41 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकचत्वारिंश:

तस्मिंस्तु पुरुषव्याघ्रे विनिर्याते कृताञ्जलौ ।

आर्तशब्दो ऽथ संजज्ञे स्त्रीणामन्त:पुरे महान् ।। 2.41.1 ।।

तस्मिन्नित्यादि । कृताञ्जलौ मातृपरिवेष्टितं पितरमुद्दिश्य कृताञ्जलौ । अन्त:पुरे स्त्रीणां दशरथेन समागतानामन्त:पुरवासिनीनां स्त्रीणाम् ।। 2.41.1 ।।

अनाथस्य जनस्यास्य दुर्बलस्य तपस्विन: ।

यो गति: शरणं चासीत् स नाथ: क्वनु गच्छति ।। 2.41.2 ।।

अनाथस्येति । तपस्विन: शोच्यस्य । गम्यत इति गति:, प्राप्यइतियावत् । शरणं रक्षिता । “शरणं गृहरक्षित्रो:” इत्यमर: ।। 2.41.2 ।।

न क्रुद्ध्यत्यभिशप्तोपि क्रोधनीयानि वर्जयन् ।

क्रुद्धान् प्रसादयन् सर्वान् समदु:ख: क्वचिद्गत: ।। 2.41.3 ।।

कौसल्यायां महातेजा यथा मातरि वर्तते ।

तथा यो वर्त्तते ऽस्मासु महात्मा क्वनु गच्छति ।। 2.41.4 ।।

कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम् ।

परित्राता जनस्यास्य जगत: क्वनु गच्छति ।। 2.41.5 ।।

नेति । अभिशप्त: मिथ्याभिशंसनं प्रापित: । क्वचिदित्यस्य न क्रुद्ध्यतीत्यनेन सम्बन्ध: ।। 2.41.35 ।।

अहो निश्चेतनो राजा जीवलोकस्य सम्प्रियम् ।

धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ।। 2.41.6 ।।

इति सर्वा महिष्यस्ता विवत्सा इव धेनव: ।

रुरुदुश्चैव दु:खार्त्ता: सस्वरं च विचुक्रुशु: ।। 2.41.7 ।।

स तमन्त:पुरे घोरमार्तशब्दं महीपति: ।

पुत्रशोकाभिसन्तप्त: श्रुत्वा चासीत् सुदु:खित: ।। 2.41.8 ।।

अहो इति । निश्चेतन: बुद्धिहीन: । प्रवत्स्यति प्रवासयति ।। 2.41.68 ।।

नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिन: ।

अकुर्वन्नप्रजा: कार्यं सूर्यश्चान्तरधीयत ।। 2.41.9 ।।

नाग्निहोत्राणीति । नाहूयन्त अग्नानामन्तर्द्धानाद्धोतृ़णां व्यसनाच्चेति भाव: । अन्तरधीयत निस्तेजस्को ऽभूदित्यर्थ: ।। 2.41.9 ।।

व्यसृजन् कवलान्नागा गावो वत्सान्न पाययन् ।

पुत्रं प्रथमजं लब्ध्वा जननीनाभ्यनन्दत ।। 2.41.10 ।।

व्यसृजन्निति । पाययन् अपाययन् । आगमशासनस्यानित्यत्वादडभाव: ।। 2.41.10 ।।

त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि ।

दारुणा: सोममभ्येत्य ग्रहा: सर्वे व्यवस्थिता: ।। 2.41.11 ।।

त्रिशङ्कुरिति । त्रिशङ्कु: इक्ष्वाकुकुलकूटस्थ: । लोहिताङ्गो ऽङ्गारक: । बृहस्पतिबुधयोर्दारुणत्वं दारुणाङ्गारकसंयोगात् क्रूरस्थानगतत्वाद्वा । त्रिशङ्कोर्ग्रहत्वाभावेपि च्छत्रिणो गच्छन्तीतिवद्व्यपदेश: । त्रिशङ्कोः सोमप्राप्ति: ऋजुदेशत्वेन ज्ञेया । ननु ‘पूर्णे चतुर्दशे वर्षे पञ्चम्यां भरताग्रज:’ इति वक्ष्यमाणरीत्या तत्रैव कदाचित्पुष्ययोगसम्भावनया च पञ्चम्यामभिषेक इति सिद्धम् । तस्मिन्नेव च निर्गत: तथा च कर्कटकस्थे चन्द्रे कथं बुधसमागम: ? तस्य सूर्यसमीपवर्त्तित्वात् । उच्यते–प्राप्तिरत्र नैकराशिस्थिति: किंतु क्वचित् प्राप्ति: क्वचिद्दृष्टिरिति न दोष:, वक्रगत्या समागम इत्यप्याहु: ।। 2.41.11 ।।

