99 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनशततम: सर्ग:

निविष्टायां तु सेनायामुत्सुको भरतस्तदा ।

जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ।। 2.99.1 ।।

अथ भरतस्य रामसङ्गम एकोनशततमे–निविष्टेत्यादिना । निविष्टायां सेनायाम्, स्वयं तत्र क्षणं निविष्ट: सन् । उत्सुक: साभिलाष: । शत्रुघ्नमनुदर्शयन् । अनु: कर्मप्रवचनीय: । शत्रुघ्नस्य रामाश्रमसामीप्यचिह्नानि प्रदर्शयन् जगाम ।। 2.99.1 ।।

ऋषिं वसिष्ठं सन्दिश्य मातृ़र्मे शीघ्रमानय ।

इति त्वरितमग्रे स जगाम गुरुवत्सल: ।। 2.99.2 ।।

ऋषिमिति । मातृ़र्मे शीघ्रमानयेति ऋषिं वसिष्ठं सन्दिश्य जगामेत्यन्वय: । अनेन रामावासं निश्चित्य पश्चादानेष्यामीति धिया महासेनानिवेशे मातृ़र्निवेशितवानिति गम्यते ।। 2.99.2 ।।

सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत ।

रामदर्शनजस्तर्षो भरतस्येव तस्य च ।। 2.99.3 ।।

तत्पश्चात् शत्रुघ्न: तत्पश्चात्सुमन्त्रश्च गत इत्याह–सुमन्त्र इति । सुमन्त्रोप्यदूरात् समीपे शत्रुघ्नमन्वपद्यत अन्वगच्छत् । तत्र हेतुमाह रामेति । रामदर्शनजस्तर्ष: रामदर्शनमुद्दिश्य जनितो ऽभिलाष: । “कामो ऽभिलाषस्तर्षश्च” इत्यमर: । तस्य शत्रुघ्नस्यच चकारात् सुमन्त्रस्य चास्ति हीत्यर्थ: । सुमन्त्रस्यत्वरितागमनात् वसिष्ठ एव मात्रानयने नियुक्त इत्यावेदितम् ।। 2.99.3 ।।

गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् ।

भ्रातु: पर्णकुटीं श्रीमानुटजं च ददर्श ह ।। 2.99.4 ।।

गच्छन्निति । तापसालयसंस्थितां तापसालयानां मध्ये स्थिताम्, तापसालयसमानसंस्थानामिति वार्थ: । पर्णकुटीम् अग्न्यगारभूतां पर्णशालाम् । उटजं दिदृक्षया समागतै: तापसै: सह सुखावस्थानार्थमुपकल्पितां पर्णशालाम् । यद्वा भ्रातु: पर्णकुटी सीतया सह शयनार्थं निर्मितां पर्णशालाम् । श्रीमान् तादात्विकप्रीतिजनितकान्तिमान् । उटजं दिवावस्थानार्थं कल्पितं पर्णमण्डपम् । यद्वा पर्णशालां महाशालाम् । उटजं तन्मध्यर्तिसदावस्थानास्थानम् । तथैव वक्ष्यति ददर्श महतीमित्यादिना । ददर्श चिह्नैरुत्प्रेक्षितवान् ।। 2.99.4 ।।

शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा ।

काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ।। 2.99.5 ।।

चिह्नान्येवाह–शालाया इत्यादिना । काष्ठानि शत्रौ प्रकाशाय ज्वलनीयानि । पुष्पाणि पूजार्थानि ।। 2.99.5 ।।

सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुष: ।

कृतं वृक्षेष्वभिज्ञानं कुशचीरै: क्वचित् क्वचित् ।। 2.99.6 ।।

सलक्ष्मणस्येति । ईयुष: जलाशयादाश्रमं गच्छतो रामस्य । “उपेयिवाननाश्वाननूचानश्च” इत्यत्र नात्रोपसर्गस्तन्त्रम् । अन्योपसर्गपूर्वान्निरुपसर्गाच्च भवत्येवेति वृत्तिकृतोक्तत्वादनुपसर्गपूर्वादिण: क्वसु: । कुशादिभि: कृतम् अभिज्ञानं चिह्नम्, अन्योन्यस्य गमनागमनपरिज्ञानार्थं कृतं चिह्नं ददर्श ।। 2.99.6 ।।

