69 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनसप्ततितमः सर्गः

कुंभकर्णनिधनाकर्णनेनविषीदन्तंरावणंप्रति त्रिशिरोनाम्नातस्सुतेन रामादिवधप्रतिज्ञानेन -समाश्वासनपूर्वकमतिकायादिभिर्भ्रातृभिः सह रणायनिर्याणम् ॥ १ ॥ वानरकृतराक्षस -क्षपणरुष्टेन तुरगाधिष्ठितेननरान्तकेन वानरवाहिनीविध्वंसने सुग्रीवनियोगादङ्गदेन सतुरगनरान्तकहननम् ॥ २ ॥

 

एवं बिलपमानस्य रावणस्य दुरात्मनः ।

श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥ १ ॥

अथातिकायनिर्गमः – एवमित्यादि ॥ १ ॥

एवमेव महावीर्यो हतो नस्तातमध्यमः ।

न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ॥ २ ॥

तातमध्यमः तातेषु मध्यमः मध्यमपितेत्यर्थः । एवमेव महावीर्यः त्वदुक्तप्रकारेणैव महावीर्य: । हतः । दैवादिति शेष: ॥ २ ॥

 

नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो ।

स कस्मात्प्राकृत इव शोचस्यात्मानमीदृशम् ॥ ३ ॥

ईदृशमिति शोकक्रियाविशेषणं । आत्मानं उद्दिश्येति शेषः ॥ ३ ॥

 

ब्रह्मदत्ताऽस्ति ते शक्तिः कवचः सायको धनुः ।

सहस्रखरसंयुक्तो रथो मेघवनो महान् ॥ ४ ॥

त्वयाऽसकृद्विशस्त्रेण विशस्ता देवदानवाः ।

स सर्वायुधसंपन्नो राघवं शास्तुमर्हसि ॥ ५ ॥

कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणम् ।

उद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिव ॥ ६ ॥

ब्रह्मदत्तेत्यादिश्लोकद्वयमेकान्वयं ॥ विशस्त्रेण निरायुधेन ॥ ४–६ ।।

 

शम्बरो देवराजेन नरको विष्णुना यथा ।

तथाऽद्य शयिता रामो मया युधि निपातितः ॥ ७ ॥

श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः ।

पुनर्जातमिवात्मानं मन्यते कालचोदितः ॥ ८ ॥

नरकोत्र सिंहिकायां विप्रचित्तेर्जातेषु वातापिप्रमुखेष्वन्यतमः । वातापिर्नमुचिश्चैव इल्वल: सृमरस्तथा । अन्धको नरकश्चैव कालनाभस्तथैव च इत्युक्तेः ॥ नतु कृष्णहतो भूसुतो नरकासुरः । तस्य वाल्मीकिप्रबन्धनिर्माणकाले असंजातत्वात् ॥ ७-८ ॥

 

श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ ।

अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥ ९ ॥

ततोऽहमहमित्येव गर्जन्तो नैर्ऋतर्षभाः ।

रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ।। १० ॥

श्रुत्वा त्रिशिरस इत्यादि । त्रिशिरसो वचनं स्वेषामपि तुल्यत्वाद्देवान्तकादयोपि युद्धोद्युक्ता बभूवुरित्यर्थः ॥ ९-१० ॥

 

अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः ।

सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्जयाः ॥ ११ ॥

अन्तरिक्षे गतं गमनं येषां तेऽन्तरिक्षगताः ।। ११ ।।

 

सर्वे सुबलसंपन्नाः सर्वे विस्तीर्णकीर्तयः ।

सर्वे समरमासाद्य न श्रूयन्ते पराजिताः ।

देवैरपि सगन्धर्वैः सकिन्नरमहोरगैः ॥ १२ ॥

देवादिभिः सह समरमासाद्य पराजिता न श्रूयन्त इत्यन्वयः ॥ १२ ॥

 

सर्वे च विदुषो वीराः सर्वे युद्धविशारदाः ।

सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ॥ १३ ॥

विदुषः विद्यावन्तः । प्रवरविज्ञानाः उत्कृष्टशास्त्रज्ञानाः ।। १३ ।।

 

स तैस्तदा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलप्रमर्दनैः ।

रराज राजा मघवान्यथाऽमरैर्वृतो महादानवदर्पनाशनैः ॥ १४ ॥

तुल्यवर्चसैरित्यत्र समासान्त आर्षः ॥ १४ ॥

 

