89 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितम: सर्ग:

व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: ।

भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।। 2.89.1 ।।

व्युष्येति । व्युष्य उषित्वा । रात्रिं रात्रौ । तत्रैव यत्र रामो ऽशयिष्ट तत्रैव । काल्यं प्रत्यूष: । “प्रत्यूषो ऽहर्मुखं काल्यम्” इत्यमर: । तस्मिन्नित्यर्थ: ।। 2.89.1 ।।

शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।

शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।। 2.89.2 ।।

शत्रुघ्नेति । शत्रुघ्नं भद्रं त इति सान्त्वोक्ति: । वाहिनीं गङ्गाम् । अस्मानित्यर्थसिद्धम् ।। 2.89.2 ।।

जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् ।

इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: ।। 2.89.3 ।।

जागर्मीति । नाहं स्वपिमि जागर्मीति भ्रात्रा प्रचोदित: शत्रुघ्नोपि तमेवार्यं यस्त्वया चिन्त्यते तमेवार्यं विचिन्तयन् सन् अहमपि जागर्मि न स्वपिमि इत्येवमब्रवीत् । तथैवेति पाठे–यथा त्वं तथैवाहमार्यं विचिन्तयन्नित्यर्थ: ।

चरमपर्वनिष्ठस्य प्रथमपर्वाभिनिवेशस्तत्प्रतीत्यर्थतयेति व्यञ्जितम् । ‘तदवस्थं तु भरतुं शत्रुघ्नो ऽनन्तरस्थित:’ इति हि पूर्वमप्युक्तम् ।। 2.89.3 ।।

इति संवदतोरेवमन्योन्यं नरसिंहयो: ।

आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् ।। 2.89.4 ।।

इतीति । संवदतो: सतो: काले गमनोचितकाले ।। 2.89.4 ।।

कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् ।

कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ।। 2.89.5 ।।

कच्चिदिति । शर्वरीं तावत् शर्वर्यां साकल्येन । “यावत्तावच्च साकल्ये” इत्यमर: । सहसैन्यस्य ते सेनासहितस्य तव । सर्वमुपकरणम् अनामयं निरुपद्रवम् ।। 2.89.5 ।।

गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् ।

रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ।। 2.89.6 ।।

गुहस्येति । रामस्यानुवश: रामायत्त: ।। 2.89.6 ।।

सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् ।

गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न: ।। 2.89.7 ।।

सुखेति । सुखा सुखावहा, जातेति शेष: । राजन्निति रामभक्ततया स्तौति । ते त्वया ।। 2.89.7 ।।

ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् ।

प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ।। 2.89.8 ।।

तत इति । प्रतिप्रविश्य पुन: प्रविश्य ।। 2.89.8 ।।

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च व: सदा ।

नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम् ।। 2.89.9 ।।

उत्तिष्ठतेति । प्रबुध्यध्वम् उत्तिष्ठतेति क्रम: । तारयिष्यामेत्यत्र विसर्गलोप आर्ष: । तारयिष्यामीति च पाठ: ।। 2.89.9 ।।

ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् ।

पञ्च नावां शतान्याशु समानिन्यु: समन्तत: ।। 2.89.10 ।।

नावां पञ्चशतानीत्यन्वय: । समन्तत: सर्वावतारेभ्य: ।। 2.89.10 ।।

अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: ।

शोभमाना: पताकाभिर्युक्तवाता: सुसंहता: ।। 2.89.11 ।।

अन्या इति । अन्या: क्षुद्राभ्य: पञ्चशतनौभ्य: अन्या: स्वस्तिकविज्ञेया: ‘स्वस्तिक: सर्वतो भद्र:’ इत्युक्तस्वस्तिकाख्यरचनाविशेषविशिष्टतया निर्मितत्वात् स्वस्तिका इति विज्ञेया: । ताश्च नौद्वयसङ्घटनेन सम्पद्यन्ते । चतुर्षु कोणेषु महाघण्टाधरा: । वरा: राजार्हतया श्रेष्ठा: । शोभमाना: कनकरूषिततया शोभमाना: । युक्तवाता: फलककुड्यकरणेन मध्येमध्ये गवाक्षनिर्माणेन च महावातनिवारणादुचितवाता: । सुसंहताः राजारोहणस्थानत्वेनायसकीलादिभिर्दृढसन्धिबन्धा: । अत्रापि नाव आनित्युरित्यनुकृष्यते ।। 2.89.11 ।।

तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।

सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ।

तामारुरोह भरत: शत्रुघ्नश्च महाबल: ।। 2.89.12 ।।

तत इति । तत: तासु स्वस्तिकविज्ञेयादिषु मध्ये पाण्डुकम्बलेन संवताम् आच्छन्नतलप्रदेशाम् । सनन्दिघोषां हर्षजनककिङ्किण्यादिघोषयुक्ताम् । कल्याणीं शोभनाम् ।। 2.89.12 ।।

कौसल्या च सुमित्रा च याश्चान्या राजयोषित: ।

पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।

अनन्तरं राजदारास्तथैव शकटापणा: ।। 2.89.13 ।।

भरतशत्रुघ्नव्यतिरिक्तानामन्यासु नौष्वारोहणक्रममाह–कौसल्येत्यादिना । राजयोषित: आगता इति शेष: । तत्पूर्वं तासां पूर्वं पुरोहितो गुरवो ब्राह्मणाश्च ये आगतास्ते आरुरुहु: । अनन्तरं राजदारा: कौसल्यादय: आरुरुहु: ।

तथैव शकटापणा: शकटाश्चापणस्थपदार्थाश्चारुरुहु: । एतदारोहणं कर्त्तृद्वारा ।। 2.89.13 ।।

आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।

भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ।। 2.89.14 ।।

आवासं सेनानिवेशम् । आदीपयताम् अग्निना ज्वलयताम् । राजभटा हि निर्गमनकाले श्रीसमागमार्थमावासं दहन्तीति प्रसिद्धि: । तीर्थम् अवतरणप्रदेशम् । अवगाहतां नावारोहणार्थमहमहमिकया आगच्छतामित्यर्थ: । स्नानं कुर्वतामिति वा । भाण्डानि उपकरणानि । आददानानां मदीयमिदं मदीयमिदमिति त्वरया स्वीकुर्वतां जनानाम् । घोषस्त्रिदिवमस्पृशत् महान् घोषो जात इत्यर्थ: ।। 2.89.14 ।।

पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: ।

वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा: ।। 2.89.15 ।।

पताकिन्य इति । पताकिन्य: वाय्वाकर्षणाय कृतपताका: स्वयं संपेतु: आशुगत्वेन दाशाधिष्ठानमात्रेणानायासेन जग्मुरित्यर्थ: ।। 2.89.15 ।।

नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् ।

काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ।। 2.89.16 ।।

सम्प्रति ता नाव: कीदृग्विधा इत्यपेक्षायामाह–नारीणामित्यादि । नारीणामभिपूर्णा: नारीभिरभिपूर्णा: । वाजिनामभिपूर्णा: आरोहणार्हवाजिभिरभिपूर्णा: । दघ्न: पूर्ण इति महाभाष्यकारवचनप्रामाण्यात् पूर्ण शब्दयोगे “पूरणगुण–” इत्यादिना षष्ठी तृतीयार्थे षष्ठी वा । यानयुग्यं यानानि रथशकटादीनि युग्यानि अश्वतरबलीवर्दादीनि । “सर्वो द्वन्द्वो विभाषयैकवद्भवति” इत्येकवद्भाव: । महाधनं बहुमूल्यम् । “बहुमूल्यं महाधनम्” इत्यमर: ।। 2.89.16 ।।

