97 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तनवतितम: सर्ग:

सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम् ।

रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ।। 2.97.1 ।।

अथ कुपितपरिसान्त्वनं सप्तनवतितमे–सुसंरब्धमित्यादि । पूर्वं सुसंरब्धं सुतरां प्रीतम् । “संरम्भ: प्रणयेपि च” इत्यमर: । अद्य तु तद्वैलक्षण्येन क्रोधमूर्च्छितम् । यद्वा क्रोधमूर्च्छितत्वादेव सुसंरब्धं क्रोधकार्ययुद्धौन्मुख्ययुक्तम् । तत्र हेतु: सपत्नीपुत्रत्वमित्याह सौमित्रिमिति । यद्वा सुमित्रापुत्रत्वस्मारणपूर्वकमुक्तवानिति द्योत्यते । रामस्तु इदं वचनं रामादन्यैर्वक्तुमशक्यमिति भाव: ।। 2.97.1 ।।

किमत्र धनुषा कार्यमसिना वा सचर्मणा ।

महेष्वासे महाप्राज्ञे भरते स्वयमागते ।। 2.97.2 ।।

किमिति । अत्र इदानीं परिदृष्टे महेष्वासे उचितविषयशरसन्धातरि । तत्र हेतु: महाप्राज्ञ इति । स्वयं पुरुषप्रेरणं विना आगते भरते विषये धनुरादिभि: किं कार्यम् ? न किमपीत्यर्थ: । महाप्राज्ञो भरतोपि यदि धनुर्गृहीत्वा स्वयमागत: तदा किमस्माकं युद्धोद्योगेनेति भाव: ।। 2.97.2 ।।

पितु: सत्यं प्रतिश्रुत्य हत्वा भरतमागतम् ।

किं करिष्यामि राज्येन सापवादेन लक्ष्मण ।। 2.97.3 ।।

तत्र युक्तिमाह–पितुरिति । सापवादेन पित्रा भरताय दत्तं राज्यं रामस्तं हत्वा गृहीतवानित्येवंरूपेणापवादेन युक्तम् ।। 2.97.3 ।।

यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत् ।

नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ।। 2.97.4 ।।

युक्त्यन्तरमाह–यदिति । बान्धवादीनां क्षये नाशे लब्धं यद्धनं तन्न गृह्णीयाम्, नेच्छेयमित्यर्थ: । विषकृतान् विषमिश्रद्रव्यकृतान् । भक्षान् अपूपादीनिव ।। 2.97.4 ।।

धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण ।

इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ।। 2.97.5 ।।

धर्ममिति । अर्थं पृथिवीभिन्नं रत्नादिकम् । भवतां भातृ़णामर्थे भवन्निमित्तमित्यर्थ: । एतत् उक्तरूपं प्रतिश्रृणोमि नातिवर्त्त इत्यर्थ: ।। 2.97.5 ।।

भ्रातृ़णां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण ।

राज्यमप्यहमिच्छामि सत्येनायुधमालभे ।। 2.97.6 ।।

भ्रातृ़णामिति । सङ्ग्रहार्थं धनसञ्चयार्थम् । सुखार्थं तत्सुखार्थम्, तत्तदभिमतवस्तुप्रदानेन तत्प्रीत्यर्थमित्यर्थ: । अपिना तद्वृद्धि: समुच्चीयते । राज्यमपि बहुच्छिद्रत्वेन अपरिग्राह्यतया ममानिष्टमपि । आलभे स्पृशामि, स्पृष्ट्वा शप इत्यर्थ: । सत्येनेति मदुक्तं यथा सत्यं भवति तथा आयुधं स्पृशामीत्यर्थ: ।। 2.97.6 ।।

नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा ।

नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ।। 2.97.7 ।।

नेति । नेच्छेयम् इमामिति शेष: ।। 2.97.7 ।।

यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद ।

भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ।। 2.97.8 ।।

यदिति । शिखी अग्नि: । भरतादिसुखाननुगुणं यत् सुखं तदग्निर्भस्मीकुरुतां न तन्मम ग्राह्यमित्यर्थ: ।। 2.97.8 ।।

