85 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चाशीतितम: सर्ग:

एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् ।

प्रत्युवाच महाप्राज्ञो वाक्यं हेत्यर्थसंहितम् ।। 2.85.1 ।।

एवमिति । हेत्वर्थसंहितम् उपपत्तिप्रयोजनाभ्यां युक्तम् ।। 2.85.1 ।।

ऊर्जित: खलु ते काम: कृतो मम गुरो: सखे ।

यो मे त्वमीदृशीं सेनामेकोभ्यर्चितुमिच्छसि ।। 2.85.2 ।।

ऊर्जित इति । स्वस्य रामविषयभक्तिं द्योतयितुं मम गुरो: सखे इत्युक्तम् । यस्त्वमेक एव ईदृशीमपरिच्छिन्नां सेनामभ्यर्चितुमिच्छसि तस्य ते ऊर्जित: अभिवृद्ध: काम: अर्चनामनोरथ: कृत: खलु कृत एव, तवादरेणैव वयमर्चिता इति भाव: ।। 2.85.2 ।।

इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम् ।

अब्रवीद्भरत: श्रीमान् निषादाधिपतिं पुन: ।। 2.85.3 ।।

इतीति । महातेजा इति गाम्भीर्यद्योतनम् । उत्तममित्यनेनार्चनोद्योगमात्रेण तृप्तत्वकथनादवाप्तसमस्तकामत्वमुक्तम् । श्रीमानिति तात्कालिकहर्ष: ।। 2.85.3 ।।

कतरेण गमिष्यामि भरद्वाजाश्रमं गुह ।

गहनो ऽयं भृशं देशो गङ्गानूपो दुरत्यय: ।। 2.85.4 ।।

कतरेणेति । कतरेण केन मार्गेण । भृशं गहन: अत्यन्तदुष्प्रवेश: । अनूपो देश: जलप्रायो देश: । “जलप्रायमनूपं स्यात्” इत्यमर: ।। 2.85.4 ।।

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमत: ।

अब्रवीत् प्राञ्जलिर्वाक्यं गुहो गहनगोचर: ।। 2.85.5 ।।

तस्येति । गहनं काननं गोचर: सञ्चारप्रदेशो यस्य स: गहनगोचर: । “गहनं काननं वनम्” इत्यमर: ।। 2.85.5 ।।

दाशास्त्वा ऽनुगमिष्यन्ति धन्विन: सुसमाहिता: ।

अहं त्वा ऽनुगमिष्यामि राजपुत्र महायश: ।। 2.85.6 ।।

दाशा इति । अहमनुगमिष्यामि अतो न मार्गविषयविचार: कर्त्तव्य इति भाव: ।। 2.85.6 ।।

कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मण: ।

इयं ते महती सेना शङ्कां जनयतीव मे ।। 2.85.7 ।।

कच्चिदिति । न दुष्ट: अदुष्ट: । सुप्सुपेति समास: । रामस्य रामविषये अदुष्टो व्रजसि कच्चित् दुष्टो न व्रजसि कच्चिदिति वा सम्बन्ध: । अक्लिष्टकर्मण इत्यनेन निरपायत्वमुक्तम् । शङ्काप्रसक्तौ हेतुमाह इयमिति । अनुकूलो व्रजसि चेत् सेना व्यर्थेति भाव: । इवशब्द: शङ्काया ईषत्त्वं द्योतयति ।। 2.85.7 ।।

तमेवमभिभाषन्तमाकाश इव निर्मल: ।

भरत: श्लक्ष्णया वाचा गुहं वचनमब्रवीत् ।। 2.85.8 ।।

तमिति । आकाश इव निर्मल इत्यनेन तच्छङ्कितदोषस्य तत्र प्रसक्तिरेव नास्तीत्युच्यते । आकाशे हि पङ्कानुलेपे स तत्र न प्रसज्जति किन्तु स्वहस्त एव मलिनो भवति । श्लक्ष्णया स्वस्मिन्दोषालेपेप्यक्रोधया ।। 2.85.8 ।।

माभूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि ।

राघव: स हि मे भ्राता ज्येष्ठ: पितृसमो मत: ।। 2.85.9 ।।

तं निवर्त्तयितुं यामि काकुत्स्थं वनवासिनम् ।

बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते ।। 2.85.10 ।।

माभूदिति । यत् यस्मिन् काले । कष्टं त्वया आशङ्कितं कष्टं जायते स कालो माभूत् । कलिकाले हि तादृशप्रसङ्ग:, अतो मां शङ्कितुं नार्हसि । तत्र हेतु: राघव इत्यादि । न ते कार्या त्वया न कार्या ।। 2.85.910 ।।

स तु संहृष्टवदन: श्रुत्वा भरतभाषितम् ।

पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षित: ।। 2.85.11 ।।

धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले ।

अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ।। 2.85.12 ।।

स त्विति । संहृष्टवदन: प्रसन्नवदन इत्यर्थ: । हर्षित: सञ्जातहर्ष: ।। 2.85.1112 ।।

शाश्वती खलु ते कीर्त्तिर्लोकाननुचरिष्यति ।

यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ।। 2.85.13 ।।

शाश्वतीति । कृच्छ्रगतं व्यसनगतम् । प्रत्यानयितुं प्रत्यानेतुम् । इडार्ष: ।। 2.85.13 ।।

एवं सम्भाषमाणस्य गुहस्य भरतं तदा ।

बभौ नष्टप्रभ: सूर्यो रजनी चाभ्यवर्त्तत ।। 2.85.14 ।।

एवमिति । सम्भाषमाणस्य सम्भाषमाणे सति । नष्टप्रभ: अदृष्टप्रभ: ।। 2.85.14 ।।

संनिवेश्य स तां सेनां गुहेन परितोषित: ।

शत्रुघ्नेन सह श्रीमान् शयनं पुनरागमत् ।। 2.85.15 ।।

संनिवेश्येति । शयनं पुनरागमदिति अत्र पुन:शब्देन गुहागमनात् पूर्वं शान्त: शयने स्थित इति गम्यते । समुपागमदिति वा पाठ: । पुन: परितोषित इति वा सम्बन्ध: । वाक्यालङ्कारो वा ।। 2.85.15 ।।

रामचिन्तामय: शोको भरतस्य महात्मन: ।

उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृश: ।। 2.85.16 ।।

रामेति । अनर्हस्य गर्भैश्वर्येण शोकानर्हस्य । महात्मन: महाधीरस्यापि धर्मप्रेक्षस्य शोकमूलपापशून्यस्य । तादृश: अवाङ्मनसगोचर: । भ्रातृभक्तस्येति भरतविशेषणं वा ।। 2.85.16 ।।

अन्तर्दाहेन दहन: सन्तापयति राघवम् ।

वनदाहाभिसन्तप्तं गूढोग्निरिव पादपम् ।। 2.85.17 ।।

अन्तर्दाहेनेति । दहन: शोकाग्नि: । अन्तर्दाहेन चिन्ताग्निना तप्तं राघवं भरतं सन्तापयति सम्यक् ग्लापयति स्म । वनदाहाभिसन्तप्तं वनदाहेन पर्यन्तवनाग्नेरूष्मणा सन्तप्तं शुष्कं पादपं गूढोग्निरिव कोटराग्निरिव अन्तरारभ्य बहिरदहत् अन्त:स्थोप्यात्मा दह्यते, अदाह्यत्वं केवलाग्नेर्हि ।। 2.85.17 ।।

