102 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्युत्तरशततम:सर्ग:

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।

राघवो भरतेनोक्तां बभूव गतचेतन: ।। 2.102.1 ।।

तामित्यादि । करुणां शोकावहाम् । यद्वा अकरुणां करुणारहिताम्, क्रूरामिति यावत् ।। 2.102.1 ।।

तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा ।

वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ।। 2.102.2 ।।

प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: ।

वने परशुना कृत्तस्तथा भुवि पपात ह ।। 2.102.3 ।।

तं त्वित्यादिश्लोकद्वयमेकं वाक्यम् । दानवारिणा इन्द्रेण । बाहू प्रगृह्य पाणिना पाणिं निष्पीड्य उद्धृत्य वा । वाग्वज्रमित्यस्य पूर्वश्लोकादनुषक्तेन श्रुत्वेत्यनेनान्वय: ।। 2.102.23 ।।

तथा निपतितं रामं जगत्यां जगतीपतिम् ।

कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ।। 2.102.4 ।।

भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् ।

रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ।। 2.102.5 ।।

तथेत्यादिश्लोकद्वयम् । कूलघातेन मदेन दन्तकण्ड्वा च कृतेन कूलप्रहारेण परिश्रान्तम् अत एव प्रसुप्तं कुञ्जरमिव स्थितम्, मूर्च्छितमित्यर्थ: । सलिलेन सर्वत: सिषिचु: सर्वगात्राणि मोहशान्तये सिक्तवन्त: । यत: “अमृतं वा आपस्तस्मादद्भिरवतांतमभिषिञ्चन्ति” इति श्रुतिरपि हि वदति ।। 2.102.45 ।।

स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।

उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ।। 2.102.6 ।।

स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् ।

उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ।। 2.102.7 ।।

स त्विति । उपाक्रामत उपाक्रमत । दीर्घ आर्ष: ।। 2.102.67 ।।

किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।

कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ।। 2.102.8 ।।

किमिति । दिष्टां कालकल्पिताम् । “कालो दिष्टोप्यनेहापि” इत्यमर: । यद्वा दिष्टां दैवकल्पिताम् । “दैवं दिष्टं भागधेयम्” इत्यमर: । राजवरात् । तृतीयार्थे पञ्चमी । (पाठान्तरं । किं करिष्यामीत्यस्य भावमुद्घाटयति राजवरेति । राजवराधीनां तद्रक्षणाधीनामित्यर्थ:) ।। 2.102.8 ।।

किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: ।

यो मृतो मम शोकेन मया चापि न संस्कृत: ।। 2.102.9 ।।

पितृमरणहेतुभूतत्वात्तत्संस्कारानुपयोगाच्चात्मानं विगर्हते–किं नु तस्येति ।। 2.102.9 ।।

अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ ।

शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ।। 2.102.10 ।।

अहो इति । अनघ “पुत्रमन्त्ये तु कर्मणि” इत्युक्तपितृसंस्काररूपभाग्यविघटकपापरहित अहं हि तादृशपापवानिति भाव: । येन कारणेन त्वया शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु प्राप्तेषु राजा सत्कृत: ।। 2.102.10 ।।

निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् ।

निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ।। 2.102.11 ।।

निष्प्रधानामिति । एकाग्रा अनाकुला । “अनाकुलेपि चैकाग्र:” इत्यमर: । सा न भवतीत्यनेकाग्रा । ताम् आकुलामिति यावत् ।। 2.102.11 ।।

समाप्तवनवासं मामयोध्यायां परन्तप ।

को नु शासिष्यति पुनस्ताते लोकान्तरं गते ।। 2.102.12 ।।

समाप्तेति । शासिष्यति कार्य्येषु नियोक्ष्यतीत्यर्थ: ।। 2.102.12 ।।

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।

वाक्यानि तानि श्रोष्यामि कुत: कर्णसुखान्यहम् ।। 2.102.13 ।।

पुरेति । सुवृत्तं शोभनं नियोगा चरणरूपं वृत्तं यस्य तम् । कुत: कस्मात् पुरुषात् ।। 2.102.13 ।।

एवमुक्त्वा स भरतं भार्यामभ्येत्य राघव: ।

उवाच शोकसन्तप्त: पूर्णचन्द्रनिभाननाम् ।। 2.102.14 ।।

एवमिति । अभ्येत्य अभिसुखो भूत्वा ।। 2.102.14 ।।

सीते मृतस्ते श्वशुर: पित्रा हीनो ऽसि लक्ष्मण ।

भरतो दु:खमाचष्टे स्वर्गतं पृथिवीपतिम् ।। 2.102.15 ।।

सीत इति । दु:खमित्येतत् क्रिया विशेषणम् । इत्युवाचेति पूर्वोणान्वय: ।। 2.102.15 ।।

ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत ।

तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ।। 2.102.16 ।।

ततस्ते भ्रातर: सर्वे भृशमाश्वास्य राघवम् ।

अब्रुवन् जगतीभर्त्तु: क्रियतामुदकं पितु: ।। 2.102.17 ।।

सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् ।

नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ।। 2.102.18 ।।

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।

उवाच लक्ष्मणं तत्र दु:खितो दु:खितं वच: ।। 2.102.19 ।।

तत इति । क्रियतामित्यत्रेतिकरणं द्रष्टव्यम् ।। 2.102.1719 ।।

आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।

जलक्रियार्थं तातस्य गमिष्यामि महात्मन: ।। 2.102.20 ।।

आनयेति । इङ्गुदिपिण्याकं तपस्विभोज्यं तापसतरुबीजपिण्याकम् । अनिस्सारिततैलं पिष्ट्वा चूर्णीकृत्य पिण्डीकृतमिङ्गुदीबीजमेव पिण्याकत्वेनोपचर्य्यते । “इङ्गुदी तापसतरु:” इत्यमर: । चीरं वासउदकदानार्थम् । (चीरं स्नानार्थं परिधानम्) उत्तरम् उत्तरीयं च ।। 2.102.20 ।।

सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज ।

अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ।। 2.102.21 ।।

सीतेति । अभित: पश्चात् “अभित: परित:” इत्यादिना एनामिति द्वितीया । सुदारुणा सुतरां दुस्सहा । गति: दु:खिनां गति: । एषा हि स्नानाद्यर्थं स्त्रीबालपुरस्सरा खल्वित्यर्थ: । तथा च सूत्रम् “सर्वे कनिष्ठप्रथमा अनुपूर्व इतरे स्त्रियो ऽग्रे” इति ।। 2.102.21 ।।

ततो नित्यानुगस्तेषां विदितात्मा महामति: ।

मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ।। 2.102.22 ।।

सुमन्त्रस्तैर्नृपसुतै: सार्द्धमाश्वास्य राघवम् ।

अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ।। 2.102.23 ।।

तत इति । नित्यानुग: कुलक्रमानुगतानुचर: । विदितात्मा ज्ञातात्मस्वरूप: ।। 2.102.2223 ।।

ते सुतीर्थां तत: कृच्छ्रादुपागम्य यशस्विन: ।

नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ।। 2.102.24 ।।

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् ।

सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ।। 2.102.25 ।।

त इति । ते सीतालक्ष्मणरामा: । स्त्रियोपि उदकं दिशन्तीति शास्त्रसिद्धम् । शीघ्रस्त्रोतसं नदीमुपागम्य अकर्दमं तीर्थम् अवतारप्रदेशमासाद्य । तत हे तात ते तुभ्यमेतद्भवत्वित्युच्चार्य्य उदकं सिषिचु:, ददुरित्यर्थ: । स्नानमर्थात्सिद्धम् । सीताया: स्नानमात्रे ऽन्वयो वा । कृच्छ्रादित्यनेन तेषां दु:खातिशयात् स्खलितगमनमुच्यते । सुतीर्थामित्यनेन पुण्यतीर्थत्वमुक्तम् । उपगम्येत्यनेन नदीतीरेपि कञ्चित्कालं रोदनाचार उक्त: । यशस्विन इत्यनेन शास्त्रानतिक्रम उक्त: । रम्यामित्यनेनन दु:खशान्तिहेतुत्वमुक्तम् । पुष्पितकाननामित्येन उदकदानसमाप्तिपर्य्यन्तमनातपत्वमुक्तम् । शीघ्रस्रोतसमित्यनेन स्नानकाले स्रोतोभिमुखत्वमुक्तम् । शिवं शुद्धम् । अकर्द्दमं तीर्थमासाद्येत्यनेन तीरे सेचनमुक्तम् ।। 2.102.2425 ।।

प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।

दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ।। 2.102.26 ।।

दानप्रकारमाह–प्रगृह्येत्यादिना ।। 2.102.26 ।।

एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।

पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ।। 2.102.27 ।।

दानमन्त्रमाह–एतदित्यादिना ।। 2.102.27 ।।

ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघव: ।

पितुश्चकार तेजस्वी निवापं भ्रातृभि: सह ।। 2.102.28 ।।

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।

न्यस्य राम: सुदु:खार्त्तो रुदन् वचनमब्रवीत् ।। 2.102.29 ।।

इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ।

यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ।। 2.102.30 ।।

ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् ।

आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ।। 2.102.31 ।।

तत: पर्णकुटीद्वारमासाद्य जगतीपति: ।

परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ।। 2.102.32 ।।

तत इति । भ्रातृभि: सह मन्दाकिनीतीरात् प्रत्युत्तीर्य्य पितुर्निवापं पिण्डप्रदानं चकार मन्दाकिनीतीरात्समुत्तीर्य्येत्युदकदानदेशात् किंचित्प्रदेशान्तरगमनवचनात् सपिण्डीकरणमेव कृतमित्यवगम्यते । दशाहात्यये उदकदानं विना पिण्डदानस्याचोदितत्वात् । उदकसेचनवत् कनिष्ठेन लक्ष्मणेन पिण्डदानानुक्तेश्च ।। 2.102.2832 ।।

तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ ।

भ्रातृ़णां सह वैदेह्या: सिंहानामिव नर्दताम् ।। 2.102.33 ।।

तेषामिति । प्रतिश्रुत्क: प्रतिध्वनि: ।। 2.102.33 ।।

महाबलानां रुदतां कुर्वतामुदकं पितु: ।

विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिका: ।। 2.102.34 ।।

अब्रुवंश्चापि रामेण भरत: सङ्गतो ध्रुवम् ।

तेषामेव महाञ्छब्द: शोचतां पितरं मृतम् ।। 2.102.35 ।।

महाबलानामित्यादिश्लोकद्वयमेकं वाक्यम् । त्रस्ता: किं भविष्यतीति धिया उद्विग्ना: । उद्वेगानन्तरं निश्चित्य वदन्ति स्मेत्याह अब्रुवन्नित्यादिना । मृतं पितरमुद्दिश्येति शेष: ।। 2.102.3435 ।।

अथ वासान् परित्यज्य तं सर्वे ऽभिमुखा: स्वनम् ।

अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता: ।। 2.102.36 ।।

अथेति । स्वनमभिमुखा: स्वनोत्पत्तिदिगभिमुखा इत्यर्थ: । यथास्थानं शब्दोत्पत्तिप्रदेशमनतिक्रम्य । प्रधाविता: शीघ्रगतियुक्ता: ।। 2.102.36 ।।

हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतै: ।

सुकुमारास्तथैवान्ये पद्भिरेव नरा ययु: ।। 2.102.37 ।।

अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।

द्रष्टुकामो जन: सर्वो जगाम सहसाश्रमम् ।। 2.102.38 ।।

सुकुमारा इति । हयैरित्यादिभिरुक्तानां त्रयाणां विशेषणम् । सुकुमारत्वाभावे दु:खितं रामं प्रति पद्भ्यामेव गन्तव्यत्वात् ।। 2.102.3738 ।।

भ्रातृ़णां त्वरितास्तत्र द्रष्टुकामा: समागमम् ।

ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलै: ।। 2.102.39 ।।

सा भूमिर्बहुभिर्यानै: खुरनेमिसमाहता ।

मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ।। 2.102.40 ।।

भ्रातृ़णामिति । एषां यानैर्गमनं दर्शनत्वरया । ययुर्बहुविधैर्यानै: खुरनेमिसमाहता: इति पाठ: । ययुर्बहुविधैर्युक्तैरिति पाठे–युक्ते: सज्जै:, यानैरिति शेष: ।। 2.102.3940 ।।

तेन वित्रासिता नागा: करेणुपरिवारिता: ।

आवासयन्तो गन्धेन जग्मुरन्यद्वनं तत: ।। 2.102.41 ।।

तेनेति । आवासयन्त: मदगन्धेनावासयन्त: । एतेन वनगजानामपि रामदर्शनहर्षो द्योत्यते ।। 2.102.41 ।।

वराहवृकसङ्घाश्च महिषा: सर्प्पवानरा: ।

व्याघ्रगोकर्णगवया: वित्रेसु: पृषतैः सह ।। 2.102.42 ।।

वराहेति । गोकर्ण: गोरिव कर्णौ यस्य स गोकर्ण: । महापृषतविशेष: ।। 2.102.42 ।।

रथाङ्गसाह्वा नत्यूहा: हंसा: कारण्डवा: प्लवा: ।

तथा पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिश: ।। 2.102.43 ।।

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।

मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ।। 2.102.44 ।।

ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् ।

आसीनं स्थण्डिले रामं ददर्श सहसा जन: ।। 2.102.45 ।।

रथाङ्गेति । नत्यूहा: जलरङ्कव: । “नत्यूहो जलरङ्कु: स्यात्” इति हलायुध: । प्लवा: स्थूलबकविशेषा: ।। 2.102.4345 ।।

विगर्हमाण: कैकेयीं सहितो मन्थरामपि ।

अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ।। 2.102.46 ।।

तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदु:खितान् ।

पर्य्यष्वजत धर्मज्ञ: पितृवन्मातृवच्च स: ।। 2.102.47 ।।

विगर्हमाण इति । सहित: अन्योन्यसङ्गत: ।। 2.102.4647 ।।

स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् ।

चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मज: ।। 2.102.48 ।।

स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: ।

गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ।। 2.102.49 ।।

स इति । चकार सम्मानमिति शेष: ।। 2.102.4849 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्युत्तरशततम:सर्ग: ।। 102 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्व्युत्तरशततम: सर्ग: ।। 102 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.