19 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

एकोनविंश:सर्ग:

तदप्रियममित्रघ्नो वचनं मरणोपमम् ।

श्रुत्वा न विव्यथे राम: कैकेयीं चेदमब्रवीत् ।। 2.19.1 ।।

तदिति । मरणोपममिति लोकदृष्ट्या ।। 2.19.1 ।।

एवमस्तु गमिष्यामि वनं वस्तुमहं त्वित: ।

जटाजिनधरो राज्ञ: प्रतिज्ञामनुपालयन् ।। 2.19.2 ।।

एवमिति । इत: अस्मान्नगरात् ।। 2.19.2 ।।

इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपति: ।

नाभिनन्दति दुर्द्धर्षो यथापुरमरिन्दम: ।। 2.19.3 ।।

इदं त्विति । यद्यप्येतेन कारुण्येन समाप्लुत इत्यनभिनन्दने हेतुरुक्त: । तथापि मत्स्वभावं जानन् किमर्थं नाभिनन्दतीत्याहेति बोध्यम् । यथापुरं यथापूर्वम् ।। 2.19.3 ।।

मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रत: ।

यास्यामि भव सुप्रीता वनं चीरजटाधर: ।। 2.19.4 ।।

मन्युरिति । मन्यु: दैन्यम् । “मन्युर्दैन्ये क्रतौ क्रुधि” इत्यमर: । ब्रूमि ब्रवीमि ।। 2.19.4 ।।

हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च ।

नियुज्यमानो विस्रब्ध: किं न कुर्यामहं प्रियम् ।। 2.19.5 ।।

हितेनेति । हितेन हितपरेण । गुरुणेत्यनेन रामस्य तस्मान्मन्त्रविशेषस्वीकारो ऽस्तीति गम्यते । कृतज्ञेन स्वकृतवरप्रदानाभिज्ञेन ।। 2.19.5 ।।

अलीकं मानसं त्वेकं हृदयं दहतीव मे ।

स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ।। 2.19.6 ।।

अलीकमिति । अलीकम् अप्रियम् । मानसं मनसि वर्त्तमानम् ।। 2.19.6 ।।

अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च ।

हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदित: ।। 2.19.7 ।।

तवाप्रीतिर्भविष्यतीति नोक्तवानित्याशङ्क्याह–अहं हीति । सीतां धनुर्भङ्गकाल इति भाव: ।। 2.19.7 ।।

किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदित: ।

तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ।। 2.19.8 ।।

किं पुनरिति । पित्रा प्रयोदितस्तव प्रियकामार्थं प्रतिज्ञामनुपालयंश्च दद्यामिति किं पुन: ।। 2.19.8 ।।

तदाश्वासय हीमं त्वं किं न्विदं यन्महीपति: ।

वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ।। 2.19.9 ।।

गच्छन्तु चैवानयितुं दूता: शीघ्रजवैर्हयै: ।

भरतं मातुलकुलादद्यैव नृपशासनात् ।। 2.19.10 ।।

तदिति । इमं राजानं त्वमाश्वासय अश्रूणि मुञ्चतीति यत् इदं किंनु, निर्हेतुकमित्यर्थ: ।। 2.19.910 ।।

दण्डकारण्यमेषो ऽहमितो गच्छामि सत्वर: ।

अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ।। 2.19.11 ।।

सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी ।

प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ।। 2.19.12 ।।

एवं भवतु यास्यन्ति दूता: शीघ्रजवैर्हयै: ।

भरतं मातुलकुलादुपावर्त्तयितुं नरा: ।। 2.19.13 ।।

दण्डकेति । पितुर्वाक्यमविचार्य वनं गच्छेति पित्रा नोक्तमिति विचारमकृत्वेत्यर्थ: । समा:संवत्सरान् ।। 2.19.1113 ।।

तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् ।

राम तस्मादित: शीघ्रं वनं त्वं गन्तुमर्हसि ।। 2.19.14 ।।

अयं यावद्भरतागमनं विलम्बिष्यते चेन्महाननय: स्यात्, भरतस्य ज्येष्ठभ्रातृभक्तत्वादिति मत्वाह–तव त्विति । उत्सुकस्य भरताभिषेकदर्शनोत्सुकस्य गमनोत्सुकस्य वा ।। 2.19.14 ।।

