21 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

एकविंश: सर्ग:

रामविवासनश्रवणदुःखितां कौसल्यामाश्वासयँल्लक्ष्मणो रामवनगमनं स्वस्यानभिमतमित्युक्त्वा दशरथं विगर्ह्य स्वस्यापि रामानुगमनं निश्चिकाय । कैकेयीवचसोsधर्म्यत्वेन वनगमनं निषेधन्तीं कौसल्यां रामः पितृवचस्त्वात्तस्य धर्म्यत्वं निश्चित्य स्वगमनमनुमन्तुं प्रस्थानमङ्गलानि च विधातुं कौसल्यां प्रार्थयत ।

तथा तु विलपन्तीं तां कौसल्यां राममातरम् ।

उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ 2.21.1 ॥

एवमुपक्रान्तस्य पितृवचनपरिपालनस्य स्थैर्यमस्मिन्सर्गे प्रतिपाद्यते–तथेति । तत्कालसदृशं कौसल्यादुःखकालोचितम् एतेन वक्ष्यमाणलक्ष्मणवचनं केवलं कौसल्याशोकशान्त्यर्थं न तु सहृदयमिति गम्यते ॥1॥

न रोचते ममाप्येतदार्ये यद्राघवो वनम् ।

त्यक्त्वा राज्यश्रियं गच्छेत्स्त्रिया वाक्यवशंगतः ॥ 2.21.2 ॥

न रोचत इति । ममापि मह्यमपि स्त्रियाः कैकेय्याः ॥2॥

विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः ।

नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः ॥ 2.21.3 ॥

ननु नाहं कैकेयीवचनाद्गच्छामि किन्तु राजवचनादित्याशङ्क्याह–विपरीत इति । विपरीतः विपरीतवयोधर्मा तत्र हेतुः वृद्धत्वं विषयप्रधर्षितत्वं च विषयाः शब्दादयः । ननु परिशुद्धं प्रति शब्दादिविषयाः किं कुर्युरित्यत्राह–समन्मथ इति चोद्यमानः कैकेय्येति शेषः । इव शब्दो वाक्यालङ्कारे ॥3॥

नास्यापराधं पश्यामि नापि दोषं तथाविधम् ।

येन निर्वास्यते राष्ट्राद्वनवासाय राघवः ॥ 2.21.4 ॥

ननु रामदोषादेवास्तु विवासनं तत्राह–नास्येति । अपराधं राजद्रोहं दोषं महापातकादिकं तथाविधं निर्वासनयोग्यम् ॥4॥

न तं पश्याम्यहं लोके परोक्षमपि यो नर: ।

स्वमित्रोपि निरस्तोपि यो ऽस्य दोषमुदाहरेत् ।। 2.21.5 ।।

दोषाभावे किं प्रमाणमित्याशङ्क्य न तावच्छब्द इत्याह–नेति । स्वमित्रोपि सुतरां शत्रुरपि । निरस्तोपि केनचिदपराधेन तिरस्कृतोपि । नर: असुरश्चेद्वदेत् परोक्षमपि प्रत्यक्षे का कथेति भाव: । दोषं यं कञ्चिदपि उदाहरेत् वदेत् । तं लोके कुत्रापि न पश्यामि ।। 2.21.5 ।।

देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम् ।

अवेक्षमाण: को धर्मं त्यजेत् पुत्रमकारणात् ।। 2.21.6 ।।

नाप्यनुमानं प्रत्यक्षं चेत्याह–देवकल्पमिति । देवकल्पम् “ईषदसमाप्तौ–” इत्यादिना कल्पप्प्रत्यय: । देवसमानं नित्यशुद्धमिति यावत् । ऋजुं करणत्रयार्जवयुक्तम् प्रजाच्छन्दानुवर्त्तिनं वा । दान्तं दमितम्, गुरुभि: शिक्षितमित्यर्थ: । निगृहीतेन्द्रियं वा । रिपूणां कैकेय्यादीनामपि वत्सलम् । धर्मं धर्मस्वरूपम् । पुत्रं कारणे सत्यपि त्यागानर्हसम्बन्धम् । अवेक्षमाण: पश्यन् । यद्वा धर्ममवक्षमाण: धार्मिक: अकारणात् दोषं विनापि त्यजेत् ।। 2.21.6 ।।

