65 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चषष्टितमः सर्गः

कुंभकर्णेन महोदरभर्त्सनपूर्वकंरावणंप्रतिरामवधप्रतिज्ञानेन रणायनिर्याणोक्तिः ॥ १ ॥ रावणेन कुंभकर्णस्यनानाभरणैरलङ्कारपूर्वकं रणायप्रेषणम् ॥ २ ॥ कुंभकर्णेन स्वप्रस्थान- समयप्रादुर्भूतदुर्निमित्तालक्षीकारेणैव रणायनिर्याणम् ॥ ३ ॥

 

स तथोक्तस्तु निर्भर्त्स्य कुंभकर्णो महोदरम् ।

अब्रवीद्राक्षश्रेष्ठं भ्रातरं रावणं ततः ॥ १ ॥

अथ युद्धाय कुम्भकर्णनिर्याणं पञ्चषष्टितमे-स तथोक्तस्त्वित्यादि ।। निर्भर्त्य गर्जन्तीत्यादिवक्ष्यमाणप्रकारेणेति शेषः ॥ १ ॥

 

सोहं तव भयं घोरं वधात्तस्य दुरात्मनः ।

रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ॥ २ ॥

प्रमार्जामि । निवर्तयिष्यामीत्यर्थ: । वर्तमानसामीप्ये वर्तमानवत्प्रयोगः ॥ २ ॥

 

गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः ।

पश्य संपाद्यमानं तु गर्जितं युधि कर्मणा ॥ ३ ॥

वृथा कर्मणा विना । मया तु कर्मणा संपाद्यमानं गर्जितं पश्य । गर्जितानुसारेण कर्म करोमीत्यर्थः ॥ ३ ॥

 

न मर्षयति चात्मानं संभावयति नात्मना ।

अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ॥ ४ ॥

शूराः परकृतामवमानोक्तिं । न मर्षयति मर्षयन्ति न सहन्ते । आत्मना स्वयं । आत्मानं न संभावयति न संभावयन्ति न बहुमन्यन्ते । उभयत्रापि न व्यत्ययेनैकवचनं । किंतु अदर्शयित्वा अप्रकाश्य । आमपौरुषमनुक्त्वेत्यर्थः । दुष्करमपि कर्म कुर्वन्ति ॥ ४ ॥

 

विक्लबानामबुद्धीनां राज्ञा पण्डितमानिनाम् ।

शृण्वता सादितमिदं त्वद्विधानां महोदर ॥ ५ ॥

विक्लबानामिति । अत्र पञ्चम्यर्थे षष्ठी । सादितमिति भावे निष्ठा । विक्लबेभ्य: कातरेभ्यः । अबुद्धिभ्यः पण्डितमानिभ्यः त्वद्विधेभ्यः । शृण्वता राज्ञा । इदमीदृशं । सादितं प्राप्तंभवति ॥ ५ ॥

 

युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः ।

राजानमनुगच्छद्भिः कृत्यमेतद्धि सादितम् ॥ ६ ॥

इदंशब्दनिर्दिष्टं दर्शयति — युद्ध इति ॥ युद्धे कापुरुषैः युद्धभीरुभिरित्यर्थः । राजानमनुगच्छद्भिः राजेच्छानुसारिभिरित्यर्थः । एतत् प्रकृतयुद्धपर्यवसायि सीताहरणकृत्यं । सादितं संपादितं ॥ ६ ॥

 

राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् ।

राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ॥ ७ ॥

राजशेषेति । अत्राप्यनुगच्छद्भिः भवद्भिरित्यनुषज्जनीयं । सुहृच्चिह्नं सुहृव्द्यपदेश्यं । अमित्रकं भवताममित्रभूतं । इमं राजानमासाद्य अनुगच्छद्भिः भवद्भिः लङ्का राजशेषा कृता । अकार्यप्रवृत्तो राजा यैर्न निवार्यते स तेषाममित्र इत्यभिप्रायेण अमित्रकमित्युक्तं ॥ ७ ॥