प्रसृतस्सर्वगात्रेभ्य: स्वेदं शोकाग्निसम्भवम् ।

यथा सूर्यांशुसन्तप्तो हिमवान् प्रसृतो हिमम् ।। 2.85.18 ।।

प्रसृत इति । शोकाग्निसम्भवं स्वेदं प्रसृत:, भरत इति शेष: । स्वेद: शोकाग्निसम्भव इति पाठस्तु न दृष्टान्तानुरूप: । स्वेदं प्रसृत: हिमं प्रसृत: इत्यत्र गत्यर्थत्वात् कर्त्तरि क्त: ।। 2.85.18 ।।

ध्याननिर्दरशैलेन विनिश्वसितधातुना ।

दैन्यपादपसङ्घेन शोकायासाधिश्रृङ्गिणा ।। 2.85.19 ।।

प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना

आक्रान्तो दु:खशैलेन महता कैकयीसुत: ।। 2.85.20 ।।

भरतस्य दु:खं शैलत्वेन रूपयति–ध्यानेत्यादिना । ध्याननिर्दरशैलेन दरो गर्त्त: तस्मान्निर्गतं निर्दरं शिलानां समूह: शैलं रामविषयध्यानमेव निर्दरशैलं यस्मिन् तेन । ध्यानस्य निरन्तरत्वेन दरीविदीर्णशिलापङ्क्तिसाम्यम् । विविधं निश्वसितं विनिश्वसितं तदेव धातुर्यस्मिन् । विविधत्वसाम्यात् । दैन्यं करणानां स्वस्वविषयप्रवृत्तिवैमुख्यं तस्य पादपसाम्यमबोधरूपतया । शोकायासाधिश्रृङ्गिणा शोकादय एव श्रृङ्गिण: कृष्णसारादयो यस्मिन् तेन । यद्वा शोकायासाधिभि: श्रृङ्गिणा श्रृङ्गवता दृढत्वसाम्यात् । प्रमोहानन्तसत्त्वेन प्रमोहा एव अनन्तानि सत्त्वानि जन्तवो यस्मिन् तेन । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमर: । प्राणभयशङ्काकरत्वात् । सन्तापौषधिवेणुना सन्तापा एव ओषधयो वेणवश्च यस्मिन् तेन । ओषधिवेणुसाम्यं दुष्प्रवेशत्वात् । आक्रान्त: अभूदिति शेष: । महता अतिगुरुणा । मज्जतेति पाठे–मज्जता अवयवेषु प्रविशता ।। 2.85.1920 ।।

विनि:श्वसन् वै भृशदुर्मनास्तत: प्रमूढसंज्ञ: परमापदं गत: ।

शमं न लेभे हृदयज्वरार्दितो नरर्षभो यूथगतो यथर्षभ: ।। 2.85.21 ।।

विनि:श्वसन्निति । विनि:श्वसन् चिन्तातिरेकेण श्वासं कुर्वन् । भृशदुर्मना: अत्यन्तकलुषहृदय: । प्रमूढा तष्टा संज्ञा यस्य स: प्रमूढसंज्ञ: । अत एव परमापदं मरणायार्थसम्पत्तिरूपां मूर्च्छां गत: । शमं ज्वरशान्तिम् । अयूथगत: यूथाद्भ्रष्ट इत्यर्थ: । यूथहत इति पाठे–हतयूथ इत्यर्थ: ।। 2.85.21 ।।

गुहेन सार्द्धं भरत: समागतो महानुभाव: सजन: समाहित: ।

सुदुर्मनास्तं भरतं तदा पुनर्गुह: समाश्वासयदग्रजं प्रति ।। 2.85.22 ।।

अथ गुह: समागत इत्याह–गुहेनेति । सजन: सपरिवार: । समाहित: एकाग्रचित्त: । भरत: गुहेन सार्द्धं सह समागत: सङ्गत: । अथ गुह: सुदुर्मना: भरतक्लेशदर्शनेन भरतादपि भृशं दुर्मना: सन् । भरतम् अग्रजं प्रति अग्रजं लक्षीकृत्य समाश्वासयत् ।। 2.85.22 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चाशीतितम: सर्ग: ।। 85 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चाशीतितम: सर्ग: ।। 85 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.