स पुत्रान्संपरिष्वज्य भूषयित्वा च भूषणैः ।

आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे ॥ १५ ॥

आशीर्भिः सहेति शेषः ।। १५ ।।

 

युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः ।

[ महापार्श्वं प्रमत्तं वा भ्रातरं च महोदरम् ॥ ]

रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥ १६ ॥

युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावण इति । अत्र युद्धोन्मत्तौ महोदरमहापार्श्वपर्यायनामानौ रावणभ्रातरौ । एतौ परत्र प्रकाशयिष्येते ॥ १६ ॥

 

तेऽभिवाद्य महात्मानं रावणं रिपुरावणम् ।

कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ।। १७ ।।

रिपून् रावयतीति रिपुरावणः ॥ १७ ॥

 

सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः ।

निर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥ १८ ॥

त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ।

महोदरमहापार्श्वो निर्जग्मुः कालचोदिताः ॥ १९ ॥

ततः सुदर्शनं नाम नीलजीमृतसन्निभम् ।

ऐरावतकुले जातमारुरोह महोदरः ॥ २० ॥

सर्वौषधीभिः । कुष्टं मांसी हरिद्रे द्वे मुरा शैलेय चन्दने । वचाचम्पकमुस्ताश्च सर्वौषध्यो दश स्मृताः इत्युक्ताभिः आयुधप्रहारनिवर्तिकाभिः ओषधीभिरित्याहु: । समालभ्य समालिप्य ॥ १८-२० ॥

 

सर्वायुधसमायुक्तं तूणीभिश्च स्वलंकृतम् ।

रराज गजमास्थाय सवितेवास्तमूर्धनि ॥ २१ ॥

हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् ।

आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥ २२ ॥

त्रिशिरा रथमास्थाय विरराज धनुर्धरः ।

सविद्युदुल्कः शैलीग्रे सेन्द्रचाप इवाम्बुदः ॥ २३ ॥

अस्तमूर्धनीत्येतदुत्तरक्षणे विनाशसूचनाय ॥ २१ – २३ ॥

 

त्रिभिः किरीटैः शुशुभे त्रिशिराः स रथोत्तमे ।

हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥ २४ ॥

त्रिभिः काञ्चनपर्वतैः शिखरभूतैर्हिमवानिवेत्यर्थः ॥ २४ ॥

 

अतिकायोपि तेजस्वी राक्षसेन्द्रसुतस्तदा ।

[ हयोत्तमसमायुक्तं सर्वायुधसमन्वितम् ॥]

आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥ २५ ॥

सुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम् ।

तूणीबाणासनैदीप्तं प्रासासिपरिघाकुलम् ॥ २६ ।।

अतिकाय इत्यादिश्लोकद्वयमेकान्वयं ॥ सुसंयुक्तं सुदृढं । स्वनुकर्षं । अनुकर्षो दावेधस्स्थं इत्यमरः । सुकूबरं शोभनयुगंधरं । कूबरस्तुयुगंघर: इत्यमरः ॥ २५–२६ ॥

 

सकाञ्चनविचित्रेण मुकुटेन विराजता ।

भूषणैश्च बभौ मेरुः किरणैरिव भासयन् ॥ २७ ॥

स रराज रथे तस्मिन्राजसूनुर्महाबलः ।

वृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः ॥ २८ ॥

हयमुच्चैःश्रवःप्रख्यं श्वेतं कनकभूषणम् ।

मनोजवं महाकायमारुरोह नरान्तकः ॥ २९ ॥

गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः ।

शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ॥ ३० ॥

किरणैः भासयन् भासमानः । मेरुरिव बभावित्यन्वयः ॥ २७-३० ॥

 

देवान्तकः समादाय परिघं वज्रभूषणम् ।

परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥ ३१ ॥

महापार्श्वो महाकायो गदामादाय वीर्यवान् ।

विरराज गदापाणिः कुबेर इव संयुगे ॥ ३२ ॥

प्रतस्थिरे महात्मानो बलैरप्रतिमैर्वृताः ।

सुरा इवामरावत्या बलैरप्रतिमैर्वृताः ॥ ३३ ॥

तान्गजैश्च तुरङ्गैश्च रथैचाम्बुदनिस्वनैः ।

अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ॥ ३४॥

ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः ।

किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ॥ ३५ ॥

प्रगृहीता बभौ तेषां शस्त्राणामावलिः सिता ।

शारदाभ्रप्रतीकाशा हंसावलिरिवाम्बरे ॥ ३६ ॥

देवान्तक इति । अत्रापि विरराजेति संबध्यते । देवान्तकः परिघमादाय समुद्रमथने गिरिं मन्दरगिरिं । परिगृह्य तिष्ठतो विष्णोर्वपुर्विडम्बयन् विरराज ।। ३१-३६ ।।

