64 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतु:षष्टितम: सर्ग:

वधमप्रतिरूपं तु महर्षेस्तस्य राघव: ।

विलपन्नेव धर्मात्मा कौसल्यां पुनरब्रवीत् ।। 2.64.1 ।।

वधमिति । विलपन्नेव मध्ये स्वपुत्रं विलपन्नेव ।। 2.64.1 ।।

तदज्ञानान्महत्पापं कृत्वाहं सङ्कुलेन्द्रिय: ।

एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् ।। 2.64.2 ।।

तदिति । सङ्कुलेन्द्रिय: व्याकुलेन्द्रिय: । सुकृतं सुष्ठु कृतम्, मुनिकुमारवचनमिति शेष: । इत्यचिन्तयमित्युपस्कार्यम् । यद्वा अस्य वधज्ञापनाज्ञापनयो: किं शुभोदर्कं भवेदित्यचिन्तयमित्यर्थ: ।। 2.64.2 ।।

ततस्तं घटमादाय पूर्णं परमवारिणा ।

आश्रमं तमहं प्राप्य यथाख्यातपथं गत: ।। 2.64.3 ।।

तत इति । तत: मुनिकुमारोक्तज्ञापनमेव श्रेयस्करमिति निश्चयानन्तरम् । यथाख्यातपथं प्राप्य आश्रमं गत इति सम्बन्ध: ।। 2.64.3 ।।

तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ ।

अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ ।। 2.64.4 ।।

तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ ।

तामाशां मत्कृते हीनावुदासीनावनाथवत् ।। 2.64.5 ।।

तत्रेत्यादि । परितो नयति संचारयतीति परिणायक: । तद्रहितौ तन्निमित्ताभि: पुत्रविषयाभि: कथाभि: उपलक्षितौ । अपरिक्रमौ पङ्गुभूतौ । मत्कृते मन्निमित्तं तामाशां हीनौ जलानयनाशारहितौ पुत्रविषयाशारहितौ वा । उदासीनौ प्रयत्नशून्यौ । तस्य पितरावपश्यमिति सम्बन्ध: ।। 2.64.45 ।।

शोकोपहतचित्तश्च भयसन्त्रस्तचेतन: ।

तच्चाश्रमपदं गत्वा भूय: शोकमहं गत: ।। 2.64.6 ।।

शोकोपहतचित्त इति । पुत्रवधेन पूर्वमेव शोकोपहतचित्त: भूय: शोकं गत: तद्दर्शनादतिशयितशोकं गत: ।। 2.64.6 ।।

पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत ।

किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ।। 2.64.7 ।।

पदशब्दमिति । पदशब्दं चरणविन्यासजशब्दम् । चिरायसि विलम्बसे “तत्करोति” इति णिच् ।। 2.64.7 ।।

यन्निमित्तमिदं तात सलिले क्रीडितं त्वया ।

उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ।। 2.64.8 ।।

यन्निमित्तं किं निमित्तमित्यर्थ: । यद्वा यन्निमित्तं त्वया सलिले क्रीडितम् इदं ब्रूहीति शेष: । यन्न दत्तमिति पाठे–इदानीं पानीयं न दत्तमिति यत् तस्मात्त्वया सलिले क्रीडितमित्यन्वय: । उत्कण्ठिता शोकस्मरणवत्यभूत् ।। 2.64.8 ।।

यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया ।

न तन्मनसि कर्तव्यं त्वया तात तपस्विना ।। 2.64.9 ।।

व्यलीकम् अप्रियम् । अलीकमिति पाठे–अलीकमपराध: ‘अलीकमपराध:’ इति हलायुध: ।। 2.64.9 ।।

