55 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चपञ्चाश: सर्ग:

उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ ।

महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ।। 2.55.1 ।।

उषित्वेत्यादि ।। 2.55.1 ।।

तेषां चैव स्वस्त्ययनं महर्षि: स चकार ह ।

प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानिवान्वगात् ।। 2.55.2 ।।

तेषामिति । तेषां प्रस्थातुमुद्युक्तानाम् । अन्वगादिति पाठ: । अन्वशादिति पाठे–अनुशिष्टवान् मार्गोपदेशमकरोदित्यर्थ: ।। 2.55.2 ।।

तत: प्रचक्रमे वक्तुं वचनं स महामुनि: ।

भरद्वाजो महातेजा रामं सत्यपराक्रमम् ।। 2.55.3 ।।

तदेव विवृणोति–तत इति ।। 2.55.3 ।।

गङ्गायमुनयो: सन्धिमासाद्य मनुजर्षभौ ।

कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम् ।। 2.55.4 ।।

गङ्गायमुनयोरिति । प्रथमं गङ्गायमुनयो: सन्धिमासाद्य पश्चात् पश्चान्मुखाश्रितां गङ्गाजलवेगाभिहत्या किंचित्पश्चान्मुखप्रवाहं प्राप्तां कालिन्दीं नदीम् । अनुगच्छेताम् अनुसृत्य गच्छेतां पश्चिमाभिमुखौ भूत्वा गच्छेतां, भवन्ताविति शेष: । (पाठभेद: । अभिगच्छेताम् अभिमुखं गच्छेताम्, कालिन्द्या अभिमुखीभूय गच्छेतामित्यर्थ:) ।। 2.55.4 ।।

अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् ।

तस्यास्तीर्थं प्रचरितं पुराणं प्रेक्ष्य राघवौ ।। 2.55.5 ।।

तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ।

ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ।। 2.55.6 ।।

शीघ्रस्रोतसमित्यनेन गङ्गाजलवेगप्रतिहतिस्तिमितजलव्यतिरिक्तप्रदेश उच्यते । तीर्थम् अवतरणप्रदेशम् । प्रचरितं गमनागमनाभ्यामतिक्षुण्णमित्यर्थ: । आंशुमतीम् अंशुमत: सूर्यस्यापत्यभूताम् । तत: तरणानन्तरम् । न्यग्रोधं तीरस्थम् । हरितच्छदं श्यामलपत्रम् । अत एव श्यामं श्यामनामकं वृक्षै: सह विवृद्धम् । यद्वा वृक्षै: श्यामं वृक्षसहितत्वात् विशेषेण श्यामलम् । वृक्षैरित्युपलक्षणे तृतीया । आशिष: मनोरथान् । प्रयुञ्जीत प्रार्थयेत् ।। 2.55.56 ।।

विवृद्धं बहुभिर्वृक्षै: श्यामं सिद्धोपसेवितम् ।

तस्मै सीताञ्जलिं कृत्वा प्रयुञ्जीताशिषः: शिवा: ।। 2.55.7 ।।

वसेद्वा अतिक्रमेत वा सीतेति शेष: । श्रान्ता चेत् किंचित्कालं वसेत्, नोचेदतिक्रमेतेत्यर्थ: ।। 2.55.7 ।।

समासाद्य तु तं वृक्षं वसेद्वातिक्रमेत वा ।

क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् ।। 2.55.8 ।।

तत: दक्षिणतटस्थन्यग्रोधात् । यामुनै: यमुनासम्बन्धिभि:, यमुनातीरजैरित्यर्थ: ।। 2.55.8 ।।

पलाशबदरीमिश्रं रम्यं वंशैश्च यामुनै: ।

स पन्थाश्चित्रकूटस्य गत: सुबहुशो मया ।

रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जित: ।

इति पन्थानमावेद्य महर्षि: संन्यवर्तत ।। 2.55.9 ।।

स: काननम्, पथिशब्दापेक्षया पुल्लिङ्गत्वम् । मार्दवयुक्त: सूक्ष्मसिकतावत्त्वात् । वनदावैर्वनाग्निभि: । “दवदावौ वनारण्यवह्नी” इत्यमर: । तथाप्यत्र दावशब्दो ऽग्निमात्रपर: । “विशिष्टवाचकानाम्” इति न्यायात् ।। 2.55.9 ।।

अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तित: ।। 2.55.10 ।।

उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ।

कृतपुण्या: स्म सौमित्रे मुनिर्यन्नो ऽनुकम्पते ।। 2.55.11 ।।

अभिवाद्येत्यर्द्धेन महर्षिं विशेषयति । तथैव गमिष्याम इत्युक्त्वा अभिवाद्य त्वमाश्रमं गच्छेति रामेण विनिवर्त्तितो महर्षि: न्यवर्ततेति सम्बन्ध: ।। 2.55.1011 ।।

इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ।

सीतामेवाग्रत: कृत्वा कालिन्दीं जग्मतुर्नदीम् ।। 2.55.12 ।।

अथासाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम् ।

चिन्तामापेदिरे सर्वे नदीजलतितीर्षव: ।। 2.55.13 ।।

इतीति । मन्त्रयित्वा पूर्वोक्तरीत्या कृतार्थतामनुसन्धाय ।। 2.55.1213 ।।

तौ काष्ठसङ्घाटमथो चक्रतुस्सुमहाप्लवम् ।

शुष्कैर्वंशै: समास्तीर्णमुशीरैश्च समावृतम् ।। 2.55.14 ।।

ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ।

चकार लक्ष्मणश्छित्त्वा सीताया: सुखमासनम् ।। 2.55.15 ।।

तौ काष्ठसङ्घाटमिति । काष्ठसङ्घाट: काष्ठनिचय: । उशीरै: वीरणतृणमूलै: । “मूले़ ऽस्योशीरमस्त्रियाम्” इत्यमर: ।। 2.55.1415 ।।

तत्र श्रियमिवाचिन्त्यां रामो दाशरथि: प्रियाम् ।

ईषत्संलज्जमानां तामध्यारोपयत प्लवम् ।। 2.55.16 ।।

तत्रेति । अचिन्त्याम् अचिन्त्यसौन्दर्याम् । कान्तकरग्रहादावश्यकत्वाच्चेषल्लज्जावतीम् ।। 2.55.16 ।।

पार्श्वे च तत्र वैदेह्या वसने भूषणानि च ।

प्लवे कठिनकाजं च रामश्चक्रे सहायुधै: ।। 2.55.17 ।।

पार्श्व इति । तत्रैव वैदेह्या: पार्श्वे कठिनकाजं कठिनकं कन्दमूलखननसाधनमायसाग्रं दारु, आजम् अजचर्म पिनद्धं पिटकम् । द्वन्द्वैकवद्भाव: । चक्रे स्थापितवानित्यर्थ: ।। 2.55.17 ।।

आरोप्य प्रथमं सीतां सङ्घाट परिगृह्य तौ ।

तत: प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ ।। 2.55.18 ।।

आरोप्येति । सङ्घाटंप्लवम् । यत्तौ प्लवचालने यतमानौ ।। 2.55.18 ।।

कालिन्दीमध्यमायाता सीता त्वेनामवन्दत ।

स्वस्ति देवि तरामि त्वां पारयेन्मे पतिर्व्रतम् ।। 2.55.19 ।।

यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च ।

स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।। 2.55.20 ।।

कालिन्दीमथ सीता तु याचमाना कृताञ्जलि: ।

तीरमेवाभिसम्प्राप्ता दक्षिणं वरवर्णिनी ।। 2.55.21 ।।

कालिन्दीमध्यमित्यादि । मे पति: । व्रतं वनवाससङ्कल्पम् । पारयेत् समापयेत् । त्वामुद्दिश्य गोसहस्रेण गोसहस्रप्रदानेन सुराघटशतेन च नैवेद्येन । स्वस्ति यथा भवति तथा प्रत्यागते सति गोसहस्रप्रदानेन सुराघटशतेन च त्वां यक्ष्य इत्यादि याचमाना तीरं प्राप्तेत्यन्वय: ।। 2.55.1921 ।।

