116 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशोत्तरशततम: सर्ग:

प्रतिप्रयाते भरते वसन् रामस्तपोवने ।

लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ।। 2.116.1 ।।

अथ रामस्य चित्रकूटान्निर्गमनं षोडशोत्तरशततमे–प्रतिप्रयात इत्यादि । सोद्वेगं सभयम् । औत्सुक्यम् आश्रमान्तरगमनाभिलाषं लक्षयामास इङ्गिताकारादिभिरिति शेष: ।। 2.116.1 ।।

ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।

राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ।। 2.116.2 ।।

य इति । पुरस्तात् पूर्वं चित्रकूटस्य तापसाश्रमे राममाश्रित्य ये निरतास्तान् । उत्सुकान् गमनोत्सुकान् । अलक्षयत् राम इत्यनुषङ्ग: ।। 2.116.2 ।।

नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: ।

अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ।। 2.116.3 ।।

रामं निर्दिश्य प्रदर्श्य । मिथ: रहस्ये । “मिथोन्योन्यरहस्ययो:” इति वैजयन्ती ।। 2.116.3 ।।

तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: ।

कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत: ।। 2.116.4 ।।

तेषामिति । आत्मनि शङ्कित: स्वस्मिन् सञ्जातशङ्क: ।। 2.116.4 ।।

न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि ।

दृश्यते विकृतं येन विक्रियन्ते तपस्विन: ।। 2.116.5 ।।

हे भगवन् मयि पूर्ववृत्तं विकृतं न दृश्यते कच्चित् । येन तपस्विनो विक्रियन्ते इदं किञ्चित् किमिदमित्यर्थ: ।। 2.116.5 ।।

प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।

लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन: ।। 2.116.6 ।।

कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि ।

प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ।। 2.116.7 ।।

प्रमादात् अनवधानात् । मे अवराजस्य लक्ष्मणस्य । आत्मनो नानुरूपमिव किञ्चिच्चरितम् ऋषिभिर्दृष्टं न कच्चिदित्यन्वय: ।। 2.116.67 ।।

अथर्षिर्जरया वृद्धस्तपसा च जरां गत: ।

वेपमान इवोवाच रामं भूतदयापरम् ।। 2.116.8 ।।

तपसा च जरां गत: सुदीर्धतपा इत्यर्थ: ।। 2.116.8 ।।

कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा ।

चलनं तात वैदेह्यास्तपस्विषु विशेषत: ।। 2.116.9 ।।

कल्याणसत्त्वाया: कल्याणस्वभावाया: । “सत्त्वो ऽस्त्री जन्तुषु क्लीबो ऽध्यवसाये पराक्रमे । आत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयो: ।।” इति वैजयन्ती ।। 2.116.9 ।।

त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।

रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा: ।। 2.116.10 ।।

त्वन्निमित्तमिति । त्वन्निमित्तं त्वत्तो हेतो: । रक्षोभ्य: समागतम् इदं वक्ष्यमाणमुपद्रवजातम् । तापसान् प्रति वर्तते । तेन रक्षस्सञ्जातोपद्रवेण । संविग्ना: तापसा: मिथ: रहसि कथा: रक्षोविषयिणी: तदुपद्रवविषयिणीश्च कथयन्ति ।। 2.116.10 ।।

रावणावरज: कश्चित् खरो नामेह राक्षस: ।

उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ।। 2.116.11 ।।

धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: ।

अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ।। 2.116.12 ।।

ता एवाह–रावणावरज इत्यादिना । श्लोकद्वयमेकं वाक्यम् । उत्पाट्य उत्खाय, निष्कास्येति यावत् । जितेन जयेन काशते प्रकाशत इति जितकाशी । यद्वा जिताहव: । “जितकाशीं जिताहव:” इति हलायुध: ।। 2.116.1112 ।।