त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् ।

समासक्तास्त्वयि प्राणा: किं त्वं नो नाभिभाषसे ।। 2.64.10 ।।

त्वमिति । न: अस्मान् इति मुनिर्वाक्यमभाषतेत्यन्वय: ।। 2.64.10 ।।

मुनिमव्यक्तया वाचा तमहं सज्जमानया ।

हीनव्यञ्जनया प्रेक्ष्य भीतोभीत इवाब्रवम् ।। 2.64.11 ।।

मुनिमिति । सज्जमानया स्खलन्त्या । हीनव्यञ्जनया अस्पष्टाक्षरया । “व्यञ्जनं श्मश्रुनिष्ठानचिह्नेष्ववयवे ऽक्षरे” इति वैजयन्ती । अव्यक्तया वाचा अब्रवमिति सम्बन्ध: । भीतोपि सन् भीत: भीतोभीत:, अत्यन्तभीत इत्यर्थ: (पाठभेद: । भीतो ऽपि सन्नभीत इवाब्रवम् ।) इवशब्दो वाक्यालङ्कारे ।। 2.64.11 ।।

मनस: कर्मचेष्टाभिरभिसंस्तभ्य वाग्बलम् ।

आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ।। 2.64.12 ।।

उक्तमेव विशदं दर्शयति–मनस इति । मनस: कर्म ऊहापोहात्मकम् । चेष्टा: इन्द्रियनियमनरूपव्यापारा: ताभिर्वाग्बलम् अभिसंस्तभ्य स्खलितां वाचं बलाद्दृढीकृत्येत्यर्थ: । तस्मै भयमाचचक्ष इति सम्बन्ध: । यद्वा वाग्बलमभिसंस्तभ्य लज्जाभीतिप्रभृतिभि: मन्दवचनोभूत्वेत्यर्थ: । आचचक्षे इति लिडुत्तमपुरुषैकवचनम् ।। 2.64.12 ।।

क्षत्ित्रयो ऽहं दशरथो नाहं पुत्त्रो महात्मन: ।

सज्जनावमतं दु:खमिदं प्राप्तं स्वकर्मजम् ।। 2.64.13 ।।

क्षत्ित्रय इति । महात्मन:, तवेति शेष: सज्जनावमतं सज्जनावमतिविषयभूतम्, सत्पुरुषगर्हितमित्यर्थ: ।। 2.64.13 ।।

भगवंश्चापहस्तो ऽहं सरयूतीरमागत: ।

जिघांसु: श्वापदं कञ्चिन्निपाने चागतं गजम् ।। 2.64.14 ।।

भगवन्निति । निपाने जलावतारे । आगतं गजं श्वापदं हिंस्रशार्दूलादिकं च जिघांसु: चापहस्तो ऽहं सरयूतीरमागत: ।। 2.64.14 ।।

तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यत: ।

द्विपो ऽयमिति मत्वा ऽयं बाणेनाभिहतो मया ।। 2.64.15 ।।

गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि ।

विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ।। 2.64.16 ।।

भगवन् शब्दमालक्ष्य मया गजजिघांसुना ।

विसृष्टो ऽम्भसि नाराचस्ततस्ते निहत: सुत: ।। 2.64.17 ।।

ततस्तस्यैव वचनादुपेत्य परितप्यत: ।

स मया सहसा बाण उद्धृतो मर्मतस्तदा ।। 2.64.18 ।।

तत्रेति । पूर्यत: पूर्यमाणस्य । अयं शब्दहेतु: पदार्थ: द्विप इति मत्वा अयं तव सुत: मया अभिहत: ।। 2.64.1518 ।।

स चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थित: ।

भवन्तौ पितरौ शोचन्नन्धाविति विलप्य च ।। 2.64.19 ।।

स इति । उद्धृतेन बाणेन हेतुना अन्धौ पितरौ मातापितराविति भवन्तावेव शोचन् विलप्य च स्वर्गमास्थित: ।। 2.64.19 ।।

