श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टसप्ततितमः सर्गः
रावणप्रेरणया समरायनिस्सरतिमकराक्षे राक्षसैस्तत्समयसमुद्भूतदुर्निमित्तनिरीक्षणेपि तदलक्षीकरणेनरणाय तदनुसरणम् ॥ १ ॥
निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् ।
रावणः परमामर्षी प्रजज्वालानलो यथा ॥ १ ॥
अथ मकराक्षनिर्गमोष्टसप्ततितमे, प्रथमपक्षे अयं दशम्यां प्रातः, द्वितीयपक्षे तु दशम्यां प्रातरारभ्य कम्पनवधप्रहस्तवधरावणमुकुटभङ्गकुम्भकर्णप्रबोधतद्वधाः, अथापराह्ने ब्रह्मास्त्र -बन्धः रात्रौ तन्मोक्षलङ्कादहनकुम्भनिकुम्भयूपाक्षशोणिताक्षप्रजङ्घ कम्पनमकराक्षवधा:- निकुम्भं चेत्यादि ॥ १ ॥
नैऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः ।
खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ॥ २ ॥
गच्छ पुत्र मयाऽऽज्ञप्तो बलेनाभिसमन्वितः ।
राघवं लक्ष्मणं चैव जहि तांश्च वनौकसः ॥ ३ ॥
रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः ।
बाढमित्यत्रवीद्धृष्टो मकराक्षो निशाचरः ॥ ४ ॥
सोभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् ।
निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ॥ ५ ॥
परिमूर्च्छितः व्याप्तः ॥ २-५ ॥
समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् ।
रथश्चानीयतां शीघ्रं सैन्यं चाहूयतां त्वरात् ॥ ६ ॥
त्वरातूत्वरया ॥ ६ ॥
तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः ।
स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥ ७ ॥
प्रत्यपादयत् प्रापयत् ॥ ७ ॥
प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः ।
सूतं संचोदयामास शीघ्रं मे रथमावह ॥ ८ ॥
आवह चोदय । अत्रेतिकरणं द्रष्टव्यं ॥ ८ ॥
अथ तान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् ।
यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः ॥ ९ ॥
अहं राक्षसराजेन रावणेन महात्मना ।
आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥ १० ॥
अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः ।
शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ॥ ११ ॥
अद्य शूलनिपातैश्च वानराणां महाचमूम् ।
प्रदहिष्यामि संप्राप्तः शुष्केन्धनमिवानलः ॥ १२ ॥
अथतानित्यादिचतुःश्लोक्येकान्वया ॥ ९ – १२ ।।
मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः ।
सर्वे नानायुधोपेता बलवन्तः समागताः ॥ १३ ॥
समागताः समाजग्मुः ।। १३ ।।
ते कामरूपिणः सर्वे दंष्ट्रिणः पिङ्गलेक्षणाः ।
मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः ॥ १४ ॥
परिवार्य महाकाया महाकायं खरात्मजम् ।
अभिजग्मुस्ततो हृष्टाश्चालयन्तो वसुन्धराम् ॥ १५ ॥
शङ्खभेरीसहस्राणामाहतानां समन्ततः ।
क्ष्वेलितास्फोटितानां च ततः शब्दो महानभूत् ॥ १६ ॥
ते कामरूपिण इत्यादिश्लोकद्वयमेकान्वयं ॥ १४–१६ ॥
प्रभ्रष्टोथ करात्तस्य प्रतोदः सारथेस्तदा ।
पपात सहसा चैव ध्वजस्तस्य च रक्षसः ॥ १७ ॥
करात्तस्य आत्तकरस्य वशीकृतकरस्य । लघुहस्तस्येति यावत् ।। १७ ।।
तस्य ते रथयुक्ताश्च हया विक्रमवर्जिताः ।
चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥ १८ ॥
विक्रमवर्जिताः विविधपदन्यासविरहिताः । प्रथममाकुलैश्चरणैर्गत्वा पश्चाद्ययुरित्यर्थः ॥ १८ ॥
प्रवाति पवनस्तस्मिन्सपासः खरदारुणः ।
निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥ १९ ॥
सपांसुः अतएव खरदारुणः खरः परुषः दारुणो भयंकरश्च ॥ १९ ॥
तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः ।
अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ॥ २० ॥
घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः ।
अहमहमिति युद्धकौशलास्ते रजनिचराः परितः समुन्नदन्तः ॥ २१ ॥
तानीत्यादिश्लोकद्वयमेकान्वयं । असकृद्गदासिभिन्ना इत्यनेन शौर्यातिशय: सूचितः । युद्धकौशलाः युद्धकुशलाः । स्वार्थेण् । अहमहमिति वदन्तः । अचिन्त्य निर्गता इति पूर्वेण संबन्धः ॥ २० – २१ ॥
इत्यार्ष श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टसप्ततितमः सर्गः ॥ ७८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टसप्ततितमः सर्गः ॥ ७८ ॥