 

मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ॥ ३७ ॥

मरणं वेत्यर्धे निर्जग्मुरित्युपस्कार्यं ॥ ३७ ॥

 

इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ॥ ३८ ॥

इति कृत्वेत्यर्धं ॥ इत्थं कर्तव्यमित्येवंरूपां मतिं कृत्वेत्यर्थः ॥ ३८ ॥

 

जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ।

जगृहुश्चापि ते वीरा निर्यान्तो युद्धदुर्मदाः ॥ ३९ ॥

क्ष्वेलितास्फोटनिनदैश्चचाल च वसुंधरा ।

रक्षसां सिंहनादैश्च पुस्फोटेव तदाऽम्बरम् ॥ ४० ॥

तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः ।

ददृशुर्वानरानीकं समुद्यतशिलानगम् ॥ ४१ ॥

हरयोपि महात्मानो ददृशुर्नैर्ऋतं बलम् ।

हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम् ॥ ४२ ॥

नीलजीमूतसंकाशं समुद्यतमहायुधम् ।

दीप्तानलरविप्रख्यैः सर्वतो नैर्ऋतैर्वृतम् ॥ ४३ ॥

जगर्जुः मेघध्वनिं चक्रुः । प्रणेदुः सिंहनादंचक्रुः । चिक्षिपुः क्षेपवचनान्यूचुः । सायकान् जगृहुरित्यन्वयः ॥ ३९-४३ ॥

 

तद्दृष्ट्वा बलमायातं लब्धलक्षाः लवङ्गमाः ।

समुद्यतमहाशैलाः संप्रणेदुर्महाबलाः ॥

अमृष्यमाणा रक्षांसि प्रतिनर्दन्ति वानराः ॥ ४४ ॥

ततः समुद्धृष्टरवं निशम्य रक्षोगणा वानरयूथपानाम् ।

अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ॥ ४५ ॥

ते राक्षसबलं घोरं प्रविश्य हरियूथपाः ।

विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥ ४६ ॥

लब्धलक्षाः लब्धपराक्रमविषयाः ॥ ४४-४६ ॥

 

केचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः ।

रक्षस्सैन्येषु संक्रुद्धारुर्द्रुमशिलायुधाः ।

द्रुमांश्च विपुलस्कन्धान्गृह्य वानरपुङ्गवाः ॥ ४७ ॥

तद्युद्धमभवद्धोरं रक्षोवानरसंकुलम् ।। ४८ ।।

संचारप्रकारमेवाह—केचिदित्यादिसार्धश्लोक एकान्वयः ॥ द्रुमशिलायुधा इति स्वभावोक्तिः ॥ ४७-४८ ॥

 

ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम् ।

बाणौषैर्वार्यमाणाश्च हरयो भीमविक्रमाः ॥ ४९ ।।

सिंहनादान्विनेदुश्च रणे वानरराक्षसाः ।

शिलाभिश्चूर्णयामासुर्यातुधानान्प्लवङ्गमाः ।। ५० ।।

निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् ।

केचिद्रथगतान्वीरान्गजवाजिगतानपि ।। ५१ ॥

निजघ्नुः सहसाप्लुत्य यातुधानान्प्लवङ्गमाः ।

शैलेशृङ्गाचिताङ्गाश्च मुष्टिभिर्वान्तलोचनाः ॥ ५२ ॥

चेरु: पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः ।

राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ।। ५३ ॥

शूलमुद्गरखरैश्च जनुः प्रासैश्च शक्तिभिः ।

अन्योन्यं पातयामासुः परस्परजयैषिणः ॥ ५४ ।।

रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः ।

ततः शैलैश्च खड्गैश्व विसृष्टैर्हरिराक्षसैः ॥ ५५ ॥

मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता ।

विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः ।।

आसीद्वसुमती पूर्णा तदा युद्धमदान्वितैः ॥ ५६ ॥

अनूपमां अनुपमां ॥ ४९-५६ ॥

 

