77 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तसप्ततितम: सर्ग:

ततो दशाहे ऽतिगते कृतशौचो नृपात्मज: ।

द्वादशे ऽहनि सम्प्राप्ते श्राद्धकर्माण्यकारयत् ।। 2.77.1 ।।

ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् ।

वासांसि च महार्हाणि रत्नानि विविधानि च ।। 2.77.2 ।।

ततइति । दशाहे अतिगते अतीते, एकादशाह इत्यर्थ: । कृतशौच: कृतशौचापादकपुण्याहवाचननवश्राद्धादिक इत्यर्थ: । द्वादशे ऽहनि श्राद्धकर्माणि षोडशमासिकानि सपिण्डीकरणान्तानीत्यर्थ: । अकारयत् अकरोदित्यर्थ: । स्वार्थे णिच् ।। 2.77.12 ।।

बास्तिकं बहुशुक्लं च गाश्चापि शतशस्तदा ।

दासीदासं च यानं च वेश्मानि सुमहान्ति च ।

ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्द्ध्वदैहिकम् ।। 2.77.3 ।।

बास्तिकमित्यादि । बस्तानां छागानां समूहो बास्तिकम् । छान्दसष्ठक् । “अजा छागीशुभच्छागबस्तच्छागलका अजे” इत्यमर: । बहुशुक्लमिति छागविशेषणं रजतं वा, पितृप्रियत्वात् । “शुक्लो योगान्तरे श्वेते शुक्ले च रजते तथा” इति विश्व: । दासीदासम् । गवाश्वप्रभृतित्वादेकवद्भाव: । उर्द्ध्वं देहादूर्द्ध्वदेह: तत्र भवमौर्द्ध्वदैहिकम् । “ऊर्द्ध्वदेहाच्चेति वक्तव्यम्” इति ठक् ।। 2.77.3 ।।

तत: प्रभातसमये दिवसे ऽथ त्रयोदशे ।

विललाप महाबाहुर्भरत: शोकमूर्च्छित: ।

शब्दापिहितकण्ठस्तु शोधनार्थमुपागत: ।। 2.77.4 ।।

तत इति । शब्दापिहितकण्ठ: रोदनध्वनिना व्याप्तकण्ठ: । शोधनार्थं स्थलशोधनार्थम् “दहनदेशमुदकुम्भै: स्ववोक्षति” इति सूत्रात् अस्थिसञ्चयनार्थमित्यर्थ: । सावशेषास्थिनिचय इति वक्ष्यमाणत्वात् । त्रयोदशेप्यस्थिसञ्चयनं सूत्रान्ते दृश्यते । यथाह बोधायन: “द्वितीये ऽह्नि युग्मदिवसेष्वर्द्धमासान्मासानृतून् संवत्सरं वा सञ्चयनं कुर्यात्” इति ।। 2.77.4 ।।

चितामूले पितुर्वाक्यमिदमाह सुदु:खित: ।। 2.77.5 ।।

चितामूल इत्यर्धम् ।। 2.77.5 ।।

तात यस्मिन्निसृष्टो ऽहं त्वया भ्रातरि राघवे ।

तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तो ऽस्म्यहं त्वया ।। 2.77.6 ।।

यस्या गतिरनाथाया: पुत्र: प्रव्राजितो वनम् ।

तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप ।। 2.77.7 ।।

तातेति । निसृष्ट: दत्त: । प्रव्रजिते प्रव्राजिते । छान्दसो ह्रस्व: ।। 2.77.67 ।।

दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् ।

पितु: शरीरनिर्वाणं निष्टनन् विषसाद स: ।। 2.77.8 ।।

दृष्ट्वेति । भस्मारुणं भस्मयुक्तमरुणं च । अरुणत्वमतिदग्धत्वात् । पितु: शरीरनिर्वाणं शरीरं निर्वाप्यते विनाश्यते अस्मिन्निति शरीरनिर्वाणम् । अधिकरणे ल्युट् । “निर्वाणो निर्वृते मोक्षे विनाशे गजमज्जने” इति वैजयन्ती । निष्टनन् नितरां स्तनन् । “अभिनिसस्तन: शब्दसंज्ञायाम्” इति षत्वम् । (पाठभेद: । भस्मारुणं भस्मना अरुणम्, अव्यक्तरागम् । दग्धास्थिस्थानमण्डलं दग्धानामस्थ्नां यानि स्थानानि विन्यासविशेषा: तेषां मण्डलं समूहं दृष्ट्वा अस्थिमण्डलं दृष्ट्वेत्यर्थसिद्धम् । पितु: शरीरनिर्वाणं शरीरविनाशं प्रति निष्टनन् नितरां रोदनशब्दं कुर्वन्) विषसाद दु:खितो ऽभूत् ।। 2.77.8 ।।