ददर्श च वने तस्मिन् महत: सञ्चयान् कृतान् ।

मृगाणां महिषाणां च करीषै: शीतकारणात् ।। 2.99.7 ।।

ददर्श चेति । करीषै: कृतान् सञ्चयानित्यन्वय: । शीतकारणात् शीतनिवारणार्थम् ।। 2.99.7 ।।

गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा ।

शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वश: ।। 2.99.8 ।।

गच्छन्निति । अमात्यान् सुमन्त्रम्, बहुवचनं पूजार्थम् । यद्वा अनेनैवावगम्यते अन्येप्यमात्या: सुमन्त्रेण सहागता इति ।। 2.99.8 ।।

मन्ये प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत् ।

नातिदूरे हि मन्ये ऽहं नदीं मन्दाकिनीमित: ।। 2.99.9 ।।

मन्य इति । इत: अस्मात्प्रदेशात् । मन्दाकिनीं नातिदूरे मन्ये, प्रत्यासन्नां मन्य इत्यर्थ: । अत: यं देशं भरद्वाजो ऽब्रवीत् तं देशं प्राप्ता: स्मेति मन्ये । प्राप्ता: स्मेत्येव वक्तव्ये मन्य इत्युक्त्या अयमर्थो ऽवगम्यते–कैकेय्या राजन्नित्याहूतस्य भाग्यहीनस्य मे नेयं तद्देशप्राप्तिर्भवितुमर्हति किन्तु भ्रमस्वप्नादिष्वन्यतमो ऽयमिति ।। 2.99.9 ।।

उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् ।

अभिज्ञानकृत: पन्था विकाले गन्तुमिच्छता ।। 2.99.10 ।।

उच्चैरिति । उच्चैर्बद्धानि चीराणि उन्नतप्रदेशे चीराणि बद्धानि दृश्यन्ते तस्मादयं पन्था: विकाले अकाले सायङ्कालादौ गन्तुमिच्छता फलमूलजलादिसङ्ग्रहणार्थं गन्तुमिच्छता लक्ष्मणेनाभिज्ञानकृत: कृताभिज्ञानो भवेत्, अतो ऽनेनैवास्माभिर्गन्तव्यमिति भाव: ।। 2.99.10 ।।

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् ।

शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ।। 2.99.11 ।।

मार्गचिह्नकरणं गजपदमर्दनक्लिष्टत्वेन दुर्ज्ञानत्वादित्याशयेनाह–इदं चेति । उदात्तदन्तानां महादन्तानाम् । “महत्युदात्त उच्चोक्तौ” इति वैजयन्यी । तरस्विनां वेगवताम् । अन्योन्यमभिगर्जताम् अन्योन्यं प्रतिगर्जताम् । कूञ्जराणां गजानाम् । शैलपार्श्वे परिक्रान्तमिदं परिक्रमणस्थानमिदम् । “क्तो ऽणिकरणे च” इत्यधिकरणे क्त: । इदमेषामासितमित्यादिवत् । अस्मिन्मार्गे कुञ्जरा: परिक्रान्ता इत्यर्थ: । अन्योन्यकोपातिशयेन वेगाद्दन्तादन्तिप्रहारं कुर्वतामाश्रमप्रवेशस्याशक्यत्वादाश्रमप्रान्तगमनमाश्रमप्रदेशं सूचयतीत्यर्थ: ।। 2.99.11 ।।