आक्षिप्ताः क्षिप्यमाणाश्च मैत्रशूलाश्च वानरैः ।

पुनरङ्गैस्तथा चक्रुरासन्ना युद्धमद्भुतम् ॥ ५७ ।।

वानरान्वानरैरेव जघ्नुस्ते रजनीचराः ।

राक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि ॥ ५८ ।।

आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् ।

तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥ ५९ ॥

निजघ्नुः शैलशूलास्त्रैर्बिभिदुश्च परस्परम् ।

सिंहनादान्विनेदुश्च रणे वानरराक्षसाः॥ ६० ॥

आक्षिप्ताः क्षिप्यमाणाश्चेति नियुद्धप्रकारकथनं । अङ्गैः हस्तपादादिभिः ॥ ५७-६० ।।

 

छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः ।

रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ॥ ६१ ॥

रथेन च रथं चापि वारणेनैव वारणम् ।। ६२ ।।

हयेन च हयं केचिन्निजघ्नुर्वानरा रणे ।

प्रहृष्टमनसः सर्वे प्रगृहीतमनःशिलाः ॥ ६३ ॥

हरयो राक्षसाञ्जघ्नुर्द्रुमैश्च बहुशाखिभिः ।

तद्युद्धमभवद्धोरं रक्षोवानरसंकुलम् ।। ६४ ।।

छिन्नवर्मतनुत्राणाः छिन्नवर्मरूपतनुत्राणाः। रुधिरं प्रस्रुताः स्रुतवन्तः । मुमुचुरिति यावत् । रससारं निर्यास ॥ ६१–६४ ॥

 

क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः ।

राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः  ६५ ॥

विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे ।

हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाऽभवत् ॥ ६६ ॥

शिलाः शिलाश्चेत्यर्थः ।। ६५-६६ ।।

 

ते वानरा गर्वितहृष्टचेष्टाः संग्राममासाद्य भयं विमुच्य ।

युद्धं तु सर्वे सह राक्षसैस्तैर्नानायुधाश्चक्रुरदीनसत्त्वाः ॥ ६७ ॥

गर्वितं हृष्टं च यथा भवति तथा चेष्टन्त इति गर्वितहृष्टचेष्टाः । नानायुधाः गृहीतराक्षसायुधा इत्यर्थः ॥ ६७ ।।

 

तस्मिन्प्रवृत्ते तुमुले विमर्दे प्रहष्यमाणेषु वलीमुखेषु ।

निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्र नेदुः ॥ ६८ ॥

ततो हयं मारुततुल्यवेगमारुह्य शक्ति निशितां प्रगृह्य ।

नरान्तको बानरराजसैन्यं महार्णवं मीन इवाविवेश ॥ ६९ ॥

विमर्दे युद्धे ।। ६८-६९ ।।

 

स वानरान्सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद ।

एकक्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ॥ ७० ॥

ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् ।

चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥ ७१ ॥

स तस्य ददृशे मार्गो मांसशोणितकर्दमः ।

पतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ ७२ ॥

यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः ।

तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥ ७३ ॥

जघानेति । इत्थमिति शेषः ॥ ७०-७३ ॥

 

ज्वलन्तं प्रासमुद्यम्य संग्रामाग्रे नरान्तकः ।

ददाह हरिसैन्यानि वनानीव विभावसुः ॥ ७४ ॥

यावदुत्पाटयामासुर्वृक्षाञ्शैलान्वनौकसः ।

तावत्प्रासहृताः पेतुर्वजकृत्ता इवाचलाः ॥ ७५ ॥

ज्वलन्तं ज्वलन्तमिव स्थितं । विभावसुः वह्निः ॥ ७४–७५ ॥

 

दिक्षु सर्वासु बलवान्विचचार नरान्तकः ।

प्रमृद्गन्सर्वतो युद्धे प्रावृट्काले यथाऽनिलः ॥ ७६ ॥

प्रमृद्गन् मर्दयन् ॥ ७६ ॥

 

न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात् ।

उत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् ॥ ७७ ॥

एकेनान्तककल्पेन प्रासेनादित्यतेजसा ।

भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥ ७८ ॥

वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् ।

न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥ ७९ ॥

पततां हरिवीराणां रूपाणि प्रचकाशिरे ।

वज्रभिन्नाग्रकूटानां शैलानां पततामिव ॥ ८० ॥

न शेकुरिति । यतो हेतोरुत्पतन्तं स्थितं यान्तं च विव्याध अतः स्पन्दनादौ न शेकुरित्यर्थः ॥ ७७-८० ।।