अज्ञानाद्भवत: पुत्र: सहसाभिहतो मया ।

शेषमेवङ्गते यत्स्यात्तत्प्रसीदतु मे मुनि: ।। 2.64.20 ।।

अज्ञानादिति । एवंगते एवंप्राप्ते सति । यच्छेषं कर्तव्यं स्यात् शापानुग्रहादिकं तत्प्रति मे मयि प्रसीदतु, शापोवा ऽनुग्रहो वा य: कर्तव्यस्तं करोत्वित्यर्थ: ।। 2.64.20 ।।

स तच्छ्रुत्वा वच: क्रूरं मयोक्तमघशंसिना ।

नाशकत्तीव्रमायासमकर्तुं भगवानृषि: ।। 2.64.21 ।।

स बाष्पपूर्ण वदनो निश्वसन् शोककर्शित: ।

मामुवाच महातेजा: कृताञ्जलिमुपस्थितम् ।। 2.64.22 ।।

स इति । अघशंसिना दु:खशंसिना । आयासं व्यसनम् अकर्तुं नाशकत्, कृतवानेवेत्यर्थ: ।। 2.64.2122 ।।

यद्येतदशुभं कर्म न त्वं मे कथये: स्वयम् ।

फलेन्मूर्द्धा स्म ते राजन् सद्य: शतसहस्रधा ।। 2.64.23 ।।

यदीति । स्मेति वाक्यालङ्कारे । फलेत् विशीर्येत् । “ञिफलाविशरणे” इति धातु: । मच्छापेनेति शेष: ।। 2.64.23 ।।

क्षत्ित्रयेण वधो राजन् वानप्रस्थे विशेषत: ।

ज्ञानपूर्वं कृत: स्थानाच्च्यावयेदपि वज्रिणम् ।। 2.64.24 ।।

क्षत्ित्रयेण पालकेन वानप्रस्थे अज्ञानत: कृतो वध: वज्रिणमिन्द्रमपि स्थानात् च्यावयेत् । ज्ञानपूर्वं कृत: ज्ञानकृतस्तु विशेषतश्च्यावयेत् । अविलम्बो विशेष: ।। 2.64.24 ।।

सप्तधा तु फलेन्मूर्द्धा मुनौ तपसि तिष्ठति ।

ज्ञानाद्विसृजत: शस्त्रं तादृशे ब्रह्मवादिनि ।। 2.64.25 ।।

सप्तधेत्युपलक्षणं बहुधेत्यर्थ: । ब्रह्मवादिनि परमात्मज्ञे । ब्रह्मचारिणीति पाठे–चरतेर्गत्यर्थत्वात् “सर्वे गत्यर्था ज्ञानार्था:” इति न्यायेन ब्रह्म तत्त्वं चरितुं ज्ञातुं शीलमस्यास्तीति ब्रह्मचारी तस्मिन् । “ज्ञाने तत्त्वे तपोध्यात्मवेदेषु ब्रह्म चोच्यते” इति निघण्टु: ।। 2.64.25 ।।

अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसि ।

अपि ह्यद्य कुलं न स्यादिक्ष्वाकूणां कुतो भवान् ।। 2.64.26 ।।

यस्मात् कारणात् इदं दुष्कृतमज्ञानात्कृतं तेन त्वं जीवसि अपि च अद्य ज्ञानपूर्वकत्वे वधस्य राघवाणां कुलं न स्यात् भवान् कुत: स्यात् जीवेत्, इति मामुवाचेत्यन्वय: ।। 2.64.26 ।।

नय नौ नृपतं देशमिति मां चाभ्यभाषत ।

अद्य तं द्रष्टुमिच्छाव: पुत्रं पश्चिमदर्शनम् ।। 2.64.27 ।।

रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम् ।

शयानं भुवि निस्संज्ञं धर्मराजवशङ्गतम् ।। 2.64.28 ।।

नयेत्यादिश्लोकद्वयमेकं वाक्यम् । धर्मराजवशं गतं पुत्रं द्रष्टुमिच्छाव: अत: नौ तं देशं नयेति मामभ्यभाषतेति सम्बन्ध: ।। 2.64.2728 ।।

