26 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षड्विश: सर्ग:

अभिवाद्य च कौसल्यां राम: संप्रस्थितो वनम् ।

कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थित: ।। 2.26.1 ।।

विराजयन् राजसुतो राजमार्गं नरैर्वृतम् ।

हृदयान्याममन्थेव जनस्य गुणवत्तया ।। 2.26.2 ।।

एवं मातरमनुमान्य सीतामनुमानयितुं निर्गच्छति–अभिवाद्येत्यादि श्लोकद्वयमेकं वाक्यम् । वनं संप्रस्थित: वनं गन्तुं प्रवृत्त: । धर्मिष्ठे अतिशयितधर्मे आममन्थेव विलोडयामासेत्यर्थ: । गुणवत्तया पूर्वभाषी प्रियवादी चेत्याद्युक्तगुणविशिष्टतया ।। 2.26.12 ।।

वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी ।

तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ।। 2.26.3 ।।

वैदेहीति । तत्सर्वम् अभिषेकविघातादिकम् । तपस्विनी रामाभिषेकार्थव्रतोपवासादिनियमविशिष्टा । यौवराज्याभिषेचनम्, वर्त्तत इति शेष: ।। 2.26.3 ।।

देवकार्यं स्वयं कृत्वा कृत्ज्ञा हृष्टचेतना ।

अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ।। 2.26.4 ।।

देवकार्यमिति । देवकार्यं देवपूजाम् । कृतज्ञा अभिषिक्तभर्तृविषये पट्टमहिषीभि: गन्धपुष्पादिना कृतपादार्चनादिसमाचारज्ञेत्यर्थ: । हृष्टचेतना हृष्टमनस्का । रामधर्माणामभिज्ञा अभिषिक्तराजा साधारणलक्षणानि श्वेतछत्रचामरपुरस्कृतभद्रासनादीनि ज्ञातवती । प्रतीक्षते स्म उक्तलक्षणविशिष्टो भर्त्ता कदा समागमिष्यतीत्यपेक्षया स्थितवतीत्यर्थ: ।। 2.26.4 ।।

प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् ।

प्रहृष्टजनसम्पूर्णं ह्रिया किञ्चिदवाङ्मुख: ।। 2.26.5 ।।

प्रविवेशेति । ह्रिया गृहालङ्कारजनप्रहर्षजया ।। 2.26.5 ।।

अथ सीता समुत्पत्य वेपमाना च तं पतिम् ।

अपश्यत् शोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम् ।। 2.26.6 ।।

अथेति । समुत्पत्य स्वासनादुत्थाय वेपमाना, भर्तुर्विगतहर्षत्वावाङ्मुखत्वादिदर्शनात्कम्पमानेत्यर्थ: ।। 2.26.6 ।।

तां दृष्ट्वा सह धर्मात्मा न शशाक मनोगतम् ।

तं शोकं राघव: सोढुं ततो विवृततां गत: ।। 2.26.7 ।।

तामिति । तत: सोढुमशक्तत्वादेव विवृततां व्यक्तदु:खताम् । एतावत्पर्यन्तं शोकलेशहीनस्य रामस्येदानीं शोकाविर्भाव: सीताया भाविदु:खस्मरणेनेति बोध्यम् ।। 2.26.7 ।।

विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् ।

आह दु:खाभिसन्तप्ता किमिदानीमिदं प्रभो ।। 2.26.8 ।।

विवर्णवदनमिति । प्रस्विन्नं हस्तगतराज्यस्यान्यगामित्वं स्ववनप्रव्राजनं च कथमस्यै निवेदयिष्यामीति शोकेन प्रस्वेद:, अमर्षणं सञ्जातदु:खं नियन्तुमशक्तम् । इदानीं हर्षकाले । इदं दौस्थ्यम् ।। 2.26.8 ।।

