01 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम्

अयोध्याकाण्डम्

श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतश्रीरघुनन्दनपरब्रह्मणे नमः ।। श्रीमते रामानुजाय नमः।।

श्रावंश्रावं शठारेः शमदमवपुषः फुल्लवक्रारविन्दादालोच्यालोच्य वाचा प्रकृतिमधुरया प्रोच्य विद्वज्जनेभ्यः ।

गोविन्दार्यः सुधीशः कुशिककुलमणिर्गूढगाढाशयाढ्यं सम्यक् साकेतकाण्डं सरसजनमुदे सादरं व्याकरोति ।।

प्रथमे काण्डे “एतस्मिन्नन्तेर विष्णुः” इत्यादिना “यतो वा इमानि ” इत्यादिश्रुतिप्रतिपादितं जगत्कारणत्वम् “अहं वेद्मि महात्मानम् ” इत्यादिना पुरुषसूक्तोक्तमहापुरुषत्वम् “त्वमनादिरनिर्द्देश्यः ” इत्यादिना अचिन्त्यवैभवत्वम् इत्येवं सर्वस्मात्परत्वमुक्तम् “अधिकं मेनिरे विष्णुम् ” इत्यादिना तदितरेषामपरत्वं च । सम्प्रति तस्य हेयप्रत्यनीककल्याणैकतानता प्रतिपाद्यते द्वितीयकाण्डेन । अथवा पूर्वं वक्ष्यमाणधर्मानुष्ठानोपयोगितया रामायणपुरुषाणां महाकुलप्रसूतत्वमहागुरुकृपालब्धधनुर्वेदरहस्य त्वतत्संवादभूतताटकाताटकेयादिनिरासहरधनुर्भङ्गवैष्णवचापपरिग्रहप्रभृतिगुणाः सहधर्मचारिणीयोगश्च सप्रपञ्चं दर्शिताः । अथ तदनुष्ठिताः पितृवचनपरिपालनादिसामान्यधर्माः भगवच्छेषत्वपारतन्त्र्यभागवताभिमाननिष्ठारूपविशेषधर्माश्च प्रतिपाद्यन्ते । पूर्वकाण्डे लक्ष्मीयोगो दर्शितः । अत्र भूमियोगः प्रदर्शित इत्यपि ब्रुवते । पूर्वं परत्वमुक्तम् अत्र सौलभ्यमीत्यप्याहुः । पूर्वं लक्ष्मीविशिष्टं प्राप्यस्वरूपमुक्तम्, प्राप्तृरूपजीवस्वरूपमत्र निरूप्यते । तत्र प्रथममतिरहस्यतयावश्यविज्ञातव्यां लघूपपादनां भागवताभिमाननिष्ठां शत्रुघ्नानुष्ठानमुखेन दर्शयति– गच्छतेति ।

गच्छता मातुलकुलं भरतेन तदानघः ।

शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ।। 2.1.1 ।।

गच्छता वर्तमाननिर्देशेन शत्रुघ्नगमनस्य भरतगमनेनैककालत्वावगमादसिवसनादिवत्तस्य तदेकपारतन्त्र्यं गम्यते । मातुलकुलं मातुलगृहम् । द्वितीयया भरतोद्देशस्यैव शत्रुघ्नोद्देश्यत्वावबोधनाच्छेष्युद्देश्योद्देश्यकत्वरूपं पारतन्त्र्यमुच्यते । भगवत्पारतन्त्र्यरूपं भागवतत्वमाह भरतेनेति । भरत इति राज्यस्य भरणादिति सहस्रानीकनिर्वहणात् । रामे वनं गते तदुसारिणि च लक्ष्मणे राजनि च त्रिदशसदनमुपसेदुषि केवलरामाज्ञया प्राज्यराज्यभारनिर्वाहकरणेनेत्यर्थः । तदा तद्गमनकाल एव । अनेन स्वानुकूलचन्द्रताराबलाद्यनपेक्षणोक्त्या पारतन्त्र्यमेव विशेषितम् । अनघः अस्मिन् प्रकरणे अघशब्देन केवलरामभक्तिरुच्यते, स्वशेषिभूतभरतोद्देश्यताकारेण हि शत्रुघ्नस्य रामभक्तिरुद्देश्या अत एव वक्ष्यति– “नाहं स्वपिमि जागर्मि तमेवार्यं विचिन्तयन्” इति. जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे ” इति च । अनिष्टावहस्य पापशब्दवाच्यत्वात् स्वशेषिभरतोद्देश्यत्वाकारं विना रामभक्तेरनिष्टावहत्वात्तस्याघत्वम् “न सुकृतं न दुष्कृतं सर्वे पाप्मानो ऽतो निवर्त्तन्ते ” इति श्रुतौ सुकृतस्य मुमुक्षोरनिष्टावहत्वेन पाप्मत्वव्यपदेशात् । शत्रुघ्नः शत्रून् लवणासुरादीन्हनिष्यत्ययमिति भाविप्रतिसन्धानेन शत्रुघ्न इति वसिष्ठेन कृतनामधेयः । नित्यशत्रुघ्नः नित्यशत्रवो ज्ञानेन्द्रियाणि , शरीरे नित्यं सन्निधाय विषयान्तरप्रावण्यरूपविपरीतकार्यकारित्वात् तान् हन्तीति नित्यशत्रुघ्नः । इन्द्रियनिग्रहवानित्यर्थः । पुंसां दृष्टिचित्तापहारिण्यपि न मग्नेन्द्रियः, रामविषयभक्तिः स्वाधिकारविरुद्धेति तन्निवर्त्तनमस्य कार्य्यमेव । नीत इत्युक्तं न तु ययाविति, तेनाचिद्वत्पारतन्त्र्यमुक्तम् । प्रीतिपुरस्कृतः किं करोमि ज्येष्ठानुवर्त्तनं कनिष्ठेन कार्यमितिविधिपरतन्त्रो न गतः, अपि तु प्रीतिप्रेरितो ऽगच्छदित्युक्तम्, तेनाचितो व्यावृत्तिरुक्ता । प्रीतिरेव ह्यचेतनापेक्षया चेतनस्य विशेषः । भगवत्पारन्त्र्यं तु चेतनाचेतनसाधारणमेव, यद्यत्यन्तसारग्राही पुरुषः स्यात्तदा शत्रुघ्नवद्भागवतपरतन्त्रतया वर्त्तितव्यमिति व्यञ्जितम् । व्यञ्जनावृत्त्याभिमतार्थप्रदर्शनं ह्युत्तमकाव्यकृत्यम् ।। 2.1.1 ।।