तदिदं वचनं राज्ञ: पुनर्बाल्यमुपेयुष: ।

पुत्र: को हृदये कुर्याद्राजवृत्तमनुस्मरन् ।। 2.21.7 ।।

तदिति । बाल्यं बालभावम्, कामपारवश्यमित्यर्थ: । राजवृत्तं राजनीतिम् ।। 2.21.7 ।।

यावदेव न जानाति कश्चिदर्थमिमं नर: ।

तावदेव मया सार्द्धमात्मस्थं कुरु शासनम् ।। 2.21.8 ।।

यावदिति । शास्यत इति शासनं राज्यम् । आत्मस्थं कुरु स्वाधीनं कुर्वित्यर्थ: ।। 2.21.8 ।।

मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।

क: समर्थो ऽधिकं कर्तुं कृतान्तस्येव तिष्ठत: ।। 2.21.9 ।।

मयेति । तवाधिकं कर्त्तुं तव पौरुषादधिकं पौरुषं कर्त्तुमित्यर्थ: ।। 2.21.9 ।।

निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ ।

करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ।। 2.21.10 ।।

निर्मनुष्यामिति । विप्रिये प्रातिकूल्ये ।। 2.21.10 ।।

भरतस्याथ पक्ष्यो वा यो वा ऽस्य हितमिच्छति ।

सर्वानेतान् वधिष्यामि मृदुर्हि परिभूयते ।। 2.21.11 ।।

भरतस्येति । पक्ष्य: सहायभूतो वर्ग: ।। 2.21.11 ।।

प्रोत्साहितो ऽयं कैकेय्या स दुष्टो यदि न: पिता ।

अमित्रभूतो निस्सङ्गं वध्यतां बध्यतामपि ।। 2.21.12 ।।

प्रोत्साहित इति । अमित्रभूतो यदि शत्रुपक्षसहायभूतश्चेदित्यर्थ: ।। 2.21.12 ।।

गुरोरप्यवलिप्तस्य कार्याकार्यमजानत: ।

उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ।। 2.21.13 ।।

स्वोक्तार्थे धर्मशास्त्रं प्रमाणयति–गुरोरिति । अवलिप्तस्य गर्वितस्य । उत्पथम् अमर्यादाम् ।। 2.21.13 ।।

बलमेष किमाश्रित्य हेतुं वा पुरुषर्षभ ।

दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ।। 2.21.14 ।।

त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् ।

कास्य शक्ति: श्रियं दातुं भरतायारिशासन ।। 2.21.15 ।।

बलमिति । बलं राजत्वप्रयुक्तबलम् । हेतुं वरदानरूपहेतुं वा ।। 2.21.1415 ।।

अनुरक्तो ऽस्मि भावेन भ्रातरं देवि तत्त्वत: ।

सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ।। 2.21.16 ।।

दीप्तमग्निमरण्यं वा यदि राम: प्रवेक्ष्यति ।

प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ।। 2.21.17 ।।

हरामि वीर्याद्दु:खं ते तम: सूर्य इवोदित: ।

देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ।। 2.21.18 ।।

[हनष्ये पितरं वृद्धं कैकेय्यासक्तमानसम् ।

कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम् ।। ।।]

एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मन: ।

उवाच रामं कौसल्या रुदन्ती शोकलालसा ।। 2.21.19 ।।

अनुरक्त इति । दत्तेन दानेन । इष्टेन देवार्चनादिना ।। 2.21.1619 ।।

भ्रातुस्ते वदत: पुत्र लक्ष्मणस्य श्रुतं त्वया ।

यदत्रानन्तरं कार्यं कुरुष्व यदि रोचते ।। 2.21.20 ।।

भ्रातुरिति । श्रुतम् वाक्यजातमिति शेष: । परमधार्मिकराममातृत्वाच्चापलं विहाय यदि रोचते इत्युक्तवती ।। 2.21.20 ।।