मन्ये ऽहमागतो ऽयोध्यां भरतो भ्रातृवत्सल: ।

मम प्राणात् प्रियतर: कुलधर्ममनुस्मरन् ।। 2.97.9 ।।

श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम् ।

जानक्या सहितं वीर त्वया च पुरुषर्षभ ।। 2.97.10 ।।

स्नेहेनाक्रान्तहृदय: शोकेनाकुलितेन्द्रिय: ।

द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गत: ।। 2.97.11 ।।

एवं लक्ष्मणचित्तानुसारेण परिहृत्य वस्तुतत्त्वमाह–मन्य इत्यादिश्लोकत्रयमेकान्वयम् । द्रष्टुमभ्यागतो ह्येष भरतो नान्यथागत इति मन्ये इत्यन्वय: । अयोध्यामागत:, मातुलगृहादिति शेष: । भ्रातृवत्सल: भ्रातृषु वत्सल: स्नेही । कुलधर्मं ज्येष्ठस्य राज्यपरिपालन रूपम् । स्नेहेन मद्विषयप्रीत्या । आक्रान्तहृदय: तत्परवश इत्यर्थ: । शोकेन मद्विवासजनितदु:खेन । आकुलितेन्द्रिय: व्याकुलहृदय: । अन्यथा मद्विरोधितया नागत: ।। 2.97.911 ।।

अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन् ।

प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागत: ।। 2.97.12 ।।

अम्बामिति । रुष्य संरुष्य ।। 2.97.12 ।।

प्राप्तकालं यदेषो ऽस्मान् भरतो द्रष्टुमिच्छति ।

अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ।। 2.97.13 ।।

प्राप्तकालमिति । एष: भरत: अस्मान् द्रष्टुमिच्छतीति यत् एतत् प्राप्तकालं कालोचितमित्यर्थ: ।। 2.97.13 ।।

विप्रियं कृतपूर्वं ते भरतेन कदा नु किम् ।

ईदृशं वा भयं ते ऽद्य भरतं यो ऽत्र शङ्कसे ।। 2.97.14 ।।

विप्रियमिति । ते तुभ्यं भरतेन कदा नु कदाचित् विप्रियं कृतपूर्वं किम् ईदृशं भयं वा त्वदुक्तसदृशं भयजनकवाक्यं वा कृतपूर्वं किम् उक्तपूर्वं किम् ? यस्त्वमद्य अत्रार्थे अत्र स्थाने वा भरतं शङ्कस इति योजना ।। 2.97.14 ।।

नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वच: ।

अहं ह्यप्रियमुक्त: स्यां भरतस्याप्रिये कृते ।। 2.97.15 ।।

न हीति । त इति “कृत्यानां कर्तरि वा” इति षष्ठी । ते त्वया भरत: निष्ठुरम् अप्रियं च वच: न वाच्य: । भरतस्य अप्रिये अप्रियवचने कृते उक्ते सति अहं हि अहमेवाप्रियमुक्त: स्यामिति सम्बन्ध: । स्वाश्रितविषये कृतापचार: स्वस्मिन्नेव कृत इति भगवदभिप्रायो ऽनेन गम्यते ।। 2.97.15 ।।

कथं नु पुत्रा: पितरं हन्यु: कस्याञ्चिदापदि ।

भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मन: ।। 2.97.16 ।।

पूर्वं दशरथो वध्यतामित्युक्तम्, इदानीं भरतो वध्यत इति । इत उपरि तूष्णीमवस्थाने कार्यहानिर्भविष्यतीति भयात् तां रौद्रीं बुद्धिं नियम्य निवर्तयति–कथं न्वित्यादिना । प्राणं प्राणभूतम् ।। 2.97.16 ।।

यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे ।

वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ।। 2.97.17 ।।

यदीति यदि राज्यस्य हेतो: त्वम् इमां भरतहिंसारूपां वाचं प्रभाषसे तर्हि वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् । प्रदीयतामित्यनन्तरमिति करणं द्रष्टव्यम् ।। 2.97.17 ।।

उच्यमानो ऽपि भरतो मया लक्ष्मण तत्त्वत: ।

राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ।। 2.97.18 ।।

उच्यमान इति । भरत: अस्मै राज्यं प्रयच्छेति मया उच्यमानो ऽपि अहृदयमुक्तो ऽपि तत्त्वत: बाढमिति वक्ष्यत्येव तथा दास्यामीति वक्ष्यत्येवेत्यर्थ: । एवकारेण तस्य पुनर्न्निवृत्त्यभाव उच्यते ।। 2.97.18 ।।

तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रत: ।

लक्ष्मण: प्रविवेशेव स्वानि गात्राणि लज्जया ।। 2.97.19 ।।

तथेति । तस्य रामस्य हिते रत: न तु स्वार्थपर: अत एव मङ्गलाशासनपरत्वात् अस्थाने भयशङ्कया तथोक्तवानिति गम्यते । गात्राणि अवयवान् प्रविवेशेव लज्जातिशयेनात्यन्तसङ्कुचितगात्रो ऽभूदित्यर्थ: ।। 2.97.19 ।।