अथाहमेकस्तं देशं नीत्वा तौ भृशदु:खितौ ।

अस्पर्शयमहं पुत्रं तु मुनिं सह भार्यया ।। 2.64.29 ।।

तौ पुत्रमात्मन: स्पृष्ट्वा तमासाद्य तपस्विनौ ।

निपेततु: शरीरे ऽस्य पिता चास्येदमब्रवीत् ।। 2.64.30 ।।

नाभिवादयसे मा ऽद्य न च मामभिभाषसे ।

किं नु शेषे च भूमौ त्वं वत्स किं कुपितो ह्यसि ।। 2.64.31 ।।

अथेति । अहं तौ नीत्वा अहं तमस्पर्शयमिति सम्बन्धेनाहंशब्दद्वयावैयर्थ्यम् ।। 2.64.2931 ।।

न त्वहं ते प्रिय: पुत्र मातरं पश्य धार्मिक ।

किन्नु नालिङ्गसे पुत्र सुकुमार वचो वद ।। 2.64.32 ।।

न त्विति । अहं ते प्रिय: न तु चेत् मातरं पश्येत्यन्वय: ।। 2.64.32 ।।

कस्य वा ऽपररात्रे ऽहं श्रोष्यामि हृदयङ्गमम् ।

अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषत: ।। 2.64.33 ।।

कस्येति । हृदयङ्गमं मनोहरस्वरम् अधीयानस्य पठत: । अन्यद्वा इतिहासपुराणादिकं वा ।। 2.64.33 ।।

को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशन: ।

श्लाघयिष्यत्युपासीन: पुत्रशोकभयार्दितम् ।। 2.64.34 ।।

क इति । सन्ध्यामुपास्य नमस्कारपूर्वकं तान्त्रिकं सन्ध्यावन्दनं कृत्वेत्यर्थ: । हुतहुताशन: कृतहोम: । ननु वैश्यात् शूद्रायां जातो हि करण: तस्य कथं होमाधिकार इति ? मैवम्– “नमस्कारेण मन्त्रेण पञ्चयज्ञान् समापयेत्” इति चतुर्थवर्णस्यापि पञ्चमहायज्ञाधिकार: स्मर्यते ततोप्यधिकस्य करणस्य स्वोचितमन्त्रैर्होमाधिकारस्य कैमुत्यन्यायसिद्धत्वात् । श्लाघयिष्यति उपचरिष्यतीत्यर्थ: ।। 2.64.34 ।।

कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम् ।

भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् ।। 2.64.35 ।।

इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् ।

कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम् ।। 2.64.36 ।।

कन्दमूलफलमिति । कन्दं जलोद्भवानां पद्मादीनाम्, मूलं स्थलोद्भवानाम् । अकर्मण्यं कर्मानुष्ठानाक्षमम् । अप्रग्रहं नीवारादिसङ्ग्रहरहितम् । अनायकम् अनाथं रक्षकरहितं यष्टिं गृहीत्वा मार्गदर्शकरहितमिति वार्थ: ।। 2.64.3536 ।।

तिष्ठ मां मागम: पुत्र यमस्य सदनं प्रति ।

श्वो मया सह गन्तासि जनन्या च समेधित: ।। 2.64.37 ।।

उभावपि च शोकार्तावनाथौ कृपणो वने ।

क्षिप्रमेव गमिष्यावस्त्वया ऽहीनौ यमक्षयम् ।। 2.64.38 ।।

तिष्ठेति । तिष्ठमां मां प्रति तिष्ठ । मागम: मा गच्छ । समेधित: सहित इत्यर्थ: ।। 2.64.3738 ।।

ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् ।

क्षमतां धर्मराजो मे बिभृयात्पितरावयम् ।। 2.64.39 ।।

दातुमर्हति धर्मात्मा लोकपालो महायशा: ।

ईदृशस्य ममाक्षय्यामेकामभयदक्षिणाम् ।। 2.64.40 ।।

तत इति । वैवस्वतं यमम्, धर्मराज: क्षमतां मत्पुत्रस्य स्वपरिसरागमनविलम्बं सहताम् । मे मत्सम्बन्धी अयं पुत्रं पितरौ बिभृयादिति भारतीं प्रवक्ष्यामीति सम्बन्ध: ।। 2.64.3940 ।।

अपापो ऽसि यदा पुत्र निहत: पापकर्मणा ।

तेन सत्येन गच्छाशु ये लोका: शस्त्रयोधिनाम् ।। 2.64.41 ।।

यान्ति शूरा गतिं यां च सङ्ग्रामेष्वनिवर्तिन: ।

हतास्त्वभिमुखा: पुत्र गतिं तां परमां व्रज ।। 2.64.42 ।।

यां गतिं सगर: शैब्यो दिलीपो जनमेजय: ।

नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक ।। 2.64.43 ।।

राज्ञा स्वहस्तकृतं हननं पूर्वकृतस्य पापस्य प्रायश्चित्तत्वेन प्राप्तमिति मत्वा वदति–अपाप इति । पापकर्मणा राज्ञा यदा निहत: तदैवापापोसि, तेन अपापत्वेन हेतुना । सत्येन मम सत्येन शस्त्रयोधिनां ये लोका स्तान् आशु गच्छेति योजना । नन्वस्य तपस्विनो ब्रह्मलोकप्राप्तिरेव वक्तव्या शस्त्रहननमात्रेण शस्त्रयोधिना लोकं प्राप्यत्वेन वदति, एतत्कथमुपपद्यते ? उच्यते– “द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड् योगयुक्तश्च रणे चाभिमुखो हत: ।।” इति शस्त्रयोधिनामुत्कृष्टलोकप्राप्तिश्रवणान्न दोष: ।। 2.64.4143 ।।

या गति: सर्वसाधूनां स्वाध्यायात्तपसा च या ।

या भूमिदस्याहिताग्नेरेकपत्नीव्रतस्य च ।। 2.64.44 ।।

या गतिरिति । एकपत्नीव्रतस्येति इदं च व्रतमनुकूलायां पुत्रिण्यां पत्न्यां बोध्यम् ।। 2.64.44 ।।

गोसहस्रप्रदातृ़णां या या गुरुभृतामपि ।

देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ।। 2.64.45 ।।

गोसहस्रप्रदातृ़णामिति । या येति एकस्य यच्छब्दस्य पूर्वेणान्वय: । गुरुभृतां गुरुशुश्रूषाकारिणां देहन्यासकृतां महाप्रस्थानादिनेति शेष: । यद्वा परलोकप्राप्तिसङ्कल्पपूर्वकं गङ्गायमुनासङ्गमादौ जले ऽग्नौ वा तनुं त्यजतामित्यर्थ: ।। 2.64.45 ।।

न हि त्वस्मिन् कुले जातो गच्छत्यकुशलां गतिम् ।

स तु यास्यति येन त्वं निहतो मम बान्धव: ।। 2.64.46 ।।

नेति । अस्मिन्कुले तपोनिष्ठानामस्माकं कुले जात: । अकुशलाम् अशुभां गतिं न गच्छेत् अपितु मम बान्धव: पुत्र: त्वं येन निहत: स एवाकुशलां गतिं यास्यति ।। 2.64.46 ।।

एवं स कृपणं तत्र पर्यदेवयतासकृत् ।

ततो ऽस्मै कर्तुमुदकं प्रवृत्त: सह भार्यया ।। 2.64.47 ।।

एवमिति । उदकं संस्कारपूर्वोदकक्रिया: ।। 2.64.47 ।।

स तु दिव्येन रूपेण मुनिपुत्र: स्वकर्मभि: ।

स्वर्गमध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित् ।। 2.64.48 ।।

स त्विति । शक्रेण सह स्वर्गमध्यारुहदित्यनेन मुनिपुत्रं स्वर्गं नेतुं शक्र: समागत इति गम्यते ।। 2.64.48 ।।

