88 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टाशीतितम: सर्ग:

तच्छ्रुत्वा निपुणं सर्वं भरत: सह मन्त्रिभि: ।

इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ।। 2.88.1 ।।

अब्रवीज्जननी: सर्वा इह तेन महात्मना ।

शर्वरी शयिता भूमाविदमस्य विमर्दितम् ।। 2.88.2 ।।

तदित्यादिश्लोकद्वयमेकं वाक्यम् । निपुणं सावधानमित्यर्थ: । तेन रामेण । इह भूमौ । शर्वरीशयिता शर्वर्य्यां शयनं कृतम् । निष्ठाया अधिकरणत्वस्याभिहितत्वाच्छर्वरीशब्दात् प्रथमा, इदमेषामासितमितिवत् । इदमस्य विमर्दितमित्यत्राप्यधिकरणे निष्ठा । “क्तस्य च वर्त्तमाने” इति कर्त्तति षष्ठी । अस्मिन्नेतत्कर्तृकं विमर्दनमित्यर्थ: ।। 2.88.12 ।।

महाभागकुलीनेन महाभागेन धीमता ।

जातो दशरथे नोर्व्यां न राम: स्वप्तुमर्हति ।। 2.88.3 ।।

महाभागेति । महाभागेन महानुभावेन । दशरथेनेति पञ्चम्यर्थे तृतीया ।। 2.88.3 ।।

अजिनोत्तरसंस्तीर्णे वरास्तरणसञ्चये ।

शयित्वा पुरुषव्याघ्र: कथं शेते महीतले ।। 2.88.4 ।।

अजिनेति । अजिनोत्तरसंस्तीर्णे अजिनरूपोत्तरच्छदेन संस्तीर्णे । अजिनशब्देन “कदलीकन्दलीचीनश्चमूरुप्रियकावपि । समूरुश्चेति हरिणा अमी अजिनयोनय: ।।” इत्युक्तकदल्याद्यजिनं विवक्षितम्। वरास्तरणसञ्चये वराणि अमूल्यानि आस्तरणानि येषु पर्य्यङ्केषु तेषां सञ्चये समूहे। पर्य्यङ्कानां बहुत्वं शीतोष्णादिकालोचितान्तर्गृहशिरोगृहादिबाहुल्यात्। यद्वा मार्द्दवातिशयायानेकास्तरणत्वम्। अतिमृदुत्वादजिनस्योपर्यास्तरणत्वम् ।। 2.88.4 ।।

प्रासादाग्रविमानेषु वलभीषु च सर्वदा ।

हैमराजतभौमेषु वरास्तरणशालिषु ।। 2.88.5 ।।

प्रासादेति । प्रासादाग्रविमानेषु विमानतुल्यप्रासादशिखरेषु । वलभीषु कूटागारेषु “कूटागारे तु वलभी” इति वैजयन्ती । हैमराजतभौमेषु हैमानि राजतानि भौमानि भूतलानि येषु तेषु । वरास्तरणशालिषु चित्रकम्बलादिशालिषु ।। 2.88.5 ।।

पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु ।

पाण्डराभ्रप्रकाशेषु शुकसङ्घरुतेषु च ।। 2.88.6 ।।

पुष्पसञ्चयचित्रेषु चित्रपुष्पसमूहेषु । चन्दनागरुगन्धिषु चन्दनागरुधूपगन्धिषु । पाण्डराभ्रप्रकाशेषु तद्वद्धवलेषु । शुकसङ्घरुतेषु शुकसमूहनादवत्सु । अर्शआदित्वादच्मत्वर्थीय: ।। 2.88.6 ।।

प्रासादवरवर्य्येषु शीतवत्सु सुगन्धिषु ।

उषित्वा मेरुकल्पेषु कृतकाञ्चनभित्तिषु ।। 2.88.7 ।।

प्रासादवरवर्येषु प्रासादवराणामुत्तमेषु । शीतवत्सु शैत्यवस्तु । “शीतं गुणे तद्वत्” इत्यमर: । सुगन्धिषु घनसारादिभिरिति शेष: । उषित्वा शयित्वेत्यर्थ: । उपरि प्रतिबोधोक्ते: । मेरुतुल्यत्वे हेतु: कृतकाञ्चनभित्तिष्विति ।। 2.88.7 ।।