स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।

मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ।। 2.1.2 ।।

रामभक्तो भरतः कथं तं विहाय मातुलकुले न्यवसदित्यपेक्षायां रामाभिमानविषयभूतशत्रुघ्नसहवासादित्याह–स इति । सः भरतः । तत्र मातुलगृहे । अश्वपतिना युधाजिता । सत्कारसत्कृतः जात्यश्वप्रदानादिना पूजितो ऽपि पुत्रस्नेहेन पुत्रविषयस्नेहतुल्यस्नेहेन लालितः । विशिष्टभोजनाच्छादनाभरणप्रदानादिभिरुपलालितो ऽपि सन् भ्रात्रा शत्रुघ्नेन सह न्यवसत् भ्रातृस्नेहेनैव तत्र स्थितः, न तु मातुलोपलालनमात्रादिति भावः । यद्वा सः शत्रुघ्नः भ्रात्रा सह लालित इत्यन्वयः । “सहयुक्ते ऽप्रधाने” इति तृतीया । अश्वपतिः स्वस्त्रीयादपि शत्रुघ्नमतिशयेन लालितवानित्यर्थः । अथवा भ्रात्रा सह न्यवसत् रामेण सह न्यवसत्, सदा रामचिन्तया तेन सह वर्त्तमान इव स्थित इत्यर्थः ।। 2.1.2 ।।

तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।

भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ।। 2.1.3 ।।

तत्रापीति । तत्र सर्वोपलालनभूयिष्ठे मातुलगृहे । निवसन्तावपि कामतः काम्यमानसर्वाभिमतवस्तुभिः । तृतीयार्थे तसिः । तर्प्यमाणौ च सन्तोष्यमाणावपि । वीरौ महोत्साहौ । तौ भ्रातरौ भरतशत्रुघ्नौ । वृद्धं नृपं जीर्णं महीपतिं दशरथं स्मरतां अस्मरताम् ” अनित्यमागमशासनम् ” इत्यडभावः । दशरथो वृद्धो ऽभून्न राज्यभरणे सम्यक् क्षमते अपीदानीं रामं युवराजं कारयेदिति आचिन्तयतामिति भावः ।। 2.1.3 ।।

राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।

उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ।। 2.1.4 ।।

राजापीति । महातेजाः सत्पुत्रलाभकृतनिरवधिकतेजस्कः । राजा दशरथः । महेन्द्रवरूणोपमौ तद्वन्निरपायमैत्रीसम्पन्नौ । प्रोषितौ देशान्तरगतौ । निरवधिकप्रीतिविषयभूतौ उभौ भरतशत्रुघ्नौ सुतौ सस्मार, सर्वसंपत्समृद्धस्यापि मे पुत्रद्वयासन्निधानमेव न्यूनतेत्यस्मरदिति भावः । उभाविति स्मृतिविषये तारतम्याभावोक्तिः ।। 2.1.4 ।।

सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः ।

स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ।। 2.1.5 ।।

रामलक्ष्मणसन्निधाने कथमितरपुत्रस्मरणमित्यत्राह–सर्व इति । तुशब्द उक्तशङ्काव्यावृत्त्यर्थः । चत्वारः चतुर्धावस्थिताः । पुरुषर्षभाः पुरुषोत्तमाः । सर्वे अविशेषेण तस्य दशरथस्य शरीराद्विनिर्वृत्ताः निष्पन्नाः । चत्वारो बाहव इव इष्टाः प्रिया एवासन् । अभूतोपमा । अयोगव्यवच्छेदार्थे एवकारः । लोके कस्यचिच्चतुर्षु बाहुषु सत्सु यथा तस्यैकोपि नाप्रियो भवति, एवं तेषु पुत्रेष्वेकोपि नानिष्टो ऽभूदित्यर्थः । उपमाने स्वशरीरविनिर्वृत्तत्वोक्त्या एतेषु राज्ञः स्वशरीरविनिर्वृत्तत्वाभिमानमात्रमित्युक्तम् ।। 2.1.5 ।।

तेषामपि महातेजा रामो रतिकरः पितुः ।

स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ।। 2.1.6 ।।

एवं चतुर्णां प्रियत्वाविशेषे ऽपि रामे गुणातिरेककृतप्रीतिविशेषो ऽस्तीत्याह–तेषामिति । तेषामिति निर्धारणे षष्ठी । भूतानां प्राणिनां मध्ये स्वयम्भूः ब्रह्मेव । तेषां पुत्राणां मध्ये गुणवत्तरः अतिशयेन गुणवान् । महातेजाः तादृग्गुणप्रकाशकनिरवधिकतेजस्कः रामः पितू रतिकरो बभूव । निरतिशयप्रीतिः रतिः ।। 2.1.6 ।।

स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः ।

अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ।। 2.1.7 ।।

कथमितरापेक्षया गुणवत्तरत्वमित्यपेक्षायां विष्णोः प्रधानावतारत्वादित्याह– स हीति । हीति ” अजायमानो बहुधा विजायते ” इति श्रुतिप्रसिद्धिं द्योतयति । देवैः न ह्यनन्यप्रयोजनैरर्थितः किंतु प्रयोजनान्तरपरैः, न केवलं प्रयोजनान्तरपरैः अपितु “ईश्वरो ऽहमहं भोगी ” इत्येवं दुरभिमानिभिः, मदो ऽपि दीव्यतिधातोरर्थ एव । नरकासुरवधे स्वकार्यनिष्पत्यनन्तरं पारिजातनिमित्तं कृष्णेनैव योद्धुमुपक्रान्तैरित्यर्थः । उदीर्णस्य उद्भटस्य । “उदीर्ण उद्भटः ” इत्याद्यमरः । नैसर्गिकगर्वेण सर्वं जगद्विनाशयत इत्यर्थः । वधस्यार्थत्वे हेतुरयम् । रावणस्य यैर्वरो दत्तस्तानेव निलयान्निष्कासयत इत्यर्थः ।वधार्थिभिः एकस्य संहारेण राज्यमखिलं सुखेन वर्तिष्यत इति प्रपन्नैः । अर्थितः प्रार्थितः, नोपासितः । मानुषे लोके यत्र देवा अपि मनुष्यगन्धमसहमानाश्छर्दनपूर्वकं कुत्सयन्तो योजनादुपरि स्थित्वा हविराददते तेपि यस्य मनुष्यस्थानीयाः सो ऽस्मिन् मानुषे लोके जातः, हन्त किमिदं सौलभ्यमिति भावः । जज्ञे न नृसिंहादिवदाविर्भूतः । स जज्ञे रामो जज्ञे । लोको हि दशमासान् गर्भे ऽवस्थाय जायते, अयं तु “ततश्च द्वादशे मासे ” इत्युक्तरीत्या ततोप्यधिककालं गर्भे स्थित्वा जज्ञे । विष्णुः व्यापकं वस्तु व्याप्यैकदेशस्य मत्पुत्रो ऽयमित्यभिमान्यमभूत् । सनातनः नित्यवस्त्वेवमात्मानमन्यथाचकार ।। 2.1.7 ।।