न चाधर्म्यं वच: श्रुत्वा सपत्न्या मम भाषितम् ।

विहाय शोकसन्तप्तां गन्तुमर्हसि मामित: ।। 2.21.21 ।।

पितृवचनपरिपालकस्य रामस्य लक्ष्मणवचनमसह्यमिति ज्ञात्वाह–न चेत्यादिना ।। 2.21.21 ।।

धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि ।

शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् ।। 2.21.22 ।।

धर्मज्ञेति । “एभ्यो मातागरीयसी” इतिवचनं हृदि निधायाह–शुश्रूष मामिति ।। 2.21.22 ।।

शुश्रूषुर्जननीं पुत्र: स्वगृहे नियतो वसन् ।

परेण तपसायुक्त: काश्यपस्त्रिदिवं गत: ।। 2.21.23 ।।

शुश्रूषुरिति । कश्यपपुत्रेष्वेक: स्वगृहे मातृशुश्रूषारूपमहातपसा त्रिदिवं प्राप्तवानिति गम्यते ।। 2.21.23 ।।

यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् ।

त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ।। 2.21.24 ।।

त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा ।

त्वया सह ममश्रेयस्तृणानामपि भक्षणम् ।। 2.21.25 ।।

यथेति । नानुजानामि अनुज्ञां न करोमि ।। 2.21.2425 ।।

यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ।

अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् ।। 2.21.26 ।।

यदीति । प्रायं प्रापयोपवेशनम्, अनशनदीक्षामिति यावत् ।। 2.21.26 ।।

ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् ।

ब्रह्महत्यामिवाधर्मात् समुद्र: सरितां पति: ।। 2.21.27 ।।

विलपन्तीं तदा दीनां कौसल्यां जननीं तत: ।

उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ।। 2.21.28 ।।

तत इति । निरयशब्देन दु:खं लक्ष्यते । अधर्मात् पिप्पलादविषये कृतादपकारात् । ब्रह्महत्यामिव ब्राह्मणनिमित्तका हिंसा ब्रह्महत्येति व्युत्पत्त्या पिप्पलादोत्पादितकृत्यया समुद्रस्य प्राप्तं दु:खं ब्रह्महत्येत्युच्यते । पिप्पलादेन कृत्योत्पादनं च “पिप्पलादसमुत्पन्ने कृत्ये लोकभयंकरि । पाषाणं ते मया दत्तमाहारार्थं प्रकल्पितम् ।।” इति प्रसिद्धम्। साक्षात्समुद्रकर्तृकब्रह्महत्याया अश्रवणादेवं व्याख्यातम्। यद्वा शुश्रूषुरित्यत्र काश्यप: पूर्वजन्मनि मातृशुश्रूषां कृत्वा तत्फलत्वेन दिवं गत्वा प्रजापतित्वं च गतवानिति पुराणकथा। उत्तरत्र समुद्र: किल मातृदु:खजननरूपाधर्माद्ब्रह्महत्यां ब्रह्महत्याप्राप्यनरकविशेषान् प्राप्तवानिति पौराणिकी कथा ।। 2.21.2728 ।।

नास्ति शक्ति: पितुर्वाक्यं समतिक्रमितुं मम ।

प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ।। 2.21.29 ।।

नास्तीति । शक्ति: उत्साह: । पितृवचनस्य त्वद्वचनापेक्षया प्राथमिकत्वादिति भाव: ।। 2.21.29 ।।

ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा ।

गौर्हता जानता धर्मं कण्डुनापि विपश्चिता ।। 2.21.30 ।।

अस्माकं च कुले पूर्वं सगरस्याज्ञया पितु: ।

खनद्भि: सागरैर्भूमिमवाप्त: सुमहान् वध: ।। 2.21.31 ।।

जामदग्न्येन रामेण रेणुका जननी स्वयम् ।

कृत्ता परशुना ऽरण्ये पितुर्वचनकारिणा ।। 2.21.32 ।।

मद्विपत्तिकरं कथं करिष्यसीत्यत्राह–ऋषिणेत्यादिना ।। 2.21.3032 ।।

एतैरन्यैश्च बहुभिर्देवि देवसमै: कृतम् ।

पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम् ।। 2.21.33 ।।

न खल्वेतन्मयैकेन क्रियते पितृशासनम् ।

एतैरपि कृतं देवि ये मया तव कीर्त्तिता: ।। 2.21.34 ।।

एतैरिति । अक्लीबम् अकातरम्, अक्लिष्टमिति यावत् ।। 2.21.34 ।।

नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्त्तये ।

पूर्वैरयमभिप्रेतो गतो मार्गो ऽनुगम्यते ।। 2.21.35 ।।

नेति । अपूर्वम् अभिनवम् । अभिप्रेत: अङ्गीकृतमित्यर्थ: । सर्वसम्मत इतिवार्थ: । तेन