स तु दृष्ट्वा रुदन् दीन: पपात धरणीतले ।

उत्थाप्यमान: शक्रस्य यन्त्रध्वज इव च्युत: ।। 2.77.9 ।।

स इति । उत्थाप्यमान: रज्जुभिरुत्थाप्यमान: । च्युत: स्रस्त: शक्रस्य यन्त्रबद्धो ध्वजो यन्त्रध्वज: रज्जुयुक्तो ध्वज इव पपात, यथा यन्त्रपतनात् ध्वजपतनम् एवं राजपतनात् भरतपतनमिति भाव: ।। 2.77.9 ।।

अभिपेतुस्तत: सर्वे तस्यामात्या: शुचिव्रतम् ।

अन्तकाले निपतितं ययातिमृषयो यथा ।। 2.77.10 ।।

अभिपेतुरिति । अमात्या: ज्ञातय: । शुचिव्रतं तम् । अन्तकाले पुण्यक्षयकाले निपतितं ययातिम् ऋषय: दौहित्रभूता इव अभिपेतु: ।। 2.77.10 ।।

शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् ।

विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन् ।। 2.77.11 ।।

शत्रुघ्न इति । भरतपतनावधि शत्रुघ्नस्य धैर्यं स्थितम्, तत्पतनानन्तरं तु भूमिपालमनुस्मरन्न्यपतत् ।। 2.77.11 ।।

उन्मत्त इव निश्चेता विललाप सुदु:खित: ।

स्मृत्वा पितुर्गुणाङ्गानि तानितानि तदातदा ।। 2.77.12 ।।

उन्मत्त इति । गुणाङ्गानि गुणानङ्गानि चेत्यर्थ: । तदातदा तानितानि तत्तत्कालोचिताभिमतप्रदानोपलालनकराणि गुणाङ्गानि ।। 2.77.12 ।।

मन्थराप्रभवस्तीव्र: कैकेयीग्राहसङ्कुल: ।

वरदानमयोक्षोभ्यो ऽमज्जयच्छोकसागर: ।। 2.77.13 ।।

सुकुमारं च बालं च सततं लालितं त्वया ।

क्व तात भरतं हित्वा विलपन्तं गतो भवान् ।। 2.77.14 ।।

मन्थरेति सगरव्यावृत्ति: । तीव्र: अगाध इति यावत् । अमज्जयत् अस्मानिति शेष: ।। 2.77.1314 ।।

ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च ।

प्रवारयसि न: सर्वांस्तन्न: को ऽन्य: करिष्यति ।। 2.77.15 ।।

नन्विति । प्रवारयसि एष्वाभरणादिषु किं तवेष्टं गृहाणेति प्रकर्षेण स्वयं ग्राहयासि तत्प्रवारणम् ।। 2.77.15 ।।

अवदारणकाले तु पृथिवी नावदीर्यते ।

या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना ।। 2.77.16 ।।

अवदारणेति । या पृथिवी धर्मज्ञेन त्वया विहीना नावदीर्यते न भिद्यते । स्वयमिति शेष: । सा अवदारणकाले तु प्रलयकालेपि नावदीर्यते नावदीर्येतेत्यर्थ: । (पाठभेद: । अवदारणकाले त्वद्विहीनतया अवदारणस्य प्राप्तकाले । अवदारणकालत्वे हेतु: त्वया विहीनेति । धर्मज्ञेन महात्मना त्वया राज्ञा एतादृशगुणाढ्येन त्वयेत्यर्थ: । विहीना या सा पृथ्वी अवदारणकाले नावदीर्यत इत्यन्वय:) ।। 2.77.16 ।।

पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते ।

किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम् ।। 2.77.17 ।।

हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् ।

अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ।। 2.77.18 ।।

पितरीति । जीवितसामर्थ्यं जीवनशक्ति: ।। 2.77.1718 ।।

तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् ।

भृशमार्त्ततरा भूय: सर्व एवानुगामिन: ।। 2.77.19 ।।

तयोरिति । आर्त्ततरा: । आसन्निति शेष: ।। 2.77.19 ।।

ततो विषण्णौ विश्रान्तौ शत्रुघ्नभरतावुभौ ।

धरण्यां संव्यचेष्टेतां भग्नश्रृङ्गाविवर्षभौ ।। 2.77.20 ।।

तत इति । विश्रान्तौ विशेषेण श्रान्तौ । व्यचेष्टेतां व्यलुण्ठेताम् ।। 2.77.20 ।।

तत: प्रकृतिमान् वैद्य: पितुरेषां पुरोहित: ।

वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह ।। 2.77.21 ।।

तत इति । प्रकृतिमान् प्रशस्तस्वभाव: । “प्रकृति: पञ्चभूतेषु स्वभावे मूलकारणे” इति वैजयन्ती । वैद्य: विद्यां तत्त्वज्ञानहेतुभूतां वेदान्तविद्यां वेदेति वैद्य: वेदान्तविद्याधिगतपरावरतत्त्वयाथात्म्यविज्ञान:, सर्वज्ञ इति यावत् ।

“तदधीते तद्वेद” इत्यण् । “सर्वज्ञभिषजौ वैद्यौ” इत्यमर: । एषामितिबहुवचननिर्देशो बुद्धिस्थरामाद्यपेक्षया । पितुर्दशरथस्य ।। 2.77.21 ।।

त्रयोदशो ऽयं दिवस: पितुर्वृत्तस्य ते विभो ।

सावशेषास्थिनिचये किमिह त्वं विलम्बसे ।। 2.77.22 ।।

त्रयोदश इति । वृत्तस्य संस्कृतस्य । त्रयोदशो ऽयं दिवस: । सावशेषास्थिनिचये अस्थिसञ्चयनाख्ये कर्मण्यवशिष्ट इत्यर्थ: । दशाहमध्ये शास्त्रविहितं प्रधानावयवास्थिसञ्चयनं कृतम्, त्रयोदशे दिवसे तद्देशीयशिष्टाचारप्राप्तस्थलशोधनमात्रं कृतमिति न स्मृतिविरोध इत्यप्याहु: । स्मृतिश्चास्माभिर्दर्शितैव ।। 2.77.22 ।।

त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषत: ।

तेषु चापरिहार्येषु नैवं भवितुमर्हसि ।। 2.77.23 ।।

त्रीणीति । अशनायापिपासे शोकमोहौ जरामृत्यू इत्युक्तानि त्रीणि द्वन्द्वानि । भूतेषु जन्तुषु । अविशेषत: प्रवृत्तानि तेषु चापरिहार्येषु प्राप्तेषु । त्वमेवं भवितुं नार्हसि अज्ञवन्मोहेन प्रलपितुं नार्हसि ।। 2.77.23 ।।

सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च ।

श्रावयामास तत्त्वज्ञ: सर्वभूतभवाभवौ ।। 2.77.24 ।।

उत्थितौ च नरव्याघ्रौ प्रकाशेते यशस्विनौ ।

वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव ।। 2.77.25 ।।

सुमन्त्र इति । सर्वभूतभवाभवौ सर्वभूतोत्पत्तिविनाशौ ।। 2.77.2425 ।।

अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ ।

अमात्यास्त्वरयन्ति स्म तनयौ चापरा: क्रिया: ।। 2.77.26 ।।

अश्रूणीति । परिमृद्नन्तौ मार्जयन्तौ । तनयौ राजपुत्रौ । अपरा: क्रिया: अस्थिसञ्चयनादिका: । प्रतीति शेष: ।। 2.77.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तसप्ततितम: सर्ग: ।। 77 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तसप्ततितम: सर्ग: ।। 77 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.