व्रीडान्वित: स्वयं यच्च नृपस्त्वां नाभिभाषते ।

नैतत्किञ्चिन्नरश्रेष्ठ मन्युरेषोपनीयताम् ।। 2.19.15 ।।

यावत्त्वं न वनं यात: पुरादस्मादभित्वरन् ।

पिता तावन्न ते राम स्नास्यते भोक्ष्यते ऽपि वा ।। 2.19.16 ।।

व्रीडान्वित इति । नृपो व्रीडान्वित: सन् स्वयं नाभिभाषत इति यत् एतत् न किञ्चिद्विचारानर्हं व्रीडां विना कारणान्तराभावात् । मन्यु: स्वयं नाभिभाषत इत्याग्रह: दैन्यं वा ।। 2.19.1516 ।।

धिक्कष्टमिति निश्वस्य राजा शोकपरिप्लुत: ।

मूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते ।। 2.19.17 ।।

धिगिति । उक्तासत्यवचनं श्रुत्वेति भाव: ।। 2.19.17 ।।

रामोप्युत्थाप्य राजानं कैकेय्याभिप्रचोदित: ।

कशये वाहतो वाजी वनं गन्तुं कृतत्वर: ।। 2.19.18 ।।

तदप्रियमनार्याया वचनं दारुणोदयम् ।

श्रुत्वा गतव्यथो राम: कैकेयीं वाक्यमब्रवीत् ।। 2.19.19 ।।

राम इति । कृतत्वर: अभूदिति शेष: ।। 2.19.1819 ।।

नाहमर्थपरो देवि लोकमावस्तुमुत्सुहे ।

विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ।। 2.19.20 ।।

नेति । लोकमावस्तुं लोके वस्तुम् । “उपान्वध्याङ्वस:” इतिकर्मत्वम् । धर्मम् आस्थितम् आश्रितम् । अनेन राज्याय भरतागमनं प्रतीक्षते राम इति कैकेयीशङ्का वारिता ।। 2.19.20 ।।

यदत्रभवत: किञ्चिच्छक्यं कर्तुं प्रियं मया ।

प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ।। 2.19.21 ।।

यदिति । अत्रभवत: पूज्यस्य पितु: कृतमेवेति विद्धीति शेष: ।। 2.19.21 ।।

न ह्यतो धर्मचरणं किञ्चिदस्ति महत्तरम् ।

यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ।। 2.19.22 ।।

अनुक्तोप्यत्रभवता भवत्या वचनादहम् ।

वने वत्स्यामि विजने वर्षाणीह चतुर्दश ।। 2.19.23 ।।

न हीति । शुश्रूषा पादसंवाहनादि: । वचनक्रिया वचनकरणम् ।। 2.19.2223 ।।

न नूनं मयि कैकेयि किञ्चिदाशंससे गुणम् ।

यद्राजानमवोचस्त्वं ममेश्वरतरा सती ।। 2.19.24 ।।

नेति । गुणम् आर्जवौदार्यादिगुणम् । नाशंससे न जानीष इत्यर्थ: । ईश्वरतरा अत्यन्तनियन्त्री ।। 2.19.24 ।।

यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् ।

ततो ऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ।। 2.19.25 ।।

अद्यैव गन्तव्यमित्युक्तम्, तत्र यत्किञ्चिद्विलम्बं याचते–यावदिति । मातरं यावदापृच्छे सीतां चानुनयामि तावदनुज्ञां कुर्विति शेष: । तत: तदनन्तरम् । अद्यैव दिने । दण्डकानां महद्वनं दण्डो नामेक्ष्वाकुसुतस्तस्य राष्ट्रं शुक्रशापात्पांसुवर्षेण विनाशितं सदरण्यमभूत् तद्राष्ट्रं तन्नाम्ना दण्डकमित्युच्यते । “संज्ञायां कन्” इतिकन्प्रत्यय: । प्रदेशभेदात् बहुवचनम् ।। 2.19.25 ।।