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।

यथा वरेण देवानामदितिर्वज्रपाणिना ।। 2.1.8 ।।

न केवलं पितुरेवानन्दकरः मातुरपीत्याह–कौसल्येति । अमिततेजसा अपरिमितपराक्रमेण । तेन रामेण पुत्रेण । कौसल्या देवानां वरेण वज्रपाणिना इन्द्रेण अदितिर्यथा अदितिरिव शुशुभे बभौ । तेन सन्तुष्टासीदित्यर्थः ।। 2.1.8 ।।

स हि रूपोपपन्नश्च वीर्य्यवाननसूयकः ।

भूमावनुपमः सूनुर्गुणैर्दशरथोपमः ।। 2.1.9 ।।

गुणवत्तर इत्युक्तं प्रपञ्चयति– स हीत्यादिना । सः रामः रूपोपपन्नः सौन्दर्ययुक्तः, चकारेण रूपौदार्यगुणैः’ इत्युक्तौदार्य्यादिकं समुच्चीयते । वीर्यवान् मृगनाभिगन्धवत् स्वयमविकृत एव परेषां विकारकारी अनसूयकः । गुणेषु दोषाविष्करणमसूया अविद्यमाना असूया यस्यासावनसूयकः । भूमावनुपमः सूनुः भूमावेव तत्तुल्यः पुत्रः । कौसल्यातिरिक्तायाः कस्याश्चिदपि नास्तीत्यर्थः । दिवि तु अदितेर्वज्रपाणिरस्त्येवेति भावः । गुणैराकारेङ्गितचेष्टाभिः दशरथोपमः । दीपादुत्पन्नप्रदीपवत् ।। 2.1.9 ।।

स तु नित्यं प्रशान्तात्मा मृदुपूर्वं प्रभाषते ।

उच्यमानो ऽपि परुषं नोत्तरं प्रतिपद्यते ।। 2.1.10 ।।

अथ दशरथादाधिक्यमाह स इति । तुशब्देन दशरथाद्वैलक्षण्यमुच्यते । सः रामः । परुषं परुषवचनं केनचिदुच्यमानो ऽपि । उत्तरम् उत्तरवचनं प्रतिपद्यते, न वदतीत्यर्थः । अपिशब्देन तद्वक्तृत्वप्रसक्तिरेव नास्तीति गम्यते । उत्तराप्रतिपत्तौ हेतुः नित्यं प्रशान्तात्मेति । अक्रोधनस्वभाव इत्यर्थः । न केवलमुत्तराप्रतिपत्तिः किंतु तं परुषवक्तारं प्रति मृदुपूर्वं सान्त्वपूर्वं च भाषते ।। 2.1.10 ।।

कथञ्चिदुपकारेण कृतेनैकेन तुष्यति ।

न स्मरत्यपकाराणां शतमप्यात्मवत्तया ।। 2.1.11 ।।

अथास्य कृतज्ञत्वामाह– कथञ्चिदिति । कथञ्चित्कृतने “यथा तथा वापि ” इत्युक्तरीत्या कृतेन ।। यद्वा यादृच्छिकप्रासङ्गिकतया कृतेन । यद्वा “साङ्केत्यं पारिहास्यं वा स्तोमं हेलनमेव वा” इत्येवं कृतेन उपकारेण अण्वपि महत्त्वेनाभिमन्यमानस्य भगवतोभिप्रायेणोपकारेणेत्युक्तम् । कृतेन कर्त्तुमीप्सितेन । “आशंसायां भूतवच्च” इति क्तः । एकेन सकृत्कृतेन । तुष्यति सदा प्रीतिं प्राप्नोति । तोषफलस्य कदाचिदपि न क्षय इति भावः । एवमुपकारेण तुष्यन्नपकारेणापि किं कुप्यति? नेत्याह न स्मरतीति । अपकाराणां सम्यक्कृतापराधानाम् । शतमपि असङ्ख्येयमपि “शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्” उत्युक्तेः । न स्मरति न चिन्तयति, कः पुनः कोपस्यावकाश इति भावः । उभयत्र हेतुमाह आत्मवत्तयेति । वशीकृतमनस्कतयेत्यर्थः । यद्वा आत्मवत्तया ज्ञानवत्तया “उदाराः सर्व एवैते । न कश्चिन्नापराध्यति” इत्येवमध्यवसायवत्तयेत्यर्थः ।। 2.1.11 ।।

शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।

कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ।। 2.1.12 ।।

अथास्य गुणवर्द्धकं सत्सङ्गमाह–शीलवृद्धैरिति । शीलं सदाचारः, सज्जनैरिति त्रिष्वप्यनुषज्यते । शीलवृद्धैः सदाचारसम्पन्नैः सज्जनैः कथयन्नास्त । तैस्सह सूक्ष्मतराचारविशेषान् प्रतिपादयन्नास्तेत्यर्थः । ज्ञानवृद्धैः परिपक्वमोक्षविषयिभिः । “मोक्षे धीर्ज्ञानम् ” इत्यमरः । तादृशैः सज्जनैः कथयन्नास्त, तैर्वेदान्तरहस्यमुद्घाटयन्नास्तेत्यर्थः । वयोवृद्धैः सज्जनैः कथयन्नास्त क्रमागतसम्प्रदायविशेषान् कथयन्नास्तेत्यर्थः ।