अद्य बार्हस्पत: श्रीमानुक्त: पुष्यो नु राघव ।

प्रोच्यते ब्राह्मणै: प्राज्ञै: केन त्वमसि दुर्मना: ।। 2.26.9 ।।

अद्येति । बार्हस्पत: बृहस्पतिदैवत्य: । उक्त: अभिषेकार्हत्वेन विहित: । युक्त इतिपाठे–अभिषेकार्ह: । श्रीमान् कर्मारब्धवतां श्रीकर: । पुष्य: पुष्यनक्षत्रम् । अद्येति ब्राह्मणै: प्रोच्यते नु प्रोच्यते खल्वित्यर्थ: । अन्विति च्छित्वा अनु प्रोच्यत इति वा सम्बन्ध: ।। 2.26.9 ।।

न ते शतशलाकेन जलफेननिभेन च ।

आवृतं वदनं वल्गु छत्रेणापि विराजते ।। 2.26.10 ।।

नेति । शतं शलाका यस्य तेन । स्थलस्थत्वेन मालिन्यं व्यावर्त्तयितुं जलपदम् । वल्गु सुन्दरम् । आवृतं सन्न विराजत इति सम्बन्ध: ।। 2.26.10 ।।

व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् ।

चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ।। 2.26.11 ।।

व्यजनाभ्यामिति । व्यजनाभ्यां वालव्यजनाभ्याम् । शतपत्रं पद्मम् ।। 2.26.11 ।।

वाग्ग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ ।

स्तुवन्तो नात्र दृश्यन्ते मङ्गलै: सूत मागधा: ।। 2.26.12 ।।

वाग्ग्मिन इति । वन्दिन: स्तुतिपाठका: । “वन्दिन: स्तुतिपाठका:” इत्यमर: । मङ्गलै: मङ्गलवचनै: । सूता: पुरावृत्तकथाशंसिन: । मागधा: वंशशंसका: ।। 2.26.12 ।।

न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगा: ।

मूर्ध्नि मूर्द्धाभिषिक्तस्य दधति स्म विधानत: ।। 2.26.13 ।।

नेति । क्षौद्रं मधु । मूर्ध्नि न दधति स्म नाभिषिञ्चन्ति स्मेत्यर्थ: ।। 2.26.13 ।।

न त्वां प्रकृतय: सर्वा: श्रेणीमुख्याश्च भूषिता: ।

अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ।। 2.26.14 ।।

नेति । प्रकृतय: अमात्यादय: । श्रेणीमुख्या: वीथीप्रधाना: ।। 2.26.14 ।।

चतुर्भिर्वेगसम्पन्नैर्हयै: काञ्चनभूषितै: ।

मुख्य: पुष्यरथो युक्ता: किं न गच्छति ते ऽग्रत: ।। 2.26.15 ।।

चतुर्भिरिति । पुष्यरथ: उत्सवाय कल्पितो रथ इत्यर्थ: । “असौ पुष्यरथश्चक्रयानं न समराय यत्” इत्यमर: । स हि राज्ञामग्रतो नीयते केवलं सम्भ्रमाय ।। 2.26.15 ।।

न हस्ती चाग्रत: श्रीमांस्तव लक्षणपूजितः ।

प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभ: ।। 2.26.16 ।।

नेति । कृष्णमेघगिरिप्रभ: कृष्णमेघयुक्तगिरिप्रभ: । उभयोरुपमानत्वे वैषम्यापत्ति: ।। 2.26.16 ।।

न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन ।

भद्रासनं पुरस्कृत्य यातं वीरपुरस्कृतम् ।। 2.26.17 ।।

न च काञ्चनचित्रमिति । वीरपुरस्कृतं भद्रासनं पुरस्कृत्य ते यातं गमनं न पश्यामीत्यन्वय: ।। 2.26.17 ।।

अभिषेको यथा सज्ज: किमिदानीमिदं तव ।

अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ।। 2.26.18 ।।

अभिषेक इति । यथा अभिषेक: सज्ज: सन्नद्ध: । इदानीं तथैवेत्यर्थ: । तवापूर्वो मुखवर्णो दृश्यते, प्रहर्षश्च न लक्ष्यते किमिदमिति सम्बन्ध: ।। 2.26.18 ।।