भरत: पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।

तथा भवत्या कर्त्तव्यं स हि धर्मस्सनातन: ।। 2.19.26 ।।

भरत इति । धर्म: सनातन इत्यत्र धर्मापेक्षया पुँल्लिङ्गत्वम् ।। 2.19.26 ।।

स रामस्य वच: श्रुत्वा भृशं दु:खहत: पिता ।

शोकादशक्नुवन् बाष्पं प्ररुरोद महास्वनम् ।। 2.19.27 ।।

स इति । बाष्पमशक्नुवन्, निरोद्धुमिति शेष: ।। 2.19.27 ।।

वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तथा ।

कैकेय्याश्चाप्यनार्याया निष्पपात महाद्य़ुति: ।। 2.19.28 ।।

स राम: पितरं कृत्वा कैकेयीं च प्रदक्षिणम् ।

निष्क्रम्यान्त: पुरात्तस्मात् स्वं ददर्श सुहृज्जनम् ।। 2.29.29 ।।

तं बाष्पपरिपूर्णाक्ष: पृष्ठतो ऽनुजगाम ह ।

लक्ष्मण: परमक्रुद्ध: सुमित्रानन्दवर्द्धन: ।। 2.19.30 ।।

वन्दित्वेति । निष्पपात निर्जगाम ।। 2.19.2830 ।।

आभिषेचनिकं भाण्डं कृत्वा राम: प्रदक्षिणम् ।

शनैर्जगाम सापेक्षो हृष्टिं तत्राविचालयन् ।। 2.19.31 ।।

आभिषेचनिकमिति । आभिषेचनिकम् अभिषेकप्रयोजनकम् । भाण्डम् उपकरणजातम् । प्रदक्षिणकरणं “प्रशस्तमाङ्गल्यदेवतायतन च तुष्पथादीन् प्रदक्षिणमावर्त्तयेत्” इत्यादिधर्मशास्त्रोल्लङ्घनभयात् न तु तदासक्त्या । दृष्टिं तत्राविचालयन् स्वयं तत्र निरपेक्ष इत्यर्थ: । सापेक्ष: भरतस्यानेनाभिषेकोस्त्विति प्रार्थनासहित: शनैर्जगाम, तत्र देवतासान्निध्यसम्भवादिति भाव: ।। 2.19.31 ।।

न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति ।

लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा ।। 2.19.32 ।।

न चेति । लक्ष्मीं मुखविकासम् । राज्यनाश: राज्यभ्रंश: ।। 2.19.32 ।।

न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् ।

सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ।। 2.19.33 ।।

रामस्य मुखवैवर्ण्यादिशरीरविकाराभावमभिधाय मानसविकाराभावमप्याह–न वनमिति । सर्वलोकातिगस्य तुल्यमानावमानस्य, परमयोगीश्वरस्येत्यर्थ: ।। 2.19.33 ।।

प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते ।

विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ।। 2.19.34 ।।

प्रतिषिध्येत्यादि । व्यजने वालव्यजने ।। 2.19.34 ।।

धारयन् मनसा दु:खमिन्द्रियाणि निगृह्य च ।

प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् ।। 2.19.35 ।।

धारयन्निति । रामस्य परदु:खासहिष्णुत्वाद्दु:खशब्देन सुहृज्जनदु:खदर्शनजं दु:खमुच्यते । अप्रियशंसिवान् अप्रियमभिधातुकाम: । क्वसु: समासाभ्यासलोप आर्ष: ।। 2.19.35 ।।

सर्वो ह्यभिजन: श्रीमान् श्रीमत: सत्यवादिन: ।

नालक्षयत रामस्य किञ्चिदाकारमानने ।। 2.19.36 ।।

सर्व इति । आकारं विकृताकारम् । श्रीमान् रामाभिषेकार्थं कृतालङ्कार: ।। 2.19.36 ।।

उचितं च महाबाहुर्न जहौ हर्षमात्मन: ।

शारद: समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ।। 2.19.37 ।।

उचितमिति । उचितं योग्यम्, सहजमित्यर्थ: ।। 2.19.37 ।।

वाचा मधुरनया राम: सर्वं सम्मानयन् जनम् ।

मातु: समीपं धीरात्मा प्रविवेश महायशा: ।। 2.19.38 ।।

एतादृशदुर्दशायामपि रमयितृत्वरूपं रामशब्दार्थं प्रकटयति–वाचेति ।। 2.19.38 ।।

तं गुणै: समतां प्राप्तो भ्राता विपुलविक्रम: ।

सौमित्रिरनुवव्राज धारयन् दु:खमात्मजम् ।। 2.19.39 ।।

तमिति । गुणै: सुखदु:खादिभि: । समतां प्राप्त:, समानसुखदु:ख इत्यर्थ: ।। 2.19.39 ।।

प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागताम् ।

न चैव रामो ऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ।। 2.19.40 ।।

प्रविश्येति । अर्थविपत्तिं अर्थनाशम् । सुहृज्जनस्य आत्मविपत्तिशङ्कया प्राणनाशशङ्कया, विक्रियां न जगाम । स्वविक्रियास्फुरणे सुहृज्जनो नश्येदिति शङ्कया स्वविक्रियां राज्यनाशजां नादर्शयदित्यर्थ: ।। 2.19.40 ।।

इत्यार्षे श्रीरामायणे वाल्मीकाये आदि0 श्रीमदयोध्याकाण्डे एकोनविंश:सर्ग: ।। 19 ।।

इति श्रीगोविन्दाराजविरचिते श्रीरामायणभूषणे पीताम्बराव्याख्याने अयोध्याकाण्डव्याख्याने एकोनविंश: सर्ग: ।। 19 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.