तत: प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् ।

तीरजैर्बहुभिर्वृक्षै: सन्तेरुर्यमुनां नदीम् ।। 2.55.22 ।।

तत इति । वृक्षैरिति उपलक्षणे तृतीया ।। 2.55.22 ।।

ते तीर्णा: प्लवमुत्सृज्य प्रस्थाय यमुना वनात् ।

श्यामं न्यग्रोधमासेदु: शीतलं हरितच्छदम् ।। 2.55.23 ।।

न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत् ।। 2.55.24 ।।

ते तीर्णा इति । यमुनावनात् यमुनातीरवनात् ।। 2.55.2324 ।।

नमस्ते ऽस्तु महावृक्ष पारयेन्मे पतिर्व्रतम् ।

कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् ।

इति सीता ऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम् ।। 2.55.25 ।।

नमस्त इत्यादि । पर्यगच्छत् प्रदक्षिणं चकार ।। 2.55.25 ।।

अवलोक्य तत: सीतामायाचन्तीमनिन्दिताम् ।

दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् ।। 2.55.26 ।।

अवलोक्येति । अवलोक्य, सीताया: श्रान्त्यश्रान्ती परीक्ष्येत्यर्थ: । आयाचन्तीं मनोरथान् प्रार्थयन्तीम् ।। 2.55.26 ।।

सीतामादाय गच्छ त्वमग्रतो भरताग्रज ।

पृष्ठतो ऽहं गमिष्यामि सायुधो द्विपदां वर ।। 2.55.27 ।।

सीतामादायेति । भरताग्रजेति बहुव्रीहि: । अग्रतो गच्छेत्यनेन सीताया: पुरतो गच्छेत्युक्तम् ।। 2.55.27 ।।

यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा ।

तत्तत् प्रदद्या वैदेह्या यत्रास्या रमते मन: ।। 2.55.28 ।।

गच्छतोस्तु तयोर्मध्ये बभूव जनकात्मजा ।

मातङ्गयोर्मध्यगता शुभा नागवधूरिव ।। 2.55.29 ।।

अग्रतो गमनफलमाह– यद्यत्फलमित्यादिश्लोकेन ।। 2.55.2829 ।।

एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् ।

अदृष्टपूर्वां पश्यन्ती रामं पप्रच्छ सा ऽबला ।। 2.55.30 ।।

एकैकमिति । पप्रच्छ कैषां संज्ञेति पृष्टवतीत्यर्थ: ।। 2.55.30 ।।

रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ।

सीतावचनसंरब्ध आनयामास लक्ष्मण: ।। 2.55.31 ।।

रमणीयानिति । पादपानित्यनेन स्तबकविशिष्टा: पादपावयवा उच्यन्ते । सीतावचनसंरब्ध: सीतावचनेन त्वरित: ।। 2.55.31 ।।

विचित्रवालुकजलां हंससारसनादिताम् ।

रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।। 2.55.32 ।।

विचित्रवालुकजलामिति । नदीं यमुनाम् । सुदूरं तत्तीरे गमनात्तद्दर्शनम् ।। 2.55.32 ।।

क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ ।

बहून् मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ।। 2.55.33 ।।

क्रोशमात्रमिति । मेध्यान् शुचीन् भक्ष्यानिति यावत् । चेरतु: भक्षितवन्तौ । “चर गतिभक्षणयो:” ।। 2.55.33 ।।

विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते ।

समं नदीवप्रमुपेत्य सम्मतं निवासमाजग्मुरदीनदर्शना: ।। 2.55.34 ।।

विहृयेति । पूग: समूह: । समम् अनिम्नोन्नतम् । नदीवप्रं नदीतीरम् । संमतं निवासं सीताभिमतं वासस्थानम् ।। 2.55.34 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चपञ्चाश: सर्ग: ।। 55 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चपञ्चाश: सर्ग: ।। 55 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.