इतीव विलपन्तीं तां प्रोवाच रघुनन्दन: ।

सीते तत्रभवांस्तात: प्रव्राजयति मां वनम् ।। 2.26.19 ।।

इतीति । विलपन्तीं विविधं लपन्तीम् । तत्रभवान् पूज्य: । “तत्रभवानत्रभवानितिशब्दो वै प्रयुज्यते पूज्ये” इति हलायुध: । प्रव्राजयतीत्यनन्तरमितीति शेष: ।। 2.26.19 ।।

कुले महति सम्भूते धर्मज्ञे धर्मचारिणि ।

श्रृणु जानकि येनेदं क्रमेणाभ्यागतं मम ।। 2.26.20 ।।

राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन च ।

कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ ।। 2.26.21 ।।

महतो ऽप्रियस्य श्रवणे सीताया: किं भविष्यतीति भयात् चित्त दार्ढ्यार्थं विविधगुणकीर्तनेन सम्बोधयति–कुल इत्यादि । इदं प्रव्राजनम् । येन क्रमेण येन मार्गेण ।। 2.26.2021 ।।

तया ऽद्य मम सज्जे ऽस्मिन्नभिषेके नृपोद्यते ।

प्रचोदित: स समयो धर्मेण प्रतिनिर्जित: ।। 2.26.22 ।।

तयेति । अद्य नृपोद्यते ममाभिषेके सज्जे सति । प्रचोदित: पूर्वदत्तं वरद्वयम् देहीति प्रकर्षेण प्रेरित:, स समय: त्वदपेक्षितं करिष्यामीतिकृतशपथ इत्यर्थ: । “समया: शपथाचारकालसिद्धान्तसंविद:” इत्यमर: । धर्मेण प्रतिनिर्जित:, कर्त्तृभूतधर्मेण स्वायत्तीकृत इत्यर्थ: ।। 2.26.22 ।।

चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया ।

पित्रा मे भरतश्चापि यौवराज्ये नियोजित: ।

सो ऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ।। 2.26.23 ।।

तत: किमित्यत्राह–चतुर्दशेति । मया पितृचोदितेनेत्यर्थ: ।। 2.26.23 ।।

भरतस्य समीपे तु नाहं कथ्य: कदाचन ।। 2.26.24 ।।

ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ।

तस्मान्न ते गुणा: कथ्या भरतस्याग्रतो मम ।। 2.26.25 ।।

सीताहृदयं ज्ञातुं बुद्ध्युपदेशव्यपदेशेन प्रणयरोषमुत्पादयन्नाह–भरतस्येति । त्वया न कथ्य: न श्लाघनीय: । त्वत्प्रणामागमनदशायामिति शेष: ।। 2.26.2425 ।।

नापि त्वं तेन भर्तव्या विशेषेण कदाचन ।

अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम् ।। 2.26.26 ।।

नेति । तेन भरतेन । विशेषेण न भर्तव्या बन्धुसाधारण्येन भरणीयेत्यर्थ: । अशनादिभरणं लक्ष्मणशत्रुघ्नभार्याभ्यां विशेषेण न काङ्क्षणीयमिति भाव: । अनुकूलतया स्वजनसाधारणतया । शक्यं योग्यम् ।। 2.26.26 ।।

तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् ।

स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषत: ।। 2.26.27 ।।

तदनुकूलाचरणं किमर्थमित्यत आह–तस्मा इति । नृपतिना दशरथेन ।। 2.26.27 ।।

अहं चापि प्रतिज्ञां तां गुरो: समनुपालयन् ।

वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ।। 2.26.28 ।।

याते च मयि कल्याणि वनं मुनिनिषेवितम् ।

व्रतोपवासपरया भवितव्यं त्वया ऽनघे ।। 2.26.29 ।।

अहमिति । गुरो: दशरथस्य । स्थिरा भव मयि स्थिरानुरागा भवेत्यर्थ: । तत्र हेतु: मनस्विनीति । दृढमनस्केत्यर्थ: ।। 2.26.2829 ।।

काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ।

वन्दितव्यो दशरथ: पिता मम नरेश्वर: ।। 2.26.30 ।।

काल्यमिति । काल्यम् अहर्मुखे । “प्रत्यूषोहर्मुखं काल्यम्” इत्यमर: ।। 2.26.30 ।।

माता च मम कौसल्या वृद्धा सन्तापकर्शिता ।

धर्ममेवाग्रत: कृत्वा त्वत्त: सम्मानमर्हति ।। 2.26.31 ।।

मातेति । धर्ममेवाग्रत: कृत्वा, स्थिताया इति शेष: ।। 2.26.31 ।।

वन्दितव्याश्च ते नित्यं या: शेषा मम मातर: ।

स्नेहप्रणयसम्भोगै: समा हि मम मातर: ।। 2.26.32 ।।

वन्दितव्या इति । स्नेह: प्रीति: । प्रणय: सौहृदम् । “प्रणय: स्यात्परिचये याच्ञायां सौहृदेपि च” इति वैजयन्ती । भोग: पालनम् । “भोगो राज्ये धने सौख्ये पालनाभ्यवहारयो:” इति वैजयन्ती । मयि स्नेहादित्रयमविशेषेण कुर्वन्ति, अतस्तास्तुल्यतया वन्द्या इति भाव: ।। 2.26.32 ।।

भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषत: ।

त्वया भरतशत्रुघ्नौ प्राणै: प्रियतरौ मम ।। 2.26.33 ।।

भ्रातृपुत्रसमाविति । भ्रातृपुत्रसमौ भ्रात्रा पुत्रेण च समौ । प्राणै: प्राणेभ्य: ।। 2.26.33 ।।

विप्रिपवयं न च कर्त्तव्यं भरतस्य कदाचन ।

स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ।। 2.26.34 ।।

विप्रियमिति । राजत्वेप्यप्रभुत्वमनियन्तृत्वं कस्यचित्सम्भवतीति तद्व्यावृत्त्यर्थं प्रभुरित्युक्तम् । देशपतेरकुलपतित्वदर्शनादाह देशस्य च कुलस्य चेति ।। 2.26.34 ।।

आराधिता हि शीलेन प्रयत्नैश्चोपसेविता: ।

राजान: सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ।। 2.26.35 ।।

आराधिता इति । शीलेन अकुटिलवृत्त्या । प्रयत्नै: आलस्यत्यागादिभि: । विपर्यये शीलाद्यभावे ।। 2.26.35 ।।

औरसानपि पुत्रान् हि त्यजन्त्यहितकारिण: ।

समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपा: ।। 2.26.36 ।।

औरसानिति । जनान् अबन्धून् ।। 2.26.36 ।।

सा त्वं वसेह कल्याणि राज्ञ: समनुवर्तिनी ।

भरतस्य रता धर्मे सत्यव्रतपरायणा ।। 2.26.37 ।।

सा त्वमिति । सत्यव्रतम् अमोघव्रतम् ।। 2.26.37 ।।

अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि ।

यथा व्यलीकं कुरुषे न कस्यचित्तथा त्वया कार्यमिदं वचो मम ।। 2.26.38 ।।

अहमिति । व्यलीकम् अप्रियम् । कस्यचिदपि जनस्य यथा व्यलीकं न कुरुषे तथा त्वया वर्तितव्यम्, इदं मम वचश्च कार्यम् । अत्रैव स्थातव्यमिति मम वचश्च कार्यमिति । यद्वा यथा कस्यचिदपि व्यलीकं न कुरुषे तथा इदमपि मम वचस्त्वया कार्यमित्यर्थ: ।। 2.26.38 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षड्विश: सर्ग: ।। 26 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षड्विंश: सर्ग: ।। 26 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.