सज्जनैरिति सामान्योक्त्या ग्रामकुलादितारतम्यं न तेनादृतमित्युच्यते । तृतीयया तेषामप्रधानत्ववगमात्स्वयमेव तेषामर्थविशेषं दर्शयतीति सूचितम् । नित्यमित्यनेन नेदं कादाचित्कमित्युच्यते । विशेषणत्रयान्तचकारेण ज्ञानशीलवयोवृद्धैः शीलज्ञानवृद्धैः ज्ञानवयोवृद्धैः शीलवयोवृद्धैश्चेति समुच्चीयते । नेदं नित्याग्निहोत्रवत् क्वचित्समय इत्याह अस्त्रेति । अस्त्राणां योग्यः अभ्यासः योग्यो गुणनिकाभ्यासः’ इति वैजयन्ती । तस्यान्तरेषु अवकाशेष्वपि । अपिशब्देन समयान्तरे तत्कथनं किं पुनर्न्यायसिद्धमित्युक्तम्,सत्सङ्गतिं विना क्षणमपि न तिष्ठतीत्यर्थः ।। 2.1.12 ।।

बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियम्वदः ।

वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ।। 2.1.13 ।।

परायत्तसकलव्यापारत्वमाह बुद्धिमानिति । बुद्धिमान् प्रशस्तबुद्धिः । कथं सर्वे जनाः सुखं वसेयुरित्येवं सर्वदा लोकसंरक्षणचिन्तापर इत्यर्थः । मधुराभाषी मधुरभाषणशीलः । यद्यद्वक्ति तन्मधुरमेव वदतीत्यर्थः । पूर्वभाषी अतिनीचं प्रत्यपि स्वयमेव पूर्वं भाषमाण इत्यर्थः । प्रियंवदः प्रियवाग्वचनशीलः । “प्रियवशे वदः खच् ” इति ताच्चील्ये खच् । “खित्यनव्ययस्य ” इति ह्रस्वः । “अरुर्द्विषदजन्तस्य–” इति मुमागमः । शत्रुविषयेपि प्रियवचनशीलः । वीर्यवान् आश्रितविरोधिनिरसनक्षमः । पूर्वं वीर्यवानित्यविकृतत्वमुक्तमिति न पुनरुक्तिः । महता स्वेन वीर्येण न विस्मितः आश्रितसकलविरोधिनिरसने कृते ऽपि “नातिस्वस्थमनाययौ ” इत्युक्तरीत्या किं कृतं मयेत्यपर्याप्त एव स्थितः । ” गर्वः स्याद्विस्मयो मदः” इत्यमरः । वर्त्तत इति शेषः ।। 2.1.13 ।।

न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।

अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरञ्जते ।। 2.1.14 ।।

न चेति । स इति शेषः । स रामः अनृतकथो न भवति, कथा प्रबन्धकल्पना अनृता असत्या कथा यस्य सः तथा । कल्पितेतिवृत्तकासत्काव्यालापवर्जित इत्यर्थः । वेत्तीति विद्वान् । विदेः शतुर्वसुः । अनृतकथाभावश्च न तदज्ञानात्, किन्तु तद्वर्ज्यत्वज्ञानादित्यर्थः । वृद्धानां पूर्वोक्तत्रिविधवृद्धानाम् । प्रतिपूजकः प्रत्युद्गम्यपूजकः । ब्राह्मणप्रतिपूजक इति पाठे– बालवृद्धसाधारण्येन ब्राह्मणमातर्पूजापरः । “दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः । पितापुत्रौ स्मृतौ विद्धि ” इत्यापस्तम्बः । प्रजाभिः पण्डितपामराविशेषेण सर्वाभिः प्रजाभिः अनुरक्तः अनुरागविषयीकृतः । तत्र हेतुमाह प्रजाश्चाप्यनुरञ्जते, अनुरञ्जयतीत्यर्थः । अन्तर्भावितण्यन्तो ऽयम् । स्वयं पूर्वं प्रजा रञ्जयित्वा ततस्ताभिरनुरक्तो भवतीत्यर्थः । चापयः सर्वत्रोक्तगुणसमुच्चयार्थाः ।। 2.1.14 ।।

सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।

दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः ।। 2.1.15 ।।

सानुक्रोशेति । सानुक्रोश सदयः “कृपा दयानुकम्पा स्यादनुक्रोशः” इत्यमरः । दया हि नाम परदुःखासहिष्णुत्वम् । जितक्रोधः वशीकृतकोपः । न त्ववशेन क्रोध उत्पद्यत इत्यर्थः । ब्रह्म वेदः तद्विदन्तीति ब्राह्मणाः । “तदधीते तद्वेद “इत्यण् । प्रत्युद्गम्यपूजकः । ब्राह्मणानां प्रतिपूजक इति याजकादित्वात् षष्टीसमासः । दीनानुकम्पी दीनेषु विशेषतो ऽनुकम्पावान् । विशेषो नाम यत्र दीनो दृष्टः तत्रैव स्थित्वा दानमानादिकरणम् ।

धर्मज्ञः सामान्यविशेषधर्म्मज्ञः । प्रग्रहवान् नियमवान् । “अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ” इति वक्ष्यति । शुचिः परस्वानाकांक्षी । ” यो ऽर्थे शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः ” इति मनुस्मरणात् ।। 2.1.15 ।।

कुलोचितमतिः क्षात्रं धर्मं स्वं बहु मन्यते ।

मन्यते परया कीर्त्या महत् स्वर्गफलं ततः ।। 2.1.16 ।।

कुलोचितमतिरिति । कुलोचितमतिः इक्ष्वाकुवंशोचितदयादाक्षिण्यशरणागतसंरक्षणादिधर्मैकप्रवणबुद्धिः । स्वं क्षात्रं धर्मं दुष्टनिग्रहपूर्वकं प्रजापरिपालनरूपम् । बहुमन्यते गौरवेण जानाति । “श्रेयान् स्वधर्मः” इति श्रवणात् । परत्वापादकधर्मेभ्योपि जनित्वार्जितं क्षत्रधर्मं गौरवेण पश्यतीत्यर्थः । बहुमाने हेतुमाह मन्यत इति । ततः क्षत्रधर्मात् परया कीर्त्या महत् स्वर्गफलं भवतीति मन्यते जानाति । स्ववर्णस्वाश्रमोचितधर्मः कीर्तिद्वारा स्वर्गसाधनमिति ज्ञात्वा क्षत्रधर्मं विशिष्यानुतिष्ठतीत्यर्थः ।। 2.1.16 ।।

नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः ।

उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।। 2.1.17 ।।

नेति अश्रेयसि निष्फले कर्मणि । न रतः न सक्तः,कादाचित्कलीलाकर्म न दुष्यतीति भावः । द्यूतादिषु न सक्त इत्यर्थः । तत्र हेतुर्विद्वानिति । न विरूद्धकथारुचिः धर्मविरुद्धग्राम्यालापादिषु रुचिरहितः । उत्तरोत्तरयुक्तौ लौकिकवैदिकविषयोत्तरोत्तरयुक्तिकक्ष्यायां वाचस्पतिर्यथा बृहस्पतिरिव । वक्ता अप्रतिहतवाग्व्यवहारः ।। 2.1.17 ।।