आबभाषे च तौ वृद्धौ सह शक्रेण तापस: ।

आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत् ।। 2.64.49 ।।

सङ्ग्रहेणोक्तं स्वर्गारोहणं विवृणोति–आबभाष इति । तापस: शक्रेण सह तौ वृद्धौ आबभाषे । आभाषणेपि वृद्धयोरश्रवणात् पुनराहेत्याह आश्वास्य चेति ।। 2.64.49 ।।

स्थानमस्मि महत्प्राप्तो भवतो: परिचारणात् ।

भवन्तावपि च क्षिप्रं मम मूलमुपैष्यत: ।। 2.64.50 ।।

स्थानमिति । मूलं समीपम् । “आद्ये शिफायां नक्षत्रे मूलं कुञ्जसमीपयो:” इति निघण्टु: ।। 2.64.50 ।।

एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता ।

आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रिय: ।। 2.64.51 ।।

स कृत्वा तूदकं तूर्णं तापस: सह भार्यया ।

मामुवाच महातेजा: कृताञ्जलिमुपस्थितम् ।। 2.64.52 ।।

एवमिति । वपुष्मता प्रशस्ताकारेण । प्रशंसायां मतुप् ।। 2.64.5152 ।।

अद्यैव जहि मां राजन् मरणे नास्ति मे व्यथा ।

यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् ।। 2.64.53 ।।

अद्येति । जहि प्राणान् मोचय । “हन्तेर्ज:” इति जादेश: । कथं मारणं दु:खाकरत्वादित्यत्राह–मरणे नास्ति मे व्यथेति । व्यथाभावहेतुमाह यदिति । अतोपि किं व्यथा ऽस्तीति भाव: ।। 2.64.53 ।।

त्वया तु यदविज्ञानान्निहतो मे सुत: शुचि: ।

तेन त्वामभिशप्स्यामि सुदु:खमतिदारुणम् ।। 2.64.54 ।।

त्वेयेति । अभिशप्स्यामि नतु भस्मीकरोमीति भाव: । सुदु:खमतिदारुणमिति क्रियाविशेषणम् ।। 2.64.54 ।।

पुत्रव्यसनजं दु:खं यदेतन्मम साम्प्रतम् ।

एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि ।। 2.64.55 ।।

पुत्रव्यसनजमिति । यद्यस्मात्कारणात् मम एतन्मरणपर्यवसायिपुत्रव्यसनजं दु:खम्, अभूदिति शेष: । एवं पुत्रशोकेन कालं करिष्यसि, मृत्युं प्राप्स्यसीत्यर्थ: । “कालो मृत्यौ च समये” इति वैजयन्ती ।। 2.64.55 ।।

अज्ञानात्तु हतो यस्मात् क्षत्ित्रयेण त्वया मुनि: ।

तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप ।। 2.64.56 ।।

अज्ञानादिति । ब्रह्महत्या बहुपातकमित्यर्थ: । अन्यथा वैश्यात् शूद्रायां जातस्य करणाख्य सङ्करजातित्वेन ब्रह्महत्याप्रसक्त्यभावात् ।। 2.64.56 ।।

त्वामप्ये तादृशो भाव: क्षिप्रमेव गमिष्यति ।

जीवितान्तकरो घोरो दातारमिव दक्षिणा ।। 2.64.57 ।।

त्वामिति । एतादृश: पुत्रशोकरूप: । भाव: स्वभाव: । दातारमिव दक्षिणा यथा विप्राय दक्षिणा दत्ता दातारं स्वसदृशफलं प्रापयति तथेत्यर्थ: । पुत्रशोकातिशयेन इह जन्मन्येव फलमनुभविष्यसीति धिया क्षिप्रमित्युक्तवान् । दक्षिणाशब्देन दक्षिणाहेतुकं सुकृतं लक्ष्यते ।। 2.64.57 ।।