त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।

तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ।। 2.116.13 ।।

त्वमिति । विप्रकुर्वन्ति अपकुर्वन्ति ।। 2.116.13 ।।

दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि ।

नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै: ।। 2.116.14 ।।

दर्शयन्तीति । बीभत्सै: जुगुप्सितै: । क्रूरै: भीषणकै: भयङ्करै: । नानारूपै: अनेकप्रकारै: । विरूपै: लोकविलक्षणसंस्थानै: । विकृतदर्शनै: विकृतदृष्टिभि: । रूपै: शरीरै: दर्शयन्ति भयमिति शेष: ।। 2.116.14 ।।

अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् ।

प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता: ।। 2.116.15 ।।

अप्रशस्तै: अशुभै: । अशुचिभि: अशुचिद्रव्यै: संप्रयोज्य ।। 2.116.15 ।।

तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।

रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस: ।। 2.116.16 ।।

अबुद्धम् अविदितं यथा भवति तथा । अवलीय निलय । रमन्ते विहरन्ति । अल्पचेतस: क्षुद्रबुद्धय: ।। 2.116.16 ।।

अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।

कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ।। 2.116.17 ।।

हवने समुपस्थिते होमकर्मणि प्रवृत्ते ।। 2.116.17 ।।

तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: ।

गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ।। 2.116.18 ।।

प्रजिहासव: प्रकर्षेण हातुमिच्छव: ।। 2.116.18 ।।

तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।

दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ।। 2.116.19 ।।

बहुमूलफलं चित्रमविदूरादितो वनम् ।

पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन: ।। 2.116.20 ।।

पुरादर्शयन्ति दर्शयिष्यन्ति । “यावत्पुरानिपातयोर्लट्” इतिलट् ।। 2.116.1920 ।।

खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते ।

सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते ।। 2.116.21 ।।

खर इति । अयुक्तमिति क्रियाविशेषणम् । पुरा प्रवर्त्तते प्रवर्तिष्यते ।। 2.116.21 ।।

सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव ।

समर्थस्यापि वसतो वासो दु:खमिहाद्य ते ।। 2.116.22 ।।

सकलत्रस्येति । सन्देह: सन्देहजनक: । यत्तस्य सन्नद्धस्य । दु:खं दु:खहेतु: ।। 2.116.22 ।।

इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।

न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक: ।। 2.116.23 ।।

उत्तरैर्वाक्यैरवरोद्धुं न शशाक मयि वर्त्तमाने युष्माकं का भीति: अहमेव परितो रक्षामीत्युत्तरवाक्यैर्निरोद्धुं न शशाक ।। 2.116.23 ।।

अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।

स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ।। 2.116.24 ।।

अभिनन्द्येति । कुलै: ऋषिसङ्घातै: । “कुलं सङ्घातवंशयो:” इति वैजयन्ती ।। 2.116.24 ।।

राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।

सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ।। 2.116.25 ।।

राम: ऋषिगणं तस्माद्देशात् आश्रमप्रदेशात् । अनुगमनात् संसाध्य प्रस्थाप्य । कुलपतिमभिवाद्य तैरुपदिष्टार्थ: उपदिष्टप्रयोजनस्सन् । वासाय पुण्यं स्वनिलयम् उपसंपेदे इति सम्बन्ध: ।। 2.116.25 ।।

आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: ।

राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ।। 2.116.26 ।।

आश्रममिति । राघव: ऋषिविरहितमप्याश्रमं क्षणं न विजहौ मुनिशून्यतया तदैव त्याज्यमप्याश्रमं मुनिविषयप्रेम्णा क्षणं न त्यक्तवानित्यर्थ: । आर्षचरितधृतगुणा: रामस्यार्षचरित्रेण सञ्चितगुणा: । हि यस्मात्कारणात्तापसा: राममनुगतस्तस्मात् तत्प्रेम्णा क्षणं न जहाविति । वृत्तं तु श्लोकद्वयस्यापि चिन्त्यम् ।। 2.116.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशोत्तरशततम: सर्ग: ।। 116 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षोडशोत्तरशततम: सर्ग: ।। 116 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.