44 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुश्चत्वारिंश: सर्ग:

विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् ।

इदं धर्म्ये स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ।। 2.44.1 ।।

विलपन्तीमित्यादि । इदं वक्ष्यमाणम् ।। 2.44.1 ।।

तवार्ये सद्गुणैर्युक्त: स पुत्र: पुरुषोत्तम: ।

किं ते विलपितेनैवं कृपणं रुदितेन वा ।। 2.44.2 ।।

सत्पुरुषाचरितं धर्ममाचरन्तं रामं प्रति सन्तोषे कर्त्तव्ये किमर्थो विषाद: कृत इति कौसल्यां समाश्वोसयति–तवेत्यादिना ।। 2.44.2 ।।

यस्तवार्ये गत: पुत्रस्त्यक्त्वा राज्यं महाबल: ।

साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ।। 2.44.3 ।।

शिष्टैराचरिते सम्यक्छश्वत् प्रेत्यफलोदये ।

रामो धर्मे स्थित: श्रेष्ठो न स शोच्य: कदाचन ।। 2.44.4 ।।

य इत्यादिश्लोकद्वयमेकं वाक्यम् । प्रेत्यफलोदये आमुष्मिकफलकारणे ।। 2.44.34 ।।

वर्त्तते चोत्तमां वृत्तिं लक्ष्मणो ऽस्मिन् सदा ऽनघ: ।

दयावान् सर्वभूतेषु लाभस्तस्य महात्मन: ।। 2.44.5 ।।

पितृवचनपरिपालके रामे शोको न कार्य इत्युक्त्वा लक्ष्मणसीतयोरपि स्वधर्मनिष्ठत्वात् तद्विषयेपि शोको न कार्य:, अपितु प्राप्तलाभत्वात् सन्तोष एव कार्य इत्याह–वर्तत इत्यादिना । अत्र व इति गायत्र्या: पञ्चमाक्षरम् । वर्तते करोति । वृत्तिं शुश्रूषाम् । अस्मिन् रामे । तस्य लक्ष्मणस्य ।। 2.44.5 ।।

अरण्यवासेव यद्दु:खं जानती वै सुखोचिता ।

अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ।। 2.44.6 ।।

अरण्येति । अरण्यवासे यद्दु:खं तद्दु:खं जानती वै जानन्त्येव । तवात्मजमनुगच्छति “स्त्रीणां भर्त्ता हि दैवतम्” इत्युक्तरीत्यानुगच्छतीत्यर्थ: ।। 2.44.6 ।।

कीर्त्तिभूतां पताकां यो लोके भ्रमयति प्रभु: ।

धर्मसत्यव्रतधन: किं न प्राप्तस्तवात्मज: ।। 2.44.7 ।।

कीर्तीति । कीर्तिभूतां पताकां कीर्तिरूपं ध्वजम् । भ्रामयति सञ्चारयति सर्वभूतविदितप्रख्यातिक इत्यर्थ: । तवात्मज: किं श्रेय: न प्राप्त:, सर्वस्यापि श्रेयसो योग्य इत्यर्थ: । अतो न शोच्य इति भाव: ।। 2.44.7 ।।

व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् ।

न गात्रमंशुभि: सूर्य: सन्तापयियुमर्हति ।। 2.44.8 ।।

तदेतद्विशिनष्टि–व्यक्तमित्यादि । शौचं त्रिविधकरणशुचित्वम् । माहात्म्यं सर्वोत्तमत्वम् ।। 2.44.8 ।।

शिव: सर्वेषु कालेषु काननेभ्यो विनिस्सृत: ।

राघवं युक्तशीतोष्ण: सेविष्यति सुखो ऽनिल: ।। 2.44.9 ।।

शिव इति । सर्वेषु कालेषु वसन्तादिकालेषु । युक्तशीतोष्ण: तत्तत्कालोचितद्रव्यसंस्पर्शनेन सम्पादितशीतोष्णस्पर्श इत्यर्थ: ।। 2.44.9 ।।

शयानमनघं रात्रौ पितेवाभिपरिष्वजन् ।

रश्मिभि: संस्पृशन् शीतैश्चन्द्रमा ह्लादयिष्यति ।। 2.44.10 ।।

“भीषास्माद्वात: पवते” इतिश्रुत्यर्थमभिव्यनक्ति–शिव इत्यनुद्वेगकारित्वेन मान्द्यमुक्तम् । काननेभ्य इति सौरभ्यमुक्तम् । विनिस्सृत इति शैत्यमुक्तम् ।। 2.44.10 ।।

ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे ।

दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ।। 2.44.11 ।।

ददाविति । तिमिध्वज: शम्बर: । “वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वज: । स शम्बर इति ख्यात: शतमायो महासुर: ।।” इत्युक्तत्वात् तत्सुतं दानवेन्द्रं हतं दृष्ट्वा यस्मै रामाय दिव्यास्त्राणि ददौ। “यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा। गत्वा सौमित्रिसहितो नाविजित्य निवर्त्तते ।।” इत्युक्तत्वात् । कदाचिद्रामो दण्डकारण्यं गत्वा वैजयन्तपुरं निरुध्य दशरथविरोधिभूतं शम्बरसुतं हतवान्, तेन प्रीतो ब्रह्मा रामाय दिव्यास्त्राणि ददावित्यवगम्यते ।। 2.44.11 ।।

स शूर: पुरुषव्याघ्र: स्वबाहुबलमाश्रित: ।

असन्त्रस्तोप्यरण्यस्थो वेश्मनीव निवत्स्यति ।। 2.44.12 ।।

स शूर इति । अरण्यस्थो ऽपीत्यन्वय: ।। 2.44.12 ।।

यस्येषुपथमासाद्य विनाशं यान्ति शत्रव: ।

कथं न पृथिवी तस्य शासने स्थातुमर्हति ।। 2.44.13 ।।

वने रामस्य सौख्यं भवतु, भरतस्य रूढमूलत्वाद्रामस्य राज्यं न सिद्ध्यतीत्याशङ्क्याह–यस्येति ।। 2.44.13 ।।

या श्री: शौर्यं च रामस्य या च कल्याणसत्त्वता ।

निवृत्तारण्यवास: स क्षिप्रं राज्यमवाप्स्यति ।। 2.44.14 ।।

येति । रामस्य या श्री: सर्वलक्षणसम्पन्ना गात्रशोभा । यच्च शौर्यं शूरो जेता, तस्य भाव: शौर्यम् । “शूरो वीरश्च विक्रान्तो जेता” इत्यमर: । या च कल्याणसत्त्वता प्रशस्तबलयुक्तता । एतैरसाधारणहेतुभि: स राम: क्षिप्रं राज्यमवाप्स्यतीति सम्बन्ध: ।। 2.44.14 ।।

सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्नि: प्रभो: प्रभु: ।

श्रिय: श्रीश्च भवेद्ग्र्या कीर्ति: कीर्त्या: क्षमाक्षमा ।। 2.44.15 ।।

सूर्यस्येत्यादि । सूर्यस्यापि सूर्यो भवेत् सकलजगत्प्रकाशकस्य सूर्यस्यापि प्रकाशको भवेत् । अग्नेरग्नि: दाहकस्याप्यग्नेर्दाहक: । प्रभो: प्रभु: सर्वनियन्तुरपि नियन्ता । श्रिय: श्री: सम्पदोपि सम्पत् । यद्वा कान्तेरपि कान्ति:, कान्तेरप्यतिशयावह इत्यर्थ: । क्षमाक्षमा क्षमाया अप्यतिशयो ऽनेनेति भाव: ।। 2.44.15 ।।

दैवतं दैवतानां च भूतानां भूतसत्तम: ।

तस्य के ह्यगुणा देवि राष्ट्रे वाप्यथवा पुरे ।। 2.44.16 ।।

दैवतं दैवतानां च दैवतानामपि सकलकार्यनिर्वहणक्षम इत्यर्थ: । भूतानां भूतसतम:, उत्तमभूतमित्यर्थ: । भूतत्वं सत्ता सर्वेषां सत्ता तत्सत्ताधीनेति भाव: । तस्यैवम्भूतस्य सर्वगुणसम्पन्नस्य देशे वने वा पुरे वा के अगुणा: ? न कोपीत्यर्थ: । अगुण: प्रतिबन्धकीभूत इति यावत् ।। 2.44.16 ।।

पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभ: ।

क्षिप्रं तिसृभिरेताभि: स ह रामो ऽभिषेक्ष्यते ।। 2.44.17 ।।

पृथिव्येति । सहेत्यत्र स इति पदच्छेद: । स राम: पृथिव्या वैदेह्या श्रिया विजयलक्ष्म्या च एताभि: तिसृभि: सह क्षिप्रमभिषेक्ष्यते हेति सम्बन्ध: ।। 2.44.17 ।।

दु:खजं विसृजत्यास्रं निष्क्रामन्तमुदीक्ष्य यम् ।

अयोध्यायां जना: सर्वे शोकवेगसमाहता: ।। 2.44.18 ।।

दु:खजमिति । अस्य श्लोकस्य पृथिव्या सहेति पूर्वश्लोकस्थेन स रामोभिषेक्ष्यत इत्यनेन सम्बन्ध: ।। 2.44.18 ।।

कुशचीरधरं देवं गच्छन्तमपराजितम् ।

सीतेवानुगता लक्ष्मी: तस्य किन्नाम दुर्ल्लभम् ।। 2.44.19 ।।

कुशचीरेति । लक्ष्मीरिव स्थिता सीता अनुगतेत्यन्वय: । अनेन राज्यश्रीरन्यन्न परिगृह्णातीति द्योत्यते ।। 2.44.19 ।।

धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।

लक्ष्मणो व्रजति ह्यग्रे तस्य किन्नाम दुर्ल्लभम् ।। 2.44.20 ।।

निवृत्तवनवासं तं द्रष्टासि पुनरागतम् ।

जहि शोकं च मोहं च देवि सत्यं ब्रवीमिते ।। 2.44.21 ।।

धनुर्ग्रहेति । धनुर्ग्रहवर: धनुर्द्धरश्रेष्ठ: ।। 2.44.2021 ।।

शिरसा चरणावेतौ वन्दमानमनिन्दिते ।

पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम् ।। 2.44.22 ।।

पुन: प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् ।

समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पय: ।। 2.44.23 ।।

शिरसेति । एतौ परिदृश्यमानसर्वलक्षणसम्पन्नौ । उदितं चन्द्रं प्रतिपच्चन्द्रम् ।। 2.44.2223 ।।

मा शोको देवि दु:खं वा न रामे दृश्यते ऽशिवम् ।

क्षिप्रं द्रक्ष्यसि पुत्रं तं ससीतं सहलक्ष्मणम् ।। 2.44.24 ।।

मा शोक इति । हे देवि रामे अशिवम् अशुभम् न दृश्यते । अत: शोक: प्रलापादि: दु:खं मनोव्यथा वा मा न कार्यमित्यर्थ: ।। 2.44.24 ।।

त्वया ऽशेषो जनश्चैव समाश्वास्यो यदा ऽनघे ।

किमिदानीमिमं देवि करोषि हृदि विक्लवम् ।। 2.44.25 ।।

नार्हा त्वं शोचितुं देवि यस्यास्ते राघव: सुत: ।

न हि रामात्परो लोके विद्यते सत्पथे स्थित: ।। 2.44.26 ।।

त्वयेति । विक्लवम्, भावप्रधानो निर्देश: ।। 2.44.2526 ।।

अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् ।

मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी ।। 2.44.27 ।।

पुनस्ते वरद: क्षिप्रमयोध्यां पुनरागत: ।

पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ।। 2.44.28 ।।

अभिवादयमानमिति । मेघलेखा मेघपङ्क्ति: ।। 2.44.2728 ।।

अभिवाद्यनमस्यन्तं शूरं ससुहृदं सुतम् ।

मुदास्रै: प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम् ।। 2.44.29 ।।

अभिवाद्येति । अभिवाद्यनमस्यन्तम् अभिवादनपूर्वकं प्रणमन्तम् ।। 2.44.29 ।।

आश्वासयन्ती विविधैश्च वाक्यैर्वाक्योपचारे कुशला ऽनवद्या ।

रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा ।। 2.44.30 ।।

निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्या: ।

सद्य: शरीरे विननाश शोक: शरद्गतो मेघ इवाल्पतोय: ।। 2.44.31 ।।

आश्वासयन्तीति । वाक्योपचारे वाक्यैरुपचारविषये ।। 2.44.3031 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुश्चत्वारिंश: सर्ग: ।। 44 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुश्चत्वारिंश: सर्ग: ।। 44 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.