एवं शापं मयि न्यस्य विलप्य करुणं बहु ।

चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात् ।। 2.64.58 ।।

एवमिति । देहमित्येकवचनेन चितारोहणकाले देहयोर्गाढबद्धत्वं लक्ष्यते ।। 2.64.58 ।।

तदेतच्चिन्तयानेन स्मृतं पापं मया स्वयम् ।

तदा बाल्यात् कृतं देवि शब्दवेध्यनुकर्षिणा ।। 2.64.59 ।।

तदिति । शब्दवेध्यनुकर्षिणा शब्दवेधिनं बाणं प्रयुञ्जानेन । यद्वा शब्दवेधिनं बाणं मुक्त्वा

पुनस्तच्छरीरप्रोतशल्यमनुकृष्टवतेत्यर्थ: । चिन्तयानेन मरणपर्यवसायी पुत्रशोक: प्राप्त: अस्य किं निदानमिति चिन्तयानेन । एतत् पापं स्मृतं मुनिकुमारवधरूपं पापं स्मृतिविषयमभूदित्यर्थ: ।। 2.64.59 ।।

तस्यायं कर्मणो देवि विपाक: समुपस्थित: ।

अपथ्यै: सह सम्भुक्तो व्याधिमन्नरसो यथा ।। 2.64.60 ।।

तस्येति । अपथ्यै: व्याधिविवर्धकै: व्यञ्जनै: सह सम्भुक्त: अन्नरस: व्याधिमुल्बणयन्निति शेष: । समुपस्थितो भवति बाधकत्वेन प्राप्तो भवति । अपथ्यै: सह सम्भुक्ते व्याधिरन्नरसे यथेति च पाठ: ।। 2.64.60 ।।

तस्मान्मामागतं भद्रे तस्योदारस्य तद्वच: ।

यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम् ।। 2.64.61 ।।

तस्मादिति । उदारस्य शापप्रदातु: । उदारत्वोक्तिरपुत्रस्य पुत्रसम्पादनपरत्वात् । यद्वा उदारस्य महत: “उदारो दातृमहतो:” इत्यमर: । वचो मामागतं शापरूपवचनार्थो मां प्राप्त इत्यर्थ: ।। 2.64.61 ।।

चक्षुर्भ्यां त्वां न पश्यामि कौसल्ये साधु मा स्पृश ।

इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिप: ।। 2.64.62 ।।

चक्षुर्भ्यामिति । मा माम् ।। 2.64.62 ।।

एतन्मे सदृशं देवि यन्मया राघवे कृतम् ।

सदृशं तत्तु तस्यैव यदनेन कृतं मयि ।। 2.64.63 ।।

इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिप इत्यर्द्धानन्तरम् एतन्मे सदृशं देवि यन्मया राघवे कृतम् । सदृशं तत्तु तस्यैव यदनेन कृतं मयि । इति क्रम: ।। 2.64.63 ।।

दुर्वृत्तमपि क: पुत्रं त्यजेद्भुवि विचक्षण: ।

कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुत: ।। 2.64.64 ।।

एतदर्थद्वयं क्रमेणोपपादयति–दुर्वृत्तमित्यर्धद्वयेन ।। 2.64.64 ।।

यदि मां संस्पृशेद्राम: सकृदद्य लभेत वा ।

यमक्षयमनुप्राप्ता द्रक्ष्यन्ति नहि मानवा: ।। 2.64.65 ।।

चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते ।

दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् ।। 2.64.66 ।।

अतस्तु किं दु:खतरं यदहं जीवितक्षये ।

नहि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम् ।। 2.64.67 ।।

यदीति । राम: सकृदप्यद्य मां संस्पृशेत् लभेत वा चक्षुर्विषयतां प्राप्नुयाद्वा तदा जीवेयमिति गम्यमानत्वात्तदनुक्ति: । किमर्थमेवमर्थनं करोषीत्यत्राह–यमेति । यमक्षयं यमगृहमनुप्राप्ता: मानवा: बान्धवान्न द्रक्ष्यन्ति हीत्यर्थ: । तस्माज्जीवनकाल एव दर्शनमपेक्ष्यत इति भाव: ।। 2.64.6567 ।।