गीतवादित्रनिर्घोषैर्वराभरणनिस्वनै: ।

मृदङ्गवरशब्दैश्च सततं प्रतिबोधित: ।। 2.88.8 ।।

वन्दिभिर्वन्दित: काले बहुभि: सूतमागधै: ।

गाथाभिरनुरूपाभिस्तुतिभिश्च परन्तप: ।। 2.88.9 ।।

गीतवादित्रनिर्घोषै: गीतैस्तदनुगुणवीणादिरावै: । वराभरणनिस्वनै: परिचारिका पाणिचरणनूपुरकङ्कणाद्याभरणशिञ्जितै: । मृदङ्गवरशब्दै: मर्दलविशेषध्वनिभिश्च सततं प्रतिबोधित: । अथ प्रबोधनानन्तरम् । काले प्रात:काले । वन्दिभि: कर्तृभि: सूतमागधैश्च । गाथाभि: गद्यविशेषै: (पद्यविशेषै:) । स्तुतिभि: स्तोत्रप्रबन्धैश्च वन्दित: स्तुत: । “वदि अभिवादनस्तुत्यो:” इति धातु: । परन्तप: अन्यराजशिक्षणपरो राम: (अथ राज्यशिक्षणपरो राम:) कथं भूमौ केवलायां शेते कथं श्वापदरवै: प्रतिबोध्यते कथमेकाकी तिष्ठतीति चोपस्कार्यम् । गम्यमानत्वादप्रयोग: । “यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव स: ।।” इत्यादिवत् ।। 2.88.89 ।।

अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा ।

मुह्यते खलु मे भाव: स्वप्नो ऽयमिति मे मति: ।। 2.88.10 ।।

अश्रद्धेयमिति । इदं रामस्य तृणशय्याशयनादिकम् अश्रद्धेयम् । लोके पश्यामि “लोकृ दर्शने” इति धातु: । तत्र हेतुमाह न सत्यमिति । किञ्च मे भाव: हृदयं मुह्यते खलु मुह्यति किमु । रामस्य भूमिशयनश्रवणादिकं भ्रमो वेत्यर्थ: । अथवा अयं पूर्वोक्तश्रवणम् । स्वप्नापेक्षया पुल्लिङ्गत्वम् । स्वप्न इति मे मति: मतम्, सिद्धान्त इत्यर्थ: ।

कथमन्यथा सर्वमिदमसम्भाव्यं सम्भाव्यत इति भाव: ।। 2.88.10 ।।

न नूनं दैवतं किञ्चित् कालेन बलवत्तरम् ।

यत्र दाशरथी रामो भूमावेव शयीत स: ।। 2.88.11 ।।

नेति । कालेन कालात् । दैवतं बलवत्तरं न नूनं काल एव बलीयानित्यर्थ: । यत्र यस्मात् दाशरथि: दशरथपुत्रोपि भूमावेव शयीत तस्मादित्यर्थ: ।। 2.88.11 ।।

विदेहराजस्य सुता सीता च प्रियदर्शना ।

दयिता शयिता भूमौ स्नुषा दशरथस्य च ।। 2.88.12 ।।

विदेहराजस्येति । प्रियदर्शना अतदर्हेत्यर्थ: । दयिता रामस्य प्राणेभ्योपि प्रेयसी शयिता शयितवती । कर्तरि क्त: । हन्तेति शेष: ।। 2.88.12 ।।