यमेवाधातुमिच्छन्ति तापसा: सततं वने ।

तस्यासौ दृश्यते धूम: सङ्कुल: कृष्णवर्त्मन: ।। 2.99.12 ।।

रामाश्रमस्यात्यन्तसन्निहितत्वज्ञापकं धूमबाहुल्यं दर्शयति–यमिति । तापसा: यमग्निमाधातुमिच्छन्ति सायंप्रातर्होमार्थं सर्वदा रक्षितुमिच्छन्ति तस्य कृष्णवर्त्मन: सङ्कुलो ऽसौ धूमो दृश्यते । पचनाग्नेर्होमाग्नेश्च व्यावृत्तं सन्ततस्थायिगार्हपत्याग्निं दर्शयितुं सङ्कुलशब्द:, अतिनिबिड इत्यर्थ: । पचने ज्वालानां होमे च अङ्गाराणामपेक्षितत्वान्न तदा धूमनिबिडसम्भव इति भाव: । अनेन रामस्याग्न्याधानाभावाच्छ्रौताग्रिरत्र नोच्यते किन्तु धार्य: स्मार्ताग्नि: । यदि हि तस्य त्रेताग्नि: स्यात् तदा “राम: कमलपत्राक्ष: पुरोधसमथाब्रवीत् । अग्निहोत्रं व्रजत्वग्रे सर्पिर्ज्वलितपावकम् ।।” इति चरमयात्रायामग्निहोत्रपुरस्कारश्रवणाद्वनयात्रायामपि तथा दृश्येत। अनुसरन्तोपि हि पौरवृद्धा: साग्नय एव समागता इत्युच्यन्ते। किञ्च “दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्। कुरङ्गश्रृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ।।” इति सीतामनोरथश्रवणाद्राज्याभिषेकात्पूर्वं न यज्ञो ऽनुष्ठित इति गम्यते । ततो ऽयमग्निर्गृह्याग्निरेव । न च तस्याप्यानयनं न पूर्वमुक्तमिति वाच्यम् तस्यात्मसमारोपणेनानेतुं शक्यत्वात् । न च आत्मसमारोपणेपि सायम्प्रातर्होम: कार्य:, स तु नोक्त: । प्रत्युत तमसातीरे गङ्गाकूले वृक्षमूले भरद्वाजाश्रमे यमुनातटे च सन्ध्यावन्दनमेवोक्तम् । अत्र च श्लोके तापसवनशब्दाभ्यां वने तापसानां शीतनिवारणप्रकाशकरणकन्दमूलादिपचनसाधनतया सङ्ग्राह्य एवाग्निरुच्यत इति वक्तुं शक्यते । आधातुं सङ्ग्रहीतुमित्यर्थ: । अतो ऽयमग्नि: पचनाद्यर्थ एव नतु धार्य: स्मार्ताग्निरिति चेत् । न “प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्” इति वक्ष्यमाणविरोधात् । न ह्यसंस्कृताग्नेर्वेदिसम्बन्ध: प्रसिद्ध: । प्रागुदक्प्रवणत्वादिवेदिलक्षणं चोच्यमानं वेदिं तत्स्थमग्निं च संस्कृताववगमयति । यद्येवं कथं तर्हि सायंप्रातर्होमावचनमिति चेत् ? नह्येकं स्वच्छन्दगामिना मुनिना असत्यामिच्छायामसति च फले पुन:पुनर्वक्तव्यम् । वक्ष्यति तु उपरिष्टात् सुतीक्ष्णाश्रमे– “अथ ते ऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ । काल्यं विधिवदभ्यर्च्य तपस्विशरणे वन । उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषा: । सुतीक्ष्णमभिगम्यैवमिदं वचनमुब्रुवन् ।।” इति। अत्रानुदितहोमपक्षेण उदयात्पूर्वमग्निकार्यवचनादग्निमित्येकवचनाच्च औपासनं सम्यगुक्तमिति। एवमेव सर्वत्र द्रष्टव्यमिति। अत्रचाग्निकार्ये रामस्य साक्षात्प्रधानकर्तृत्वेन सीताया: सहभावेन प्रणयनादिना च लक्ष्मणस्य समिदादिसंपादनरूपसहकारित्वेन चान्वय इति ज्ञेयम्। तपस्विशरणे वन इत्यनेनातिसङ्कटदेशेपि यथावदनुष्ठानश्रद्धाविशेष उच्यते। अतश्चतुर्दशसु वनवाससंवत्सरेषु सीताहरणपर्यन्तं रामस्य चित्रकूटादिपञ्चवट्यन्तेषु प्रदेशेषु यत्र माससंवत्सरादिवासेन चिरकालावस्थानं तत्र बहि: स्मार्तनित्याग्निधारणम्।