चन्द्रकृततारागमनादिव्यावृत्ति: । ननु “दृष्टोधर्मव्यतिक्रम: साहसं च पूर्वेषाम्” इति मातृवधादिकं साहसत्वेन निन्दितमिति चेन्न साहसस्य पितृनियुक्तव्यतिरिक्तविषयत्वात् । व्याख्यातृभिस्तदुदाहरणमज्ञानविजृम्भितम् । “पितु: शतगुणं मातां गौरवेणातिरिच्यते” इति तु शुश्रूषामात्रे न तु वचनकरणे, पितुरेव नियन्तृत्वात् । अत एव “माता भस्त्रा पितु: पुत्रो यस्माज्जात: स एव स:” इति वचनेनाप्यविरोध: ।। 2.21.35 ।।

तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा ।

पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ।। 2.21.36 ।।

तदिति । तत्तस्मात्कारणात् भुवि कार्यं कर्त्तव्यम्, एतत् पितृवचनं मया त्वन्यथा न क्रियत इति सम्बन्ध: । हि यस्मात् पितृवचनं कुर्वन् कश्चिन्न हीयते नाम । नामेति प्रसिद्धौ ।। 2.21.36 ।।

तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् ।

वाक्यं वाक्यविदां श्रेष्ठ: श्रेष्ठ: सर्वधनुष्मताम् ।। 2.21.37 ।।

तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।

विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ।। 2.21.38 ।।

तामिति । पुन: अनन्तरमित्यर्थ: ।। 2.21.3638 ।।

मम मातुर्महद्दु:खमतुलं शुभलक्षण ।

अभिप्रायमवि(भि)ज्ञाय सत्यस्य च शमस्य च ।। 2.21.39 ।।

ममेति । सत्यस्य धर्मस्य अभिप्रायं रहस्यम् । अविज्ञाय मम मातु: अतुलं महद्दु:खं जायत इति शेष: । धर्मरहस्यं जानन्नपि त्वं किमर्थमेवं वदसीति भाव: ।। 2.21.39 ।।

धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् ।

धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ।। 2.21.40 ।।

धर्मतत्त्वमाह–धर्मो हीति । लोके पुरुषार्थेषु धर्म: परम: प्राथमिक: प्रधानभूत: । तत: किमित्यत्राह धर्मे सत्यं प्रतिष्ठितमिति । धर्मैकपर्यवसायि सत्यमित्यर्थ: । उत्तमं मातृवचनापेक्षया उत्कृष्टम् । एतत् पितृवचनं च धर्मसंश्रितं धर्मैकफलकम् ।। 2.21.40 ।।

संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ।

न कर्त्तव्यं वृथा वीर ध्ार्ममाश्रित्य तिष्ठता ।। 2.21.41 ।।

एवं सत्यवचनं पितृवचनकरणं च द्वयमपि धर्मनिमित्तमित्युक्तम् । तत्र सत्यस्य कर्त्तव्यत्वमाह–संश्रुत्येति । धर्ममाश्रित्य तिष्ठता धर्मरूफलमिच्छता ।। 2.21.41 ।।

सोहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् ।

पितुर्हि वचनाद्वीर कैकेय्या ऽहं प्रचोदित: ।। 2.21.42 ।।

पितृवचनकरणस्य कर्त्तव्यत्वमाह–सोहमिति । प्रतिज्ञातवानहमित्यर्थ: । नियोगम् आज्ञाम् । पितृवचनत्वाभावं परिहरति पितुर्हीति । पितृवचनकरणं सत्यं च एकैकमेव धर्ममूलं कार्यम् किं पुनर्मिलितमिति भाव: ।। 2.21.42 ।।

तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् ।

धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ।। 2.21.43 ।।

तमेवमुक्त्वा सौहार्दादभ्रातरं लक्ष्मणाग्रज: ।

उवाच भूय: कौसल्यां प्राञ्जलि: शिरसा नत: ।। 2.21.44 ।।

अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् ।

शापितासि मम प्राणै: कुरु स्वस्त्ययनानि मे ।। 2.21.45 ।।

एवं सत्यरहस्यमुक्त्वा शमस्य तत्त्वमाह–तदिति । अनार्यां दुष्टाम् पितरमपि हत्वा राज्यं कुर्यामित्येवंरूपाम् । क्षत्त्रधर्माश्रितां केवलशूरधर्माश्रिताम् । रौद्रशाठ्यसहितक्षत्त्रधर्माश्रितामितिवार्थ: । क्षत्र्रधर्मस्य तथात्वं प्रतिपादितं महाभारते राजधर्मे– “क्षत्र्रधर्मो महारौद्र: शठकृत्य इति स्मृत:” इति । तादृशीं मतिं विसृज किन्तु धर्ममप्याश्रय, मा तैक्ष्ण्यम् । इत:परमपि क्रौर्यं माश्रय । मद्बुद्धि: मम बुद्धि: । अनुगम्यताम् अनुवर्त्यताम् । लोकायतवत्केवलनीतिर्नाश्रयणीया किन्तु धर्ममाश्रिता नीतिरित्यर्थ: । अस्मिन् हि शास्त्रे धर्मस्थापनमुच्यते, स्थापनं च धर्ममन्तरेण केवलनीतिरेवार्थसाधनमिति लोकायतमतनिरासेन प्रवर्त्तनम् । तेन तत्रतत्र लक्ष्मणमुखेन लोकायते प्रवर्तिते उपन्यस्ते तन्निरासेन रामेण धर्म: स्थाप्यत इति रहस्यम् ।। 2.21.4345 ।।

तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम् ।

ययातिरिव राजर्षि: पुरा हित्वा पुनर्दिवम् ।। 2.21.46 ।।

शोक: सन्धार्यतां मातर्हृदये साधुमा शुच: ।

वनवासादिहैष्यामि पुन: कृत्वा पितुर्वच: ।। 2.21.47 ।।

किं ते मद्वचनं न कर्त्तव्यमित्याशङ्क्य प्रथमप्रवृत्तपितृवचनकरणानन्तरं क्रियत इत्याह–तीर्णप्रतिज्ञ इति । ययाति: स्वर्गात् भ्रष्ट: पुन: स्वर्गं गत इति महाभारते प्रसिद्धम् ।। 2.21.4647 ।।

त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।

पितुर्नियोगे स्थातव्यमेष धर्म: सनातन: ।। 2.21.48 ।।

न केवलं ममैवायं भार: किन्तु युष्माकमपीत्याह–त्वयेत्यादिश्लोकेन ।। 2.21.48 ।।

अम्ब संहृत्य सम्भारान् दु:खं हृदि निगृह्य च ।

वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्त्यताम् ।। 2.21.49 ।।

अम्बेति । सम्भारान् पूजाद्रव्याणि ।। 2.21.49 ।।

एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लवं च ।

मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच ।। 2.21.50 ।।

एतदिति । अव्यग्रम् अनाकुलम् । “व्यग्रो व्यासक्त आकुल:” इत्यमर: । अविक्लवम् अविह्वलम्, दृढनिश्चयप्रतिपादकमित्यर्थ: । मृतेव मूर्च्छितेति यावत् ।। 2.21.50 ।।