अरोगस्तरुणो वाग्ग्मी वपुष्मान् देशकालवित् ।

लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ।। 2.1.18 ।।

अरोग इति ।। ” युवा स्यात् साधु युवाध्यायकः । आशिष्टो द्रढिष्ठो बलिष्ठः ” इत्यादिश्रुत्यर्थो ऽनेन प्रतिपाद्यते । अरोगः आधिव्याधिरहितः, अनेन आशिष्ठइत्युक्तमशनसामर्थ्यमाशीर्वादविषयत्वं चोक्तम् । तरुणः युवा । वाग्ग्मी प्रशस्तवाक् । अनेन युवाध्यायक इत्युक्तमुक्तम् । वपुष्मान् प्रशस्तशरीरः, अनेन बलिष्ठ इत्युक्तं कायबलमुक्तम् । देशकालवित् अध्ययनदेशकालज्ञः, अनेन साधुशब्दार्थो विवृतः । पुरुषसारज्ञः सकृद्दर्शनमात्रेण पुरुषत्दृदयसर्वस्वज्ञः । “सारो बले स्थिरांशे च” इत्यमरः । लोके एकः अद्वितीयः । साधुरिति विनिर्मितः निश्चितः । “अपकारिषु यः साधुः स साधुरिति कीर्तितः” इत्युक्तसाधुविशेषत्वज्ञापनम् ।। 2.1.18 ।।

स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।

बहिश्चरः इव प्राणो बभूव गुणतः प्रियः ।। 2.1.19 ।।

स इति । श्रेष्ठैः उक्तैरन्यैश्च गुणैर्युक्तः । पार्थिवात्मजः बहिश्चरः प्राण इव प्रजानां गुणतः गुणैः प्रियो बभूव ।। 2.1.19 ।।

सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।

इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ।। 2.1.20 ।।

सम्यगिति । केचिद्विद्यामात्रेण स्नाताः, केचिद्व्रतमात्रेण स्राताः, रामस्तु विद्याव्रताभ्यां स्नातः । “अधीत्य स्नायात् ” इति स्मृत्युक्तरीत्या सम्यग्वेदानधीत्य व्रतानि च कृत्वा कृतसमावर्तन इत्यर्थः । यथावत् तत्त्वतः साङ्गवेदवित् साङ्गवेदार्थज्ञः । अनया पृथगुक्त्या अध्ययनमक्षरराशिग्रहणफलमित्यवगम्यते । इषवः अमन्त्रकाः शराः, अस्त्राणि समन्त्रकाः । सेनाङ्गत्वादेकवद्भावः । इष्वस्त्रविषये पितुर्दशरथात् श्रेष्ठः, दशरथादवराः खल्वितरे धन्विन इति भावः । भरताग्रजः अस्मिन्नर्थे भरतेन निरूपणीयो रामः । ” महेष्वासे महाप्राज्ञे भरते स्वयमागते” इति रामस्य वचनात् ।। 2.1.20 ।।

कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।

वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ।। 2.1.21 ।।

कल्याणेति । अभिजनः मातृपितृवंशः कल्याणः शोभनः अभिजनो येन स तथा । तत्र हेतुः साधुरिति ।

निर्दोष इत्यर्थः । अदीनः क्षोभहेतुषु सत्स्वप्यक्षोभ्यान्तःकरणः । सत्यवाक् अतिकृच्छेपि सत्यवचननिरतः । ऋजुः स्वाराध्यः । अभिविनीतः सुशिक्षितः ।। 2.1.21 ।।

धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।

लौकिके समयाचारे कृतकल्पो विशारदः ।। 2.1.22 ।।

धर्मेति । धर्मकामार्थतत्त्वज्ञः ” न पूर्वाह्णमध्याह्नापराह्णनफलान् कुर्यात् ” इति स्मृत्युक्तरीत्या पूर्वाह्णादिषु कालेषु कर्त्तव्यधर्मार्थकामज्ञ इत्यर्थः । स्मृतिमान् ज्ञातार्थविषये विस्मरणरहितः । प्रतिभानवान् “प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः ” इति प्रोक्तलक्षणप्रतिभानयुक्तः । लौकिके लोकैकप्रमाणके । समयाचारे साङ्केतिकाचारे । “सङ्केतस्तु समयः ” इत्यमरः । कृतकल्पः कृतसंस्थापनः । विशारदः तदाचरणसमर्थः ।। 2.1.22 ।।

निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।

अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ।। 2.1.23 ।।

निभृत इति । निभृतः विनीतः । “वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः” इत्यमरः । संवृताकारः हृदिस्थितकर्त्तव्यार्थव्यञ्जकेङ्गिताकारगोपनचतुरः । संवृतत्वं गूढत्वं, गुप्तमन्त्रः फलपर्यन्तमन्यैरविदितमन्त्र इत्यर्थः । सहायवान् प्रशस्तमन्त्रयुक्तः । अमोघ क्रोधहर्षः फलपर्यवसायिकोपसन्तोषः । त्यागसंयमकालवित् वस्तुत्यागतत्संग्रहणकालवित् ।। 2.1.23 ।।

दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।

निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ।। 2.1.24 ।।

दृढभक्तिरिति । दृढभक्तिः देवगुर्वादिषु निश्चलभक्तिः । स्थिरप्रज्ञः भक्तिजन्याप्रकम्प्यतत्त्वज्ञानः, अतएव नासद्ग्राही नासदर्थग्राही ।असज्जनसंग्रहणरहितो वा । न दुर्वचाः न परुषभाषी । निस्तन्द्रिः आलस्यरहितः, सर्वदा शास्त्रपरिशीलनपर इत्यर्थः । अतएवाप्रमत्तः शास्त्रार्थष्वनवधानरहितः । स्वदोषपरदोषवित् लोके कश्चित् पश्यति परदोषं आत्मदोषं न पश्यति अयं तु न तथा, परदोषवत्स्वदोषं च पश्यत्येव । वक्ष्यति भरतं प्रति ” शिरसा याचतस्तस्य वचनं न कृतं मया ” इति ।। 2.1.24 ।।

शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।

यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ।। 2.1.25 ।।

शास्त्रज्ञ इति । शास्त्रज्ञः साङ्गवेदातिरिक्तविद्यास्थानज्ञः । कृतं कृतान्तं सिद्धान्तं जानातीति कृतज्ञः । अतः कथंचिदुपकारेण कृतेनैकेन तुष्यतीत्यनेन न पुनरुक्तिः । पुरुषाणामन्तरं तारतम्यं तत्र कोविदः पण्डितः । पुरुषदर्शनमात्रेणायं साधुरयमसाधुरिति तत्तत्स्वरूपविशेषज्ञ इत्यर्थः । यः प्रसिद्धः । प्रग्रहः मित्रादिस्वीकारः, अनुग्रहः स्वीकृतपरिपालनम् । तयोः यथान्यायं यथाशास्त्रं विचक्षणः समर्थः, शास्त्रमर्यादामनतिक्रम्य मित्रस्वीकारादिकृदित्यर्थः । “सुप्सुपा ” इति समासः ।। 2.1.25 ।।

सत्सङ्ग्रहप्रग्रहणे स्थानविन्निग्रहस्य च ।

आयकर्मण्युपायज्ञः सन्दृष्टव्ययकर्मवित् ।। 2.1.26 ।।

सदिति । सतां संग्रहे स्वीकारे प्रग्रहणे परिपालने च, विचक्षण इति शेषः । निग्रहस्य असन्निग्रहस्य च स्थानवित् अवकाशवित् । ” अवकाशे स्थितौ स्थानम् ” इत्यमरः । आयकर्मणि न्यायप्राप्तधनार्ज्जनकर्मणि । उपायज्ञः पुष्पेभ्यो मधु मधुकर इव अपीडनेन प्रजाभ्यो धनमादातुं चतुर इत्यर्थः । संदृष्टव्ययकर्मवित् “कश्चिदायस्य चार्द्धेन चतुर्भागेन वा पुनः । पादभागैस्त्रिभिर्वापि व्ययः संचोद्यते बुधैः ।।” इत्यादिशास्त्रावगतव्ययमर्मज्ञः।। 2.1.26 ।।

श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।

अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ।। 2.1.27 ।।

श्रैष्ठ्यमिति । शास्त्रसमूहेषु वेदवेदाङ्गेषु श्रैष्ठ्यं महातात्पर्यज्ञत्वं प्राप्तः । व्यामिश्रकेषु संस्कृतभाषात्मककाव्यनाटकालङ्कारादिषु च श्रैष्ठ्यं प्राप्त इत्यनुषङ्गः । अर्थधर्मौ संगृह्य सुखतन्त्रः सुखपरतन्त्रः । अर्थधर्मसंग्रहणपूर्वकमेव सुखसेवी, न तु केवलकामपरतन्त्र इत्यर्थः । न चालसः अर्थधर्मसंग्रहे निरालस्यः ।। 2.1.27 ।।

वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ।

आरोहे विनये चैव युक्तो वारणवाजिनाम् ।। 2.1.28 ।।

वैहारिकाणामिति । वैहारिकाणां विहारप्रयोजनानां “तदस्य प्रयोजनम् ” इति ठक् । शिल्पानां गीतवादित्राणां चित्रकर्मादीनां च विज्ञाता विशेषज्ञः । अर्थविभागवित् “धर्माय यशसे ऽर्थाय आत्मने स्वजनाय च । पञ्चधा विभजन् वित्तमिहामुत्र च शोभते ।।” इत्युक्त विभागवित्। वारणवाजिनां गजनामश्वानां च। आरोहे आरोहणे, विनये आरुह्य शिक्षणे च युक्तः समर्थः।। 2.1.28 ।।

धनुर्वेदविदां श्रेष्ठो लोके ऽतिरथसम्मतः ।

अभियाता प्रहर्त्ता च सेनानयविशारदः ।

अप्रधृष्यश्च सङ्ग्रामे क्रुद्धैरपि सुरासुरैः ।। 2.1.29 ।।

धनुरित्यर्धाधिकः । धनुरादिस्वरूपप्रतिपादको वेदो धनुर्वेदः, उपवेदत्वाद्धनुर्वेदस्य वेदत्वम् तद्विदां मध्ये श्रेष्ठः, समर्मधनुर्वेदविदित्यर्थः । लोके सर्वत्र अतिरथानां अप्रतिहतरथगतीनां सम्मतः पूजितः । ” मतिबुद्धि–” इत्यादिना क्तः । “क्तेन च पूजायाम् ” इति समासप्रतिषेधाभावः आर्षः । अभियाता शत्रुसमागमानन्तरं न प्रहर्त्तुमिच्छति किंतु स्वयमेव यत्र शत्रवस्तत्र गच्छति, तत्रापि न दुर्गप्रदेशावलम्बनेन याति किन्त्वभियाता अभिमुखं याता । प्रहर्त्ता च अभिगम्य न योधैर्योधयति किन्तु स्वयमेव नासीरे स्थित्वा प्रथमं प्रहरति । सेनानयविशारदः स्वयं प्रहरन्नपि न स्वसेनां छेदयति किन्तु परदुरवगाह चक्रव्यूहादिविभागेन सेनाप्रापणसमर्थः । अप्रधृष्यश्च प्रधर्षयितुमशक्यः, सर्वथा विजयीत्यर्थः । संग्रामे प्रणत्या तु जेतुं शक्य इत्यर्थः । न केवलं मनुष्यैः, सुरासुरैः परस्परविरोधं विहाय मिलितैरपि न चोपशान्तैः क्रुद्धैः क्रोधपरवशैः ।। 2.1.29 ।।

अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।

न चावमन्ता भूतानां न च कालवशानुगः ।। 2.1.30 ।।

एवं कल्याणगुणपरिपूर्णत्वमुक्तम् । अथ हेयप्रत्यनीकत्वमाह—- अनसूय इति । अनसूय असूयारहितः । जितक्रोधः क्रोधपारवश्यरहितः । न दृप्तः न गर्विष्ठः । न च मत्सरी परसम्पद्विषये द्वेषरहितः ” मत्सरो ऽन्यशुभद्वेषे ” इत्यमरः । न च कालवशानुगः सत्त्वरजस्तमःप्रधानकालानुगुणसत्त्वरजस्तमोगुणो न भवति, केवलसत्त्वमूर्तिरित्यर्थः ।। 2.1.30 ।।

एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।

सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः ।

बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।। 2.1.31 ।।

उक्तगुणोपसंहारपूर्वकं गुणान्तराण्याह– एवमिति । एवम् उक्तप्रकारेण । पार्थिवात्मजः रामः । प्रजानां मध्ये श्रेष्ठैर्लोकोत्तरैर्गुणैर्युक्तः । त्रिषु लोकेषु सम्मतः पूजितः । क्षमागुणैः क्षमारूपगुणैः । बहुवचनं प्रकारभेदाभिप्रायेण । वसुधायाः भूमेस्तुल्य इति वक्ष्यमाणमनुषज्यते ।। 2.1.31 ।।

तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः ।

गुणैर्विरुरुचे रामो दीप्तः सूय इवांशुभिः ।। 2.1.32 ।।

उपसंहरति– तथेति । तथा पूर्वोक्तरीत्या । सर्वप्रजाकान्तैः स्त्रीबालयुववृद्धानां प्रियैः । पितुः प्रीतिसञ्जननैः, दृष्टान्तार्थमिदम् । पितुरिव सर्वेषां प्रियैरित्यर्थः । एवंभूतैर्गुणैः रामः स्वतः सुन्दरः स्वतो दीप्तः सूर्यों ऽशुभिरिव विरुरुचे बभौ ।। 2.1.32 ।।

तमेवं व्रतसम्पन्नमप्रधृष्यपराक्रमम् ।

लोकपालोपमं नाथमकामयत मेदिनी ।। 2.1.33 ।।

एवं रामगुणान् प्रदर्श्य तत्कृतं भूम्युपलक्षितकललोकप्रावण्यं दर्शयति– तमेवमिति । एवङ्गुणसम्पन्नत्ववत्, व्रतसम्पन्नं आश्रितसंरक्षणरूपव्रतसंपन्नम् । अप्रधृष्यपराक्रमं अकुण्ठपराक्रमम् । सर्वे लोकपाला उपमा यस्य तं रामं मेदिनी नाथं अकामयत भूमेर्नाथत्वोचितो ऽभूदित्यर्थः । अथवा एवं बालकाण्डोक्तरीत्या व्रतसम्पन्नं रामस्तु सीतया सार्द्धम् ” इत्युक्तरीत्या क्रीडारससम्पन्नम् । अप्रधृष्यपराक्रमं विरोधिवर्गं निवर्त्य सात्म्यभोगप्रदम् । लोकान् पालयतीति लोकपालः, समस्तोपभोगसाधनसम्पन्न इत्यर्थः । उप समीपे मा लक्ष्मीः सीतारूपा यस्य सः उपमः । लोकपालश्चासावुपमश्चेति समासः । तं लक्ष्म्या भोगाननुभवन्तं रामं मेदिन्यपि नाथकमकामयत, स्वयंवरेण कण्ठे मालिकां दातुमैच्छदित्यर्थः ।। 2.1.33 ।।

एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ।

दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः ।। 2.1.34 ।।

न केवलं लोकस्तं नाथमकामयत राजापीत्याह–एतैरिति । एतैः पूर्वोक्तैः । बहुभिः असङ्ख्येयैः अनुपमैः लोके कुत्राप्येतादृशगुणादर्शनादसदृशैः गुणैः युक्तं सुतं दृष्ट्वा राजा राज्यमभरणश्रान्तः । परंतपः शत्रुसंहारव्यग्रः दशरथः । चिन्तां मनोरथं चक्रे ।। 2.1.34 ।।

अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ।

प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।। 2.1.35 ।।

तामेव चिन्तां स्पष्टयति अथेत्यादिना स्वर्गमवाप्नुयामित्यन्तेन अथेति । अथ रामगुणदर्शनाननम्तरम् । चिरजीविनः वृद्धस्य, वयोवृद्धस्येति ज्ञानवृद्धव्यावृत्तिः । वृद्धत्वात् प्रीतिरित्युच्यते । एवम्– एवं प्रकारेणेत्यर्थः । मयि जीवति रामः कथं राजा स्यादित्येषा प्रीतिर्बभूव । अत्र कथमित्युक्तिः कैकेयीवरदानकृतविघ्नशङ्काप्रतिसन्धानेन ।। 2.1.35 ।।

एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ।

कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।। 2.1.36 ।।

प्रीतेरौत्कट्यमाह– एषेति । अत्रान्ते इतिकरणं द्रष्टव्यम् । द्रक्ष्यामि इत्येषा परा निरतिशया प्रीतिः । अस्य दशरथस्य । हृदि संपरिवर्त्तते सम्यक् अविच्छिन्नमनुवर्त्तते ।। 2.1.36 ।।

वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ।

मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ।। 2.1.37 ।।

अथ रामस्य राजत्वयोग्यतानुसन्धानं दशरथस्य दर्शयति श्लोकत्रयेण– वृद्धिकाम इति । वृद्धिकाम इत्यनेनापूर्वैर्श्वर्यप्रदत्वमुक्तम् । सर्वभूतान्यनुकम्पयतीति सर्वभूतानुकम्पनः । कर्तरि ल्युट् । अनेन भ्रष्टैश्वर्यसाधकत्वमुक्तम् । ममात्मज इति शेषः । दाने सन्तापहारित्वे च दृष्टान्तमाह वृष्टिमान् पर्जन्य इवेति । लोके विषये मत्तः प्रियतरः अतिशयेन प्रीतिमान् । प्रीणातीति प्रियः । पचाद्यच् ।। 2.1.37 ।।

यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ।

महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।। 2.1.38 ।।

पूर्वं प्रियतरत्वमुक्तम्, अत्र तद्धेतुगुणवत्तरत्वमुच्यते– यमशक्रसम इति । प्रत्येकं साम्यानर्हत्वाद्यमशक्रेत्युक्तम् ।। 2.1.38 ।।

महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ।

अनेन वयसा दृष्ट्वा यथास्वर्गमवाप्नुयाम् ।। 2.1.39 ।।

महीमिति । यथास्वर्गं स्वसदृशं स्वसुकृतानुरूपं स्वर्गमित्यर्थः । यद्वा यथास्वर्गं यथाभूतस्वर्गं यस्त्वया सह स स्वर्गः ‘ इत्युक्तरामसौन्दर्यानुभवस्वर्गमित्यर्थः ।। 2.1.39 ।।

