81 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकाशीतितमः सर्गः

इन्द्रजिताऽन्तर्हितस्यापिस्वस्यवधनिर्धारणरूपरामभावविज्ञानेन भयालङ्काप्रवेशः ॥ १ ॥ तथा शत्रुवधाययजननिर्धारणेन तदन्तरायपरिहृतये रामव्यामोहनायस्वनिर्मितमायासीता- यारथारोपणपूर्वकं पश्चिमद्वारान्निर्गतेन हनुमदग्रे खङ्गेनमायासीताच्छेदनम् ॥ २ ॥

 

विज्ञाय तु मनस्तस्य राघवस्य महात्मनः ।

सनिवृत्याहवात्तस्मात्संविवेश पुरं ततः ॥ १ ॥

अथ मायासीतावध एकाशीतितमे – विज्ञाय त्वित्यादि । अत्र तृतीयाक्षरभूतो यकारो गायत्र्या एकोनविंशतितमाक्षरं । अष्टादशसहस्रश्लोकागताः ॥ १ ॥

 

सोनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् ।

क्रोधताप्रेक्षणः शूरो निर्जगाम महाद्युतिः ॥ २ ॥

तेषां कुम्भकर्णादीनां ॥ २ ॥

 

स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः ।

इन्द्रजित्त महावीर्यः पौलस्त्यो देवकण्टकः ॥ ३ ॥

निकुम्भिलायां दुर्जयास्त्रबललाभाय होतुकामस्तावत्पर्यन्तं रामलक्ष्मणयोर्युद्धोद्योगं मन्दीकर्तुं मायामारिप्समाणो रामलक्ष्मणयोः कुपितत्वेन दुरासदत्वात् सीतास्वरूपाभिज्ञ- स्यान्यस्याभावाद्धनुमते मायां दर्शयितुं पश्चिमद्वारेण निर्गत इत्याह – स पश्चिमेनेत्यादिना ॥ ३ ॥

 

इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।

रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ॥ ४ ॥

दृष्ट्वा विचिन्त्य । पश्चिमद्वारनिष्क्रान्तस्य रामलक्ष्मणदर्शनासंभवात् । मायां परव्यामोहकरीं शक्तिं । प्रादुष्करोत् प्रादुर्भावयामास ॥ ४ ॥

 

इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं ततः ।

बलेन महताऽऽवृत्य तस्या वधमरोचयत् ॥ ५ ॥

मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः ।

हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ॥ ६ ॥

तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः ।

उत्पेतुरभिसंक्रुद्धा: शिलाहस्ता युयुत्सवः ॥ ७ ॥

हनुमान्पुरतस्तेषां जगाम कपिकुञ्जरः ।

प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ॥ ८ ॥

आवृत्य स्थितेन बलेन । युक्त इति शेषः । युक्ते रथे सीतां स्थाप्य ततस्तस्या वधमरोचयदिति संबन्धः ।। ५-८ ।।

 

स ददर्श हतानन्दां सीतामिन्द्रजितो रथे ।

एकवेणीधरां दीनामुपवासकृशाननाम् ॥ ९ ॥

परिक्लिष्टैकवसनाममृजां राघवप्रियाम् ।

रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ।। १० ।।

स ददर्शेत्यादिश्लोकद्वयमेकान्वयं । अमृजां अनुद्वर्तनां । अनलंकारामिति वा । मृजू शौचालंकारयोः इति धातोर्भिदादित्वादङ् । सर्वगात्रैः उपलक्षितां ॥ ९-१०॥

 

तां निरीक्ष्य मुहूर्तं तु मैथिलीत्यध्यवस्य तु ।

बभूवाचिरदृष्टा हि तेन सा जनकात्मजा ॥ ११ ॥

अध्यवस्य निश्चित्य । विषण्ण इति शेषः । निश्चये हेतुमाह – बभूवेति ॥ ११ ॥

 

तां दीनां मलदिग्धाङ्गीं रथस्थां दृश्य मैथिलीम् ।

वाष्पपर्याकुलमुखो हनुमान्व्यथितोऽभवत् ॥ १२ ॥

दृश्य दृष्ट्वा ॥ १२ ॥

 

अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनीम् ।

सीतां रथस्थितां दृष्ट्वा राक्षसेन्द्रसुताश्रिताम् ।।

किं समर्थितमस्येति चिन्तयन्स महाकपिः ॥ १३ ॥

अब्रवीदित्याद्यर्धत्रयमेकान्वयं । सीतां रथे स्थापितवतोस्य किं समर्थितं को वाभिप्राय इति चिन्तयन्नब्रवीत् । इतिर्वचनचिन्तनयोः साधारणः ।। १३ ।।

 

सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ॥ १४ ॥

सह तैरित्यर्धं । हनुमानिति शेषः ॥ १४ ॥

 

तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्च्छितः ।

कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् ॥ १५ ॥

मूर्च्छितः व्याप्तः ॥ १५ ॥

 

तां स्त्रियं पश्यतां तेषां ताडयामास रावणिः ।

क्रोशन्तीं राम रामेति मायया योजितां रथे ॥ १६ ॥

गृहीतमूर्धजां दृष्ट्वा हनुमान्दैन्यमागतः ।

शोकजं वारि नेत्राभ्यामसृजन्मारुतात्मजः ॥ १७ ॥

तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम् ।

अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोधिपात्मजम् ॥ १८ ॥

पश्यतां तेषां । अनादरे षष्ठी । मायया परमोहनशक्त्या ॥ १६-१८ ॥

 