यथ्ौव ते पुत्र पिता तथाहं गुरु: स्वधर्मेण सुहृत्तया च ।

न त्वानुजानामिन मां विहाय सुदु:खितामर्हसि गन्तुमेवम् ।। 2.21.51 ।।

यथेति । सुहृत्तया स्नेहेन । एवं सुदु:खितामिति सम्बन्ध: ।। 2.21.51 ।।

किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधया ऽमृतेन ।

श्रेयो मुहूर्त्तं तव सन्निधानं ममेह कृत्स्नादपि जीवलोकात् ।। 2.21.52 ।।

ननूक्तं राजनियोगस्त्वयाप्यनुवर्तनीय इति तत्राह–किमिति । लोकेन परलोकेन । स्वधया पितृलोकप्राप्तिसिद्धया किं प्रयोजनमित्यर्थ: । अमृतेन स्वर्गलोकप्राप्तिसिद्धेनामृतेन किं प्रयोजनम् ? कृत्स्नादपि जीवलोकात् आनन्दहेतुभूतमहर्लोकाद्युपरितनलोकान्तर्वर्तिजीववर्गात्, सन्निहितादितिश्ोष: ।। 2.21.52 ।।

नरैरिवोल्काभिरपोह्यमानो महागजो ऽध्वानमनुप्रविष्ट: ।

भूय: प्रजज्वाल विलापमेनं निशम्य राम: करुणं जनन्या: ।। 2.21.53 ।।

एवं मातृकारुण्येपि धर्म एव स्थिरो ऽभूदित्याह–नरैरिति । नरैर्गजग्राहिभि: । उल्काभि: साधनै: अपोह्यमान: निवार्यमाणोपि । अध्वानं मार्गम् । अनुप्रविष्टो महागज इव मात्रादिवाक्येन वार्यमाणोपि धर्ममनुप्रविष्टो राम: भूय: प्रजज्वाल संरब्धो ऽभूत्, स्वमार्ग एव स्थितोभूदित्यर्थ: । अत्र नरैरित्युपमानगतबहुवचनेन पुन: सौमित्रिणापि तथैवोक्तमिति गम्यते । अत एव मातरं सौमित्रिं चेति वक्ष्यते ।। 2.21.53 ।।

स मातरं चैव विसंज्ञकल्पामर्त्तं च सौमित्रिमभिप्रतप्तम् ।

धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम् ।। 2.21.54 ।।

स इति । तत्र तस्मिन्धर्मसङ्कटे । अतिकृच्छ्रावस्थायाम् एतादृशधर्मैकनिष्णातपुरुषान्तरस्याभावात् स एवार्हतीति वाल्मीकि: स्तौति ।। 2.21.54 ।।

अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च ।

मम त्वभिप्रायमसन्निरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदु:खम् ।। 2.21.55 ।।

अहमिति । अभ्यर्दसि व्यथयसि ।। 2.21.55 ।।

धर्मार्थकामा: किल तात लोके समीक्षिता धर्मफलोदयेषु ।

ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याभिमता सुपुत्रा ।। 2.21.56 ।।

‘धर्मो हि परमो लोके’ इत्यादिना पूर्वं सङ्ग्रहेणोक्तं प्रपञ्चयति–धर्मेति । तातेति सान्त्वसम्बोधने । किलेति प्रसिद्धौ । लोक इति मोक्षव्यावृत्ति: । धर्मफलोदयेषु धर्मस्य फलभूतानां सौख्यानामुदयेषु प्राप्तिषु । समीक्षिता: उपायत्वेन निश्चिता: ये धर्मार्थकामा: ते सर्वे तत्र धर्मे स्यु: । धर्म एवानुष्ठिते सौख्याति शयप्रदानस्वभावा: सर्वे पुरुषार्था: सिद्ध्यन्तीति भाव: । अत्रार्थे मे असंशयं संशयो नास्ति । अर्थाभावे ऽव्ययीभाव: । उक्तार्थे दृष्टान्तमाह–भार्येत्यादि । यथा भार्या वश्या अनुकूला सती धर्मं जनयति, अभिमता प्रिया कामम्, सुपुत्रा सती अर्थम् । सुलक्षणसुलग्नप्रभवपुत्रे जाते हि पितुरर्था: सिद्ध्यन्तीति तथा सर्वपुरुषार्थानां धर्म एव निदानम् । तथाहि धर्मो हि धर्महेतुरर्थहेतु: काम्यमानस्रक्चन्दनवनितादिहेतुश्च, अतो धर्म एव समाश्रयणीय इति भाव: । यद्वा लोके ध्ार्मादय: फलसाधनत्वेन समीक्षिता: शास्त्रादिभिरवगतास्ते सर्वे तत्र फलोदयेषु स्यु: समर्था: स्यु: । मे अशंसयं मया निश्चितमित्यर्थ: । यथा उक्तगुणविशिष्टा भार्या फलसाधनं तथेति । अस्मिन् पक्षे अध्याहारादिक्लेशो नास्ति उत्तरश्लोकानुरूप्यं च ।। 2.21.56 ।।