 

एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये ।

दुर्नयं भवतामद्य समीकर्तुमिहाहवे ॥ ८ ॥

एवमुक्तवतो वाक्यं कुंभकर्णस्य धीमतः ।

प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः ॥ ९ ॥

महोदरोयं रामात्तु परित्रस्तो न संशयः ।

न हि रोचयते तात युद्धं युद्धविशारद ॥ १० ॥

कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च ।

गच्छ शत्रुवधाय त्वं कुंभकर्ण जयाय च ॥ ११ ॥

दुर्नयं समीकर्तुं शत्रुनिर्जये । तद्विनाश इत्यर्थः । उद्यतः उद्युक्तः सन् । युद्धं युद्धभूमिं प्रति । एष निर्यामि । अद्यैव निर्यास्यामीत्यर्थः ॥ ८-११ ॥

 

तस्मात्तु भयनाशार्थं भवान्संबोधितो मया ।

अयं हि कालः सुहृदां राक्षसानामरिंदम ॥ १२ ॥

तद्गच्छ शूलमादाय पाशहस्त इवान्तकः ।

वानरान्राजपुत्रौ च भक्षयादित्यतेजसौ ॥ १३ ॥

समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः ।

रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः ॥ १४ ॥

तस्मात् भवतो निःसमत्वात् । संबोधितः प्रबोधितः । अयं हि कालः । युद्धायेतिशेषः ॥ १२-१४ ॥

 

एवमुक्त्वा महाराजः कुंभकर्णं महाबलम् ।

पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ॥ १५ ॥

कुंभकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम् ।

बभूव मुदितो राजा शशाङ्क इव निर्मलः ॥ १६ ॥

पुनर्जातमिव मेने । जेष्यत्ययमिति विश्वासादितिभावः ॥ १५-१६ ॥

 

इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः ॥ १७ ॥

राज्ञस्तु वचनं श्रुत्वा कुम्भकर्णः समुद्यतः ।

आददे निशितं शूलं वेगाच्छत्रुनिबर्हणम् ॥ १८ ॥

इत्येवमित्यर्धं ।। निर्जगाम निर्गन्तुमुद्युक्तः ॥ १७-१८ ।।

 

सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम् ।

इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् ॥ १९ ॥

सर्वकालायसं बहुकार्ष्णायसमयमित्यर्थ: ॥ १९ ॥

 

देवदानवगन्धर्वयक्षकिन्नरसूदनम् ।

रक्तमाल्यं महाधाम स्वतश्चोद्गतपावकम् ।। २० ।।

आदाय निशितं शूलं शत्रुशोणितरञ्जितम् ।

कुंभकर्णो महातेजा रावणं वाक्यमब्रवीत् ॥ २१ ॥

गमिष्याम्यहमेकाकी तिष्ठत्विह बलं मम ।

अद्य तान्क्षुभितान्क्रुद्धो भक्षयिष्यामि वानरान् ।

कुंभकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ॥ २२ ॥

महाधाम महातेजः । स्वतश्चोद्गतपावकं क्रौर्यात्स्वत एवोत्पन्नाग्निकणं ॥ २० – २२ ॥

 

सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः ।

वानरा हि महात्मानः शीघ्रा: सुव्यवसायिनः ॥ २३ ॥

एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् ।

तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रज ।

रक्षसामहितं सर्वं शत्रुपक्षं निषूदय ॥ २४ ॥

महात्मानः महाबुद्धयः । शीघ्राः वेगवन्तः । सुव्यवसायिनः दृढनिश्चयाः ॥ २३ – २४ ।।

 

अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् ।

आबबन्ध महातेजाः कुंभकर्णस्य रावणः ॥ २५ ॥

स्रजं काञ्चनमालां । कुम्भकर्णस्य आबबन्ध कुम्भकर्णे आबबन्धेयर्थः ॥ २५ ॥

 