ता: स्म गत्वा परं तीरमवरोप्य च तं जनम् ।

निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि: ।। 2.89.17 ।।

ता इति । काण्डचित्राणि काण्डे वारिणि चित्राणि चित्र गमनानि क्रियन्ते अक्रियन्त । “काण्डो ऽस्त्री दण्डबाणार्ववर्गावसरवारिषु” इत्यमर: । दाशबन्धुभि: दाशाभासै: दाशस्य गुहस्य बन्धुभिरिति वा । भाराभावकृतलाघवातिशयेन निवर्तनकालिकदाशलीलोच्यते ।। 2.89.17 ।।

सवैजयन्तास्तु गजा गजारोहप्रचोदिता: ।

तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता: ।। 2.89.18 ।।

सवैजयन्ता इति । सवैजयन्ता: सपताका: सगृहा वा । राजानो हि गजोपरि गृहाणि निर्माय गच्छन्ति । तरन्त: प्लवन्त: “तृ़ प्लवनतरणयो:” । सध्वजा: सगमना: “ध्वज गतौ” जङ्गमपर्वता इव प्रकाशन्ते इत्यर्थ: ।। 2.89.18 ।।

नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे ।

अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि: ।। 2.89.19 ।।

नाव इति । नाव: क्षुद्रनाव: प्लवै: तृणकाष्ठनिर्मितै: कुम्भघटै: कुम्भरूपघटै: सूक्ष्मवदना घटा: कुम्भा: ते हि तरणसाधनानि न घटमात्रम् । बाहुभि: केवल बाहुभि: ।। 2.89.19 ।।

सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् ।

मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ।। 2.89.20 ।।

सेति । पुण्या गङ्गास्रानादिना पूता । ध्वजिनी सेना स्वयं नतु परप्रेरणेन । मैत्रे मुहूर्ते दिवसस्य पञ्चदशभागेषु घटिकाद्वयात्मके तृतीये मुहूर्ते “द्वे तु नाड्यो मुहूर्तो ऽस्त्री” इति वैजयन्ती । मुहूर्तसंख्योक्ता बृहस्पतिना–‘रौद्र: सार्पस्तथा मैत्र: पैत्रो वासव एव च । आप्यो वैश्वस्तथा ब्राह्मप्राजेशैन्द्रास्तथैव च । ऐन्द्राग्नो नैऋतश्चैव वारुणार्यमणौ भगी । एते ऽह्नि क्रमशो ज्ञेया मुहूर्ता दशपञ्च च’ इति । (पाठभेद: । तस्य मैत्रनामत्वं विन्ध्यमाधवीये प्रोक्तं यथा–“आर्द्रोरगमित्रमघावसुजलविश्वाभिजिद्विरिञ्चेन्द्रा: । ऐन्द्राग्नमूलवरुणार्यमभगयुक्ता दिवामुहूर्ता: स्यु: ।। ” इति । मैत्रे मुहूर्त्ते तारिता सती प्रयागवनं ययावित्यन्वय: । घटिकाषट्क एव गङ्गातरणमिति भाव: । यद्वा मैत्रे प्रयागवनं ययावित्यन्वय: । तत्रातिथ्येन निरवधिकभोगलाभात् मुहूर्त्तविशेषोक्ति: ) ।। 2.89.20 ।।

आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।

द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे ।। 2.89.21 ।।

आश्वासयित्वेति । आश्वासयित्वा सान्त्वयित्वा । यथोपजोषं यथासुखम् । “तूष्णीमर्थे सुखे जोषम्” इति वैजयन्ती । ऋषिप्रवर्यम् ऋषिश्रेष्ठम् (पाठभेद: । आश्वासयित्वेति । महात्मा महामति: । स्वयं खिन्नोपि अखिन्न इव पराश्वासनपर: भरत: राज्यभरणदक्ष: ‘भरत इति राज्यस्य भरणात्’ इति सहस्रानीकवचनात् । चमूं महाजनम् । अविशेषेण आश्वासयित्वा महानायासो वो जात इति प्रियोक्तिभि: सान्त्वयित्वा यथोपजोषं यथासुखं निवेशयित्वा यत्र प्रदेशे तेषां सुखं भवति तत्र प्रदेशे तान्निवेशयित्वा । प्रवर्षं प्रकृष्टवर्षम् । बहुवयस्कमिति यावत् । “भरद्वाजो ह त्रिभिरायुर्भिर्ब्रह्मचर्यमुवास तं ह जीर्णिं स्थविरं शयानम्” इति श्रुते: । एतेन वयोवृद्धत्वमुक्तम् । ज्ञानवृद्धत्वमाह ऋषिमिति । “ऋष दर्शने” इति धातु: । भरद्वाजं “बृहतो भरद्वाज:” इति श्रुतिप्रसिद्धम्) द्रष्टुं दर्शनपूर्वकमभिवन्दिन्तुम् । तादृशस्य ऋषेर्विनीतवेषदर्शनीयत्वेन ऋत्विग्भिर्वसिष्ठादिभि: वृत: सन् प्रतस्थे पद्भ्यामेव जगाम ।। 2.89.21 ।।

स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य ।

ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ।। 2.89.22 ।।

स ब्राह्मणस्येति । ब्राह्मणस्य ब्रह्म वेद: तदधीते ब्राह्मण: । “तदधीते तद्वेद” इत्यण्प्रत्यय: । अधीतबहुवेदस्येत्यर्थ: । “भरद्वाजो ह त्रिभिरायुर्भिर्ब्रह्मचर्यमुवास” इत्यादिना काठके तथाभिधानात् । महात्मनो महाज्ञानस्य । देवपुरोहितस्य बृहस्पतिपुत्रत्वेन देवपुरोहितत्वम् । “आत्मा वै पुत्त्रनामासि” इति न्यायात् । भरद्वाजो ममताख्यायामुचथ्यभार्यायां बृहस्पतेर्ज्जात इति भागवते प्रसिद्धम् । आश्रममभ्युपेत्य आश्रममुद्दिश्य गत्वा । प्रथम तस्य महद्वनं ददर्श । (पाठभेद: । स इति । ब्राह्मणस्य ब्रह्म परमात्मानं वेत्तीति ब्राह्मण: । “तदधीते तद्वेद” इत्यण्प्रत्यय: । उत्तरसर्गरीत्या समाधिबलेन समस्तवस्त्वाह्वानक्षमस्येत्यर्थ: । यद्वा “ब्रह्मबृहस्पति:” इति श्रुत्या ब्रह्मणो बृहस्पतेरपत्यं ब्राह्मण: तस्य महात्मन: महास्वभावस्य, अचिन्त्यशक्तेरित्यर्थ: । देवपुरोहितस्य देवपुरोहितपुत्रत्वात् ‘आत्मा वै पुत्रनामासि’ इतिश्रुते:) विप्रवरस्य निरवधिकवेदाध्ययनसम्पन्नस्य । “जन्मना जायते शूद्र: कर्मणा जायते द्विज: । वेदाभ्यासेन विप्रत्वं ब्रह्म जानाति ब्राह्मण: ।” इत्यादि स्मृते: । श्रुतिश्चास्य निरवधिकवेदाध्ययनसम्पत्तिं दर्शयति “भरद्वाज यत्ते चतुर्थमायुर्दद्यां किमनेन कुर्या इति ब्रह्मचर्यमेवैनेन चरेयमिति होवाच” इत्यादिना । आश्रममभ्युपेत्य प्राप्य रम्योटजवृक्षषण्डं रमणीयपर्णशालाप्रान्तवर्तिवृक्षसमूहयुक्तम् । रम्यं स्वत एव मनोज्ञप्रदेशम् । महत् स्वसेनानिवेशक्षमं वनं ददर्श ।। 2.89.22 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितम: सर्ग: ।। 89 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोननवतितम: सर्ग: ।। 89 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.