यस्मिंस्तु सर्वे स्युरसन्निविष्टा धर्मो यत: स्यात्तदुपक्रमेत ।

द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता ।। 2.21.57 ।।

एवं धर्मादीनां फलसाधनत्वं निर्णीतम्, तेष्वविशेषादन्यतमस्याश्रयणीयत्वे प्राप्ते आह–यस्मिन्निति । यस्मिन् कर्मणि आश्रीयमाणे । सर्वे अर्थादयस्त्रय: असन्निविष्टा: न प्रविशन्ति, न सम्भवन्तीति यावत् । किन्तु यतो धर्म: यस्माद्धर्म एव स्यात्तदारभेत । अथवा यस्मिन् कर्मणि सर्वे धर्मार्थकामा: असंनिविष्टा: स्यु: अविद्यमाना भवेयु: तत् कर्म नोपक्रमेत । यत: यस्मात्कर्मण: धर्म: स्यात् तदुपक्रमेत । प्रथमयोजनायामर्थकामयो: संनिवेशे को दोष इत्यत्राह द्वेष्य इति । तस्मादर्थकामौ परित्यज्य केवलधर्मपरो भवेदित्यर्थ: ।। 2.21.57 ।।

गुरुश्च राजा च पिता च वृद्ध: क्रोधात् प्रहर्षाद् यदि वापि कामात् ।

यद्व्यादिशेत् कार्यमवेक्ष्य धर्मं कस्तं न कुर्यादनृशंसवृत्ति: ।। 2.21.58 ।।

यतो धर्म एव कर्तव्य: अत आह–गुरुरिति । गुरु: धनुर्वेदनीतिशास्त्राद्युपदेशात् । यदिवेत्येकनिपातो वार्थे । अपिचेतिवत् । धर्मं सत्यप्रतिज्ञत्वरूपमवेक्ष्य तत्परिपालनायेत्यर्थ: । यत्कार्यं व्यादिशेत् नियुञ्जीत तत्कर्म अनृशंसवृत्ति: को न कुर्यात्, यो न करोति स केवलं नृशंस इति भाव: ।। 2.21.58 ।।

स वै न शक्नोमि पितु: प्रतिज्ञामिमामकर्तुं सकलां यथावत् ।

स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्त्ता स गति: स धर्म: ।। 2.21.59 ।।

स इति । सोहम् अनृशंसो ऽहं । पितु: प्रतिज्ञां वरदानहेतुकभरताभिषेकमद्विवासनरूपां प्रतिज्ञामकर्तुं न शक्नोमि । अवश्यं कुर्यामित्यर्थ: । तत्र हेतुमाह सहीति । आवयो: मम भरतस्य चेत्यर्थ: । नियोगे गुरु: प्रभुरित्यर्थ: । देव्या: कौसल्याया: । तथा च देव्यापि तद्वचनं नातिक्रमणीयमिति भाव: । धर्म: अलौकिकश्रेयस्साधनम् ।। 2.21.59 ।।

तस्मिन् पुनर्जीवति धर्मराजे विशेषत: स्वे पथि वर्त्तमाने ।

देवी मया सार्द्धमितो ऽपगच्छेत् कथंस्विदन्या विधवेव नारी ।। 2.21.60 ।।

देव्याश्चेत्यस्याशयमुद्घाटयति–तस्मिन्निति । धर्मराजे धर्मप्रवर्त्तके । विशेषत: पूर्वराजापेक्षया विशिष्य । स्वे पथि स्वासाधारणे पथि धर्ममार्गे । वर्त्तमाने स्वमर्यादानतिलङ्घिनीत्यर्थ: । तस्मिन् गतिभूते भर्तरि जीवति देवी कृताभिषेका महिषी, सहधर्मचारिणीति यावत् । मया पुत्रेण सह । अन्येव या काचित् स्त्रीव । कथंस्वित् कथं वा वनम् अपगच्छेत्, अभर्तृकाया एव पुत्रेण सह वनगमनमुचितमिति भाव: ।। 2.21.60 ।।