अङ्गदान्यङ्गुलीवेष्टान्वराण्याभरणानि च ।

हारं च शशिसंकाशमाबबन्ध महात्मनः ॥ २६ ॥

अङ्गुलीवेष्टान् अङ्गुलीयकानि ॥ २६ ॥

 

दिव्यानि च सुगन्धीनि माल्यदामानि रावणः ।

श्रोत्रे चासंजयामास श्रीमती चास्य कुण्डले २७

काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः ।

कुंभकर्णो बृहत्कर्णः मुहुतोऽग्निरिवाबभौ ॥ २८ ॥

आसञ्जयामास । बबन्धेत्यर्थः । अत्र केयूरादीनामप्युपलक्षणं । काञ्चनाङ्गदकेयूरेत्यनुवादात् ॥ २७-२८ ॥

 

श्रोणीसूत्रेण महता मेचकेन व्यराजत ।

अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः ॥ २९ ॥

अमृतोत्पादने नद्ध इति निमित्तसप्तमी । भुजङ्गेन वासुकिना ॥ २९ ॥

 

स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा ।

आवध्यमानः कवचं रराज संध्याभ्रसंवीत इवाद्रिराजः ॥ ३० ॥

भारसहं आयुधादिभि: प्रहारेप्यशिथिलमित्यर्थः । दृढमिति वाऽर्थः । यद्वा उपनीतायां तुलायां स्थाप्यमानान्बहून्भारान् सहत इति भारसहः । अनेकभारपरिमाण इत्यर्थः । निवातं वातप्रवेशनिवारकं । निरन्तरमिति यावत् । आत्मभासा कवचकान्त्या । यद्वा निवातं शस्त्राभेद्यं । निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् इत्यमरः । आबध्यमानः आबघ्नन् । आर्षविकरणव्यत्ययेन श्यन्प्रत्ययः ।। ३० ।।

 

सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः ।

त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥ ३१ ॥

भ्रातरं संपरिष्वज्य कृत्वा चाभिप्रदक्षिणम् ।

प्रणम्य शिरसा तस्मै संप्रतस्थे महाबलः ॥ ३२ ॥

निष्पतन्तं महाकायं महानादं महाबलम् ।

तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ॥ ३३ ॥

शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः ।

तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः ॥ ३४ ॥

अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ॥ ३५ ॥

सर्वाभरणसर्वाङ्गः सर्वाभरणयुक्तसवाङ्गः । त्रिविक्रमकृतोत्साहः त्रिषु विक्रमेषु पदम्यासेषु कृतोत्साहः ॥ ३१ – ३५ ।।

 

सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः ।

अनुजग्मुश्च तं घोरं कुंभकर्णं महाबलम् ॥ ३६ ॥

सर्पैरिति । सर्पादीनां महाशरीराणां वाहनत्वं संभवतीति बोध्यं । द्विपाः गजाः । द्विजा: हंसादयः ।। ३६ ।।

 

स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः ।

मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ॥ ३७ ॥

पदातयश्च बहवो महानादा महाबलाः ।

अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥ ३८ ॥

रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः ।

शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ॥ ३९ ॥

मदोत्कटः स्वाभाविकमदेन मत्तः । मत्ते शौण्डोत्कटक्षीबा: इत्यमरः ॥ ३७-३९ ॥

 

बहुव्यामांश्च परिघान्गदाश्च मुसलानि च ।

तालस्कन्धांश्च विपुलान्क्षेपणीयान्दुरासदान् ॥ ४० ॥

अथान्यद्वपुरादाय दारुणं रोमहर्षणम् ।

निष्पपात महातेजाः कुंभकर्णो महाबलः ॥ ४१ ॥

बहुव्यामान् अनेकव्यामप्रमाणान् । व्यामो बाह्वो: सकरयोस्ततयोस्तिर्यगन्तरं इत्यमरः । तालस्कन्धान् तालकाण्डान् ॥  ४०-४१ ॥