अन्यत्रात्मनि समिधि वा समारोप्य होमकाले ऽवरोप्य सायंप्रातरौपासनमिति दिक् । अस्मिन् श्लोके च तापसा यमाधातुमिच्छन्तीत्यस्यार्थश्च वर्णित: । तेन च रामाश्रमचिह्नत्ववत्पावनत्वमप्युक्तं भवति ।। 2.99.12 ।।

अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम् ।

आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ।। 2.99.13 ।।

अत्रेति । गुरुसंस्कारकारिणं गुरुसंस्कार: श्रेष्ठसंस्कार:, मन्त्रोपदेशादि: तत्कारिणम् ।। 2.99.13 ।।

अथ गत्वा मुहूर्तं तु चित्रकूटं स राघव: ।

मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ।। 2.99.14 ।।

अथेति । राघव: भरत: । तं जनं सहागतं शत्रुघ्नादिकम् ।। 2.99.14 ।।

जगत्यां पुरुषव्याघ्र आस्ते वीरासने रत: ।

जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ।। 2.99.15 ।।

जगत्यामित्यादि । जगत्यां भूमौ । वीरासने दक्षिणजानूपरिन्यस्तवामपादतया ऽवस्थाने । धिङ्मे जन्म सजीवितमिति मे जन्म प्राणनं च धिगित्यर्थ: ।। 2.99.15 ।।

मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युति: ।

सर्वान् कामान् परित्यज्य वने वसति राघव: ।। 2.99.16 ।।

मत्कृते व्यसनं प्राप्त: कैकेय्या मम राज्यप्रापणकृते राज्यभ्रंशरूपव्यसनं प्राप्त: ।। 2.99.16 ।।

इति लोकसमाक्रुष्ट: पादेष्वद्य प्रसादयन् ।

रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ।। 2.99.17 ।।

इति लोकसमाक्रुष्ट: एवं प्रकारेण लोकैरपवादं प्रापित: । प्रसादयन् प्रसादनाद्धेतो: लक्ष्मणस्य चेति तस्य कनिष्ठत्वेपि कार्य्यगौरवात्पादपतनम् । यदि मया प्रसाद्यमाने रामे लक्ष्मण: कैकेयीकृतापकारं मय्यारोप्य मा प्रसीदेति रामं निरुन्ध्यात्तर्हि लक्ष्मणस्यापि पादयोर्निपत्य तमपि प्रसादयिष्यामि । यदि रामप्रसादनरूपं कार्यं केवलं सुसाधितं भवेत् तदानीं कनिष्ठपादपतनं दोषायेति भरतहृदयम् । (सीतायाश्च पुन:पुनरिति पाठ: । सीताया लक्ष्मणस्य चेति पाठे रामभक्तत्वेन वयो नादृतमिति बोध्यम् । न “परीक्ष्यवयोवन्द्या:” इति स्मरणात्) ।। 2.99.17 ।।

एवं स विलपंस्तस्मिन् वने दशरथात्मज: ।

ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ।। 2.99.18 ।।

एवमित्यारभ्य गुहामिवेत्यन्तमेकं वाक्यम् ।। 2.99.18 ।।

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् ।

विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ।। 2.99.19 ।।

सालो ऽश्वकर्णादन्यो वृक्ष: । अश्वकर्ण: सर्जतरु: । तालो मृदुपर्ण: श्रीताल: ।। 2.99.19 ।।

शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनै: ।

रुक्मपृष्टष्ठैर्महासारै: शोभितां शत्रुबाधकै: ।। 2.99.20 ।।

कार्मुकैरिति बहुवचनादभ्यासयोग्यं कार्मुकान्तरमस्तीति गम्यते । भारसाधनै: गुर्ववयवै: । यद्वा अतिगुरुतररणकार्यसाधनूभूतै: । यद्वा भारो धनु:परिमाणविशेष: । यथोक्तं धनुर्वेदे ईशानसंहितायाम्– “भारं पलशतं विदु: । तेन भारेण चापानां प्रमाणमुपलभ्यते” इति । रुक्मपृष्ठै: कनकानुलिप्तपृष्ठप्रदेशै: । महासारै: महास्थिरांशै: । “सारो बले स्थिरांशे च” इत्यमर: ।। 2.99.20 ।।

अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतै: शरै: ।

शोभितां दीप्तवदनै: सर्प्पैर्भोगवतीमिव ।। 2.99.21 ।।

भोगवती सर्प्पनगरी ।। 2.99.21 ।।

महारजतवासोभ्यामसिभ्यां च विराजिताम् ।

रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ।। 2.99.22 ।।

महारजतवासोभ्यां स्वर्णमयकोशाभ्याम् । रुक्मबिन्दुविचित्राभ्यां शोभाविशेषाय मध्येमध्ये शिल्पिनिर्मितकनकबिन्दुविचित्राभ्याम् । (आत्मबिन्दुविचित्राभ्यां व्याघ्रचर्मकृततया स्वाभाविकनानावर्णबिन्दुविचित्राभ्याम् ।) चर्मभ्यां खेटकाभ्याम् । “खेटकं फलकं चर्म” इति हलायुध: ।। 2.99.22 ।।

गोधाङ्गुलित्रैरासक्तैश्चित्रै: काञ्चनभूषितै: ।

अरिसङ्घैरनाधृष्यां मृगै: सिंहगुहामिव ।। 2.99.23 ।।

गोधाङ्गुलित्रै: गोधा ज्याघातवारणम् । अङ्गुलित्रम् अङ्गुलित्राणम् । उपलक्षणे तृतीया । शोभितामित्यनुकर्षो वा । अनाधृष्याम् अप्रधृष्याम् ।। 2.99.23 ।।

प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम् ।

ददर्श भरतस्तत्र पुण्यां रामनिवेशने ।। 2.99.24 ।।

प्रागुदक्प्रवणां प्रागुदग्भागे क्रमनिम्नाम् । “प्रवणो दक्षिणे प्रह्वे क्रमनिम्ने चतुष्पथे” इति वैजयन्ती । तत्र रामनिवेशने, पूर्वोक्तपर्णशालायामित्यर्थ: ।। 2.99.24 ।।

निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम् ।

उटजे राममासीनं जटामण्डलधारिणम् ।। 2.99.25 ।।

निरीक्ष्येति । जटामण्डलधारित्ववैलक्षण्येन निश्चयार्थं मुहूर्त्तं निरीक्ष्य तेजोविशेषेण सामान्येन स्वगुरुं ज्ञातवानित्यर्थ: । अस्मिन् श्लोके उत्तरार्धे जटामण्डलधारिणमित्यत्रणकारो गायत्र्या: सप्तमाक्षर: । षट्सहस्रं श्लोका गता: ।। 2.99.25 ।।

तं तु कृष्णाजिनधरं चीरवल्कलवाससम् ।

ददर्श राममासीनमभित: पावकोपमम् ।। 2.99.26 ।।

सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् ।

पृथिव्या: सागरान्ताया भर्त्तारं धर्मचारिणम् ।। 2.99.27 ।।

विशेषतो दर्शनमाह–तं त्वित्यादिना । महार्हवसनोपेतस्य इदानीं ततो वैलक्षण्यमाह तं त्विति । तदेव वैलक्षण्यं दर्शयति कृष्णाजिनधरमिति । कृष्णाजिनधरम् उत्तरीयतया कृष्णाजिनधरम् । अधराम्बरत्वेन चीरवल्कलवाससम् । कृष्णाजिनधरं चीरवल्कलवाससं पूर्वस्माच्छोभाविशेषयुक्तम् । रामं वल्कलादिधारणेप्यपरावर्तमानं रामणीयकमुच्यते । आसीनं किञ्चिदासनमास्थायात्मानं ध्यायन्तम् । अभित: पावकोपमं तादृशतपोविशेषेण समन्तात्तेज: परिवृतम् । यद्वा “नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा” इत्युक्तरीत्या विद्युल्लेखामध्यवर्त्तिनीलतोयदमिव स्थितमित्यर्थ: । यद्वा विरोधिनामनभिभवनीयमित्यर्थ: । यद्वा उटजे राममासीनम् अयोध्यास्थितसमाजापेक्षया अल्पतरापीयं सभा महती जाता । कुत: ? अभित: पावकोपमं तत्सभायां समीपस्थस्य भ्रातुरपि ह्यत्र समीपमागन्तुं न शक्यते, न हि ज्वलत्यनले कस्यापि समीपमागन्तुं न शक्यते, न हि ज्वलत्यनले कस्यापि समीपमागन्तुं शक्यम् । यद्वा उटजे राममित्यत्र रामं श्यामम् । अधोरामौ सावित्रावित्यत्र तथाप्रयोगात् । यद्वा पावकोपमं दुर्दर्शमित्यर्थ: । अत एव पूर्वश्लोके निरीक्ष्य स मूहर्तमित्युक्तम् ।। 2.99.2627 ।।

उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् ।

स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ।। 2.99.28 ।।

ब्रह्मापेक्षयास्य वैलक्षण्यमुच्यते शाश्वतमिति । स्थण्डिले भूतौ ।। 2.99.28 ।।

तं दृष्ट्वा भरत: श्रीमान् दु:खशोकपरिप्लुत: ।

अभ्यधावत धर्मात्मा भरत: कैकयीसुत: ।। 2.99.29 ।।

तमिति । द्वितीयो भरतशब्द उत्तरश्लोकेन सम्बध्यते ।। 2.99.29 ।।

दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा ।

अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ।। 2.99.30 ।।

दृष्ट्वेति । दृष्ट्वैव दर्शनमात्रेणेत्यर्थ: । आर्त: खिन्न: । तामार्त्तिं धारयितुमशक्नुवन् । बाष्पसन्दिग्धया शोकोष्मणा सन्दिग्धवर्णया गिरा उपलक्षित: ।। 2.99.30 ।।

य: संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् ।

वन्यैर्मृगैरुपासीन: सो ऽयमास्ते ममाग्रज: ।। 2.99.31 ।।

य इति । संसदि सभायाम् । युक्त: अर्ह: ।। 2.99.31 ।।

वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचित: ।

मृगाजिने सो ऽयमिह प्रवस्ते धर्ममाचरन् ।। 2.99.32 ।।

अधारयद्यो विविधाश्चित्रा: सुमनसस्तदा

सो ऽयं जटाभारमिमं वहते राघव: कथम् ।। 2.99.33 ।।

वासोभिरिति । बहुसाहस्रै: बहुसहस्रमूल्यै: । उचित:, अलङ्कर्तुमिति शेष: । षष्ठ्यर्थे तृतीया वा । मृगाजिने मृगचर्मणी । प्रवस्ते आच्छादयति ।। 2.99.3233 ।।

यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चय: ।

शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ।। 2.99.34 ।।

चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् ।

मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ।। 2.99.35 ।।

मन्निमित्तमिदं दु:खं प्राप्तो राम: सुखोचित: ।

धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ।। 2.99.36 ।।

इत्येवं विलपन् दीन: प्रस्विन्नमुखपङ्कज: ।

पादावप्राप्य रामस्य पपात भरतो रुदन् ।। 2.99.37 ।।

दु:खाभितप्तो भरतो राजपुत्रो महाबल: ।

उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ।। 2.99.38 ।।

यस्येति । यथोद्दिष्टै: यथाविहितै: । यथादृष्टैरिति पाठे–शास्त्रेष्विति शेष: । युक्त: योग्य: ।। 2.99.3438 ।।

बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम् ।

आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ।। 2.99.39 ।।

शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् ।

तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ।। 2.99.40 ।।

वक्तुमशक्यत्वे हेतुमाह–बाष्पापिहितकण्ठ इत्यादिना । बाष्पापिहितकण्ठ: बाष्पनिरुद्धकण्ठ: ।। 2.99.3940 ।।

तत: सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये ।

दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ।। 2.99.41 ।।

तत इति । राजसुतौ रामलक्ष्मणौ ।। 2.99.41 ।।

तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये ।

वनौकसस्ते ऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ।। 2.99.42 ।।

तानिति । तान् तादृशसुखयुक्तान् । समागतान् सङ्गतान् ।। 2.99.42 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनशततम: सर्ग: ।। 99 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनशततम: सर्ग: ।। 99 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.