इयं शय्या मम भ्रातुरिदं हि परिवर्त्तितम् ।

स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम् ।। 2.88.13 ।।

इयमिति । परिवर्त्तितं परिवर्त्तनं स्वापकाले श्रमातिशयादितस्तत: शरीरपरिवर्त्तनपरम् । परिवर्तनज्ञापकमाह स्थण्डिल इति । स्थण्डिले भूतले कठिनस्थलत्वात् गात्रै: विमृदितं क्षुण्णं तृणम् इदमित्यनुषङ्ग: ।। 2.88.13 ।।

मन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमे ।

तत्रतत्र हि दृश्यन्ते सक्ता: कनकबिन्दव: ।। 2.88.14 ।।

मन्य इति । साभरणा सुप्ता मार्गश्रमादाभरणमनुन्मुच्य सुप्तवती । शयनोत्तमे भर्तृशय्यात्वादितरतल्पेभ्य: श्रेष्ठतमे । साभरणा सुप्तेत्यत्र सूचकमाह तत्रतत्रेति । तत्रतत्र तृणेषु सक्ता: कनकबिन्दव: जाम्बूनदाभरणनिर्गलिता: सूक्ष्मरेणव: ।। 2.88.14 ।।

उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा ।

तथा ह्येते प्रकाशन्ते सक्ता: कौशेयतन्तव: ।। 2.88.15 ।।

उत्तरीयमिति । इह कुशाग्रेषु आसक्तम् इदमासञ्जनं सुव्यक्तं सीतया सीतायाः ।। 2.88.15 ।।

मन्ये भर्त्तु: सुखा शय्या येन बाला तपस्विनी ।

सुकुमारी सती दु:खं न विजानाति मैथिली ।। 2.88.16 ।।

मन्य इति । या कापि भर्तु: शय्या पतिव्रताया: सुखेति मन्ये । यत: सुकुमारी मैथिली सती पतिव्रता अस्मिन्नपि शयने शयिता दु:खं न जानाति ।। 2.88.16 ।।

हा हन्तास्मि नृशंसो ऽहं यत् सभार्य: कृते मम ।

ईदृशीं राघव: शय्यामधिशेते ह्यनाथवत् ।। 2.88.17 ।।

हाहन्तेति । हाहन्तेत्येकनिपात: खेदार्थ: । अहं नृशंसोस्मि निर्दयोस्मि । मम कृते मन्निमित्तम् । कृते इत्यव्ययम् ।। 2.88.17 ।।

सार्वभौमकुले जात: सर्वलोकस्य सम्मत: ।

सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तमम् ।। 2.88.18 ।।

कथमिन्दीवरश्यामो रक्ताक्ष: प्रियदर्शन: ।

सुखभागी न दु:खार्ह: शयितो भुवि राघव: ।। 2.88.19 ।।

जन्मना शक्तिमत्तया प्रजारञ्जकत्वेन शरीरलक्षणेन च राज्यार्हो राम: कथमेतादृशीं दुर्दशां प्राप्त इति खिद्यति–सार्वभौमकुले जात इत्यादिना श्लोकद्वयेन ।। 2.88.1819 ।।

धन्य: खलु महाभागो लक्ष्मण: शुभलक्षण: ।

भ्रातरं विषमे काले यो राममनुवर्त्तते ।। 2.88.20 ।।

धन्य इति । विषमे काले सङ्कटे काले ।। 2.88.20 ।।

सिद्धार्था खलु वैदेही पतिं यानुगता वनम् ।

वयं संशयिता: सर्वे हीनास्तेन महात्मना ।। 2.88.21 ।।

सिद्धार्थेति । पतिमनु पतिमनुसृत्य वनं गतेति सम्बन्ध: । संशयिता: अस्मत्सेवां रामो ऽङ्गीकरिष्यति नवेति संशयिता: ।। 2.88.21 ।।

अकर्णधारा पृथिवी शून्येव प्रतिभाति मा ।

गते दशरथे स्वर्गं रामे चारण्यमाश्रिते ।। 2.88.22 ।।

अकर्णधारेति । अकर्णधारा प्रधानपुरुषरहितेति यावत् । अत एव शून्येव प्रतिभाति ।। 2.88.22 ।।

