यमाणत्वात् ॥ ८४-८५ ॥

ततो गत्वा दशग्रीवमासीनं परमासने ।

ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः ।। ८६ ।।

गत्वा रावणनिवेशनं गत्वा । तत ऊचुरित्यन्वयः ॥ ८६ ॥

 

प्रबुद्धः कुम्भकर्णोयं भ्राता ते राक्षसर्षम ।

कथं तत्रैव निर्यातु द्रक्ष्यस्येनमिहागतम् ॥ ८७ ॥

तत्रैव निर्यातु वा इहागतमेनं द्रक्ष्यसि वा । कथं, कथं करोत्विति संबन्धः ॥ ८७ ॥

 

रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् ।

द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम् ॥ ८८ ॥

तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः ।

कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ॥ ८९ ॥

द्रष्टुं त्वां काङ्क्षन्ते राजा सर्वराक्षसपुङ्गवः ।

गमने क्रियतां बुद्धिर्भ्रातरं संप्रहर्षय ॥ ९० ॥

कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् ।

तथेत्युक्त्वा महाबाहुः शयनादुत्पपात ह ॥ ९१ ॥

पूज्यतां एष इति शेषः ॥ ८८-९१ ॥

 

प्रक्षाल्य वदनं हृष्टः स्नातः पैरमभूषितः ।

पिपासुस्त्वरयामास पानं बलसमीरणम् ।। ९२ ।।

बलसमीरणं बलवर्धनं ॥ ९२ ॥

 

ततस्ते त्वरितास्तस्य राक्षसा रावणाज्ञया ।

मद्यकुम्भांश्च विविधान्क्षिप्रमेवोपहारयन् ॥ ९३ ॥

रावणाज्ञया त्वरितास्ते क्षिप्रं उपहारयन् उपाहारयन्निति संबन्धः ॥ ९३ ।।

 

पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे ।

ईषत्समुत्कटो मत्तस्तेजोवलसमन्वितः ।

कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ॥ ९४ ॥

ईषत्समुत्कटः पानेन ईषन्मदोत्कटः । मत्तः स्वभावेनोन्मत्तश्चेत्यर्थः । कालान्तकयमोपमः काले प्रलयकाले योन्तकः संहारको यमस्तत्सदृश इत्यर्थः ॥ १४ ॥

 

भ्रातुः स भवनं गच्छन्रक्षोगणसमन्वितः ।

कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ९५ ॥

रक्षोबलं राक्षससेना ॥ ९५ ॥

 

स राजमार्गं वपुषा प्रकाशयन्सहस्ररश्मिर्धरणीमिवांशुभिः ।

जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयंभुवः ॥ ९६ ॥

तत्र राजमार्गे । अञ्जलिमालया पौरजनकृतयेति शेषः ॥ ९६ ।।

 

तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिः स्थिताः ।

दृष्ट्वाप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते हरियूथपालाः ॥ ९७ ॥

केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद्व्यथिताः पतन्ति ।

केचिद्दिशः स व्यथिताः प्रयान्ति केचिद्भयार्ता भुवि शेरते स्म ॥ ९८ ॥

यूथपाला इत्यत्र चकारो द्रष्टव्यः । अन्यथा तच्छन्दोतिरिच्येत ।। ९७-९८ ।।

 

तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा ।

वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे ततस्ततः ॥ ९९ ॥

आत्मतेजसा शरीरकान्त्या ॥ ९९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पष्टितमः सर्गः ॥ ६० ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.