नक्षत्राणि गतार्चीषि ग्रहाश्च गततेजस: ।

विशाखास्तु सधूमाश्च नभसि प्रचकाशिरे ।। 2.41.12 ।।

विशाखा: इक्ष्वाकुदेशनक्षत्रम् । सधूमा इत्यनेन भाविराजविपत् सूच्यते ।। 2.41.12 ।।

कालिकानिलवेगेन महोदधिरिवोत्थित: ।

रामे वनं प्रव्रजिते नगरं प्रचचाल तत् ।। 2.41.13 ।।

कालिकेति । कालिकानिलवेगेन मेघजालयुक्तप्रभञ्जनवेगेन । “मेघजाले च कालिका” इत्यमर: । प्रचचाल व्यसनातिशयात्प्रकम्पितमभूत् ।। 2.41.13 ।।

दिश: पर्याकुला: सर्वास्तिमिरेणेव संवृता: ।

न ग्रहो नापि नक्षत्रं प्रचकाशे न किञ्चन ।। 2.41.14 ।।

दिश इति । ग्रह: जात्येकवचनम्, नवग्रहा इत्यर्थ: । नक्षत्रम् अश्विन्यादि । न किंचित् प्रचकाशे सप्तर्षिध्रुवादिकं न प्रचकाश इत्यर्थ: ।। 2.41.14 ।।

अकस्मान्नागर: सर्वो जनो दैन्यमुपागमत् ।

आहारे वा विहारे वा न कश्चिदकरोन्मन: ।। 2.41.15 ।।

अकस्मादिति । अकस्मात् रामप्रव्राजनव्यतिरिक्तबन्धुविश्लेषणादिकारणं विनेत्यर्थ: ।। 2.41.15 ।।

शोकपर्यायसन्तप्त: सततं दीर्घमुच्छ्वसन् ।

अयोध्यायां जन: सर्व: शुशोच जगतीपतिम् ।। 2.41.16 ।।

बाष्पपर्याकुलमुखो राजमार्गगतो जन: ।

न हृष्टो लक्ष्यते कश्चित्सर्व: शोकपरायण: ।। 2.41.17 ।।

न वाति पवन: शीतो न शशी सौम्यदर्शन: ।

न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ।। 2.41.18 ।।

शोकेति । शोकपर्यायसन्तप्त: शोकपरम्परासन्तप्त: ।। 2.41.1618।।

अनर्थिन: सुता: स्त्रीणां भर्त्तारो भ्रातरस्तथा ।

सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् ।। 2.41.19 ।।

अनर्थिन इति । सुता: स्त्रीणामनर्थिन: मातृ़णां स्तन्यं नापेक्षन्त इत्यर्थ: । भर्तार: स्त्रीणामनर्थिन: । भ्रातर: अनर्थिन: अन्योन्यमिति शेष: । सर्वे अनुरक्ता: सर्वे ।। 2.41.19 ।।

ये तु रामस्य सुहृद: सर्वे ते मूढचेतस: ।

शोकभारेण चाक्रान्ता: शयनं न जहुस्तदा ।। 2.41.20 ।।

ये त्विति । शयनं मूर्च्छाशयनमित्यर्थ: । येत्वित्यनेन पूर्वेभ्यो वैलक्षण्यमुच्यते । चक्रवर्ती गतिमनुमेने । श्रीकौसल्या मङ्गलाशासनमकरोत् । तथा न भवन्ति सुहृद: । तेषामेकोपि न किंचिदकार्षीत् । रामस्य सुहृद: पित्रोरपि गोप्यं रामो येभ्य: प्रकाशयति तादृशा: सुशोभनहृदया: सुहृद:, आत्मानं त्यक्त्वा राममेव रक्षन्त इत्यर्थ: । सर्वे त इति तेषु कश्चिदप्यन्यादृशो नास्तीति भाव: । यदि सुहृदस्तर्हि पादौ संगृह्य रामो निवर्त्यतामित्यत्राह–मूढचेतस: प्रसन्नबुद्धिभि: कर्तव्यं कथं बुद्धिहीना: कुर्वन्तीति भाव: । ज्ञानभ्रंशस्य हेतुमाह शोकेति । पर्वतेनेव शोकभारेणाक्रान्ता: शयनं न जहु:, पर्वताक्रान्ता: कथमुत्तिष्ठेयुरिति भाव: । तदा पारवश्यकाले, न तु स्वयं । स्वबुद्ध्या शयाना ह्युत्तिष्ठन्ति ।। 2.41.20 ।।

ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता ।

चचाल घोरं भयशोकपीडिता सनागयोधाश्वगणा ननाद च ।। 2.41.21 ।।

तत इति । पुरन्दरेणेव महीति त्रैलोक्याधिपतित्वादुक्तम् । यद्वा पुरन्दरेण गोत्रभिदा हेतुना पर्वतसहिता मही यथा चलति तद्रक्षक रामविश्लेषेण गजाश्वसहितायोध्या भयेन चचालेत्यर्थ: ।। 2.41.21 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकचत्वारिंश: ।। 41 ।।

इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकचत्वारिंश: सर्ग: ।। 41 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.