इत्येतैर्विविदैस्तैस्तैरन्यपार्थिवदुर्लभैः ।

शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः ।। 2.1.40 ।।

तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ।

निश्चित्य सचिवैः सार्द्धं युवराजममन्यत ।। 2.1.41 ।।

इतीति श्लोकद्वयमेकान्वयम् । इति पूर्वक्तरीत्या । विविधैस्तैस्तैस्तत्तत्कार्यभेदेन प्रसिद्धैः । अन्यपार्थिवदुर्लभैः सामान्यराजदुर्लभैः । शिष्टैः उक्तव्यतिकरिक्तसौशील्यादिभिः अपरिमेयैः असङ्ख्येयैः । कतिपयगुणाः प्रदर्शिताः शिष्टास्त्वपरिमेया इति भावः । लोके लोकोत्तरैर्लोके कुत्राप्येवं लोकोत्तरगुणा न सन्तीत्यर्थः । समुदितैः स्वाभाविकैः शुभैः कल्याणतमैर्गुणैर्युक्तं तं रामं समीक्ष्य महाराजो दशरथः । सचिवैः सार्द्धं निश्चित्य युवराजममन्यत, अयं युवराजो भवेदिति निश्चितवानित्यर्थः ।। 2.1.40 ।। 2.1.41 ।।

दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ।

सञ्चचक्षे च मेधावी शरीरे चात्मनो जराम् ।। 2.1.42 ।।

अथ सद्यो रामाभिषेककर्त्तव्यताहेतुं स्वविपत्तिसूचकं दुर्निमित्तमात्मनो जरां चालोचितवानित्याह– दिवीति । दिव्यन्तरिक्षे भूमो च यान्युत्पातानि तज्जं भयमित्यर्थः । तानि चोक्तानि ज्योतिःशास्त्रे–“स्वर्भानुकेतुनक्षत्रग्रहतारार्कचन्द्रजम् । दिवि चोत्पद्यते यच्च तद्दिव्यमिति कीर्तितम् । वाय्वभ्रसन्ध्यादिग्दाहपरिवेषतमांसि च । खपुरं चेन्द्रचापं च तद्विद्यादन्तरिक्षजम् । भूमावुत्पद्यते । यच्च स्थावरं वाथजङ्गमम् । तदैकदेशिकं भौममुत्पातं परिचक्षते ।” इति । भयावहानि घोराणि, दिव्याद्युत्पातानीति फलितार्थः । मेधावी सूक्ष्मदर्शी,राजा संचचक्षे दृष्टवान् सचिवायोक्तवानिति वा, आत्मनः शरीरे जरां च संचचक्षे । ख्याञभाव आर्षः ।। 2.1.42 ।।

पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ।

लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।। 2.1.43 ।।

एवं रामाभिषेके हेतुद्वयमुक्तम्, सर्वलोकप्रियत्वं च हेतुमाह– पूर्णचन्द्राननस्येति । अथ उत्पातदर्शनानन्तरम् । पूर्णचन्द्राननस्य तद्वत्सर्वसन्तापहरस्य । महात्मनः महामतेः रामस्य । लोके विषये संप्रियत्वं कीदृशम् ? आत्मनः स्वस्य शोकापनुदं उत्पातादिभयनिवर्तकं सम्यक् प्रियत्वं बुबुधे अनुसन्दधावित्यर्थः ।। 2.1.43 ।।

आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ।

प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान्नृपः ।। 2.1.44 ।।

एवमनुसन्धानप्रयोजनमाह– आत्मन इति । आत्मनः प्रजानां च श्रेयसे हितार्थाय प्रियेण च प्रियाय च । चतुर्थ्यर्थे तृतीया । धर्मात्मा धर्मशीलः । धर्मेण प्राणिसंरक्षकः नृपः प्राप्तकालेनोपलक्षितः सन् । भक्त्या प्रीत्या । त्वरितवान् प्राप्तकालत्वं स्वस्य वृद्धत्वं रामयौवनं वसन्तकालो वा ।। 2.1.44 ।।

नानानगरवास्तव्यान् पृथग्जानपदानपि ।

समानिनाय मेदन्याः प्रधानान् पृथिवीपतीन् ।। 2.1.45 ।।

नानेति । नानानगरेषु वसन्तीति नानागरवास्तव्याः तान् “वसेस्तव्यत्कर्तरि णिच्च ” इति कर्त्तरि तव्यत्प्रत्ययः । पृथग्जानपदान् जनपदान्तरस्थान् मेदिन्याः भुवः । प्रधानान् न केवलानवान्तरनृपतीनित्यर्थः । पृथक् समानिनायेति वा ।। 2.1.45 ।।

न तु केकयराजानं जनकं वा नराधिपः ।

त्वरया चानयामास पश्चातौ श्रोष्यतः प्रियम् ।। 2.1.46 ।।

नेति । श्रोष्यत इत्यनन्तरमितिकरणं द्रष्टव्यम् । अनानयने हेतुमाह त्वरयेति । दूरवर्त्तित्वादिति भावः । केकयराजानमित्यत्र समासान्तविधेरनित्यत्वाट्टजभावः ।। 2.1.46 ।।

तान् वेश्म नानाभरणैर्यथार्हं प्रतिपूजितान् ।

ददर्शालङ्कृतो राजा प्रजापतिरिव प्रजाः ।। 2.1.47 ।।

तान् वेश्मनानाभरणैरिति । प्रथमं वेश्मनानाभरणैः प्रतिपूज्य पश्चात्तान् ददर्शेत्यर्थः ।। 2.1.47 ।।

अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ।

ततः प्रविविशुः शेषा राजानो लोकसम्मताः ।। 2.1.48 ।।

दर्शनप्रकारमेवाह अथेति । प्रविवशुः, सभामिति शेषः । शेषाः केकयराजजनकभिन्नाः ।। 2.1.48 ।।

अथ राजवितीर्णेषु विविधेष्वासनेषु च ।

राजानमेवाभिमुखा निषेदुर्नियता नृपाः ।। 2.1.49 ।।

अथेति । राजवितीर्णेषु राजदत्तेषु । नियताः नियतदेशाधिपत्याः, अन्तरङ्गा वा पादाप्रसारणादिनियमयुक्ता वा ।। 2.1.49 ।।

स लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः ।

उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः ।। 2.1.50 ।।

इत्यार्षे. श्रीमदयोध्याकाण्डे प्रथमः सर्गः ।। 1 ।।

स इति । लब्धमानैः प्राप्तबहुमानैः । पुरालयैः नानानगरवासिभिः । उपोपविष्टैः राजवचनश्रवणादरेण मन्दंमन्दं समीपं प्राप्तैः नृपैः मानवैश्च वृतो नृपतिः । भगवान् महात्म्यवान् । सहस्रचक्षुः इन्द्र इव बभौ ।। 2.1.50 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने प्रथमः सर्गः ।। 1 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.