न च प्रार्थयते कश्चिन्मनसापि वसुन्धराम् ।

वने ऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ।। 2.88.23 ।।

अनायकत्वे कथं राज्यं निरुपद्रवम् ? तत्राह–न चेति । कश्चित् सामन्त: न प्रार्थयते आक्रमितुं नेच्छति ।। 2.88.23 ।।

शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् ।

अपावृतपुरद्वारां राजधानीमरक्षिताम् ।। 2.88.24 ।।

अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम् ।

शत्रवो नाभिमन्यन्ते भक्षान् विषकृतानिव ।। 2.88.25 ।।

रामवीर्यं विना रक्षकान्तरशून्यत्वमाह शून्यसंवरणेत्यादि । शून्यसंवरणारक्षाम् अविद्यमानप्राकाररक्षकाम् । यद्वा शून्यसंवरण: गुप्तिरहित: आरक्ष: गुल्मस्थानं यस्या: सा तथा । अयन्त्रिता: रक्षकाणां रामपारवश्येन तैरबद्धा: हयद्विपा: यस्यास्ताम् । अपावृतानि अपिहितानि पुरद्वाराणि यस्यास्ताम् । अप्रहृष्टबलत्वमरक्षितत्वे हेतु: । न्यूनां साधनविहीनाम् । विषमस्थां दुर्दंशापन्नाम् । अनावृतां बाह्यरक्षकरहिताम् । नाभिमन्यन्ते अभिभवितुं न स्मरन्ति । भक्षान् अपूपादीन् । विषै: विषमिश्रै: कृतान् ।। 2.88.2425 ।।

अद्यप्रभृति भूमौ तु शयिष्ये ऽहं तृणेषु वा ।

फलमूलाशनो नित्यं जटाचीराणि धारयन् ।। 2.88.26 ।।

तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने ।

तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ।। 2.88.27 ।।

वसन्तं भ्रातुरर्थाय शत्रुध्नो मा ऽनुवत्स्यति ।

लक्ष्मणेन सह त्वार्यो ह्ययोध्यां पालयिष्यति ।। 2.88.28 ।।

उक्तसर्वानर्थस्य आत्ममूलकतया तत्प्रायश्चित्तमाह–अद्येत्यादिश्लोकद्वयमेकान्वयम् । तं प्रतिश्रवं तां प्रतिज्ञाम् । आमुच्य स्वस्मिन्नासज्य । तस्यार्थं रामार्थमित्यर्थ: । उत्तरं कालं चतुर्दशवर्षात्मके काले रामानुष्ठितव्यतिरिक्तोत्तरकालं वने वत्स्यामि । मिथ्या न भविष्यति, प्रतिज्ञेति शेष: ।। 2.88.2628 ।।

अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातय: ।

अपि मे देवता: कुर्युरिमं सत्यं मनोरथम् ।। 2.88.29 ।।

अभिषेक्ष्यन्तीति । देवता: इमं मनोरथं सत्यं कुर्युरपि । सम्भावनायामपिशब्द: ।। 2.88.29 ।।

प्रसाद्यमान: शिरसा मया स्वयं बहुप्रकारं यदि नाभिपत्स्यते ।

ततो ऽनुवत्स्यामि चिराय राघवं वने वसन्नार्हति मामुपेक्षितुम् ।। 2.88.30 ।।

प्रसाद्यमान इति । शिरसा प्रणामपूर्वकं स्वयं न तु मन्त्रिमुखेन । नाभिपत्स्यते नाङ्गीकरिष्यति, प्रसादमिति शेष: । ततस्तदा वने वसन् राघवमनुवत्स्यामि तदनुचरो भवामि । अनुचरणं वा कथमङ्गीकरिष्यतीत्यत्राह नार्हति मामुपेक्षितुमिति । मां भ्रातरं शिष्यं दासमित्यर्थ: ।। 2.88.30 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टाशीतितम: सर्ग: ।। 88 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टाशीतितम: सर्ग: ।। 88 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.