 

ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः ।

ते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥ ८१ ॥

विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् ।

नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ॥ ८२ ॥

विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् ।

गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ॥ ८३ ॥

अथोवाच महातेजाः सुग्रीवो वानराधिपः ।

कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥ ८४ ॥

गच्छ त्वं राक्षसं वीरो योसौ तुरगमास्थितः ।

क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥ ८५ ॥

कुम्भकर्णेन पातितानां नीलादीनामुत्तरत्र पौरुषकथनसांगत्यायैषां लब्धसंज्ञत्वमाह—ये त्विति ॥ ८१-८५ ॥

 

स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्ततः ।

अनीकान्मेघसंकाशान्मेघानीकादिवांशुमान् ॥ ८६ ॥

मेघसंकाशादिति निबिडत्वलक्षणसमानधर्मप्रयुक्तेयमुपमा । मेघानीकादित्यत्र तु निष्क्रमणापादानत्वधर्मप्रयुक्तेत्युपमाद्वयस्य निर्वाहः ॥ ८६ ॥

 

शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः ।

रराजाङ्गदसनद्धः सधातुरिख पर्वतः ॥ ८७ ॥

निरायुधो महातेजाः केवलं नखदंष्ट्रवान् ।

नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः ॥ ८८ ॥

तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि ।

अस्मिन्वज्रसमस्पर्शं प्रासं क्षिप ममोरसि ॥ ८९ ॥

अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः ।

संदश्य दशनैरोष्ठं विनिश्वस्य भुजङ्गवत् ॥ ९० ॥

संघात: निबिडसंवेशः । अङ्गदसन्नद्धः सन्नद्धाङ्गदः ॥ ८७-९० ॥

 

अभिगम्याङ्गदं क्रुद्धो बालिपुत्रं नरान्तकः ॥ ९१ ॥

प्रासं समाविध्य तदाऽङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज ।

स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥ ९२ ।।

तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम् ।

तलं समुद्यम्य स वालिपुत्रस्तुरङ्गमं तस्य जघान मूर्ध्नि ॥ ९३ ॥

निमग्नतालुः स्फुटिताक्षितारो निष्क्रान्तजिह्वोचलसन्निकाशः ।

स तस्य वाजी निपपात भूमौ तलप्रहारेण विशीर्णमूर्धा ॥ ९४ ॥

नरान्तकः क्रोधवशं जगाम हतं तुरङ्गं पतितं निरीक्ष्य ।

स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥ ९५ ॥

अथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम् ।

मुहुर्विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिष्मिये च ॥ ९६॥

अथाङ्गदो वैज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् ।

निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ॥ ९७ ॥

अभिगम्येति । अयमुत्तरशेषः ॥ ९१-९७ ।।

 

स मुष्टिनिष्पिष्टविभिन्नवक्षा ज्वालावमच्छोणितदिग्धगात्रः ।

नरान्तको भूमितले पपात यथाऽचलो वज्रनिपातभग्नः ।। ९८ ॥

अथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः ।

बभूव तस्मिन्निहतेऽग्र्यवीरे नरान्तके वालिसुतेन सङ्ख्ये ॥ ९९ ॥

ज्वालारूपेण वमता उद्गच्छता शोणितेन दिग्धगात्रः ।। ९८-९९ ।।

 

अथाङ्गदो राममनःप्रहर्षणं सुदुष्करं तत्कृतवान्हि विक्रमम् ।

विसिष्मिये सोप्यतिवीर्यविक्रमः पुनश्च युद्धे स बभूव हर्षितः ॥ १०० ॥

तत्कृतवानित्यत्र तदित्यव्ययं पदं । तस्मादित्यर्थः । अङ्गदः हि यस्मात् । सुदुष्करं अतएव राममनःप्रहर्षणं विक्रमं कृतवान् । तस्मादित्यर्थः । विसिष्मिये । सोपीत्यत्र तच्छब्देन राममनः प्रहर्षणमित्यत्र गुणीभूतो रामशब्द: परामृश्यते हर्षितः विस्मितेन रामेण श्लाघया तोषितः । स च अङ्गश्च पुनः युद्धे बभूव । युद्धविषये सन्नद्धो बभूवेत्यर्थः ॥ १०० ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनसप्ततितमः सर्गः ॥ ६९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.