13 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

त्रयोदश: सर्ग:

अतदर्हं महाराजं शयानमतथोचितम् ।

ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ।। 2.13.1 ।।

अनर्थरूपा सिद्धार्थाह्यभीता भयदर्शिनी ।

पुनराकारयामास तमेव वरमङ्गना ।। 2.13.2 ।।

‘न ते करिष्यामि वच:’ इत्युक्त्वापि धर्मपाशबद्धतया पश्चात्तप्त: पुनस्तां सान्त्वयति त्रयोदशेअतदर्हमित्यादि श्लोकद्वयमेकान्वयम् । अतदर्हं तादृश दु:खानर्हम् । अतथोचितम् अध:शयनानुचितम् । अनर्थरूपा पापरूपा । असिद्धार्था अनिष्पन्नप्रयोजनो । अभीता लोकापवादभीतिरहिता । भयदर्शिनी । दशरथस्येति शेष: । यद्वा अभयदर्शिनी दशरथस्य भयमपश्तीत्यर्थ: । तमेव वरं पूर्वदत्तमेव वरमुद्दिश्य महाराजम् आकारयामास सम्बोधयामास । यद्वा दातव्यत्वेन ग्राहयामासेत्यर्थ: । वस्तुतस्त्वेकवचनस्वारस्यात् वरं श्रेष्ठं दशरथं स्वाभिमतकथनायाह्वयामासेत्यर्थ: ।। 2.13.12 ।।

त्वं कत्थसे महाराज सत्यवादी दृढव्रत: ।

मम चेमं वरं कस्माद्विधारयितुमिच्छसि ।। 2.13.3 ।।

त्वमिति । विधारयितुम् ऋणत्वेन धारयितुं च्यावयितुं वा विशेषेण धारयितुमादातुमितिवार्थ: ।। 2.13.3 ।।

एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा ।

प्रत्युवाच तत: क्रुद्धो मुहूत्त विह्वलन्निव ।। 2.13.4 ।।

मृते मयि गते रामे वनं मनुजपुङ्गवे ।

हन्तानार्ये ममामित्रे सकामा सुखिनी भव ।। 2.13.5 ।।

विह्वलन् मूर्च्छन् ।। 2.13.45 ।।

स्वर्गेपि खलु रामस्य कुशलं दैवतैरहम् ।

प्रत्यादेशादभिहितं धारयिष्ये कथं बत ।। 2.13.6 ।।

स्वर्ग इति । रामस्य कुशलं प्रति दैवतै: प्रत्यादेशादभिहितं धिक्कारपूर्वमभिहितं वाक्यं कथं धारयिष्ये सहिष्ये । मूढ: स्त्रीहेतो: कथं गुणवत्पुत्रं त्यक्तवानसीत्यभिहितं श्रुत्वा कथमात्मानं धारयिष्ये । तथा च रामप्रवासने इह परत्र च मम सौख्यं नास्तीत्यर्थ: ।। 2.13.6 ।।

कैकेय्या: प्रियकामेन राम: प्रव्राजितो मया ।

यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।। 2.13.7 ।।

ननु सत्यप्रतिज्ञत्वनिर्वाहार्थं राम: प्रव्राजित इति वक्तव्यमित्यत्राह–कैकेय्या इति । मयेत्यनन्तरमितिकरणं द्रष्टव्यम् । तदसत्यं भविष्यति ‘श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परन्तप’ इति रामोद्देशेनोक्तं वाक्यमसत्यं भविष्यतीत्यर्थ: ।। 2.13.7 ।।

अपुत्रेण मया पुत्र: श्रमेण महता महान् ।

रामो लब्धो महाबाहु: स कथं त्यज्यते मया ।। 2.13.8 ।।

शूरश्च कृतविद्यश्च जितक्रोध: क्षमापर: ।

कथं कमलपत्राक्षो मया रामो विवास्यते ।। 2.13.9 ।।

कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् ।

अभिराममहं रामं प्रेषयिष्यामि दण्डकान् ।। 2.13.10 ।।

अपरित्यागे हेत्वन्तराणि दर्शयति–अपुत्रेणेत्यादि ।। 2.13.810 ।।

सुखानामुचितस्यैव दु:खैरनुचितस्य च ।

दु:खं नामानुपश्येयं कथं रामस्य धीमत: ।। 2.13.11 ।।

सुखानामिति । दु:खैरिति षष्ठ्यर्थे तृतीया ।। 2.13.11 ।।

यदि दु:खमकृत्वाद्य मम संक्रमणं भवेत् ।

अदु:खार्हस्य रामस्य तत: सुखमवाप्नुयाम् ।। 2.13.12 ।।

यदीति । अदु:खार्हस्य रामस्य दु:खमकृत्वा मम संक्रमणं यदि भवेत् ततस्तदा सुखमवाप्नुयाम् । संक्रमणं तृणजलौकान्यायेन देहाद्देहान्तरप्राप्ति: । पञ्चत्वमिति यावत् ।। 2.13.12 ।।