तस्यादर्शनज: शोक: सुतस्याप्रतिकर्मण: ।

उच्छोषयति मे प्राणान् वारिस्तोकमिवातप: ।। 2.64.68 ।।

तस्येति । अप्रतिकर्मण: प्रतिक्रियारहितस्य । स्तोकम् अल्पम् । “स्तोकाल्पक्षुल्लका:” इत्यमर: ।। 2.64.68 ।।

न ते मनुष्यादेवास्ते ये चारुशुभकुण्डलम् ।

मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुन: ।। 2.64.69 ।।

पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् ।

धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् ।। 2.64.70 ।।

सदृशं शारदस्येन्दो: फुल्लस्य कमलस्य च ।

सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् ।। 2.64.71 ।।

नेति । मनुष्या: जरायुक्ता: न भवन्ति किन्तु देवा: नित्ययौवना: “अहं पुनर्देवकुमाररूपमलंकृतं तं सुतमाव्रजन्तम् । नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्युवेव ।।” इति हि पूर्वमुक्तवान्। चारुशुभकुण्डलं तन्मुखसंयोगात् कुण्डलमतीवशोभां प्राप्तमित्युच्यते ।। 2.64.6971 ।।

निवृत्तवनवासं तमयोध्यां पुनरागतम् ।

द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा ।। 2.64.72 ।।

निवृत्तवनवासमिति । मार्गगतं शुक्रं यथा मौढ्यं विहाय स्वस्थानगतं शुक्रमिव ।। 2.64.72 ।।

कौसल्ये चित्तमोहेन हृदयं सीदतीव मे ।

वेदये न च संयुक्तान् शब्दस्पर्शरसानहम् ।। 2.64.73 ।।

कौसल्य इति । चित्तमोहेन चित्तस्य मोहो दु:खातिशय प्राप्ता मूर्च्छा, तयेत्यर्थ: । “मूर्छा तु कश्मलं मोह:” इत्यमर: । हृदयं मनसोधिष्ठानम् । सीदतीव विशीर्यतीव । संयुक्तान् इन्द्रियसंयुक्तान् । न वेदये न जाने ।। 2.64.73 ।।

चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।

क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा ।। 2.64.74 ।।

अयमात्मभव: शोको मामनाथमचेतनम् ।

संसादयति वेगेन यथा कूलं नदीरय: ।। 2.64.75 ।।

हृदयविशरणेन शब्दाद्यज्ञाने हेतुमाह–चित्तनाशादिति । संसक्ता: दीपाविनाभूता: यथा स्नेहनाशकृतदीपनाशाद्रश्मिनाश: । एवं शरीरशैथिल्यकृतचित्तनाशादिन्द्रियनाश इति सूचितम् ।। 2.64.7475 ।।

हा राघव महाबाहो हा ममायासनाशन ।

हा पितृप्रिय मे नाथ हाद्य क्वासि गत: सुत ।। 2.64.76 ।।

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।

हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ।। 2.64.77 ।।

इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।

राजा दशरथ: शोचञ्जीवितान्मुपागमत् ।। 2.64.78 ।।

यदा तु दीनं कथयन्नराधिप: प्रियस्य पुत्रस्य विवासनातुर: ।

गते ऽर्धरात्रे भृशदु:खपीडितस्तदा जहौ प्राणमुदारदर्शन: ।। 2.64.79 ।।

हेति । आयासनाशन दु:खनाशन ।। 2.64.7679 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतु:षष्टितम: सर्ग: ।। 64 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतु:षष्टितम: सर्ग: ।। 64 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.