113 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततम: सर्ग:

तत: शिरसि कृत्वा तु पादुके भरतस्तदा ।

आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ।। 2.113.1 ।।

अथ भरतस्यायोध्याप्रवेश: त्रयोदशोत्तरशततमे–तत इत्यादि । पादुके शिरसि कृत्वा शत्रुञ्जयमूर्ध्नि निक्षिप्ते पादुके सादरमादाय स्वमूर्ध्न्याधायेत्यर्थ: ।। 2.113.1 ।।

वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रत: ।

अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ।। 2.113.2 ।।

वसिष्ठ इति । मन्त्रपूजिता: अमोघकार्यविचारनैपुण्यात्पूजिता: ।। 2.113.2 ।।

मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।

प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ।। 2.113.3 ।।

मन्दाकिनीमिति । सीतारामयोर्जलक्रीडादिभि: रम्यां मन्दाकिनीं रामनिवासत्वेन महाप्रभावं चित्रकूटं गिरिं च प्रदक्षिणं कुर्वाणास्सन्त: प्राङ्मुखा ययु: ।। 2.113.3 ।।

पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।

प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ।। 2.113.4 ।।

पश्यन्निति । द्रुवगतिं विहाय नानाधातून् दृग्भ्यां पिबन्निव पश्यन् तस्य चित्रकूटस्य पार्श्वेन ययौ ।। 2.113.4 ।।

अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।

आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ।। 2.113.5 ।।

अदूरादिति । चित्रकूटसौन्दर्य्यदर्शनाकृष्टचित्ततया अदूरादिव भासमानम् ।। 2.113.5 ।।

स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।

अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ।। 2.113.6 ।।

स इति । भरद्वाजस्य पादौ ववन्द इत्यन्वय: ।। 2.113.6 ।।

ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।

अपि कृत्यं कृतं तात रामेण च समागतम् ।। 2.113.7 ।।

एवमुक्त: स तु ततो भरद्वाजेन धीमता ।

प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ।। 2.113.8 ।।

तत इति । अपिशब्द: प्रश्ने । रामेण किं समागतं सङ्गतम् । भवता रामेण कृत्यं भवत्प्रयोजनं किं कृतमित्यर्थ: ।। 2.113.78 ।।

स याच्यमानो गुरुणा मया च दृढविक्रम: ।

राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ।। 2.113.9 ।।

गुरुणा वसिष्ठेन ।। 2.113.9 ।।

पितु: प्रतिज्ञां तामेव पालयिष्यामि तत्त्वत: ।

चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ।। 2.113.10 ।।

चतुर्दशवर्षाणि वने वस्तव्यमिति कैकेयीनिमित्तं कृत पितुर्या प्रतिज्ञास्ति तामेव पितु: प्रतिज्ञां तत्त्वत: पालयिष्यामीत्यब्रवीदिति सम्बन्ध: ।। 2.113.10 ।।

एवमुक्तो महाप्राज्ञो वसिष्ठ: प्रत्युवाच ह ।

वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ।। 2.113.11 ।।

एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते ।

अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ।। 2.113.12 ।।

एवमुक्तो वसिष्ठेन राघव: प्राङ्मुख: स्थित: ।

पादुके अधिरुह्यैते मम राज्याय वै ददौ ।। 2.113.13 ।।

निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना ।

अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ।। 2.113.14 ।।

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: ।

भरद्वाज: शुभतरं मुनिर्वाक्यमुवाच तम् ।। 2.113.15 ।।

एवमित्यादि । हेमभूषिते इत्यनेन रामाय प्रीत्या समर्पयितुमभिनवतया निर्माय नगरात् भरतेनानीते इति गम्यते । योगक्षेमकरे अपूर्ववस्तुलाभो योग:, लब्धस्य परिपालनं क्षेम:, एते पादुके प्रयच्छेति वासिष्ठ: प्रत्युवाच हेति सम्बन्ध: ।। 2.113.1115 ।।

नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।

यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ।। 2.113.16 ।।

आर्य्यं ज्येष्ठानुवर्त्तनरूपं श्रेय: । निम्ने तटाकादौ । सुष्टं धतम् ।। 2.113.16 ।।

अमृत: स महाबाहु: पिता दशरथस्तव ।

यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सल: ।। 2.113.17 ।।

“प्रजामनु प्रजायसे तदुते मर्त्यामृतम्” इति श्रुत्युक्तरीत्या सत्पुत्रलाभात् मृतो ऽपि दशरथ: अमृत इत्याह–अमृत इति ।। 2.113.17 ।।

तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलि: ।

आमतन्त्रयितुमारेभे चरणावुपगृह्य च ।। 2.113.18 ।।

तमिति । आमन्त्रयितुमारेभे विनयेनामन्त्रणोद्युक्त इव स्थित इत्यर्थ: ।। 2.113.18 ।।

तत: प्रदक्षिणं कृत्वा भरद्वाजं पुन:पुन: ।

भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभि: ।। 2.113.19 ।।

ततस्तदनुज्ञानन्तरम् । अत्र पुन:पुनरित्यनेन एकं प्रदक्षिणं न कार्यमित्युक्तम् । प्रदक्षिणविशेषणेन प्रणामस्तु सकृदेवेत्युक्तं भवतीत्याचार्या: । केचित्तु एकहस्तप्रणामैकप्रदक्षिणयोरिव एकप्रणामस्यापि निषिद्धत्वात् पुन:पुनरिति विशेषणस्यात्रार्थिके वा पूर्वश्लोकोक्ताभिवादनबललब्धे वा प्रणामेप्यन्वयेन न कोपि विरोध इत्याहु: । अयोध्यामुद्दिश्य ययावित्यन्वय: ।। 2.113.19 ।।

यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: ।

पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ।। 2.113.20 ।।

भरतस्येव सेनायाश्चित्रकूटान्निवृत्तिमाह–यानैरिति ।। 2.113.20 ।।

ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।

ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ।। 2.113.21 ।।

तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: ।

शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ।। 2.113.22 ।।

शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ।। 2.113.23 ।।

अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।

भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ।। 2.113.24 ।।

भरतमनुसृत्य सेनानुयानप्रकारमाह–तत इति । यमुनां तीर्त्त्वा गच्छन्तस्ते सर्वे गङ्गां ददृशुरिति सम्बन्ध: ।। 2.113.2124 ।।

सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते ।

निराकारा निरानन्दा दीना प्रतिहतस्वरा ।। 2.113.25 ।।

सारथ इति । निराकारा निर्गतशोभनाकारा ।। 2.113.25 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततम: सर्ग: ।। 113 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रयोदशोत्तरशततम: सर्ग: ।। 113 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.