 

धनुः शतपरीणाहः स षट्छतसमुच्छ्रितः ।

रौद्रः शकटचक्राक्षो महापर्वतसन्निभः ॥ ४२ ॥

संनिपत्य च रक्षांसि दग्धशैलोपमो महान् ।

कुंभकर्णो महावक्र: प्रहसन्निदमब्रवीत् ॥ ४३ ॥

अद्य वानरमुख्यानां तानि यूथानि भागशः ।

निर्दहिष्यामि संक्रुद्धः शैलभानिव पावकः ॥ ४४ ॥

धनुः शतपरीणाहः धनुः शतविशालः । षट्छतसमुच्छ्रितः षट्छतधनुरुछ्रायः । संनिपत्य स्वानुगमनायोयुक्तानां राक्षसानां समीपं गत्वेत्यर्थः ॥ ४२–४४ ॥

 

नापराध्यन्ति मे कामं वानरा वनचारिणः ।

जातिरस्मद्विधानां सा पुरोद्यानविभूषणम् ॥ ४५ ॥

पुररोधस्य मूलं तु राघवः सहलक्ष्मणः ।

हते तस्मिन्हतं सर्वं तं बधिष्यामि संयुगे ॥ ४६ ॥

एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः ।

नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ।। ४७ ॥

सा जातिः वानरजातिः । अस्मद्विधानां क्रीडापराणां ॥ ४५-४७ ।।

 

तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः ।

बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥ ४८ ॥

घोररूपाणि अत्यन्तघोराणि ॥ ४८ ॥

 

उल्काशनियुता मेघा बैभूवुर्गर्दभारुणाः ।

ससागरवना चैव वसुधा समकम्पत ॥ ४९ ॥

घोररूपाः शिवा नेदुः सज्वालकबलैर्मुखैः ।

मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ॥ ५० ॥

गर्दभारुणाः गर्दभवदव्यक्तरागाः । अव्यक्तरागस्त्वरुण: इत्यमरः ।। ४९-५० ।।

 

निष्पपात च मालेव गृध्रोस्य पथि गच्छतः ।

प्रास्फुरन्नयनं चास्य सव्यो बाहुश्च कम्पते ॥ ५१ ॥

गच्छतोस्य उपरिप्रदेशे गृध्रो मालेव निष्पपातेत्यन्वयः । गृध्र इति जात्येकवचनं । सव्यशब्दो लिङ्गव्यत्ययेन नयनशब्देनापि संबध्यते । कम्पते अकम्पत ॥ ५१ ॥

 

निपपात तदा चोल्का ज्वलन्ती भीमनिस्वना ।

आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः ॥५२॥

अचिन्तयन्महोत्पातानुत्थितान्रोमहर्षणान् ।

निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥ ५३ ॥

उल्का मेघनिर्गतज्वालाविशेषः ॥ ५२-५३ ॥

 

स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसन्निभः ।

ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ॥ ५४ ॥

ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् ।

वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥ ५५ ॥

तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम् ।

स कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद्धनाभः ॥ ५६ ॥

ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य ।

पेतुर्धरण्यां बहवः प्लवङ्गा निकत्तमूला इव सालवृक्षाः ॥ ५७ ॥

अभ्रघनः अभ्रसंघातः ॥ ५४–५७ ॥

 

विपुलपरिघवान्स कुम्भकर्णो रिपुनिधनाय विनिस्सृतो महात्मा ।

कपिगणभयमाददत्सुभीमं प्रभुरिव किङ्करदण्डवान्युगान्ते ॥ ५८ ॥

प्रभुः अन्तकः । किंकरदण्डवान् किंकरोमीत्यवस्थायी सचेतनो दण्ड : तद्वान् ।। ५८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ ६५ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.