नृशंसे पापसङ्कल्पे रामं सत्यपराक्रमम् ।

किं विप्रियेण कैकेयि प्रियं योजयसे मम ।। 2.13.13 ।।

नृशंस इति । मम प्रियं रामं विप्रियेणानभिमतदण्डकारण्यगमेनन । किं किमर्थं योजयसे ।। 2.13.13 ।।

अकीर्त्तिरतुला लोके ध्रुव: परिभवश्च मे ।। 2.13.14 ।।

अकीर्तिरित्यर्धम् । भविष्यतीति शेष: ।। 2.13.14 ।।

तथा विलपतस्तस्य परभ्रमितचेतस: ।

अस्तमभ्यागमत् सूर्योरजनी चाभ्यवर्त्तत ।। 2.13.15 ।।

तथेति । तस्य विलपत: तस्मिन् विलपति सतीत्यर्थ: ।। 2.13.15 ।।

सा त्रियामा तथार्त्तस्य चन्द्रमण्डलमण्डिता ।

राज्ञो विलपमानस्य न व्यभासत शर्वरी ।। 2.13.16 ।।

सा त्रियामेति । अत्रियामा यामत्रयवत्त्वं विहायातिदीर्घेत्यर्थ: ।। 2.13.16 ।।

तथैवोष्णं विनिश्वस्य वृद्धो दशरथो नृप: ।

विललापार्त्तद्दु:खं गगनासक्तलोचन: ।। 2.13.17 ।।

तथेति । आर्तवत् महारोगादिना पीडित इव । दु:खं विललाप । श्रृण्वतां यथा दु:खं भवति तथा विललापेत्यर्थ: ।। 2.13.17 ।।

न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषणे ।

क्रियतां मे दया भद्रे मयायं रचितो ऽञ्जलि: ।। 2.13.18 ।।

नेति । प्रभातं प्रभातत्वम् । भावे निष्ठा । अत्र प्रकरणे भर्त्सनप्रसादनाभ्यां पुन: पुन: क्रियमाणाभ्यां धर्ममपि त्यक्तुं न शक्नोमि न पुत्रमपीति गम्यते ।। 2.13.18 ।।

अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ।

नृशंसां कैकयीं द्रष्टुं यत्कृते व्यसनं महत् ।। 2.13.19 ।।

एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलि: ।

प्रसादयामास पुन: कैकेयीं चेदमब्रवीत् ।। 2.13.20 ।।

अथवेति । निर्घृणां निर्दयां प्रत्युत नृशंसां क्रूराम् ।। 2.13.1920 ।।

साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुष: ।

प्रसाद: क्रियतां देवि भद्रे राज्ञो विशेषत: ।। 2.13.21 ।।

साधुवृत्तस्येति । त्वद्गतस्य त्वदेकशरणस्येत्यर्थ: । गतायुष: अल्पावशेषमतीतायुष इत्यर्थ: ।। 2.13.21 ।।

शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम् ।

कुरु साधु प्रसादं मे बाले सहृदया ह्यसि ।। 2.13.22 ।।

प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम् ।

लभतामसितापाङ्गे यश: परमवाप्नुहि ।। 2.13.23 ।।

मम रामस्य लोकस्य गुरूणां भरतस्य च ।

प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ।। 2.13.24 ।।

शून्य इति । शून्ये निर्जने प्रदेशे । इदं रामाभिषेचनम्, न समुदाहृतं खलु किंतु सर्वजनसन्निधौ समुदाहृतमित्यर्थ: । यद्वा शून्येन दीनेन मयेत्यर्थ: ।। 2.13.2224 ।।

विशुद्धभावस्य हि दुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञ: ।

श्रुत्वा विचित्रं करुणं विलापं भर्तुर्नृशंसा न चकार वाक्यम् ।। 2.13.25 ।।

तत: स राजा पुनरेव मूर्च्छित: प्रियामदुष्टां प्रतिकूलभाषिणीम् ।

समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दु:खित: ।। 2.13.26 ।।

विशुद्धभावस्येति । ताम्रेक्षणस्य, दु:खातिशयेनेति शेष: । अश्रुकलस्य अश्रुपूर्णस्य । कलि: कामधेनु: । विचित्रं प्रसादनभर्त्सनसहितत्वात् ।। 2.13.2526 ।।

इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विन: ।

विबोध्यमान: प्रतिबोधनं तदा निवारयामास स राजसत्तम: ।। 2.13.27 ।।

इतीति । प्रतिबोधनं शङ्खपटहवीणादिकं प्रतिबोधनसाधनम् । यद्वा वैतालिकै: क्रियमाणं प्रतिबोधनम् ।। 2.13.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदश: सर्ग: ।। 13 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डे त्रयोदश: सर्ग: ।। 13 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.