दुरात्मन्नात्मनाशाय केशपक्षे परामृशः ।

ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ॥ १९ ॥

केशपक्षे केशसमूहे । पाश: पक्षश्च हस्तश्च कलापार्था: कचात्परे इत्यमरः । परामृशः अस्पृशः ॥ १९ ॥

 

धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी ।

नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम ।

अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ॥ २० ॥

धिगित्यादिसार्धश्लोक एकान्वयः । ईदृशी । जुगुप्सितेत्यर्थः । नृशंस निर्दय । अनार्य असज्जन । दुर्वृत्त दुराचार । क्षुद्र अल्पबुद्धे । पापः अधर्म्यः पराक्रमो यस्य स पापपराक्रमः । उक्तमनार्यत्वं कार्यतो दर्शयति – अनार्यस्येति । ईदृशं जुगुप्सितं कर्म अनार्यस्यैव भवति । हे निर्घृण निर्दय, ते घृणा जुगुप्सा नास्ति । जुगुप्सा करुणा घृणा इत्यमरः ॥ २० ॥

 

च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली ।

किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि ॥ २१ ॥

सीतां च हत्वा न चिरं जीविष्यसि कथंचन ।

वधार्हकर्मणाऽनेन मम हस्तगतो ह्यसि ॥ २२ ॥

अपराधिषु घृणा न कर्तव्या । अत एव एन । हन्मीत्याशङ्क्यापराधलेशोप्यस्यां नास्तीत्याह-च्युतेति । गृहात् स्वसदनात् । चकारात् परिचारकेभ्यश्च । अनेन बन्धुमुखादपराधकरणं नास्तीत्युक्तं । राज्यात् राज्योपकरणाच्च । अनेन सेनामुखेन नापराध इत्युक्तं । रामहस्तात् रक्षकहस्ताच्च । तन्मुखादप्यपराधप्रसक्तिर्नास्तीत्युक्तं । मैथिली आचारप्रधानकुले जाता । अनेनापराधस्वरूपमेव न जानातीत्युक्तं । यत् येनापराधकार्येण । एनां हन्तुमिच्छसि तादृशं किं प्रयोजनमुद्दिश्य । अपराद्धा अपराधं कृतवती । कर्तरि क्तः ॥ २१ – २२ ॥

 

ये च स्त्रीघातिनां लोका लोकवध्येषु कुत्सिताः ।

इह जीवितमुत्सृज्य प्रेत्य तान्प्रतिपत्स्यसे ।। २३ ।।

हे लोकवध्य, एषु चतुर्दशलोकेषु । स्त्रीघातिनां ये कुत्सिता लोकाः । तान् इह जीवितमुत्सृज्य प्रेत्य यातनाशरीरं प्राप्य । प्रतिपत्स्यसे । प्राप्स्यसीत्यर्थः ॥ २३ ॥

 

इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः ।

अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति ॥ २४ ॥

सायुधैः सहननसाधनैः ॥ २४ ॥

 

आपतन्तं महावीर्यं तदनीकं वनौकसाम् ।

रक्षसां भीमवेगानामनीकं तु न्यवारयत् ॥ २५ ॥

स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् ।

हरिश्रेष्ठं हनूमन्तमिन्द्रजित्प्रत्युवाच ह ॥ २६ ॥

सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः ।

तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः ॥ २७ ॥

इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर ।

सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ॥ २८ ॥

अनीकं अनीकं च ॥ २५-२८ ॥

 

न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम ।

पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ॥ २९ ॥

[ ताटकाया वधं रामः किमर्थं कृतवान्पुरा ।

तदहं हन्मि रामस्य महिषीं जनकात्मजाम्] ॥ ३० ॥

तमेवमुक्त्वा रुदतीं सीतां मायामयीं तदा ।

शितधारेण खड्नेन निजघानेन्द्रजित्स्वयम् ॥ ३१ ॥

न हन्तव्या इति यत् ब्रवीषि तत्रोत्तरं शृण्विति वाक्यशेषः ।। २९ – ३१ ॥

 

यज्ञोपवीतमार्गेण भिन्ना तेन तपस्विनी ।

सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना ।

तामिन्द्रजित्स्वयं हत्वा हनुमन्तमुवाच ह ॥ ३२ ॥

मया रामस्य पश्येमां कोपेन च निषूदिताम् ।

एषा विशस्ता वैदेही विफलो वः परिश्रमः ॥ ३३ ॥

ततः खड्ङ्गेन महता हत्वा तामिन्द्रजित्स्वयम् ।

हृष्टः स रथमास्थाय विननाद महास्वनम् ॥ ३४ ॥

यज्ञोपवीतमार्गेण भिन्ना । मार्गशब्दः प्रकारवचनः । यज्ञोपवीतधारणप्रकारेण भिन्नेत्यर्थः । यज्ञोपवीतमादाय भिन्नेति पाठान्तरं । पूर्वं मूर्धजेषु गृहीतामादाय । यज्ञोपवीतभिन्ना यज्ञोपवीतं यथा भवति तथा भिन्ना । यज्ञोपवीतप्रकारेण भिन्नेत्यर्थः  ३२ – ३४ ॥

 

वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः ।

व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य च ॥ ३५ ॥

व्यादितास्यस्य व्यात्तास्यस्य । तद्दुर्गं व्यूहीकृतराक्षसपरिवेष्टनरूपं ।। ३५ ।।

 

तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः ।

तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः सहसा प्रदुद्रुवुः ॥ ३६ ॥

हृष्टरूपं अयन्तहृष्टं । विषण्णरूपाः अत्यन्तं विषण्णाः ॥ ३६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकाशीतितमः सर्गः ॥ ८१ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकाशीतितमः सर्गः ॥ ८१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.