सा मा ऽनुमन्यस्व वनं व्रजन्तं कुरुष्व न: स्वस्त्ययनानि देवि ।

यथा समाप्ते पुनराव्रजेयं यथा हि सत्येव पुनर्ययाति: ।। 2.21.61 ।।

सेति । सा जीवद्भर्तृका त्वम् । मा माम् । अनुमन्यस्व अनुजानीहि । इत:पूर्वं वनगमनं प्रति सीताभिप्रायस्यापरिज्ञातत्वात् “दीप्तमग्निमरण्यं वा यदि राम: प्रवेक्ष्यति । प्रविष्टं तत्र मां देवि त्वं पूर्वमुपधारय ।।” इत्युक्त्या लक्ष्मणाभिप्रायस्य ज्ञातत्वाच्च न: इत्येतदावयोरित्यस्मिन्नर्थे वर्त्तते। “अस्मदो द्वयोश्च” इतिद्विवचने बहुवचनादेशादेवं व्याख्यातम्। एवञ्च सति “अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम्” इतिवक्ष्यमाणलक्ष्मणवचनं चोपपद्यते। स्वस्त्ययनानि शोभनप्राप्तिप्रार्थनानि। समाप्ते चतुर्दशवर्षाचरणीये व्रते समाप्ते। यथा पुनरागच्छेयं तथा स्वस्त्ययनानि कुरुष्व। पुनरागमने निदर्शनमाह यथेति। स्वर्गाच्च्युतो ययाति: यथा सत्येन सत्यवचनेन। अष्टकादिदौहित्रोक्तसत्यवचनेन पुन: स्वर्गमगच्छत्तथेत्यर्थ:। तथोक्तं महाभारते– “आतिष्ठस्व रथं राजन् विक्रमस्व विहायसम्। वयमप्यत्र यास्यामो यत्र लोको भविष्यति।।” इत्यादिना ।। 2.21.61 ।।

यशो ह्यहं केवलराज्यकारणन्न पृष्ठत: कर्तुमलं महोदयम् ।

अदीर्घकाले न तु देवि जीविते वृणे ऽवरामद्य महीमधर्मत: ।। 2.21.62 ।।

यश इति । केवल राज्यकारणात् धर्मविरहितराज्यहेतो: । महोदयं महाफलम् यश: पृष्ठत: कर्तुम् उपेक्षितुमहं नालं न समर्थोस्मि । किञ्च अदीर्घकाले चञ्चले । जीविते प्राणधारणे । निमित्तसप्तमीयम् । तडिद्वच्चञ्चलजीवितनिमित्तम् अवरां तुच्छप्रयोजनभूतां महीम् अधमतो न वृणेन स्वीकरोमि ।। 2.21.62 ।।

प्रसादयन्नरवृषभ: स्वमातरं पराक्रमाज्जिगमिषुरेव दण्डकान् ।

अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम् ।। 2.21.63 ।।

प्रसादयन्निति । पराक्रमात् ‘राम तस्मादित: शीघ्रं वनं गन्तुं त्वमर्हसि’ इत्युक्तकैकेयीप्रेरणात् । अनुजं दर्शनं स्वमतम् अनुशास्य प्रदर्श्येत्यर्थ: । शासिर्द्विकर्मक: । हृदि प्रदक्षिणं चकार, प्रदक्षिणं कर्तुं सङ्कल्पितवानित्यर्थ: । लोकप्रसिद्धास्त्रय: पुरुषार्था:, तेषु सर्वमूलत्वादितरयो: सापायत्वाच्च धर्म एवाश्रयणीय इति स्थापितं भवति ।। 2.21.63 ।।

इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे एकविंश: सर्ग: ।। 21 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने एकविंश: सर्ग: ।। 21 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.