तद्वाक्यं लक्ष्मण: श्रुत्वा व्रीडित: प्रत्युवाच ह ।

त्वां मन्ये द्रष्टुमायात: पिता दशरथ: स्वयम् ।। 2.97.20 ।।

तद्वाक्यमिति । व्रीडया प्रसङ्गान्तरं प्रस्तौति त्वामिति । लोके स्वोक्तिभङ्गेन व्रीडित: पुरुष: प्रस्तावान्तरं हि वदति, आयात इति मन्य इत्यन्वय: ।। 2.97.20 ।।

व्रीडितं लक्ष्मणं दृष्ट्वा राघव: प्रत्युवाच ह ।

एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागत: ।। 2.97.21 ।।

भावज्ञो रामोपि औचित्येन लक्ष्मणकृतप्रस्तावं व्रीडाशमनाय प्रपञ्चयामासेत्याह–व्रीडितमिति । तदेवोच्यते एष इत्यादिना ।। 2.97.21 ।।

अथवा नौ ध्रुवं मन्ये मन्यमान: सुखोचितौ ।

वनवासमनुध्याय गृहाय प्रतिनेष्यति ।। 2.97.22 ।।

नाविति द्विवचनं प्राधान्यात् । मन्यमान: स्मरन् । वनवासं वनवासक्लेशम् । अनुध्याय अनुचिन्त्य ।। 2.97.22 ।।

इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम् ।

पिता मे राघव: श्रीमान् वनादादाय यास्यति ।। 2.97.23 ।।

इमामिति । अत्यन्तेत्यनेन तन्मात्रनयने हेतुरुक्त: ।। 2.97.23 ।।

एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ ।

वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ।। 2.97.24 ।।

गोत्रवन्तौ प्रशस्तनामानौ । यद्वा प्रशस्तकुलप्रसूतौ “गोत्रं नाम्नि कुलेपि च” इति वैजयन्ती । वायुवेगसमौ वेगेन वायुसमावित्यर्थ: । तुरगोत्तमौ राजौपवाह्यौ ।। 2.97.24 ।।

स एष सुमहाकाय: कम्पते वाहिनीमुखे ।

नाग: शत्रुञ्जयो नाम वृद्धस्तातस्य धीमत: ।। 2.97.25 ।।

स एष इति । कम्पते “कपि चलने” इति धातु: । मत्तगजस्वभावो ऽयम् । वृद्ध: उन्नत: । धीमत: गजपरिपालनज्ञस्य तातस्य । नाग: शत्रुञ्जय: नतु मया सुयज्ञाय दत्तो मातुलाल्लब्धशत्रुञ्जय इत्यर्थ: ।। 2.97.25 ।।

न तु पश्यामि तच्छत्त्रं पाण्डरं लोकसत्कृतम् ।

पितुर्दिव्यं महाबाहो संशयो भवतीह मे ।। 2.97.26 ।।

लोकसत्कृतं लोकोत्तरमित्यर्थ: । इह पितरि विषये संशयो भवतीह मे इति राघव: प्रत्युवाचेति पूर्वेणान्वय: ।। 2.97.26 ।।

वृक्षाग्रादवरोह त्वं कुरु लक्ष्मण मद्वच: ।

इतीव रामो धर्मात्मा सौमित्रिं तुमवाच ह ।। 2.97.27 ।।

वृक्षाग्रादिति । मद्वच: भरतविषये शान्तो भवेति मत्सूचितं वच: । प्रथममर्धमुत्तरार्धेन योजनीयम् ।। 2.97.27 ।।

अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जय: ।

लक्ष्मण: प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वत: ।। 2.97.28 ।।

अवतीर्येति । समितिं परसैन्यं जयतीति समितिञ्जय: । “संज्ञायां भृतृ़वृजिधारिसहितपिदम:” इत्यत्र योगविभागेन खच् मुमागमश्च । सन्नद्ध इति यावत् । पार्श्वत: भ्रातर्यस्थाने भयशङ्कयेति भाव: ।। 2.97.28 ।।

भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिति ।

समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ।। 2.97.29 ।।

भरतेनेति । सम्मर्द: रामाश्रमस्य पीडा न भवेदिति भरतेन सन्दिष्टा आज्ञप्ता । सेना तस्य शैलस्य समन्तात् नतु तदाश्रमसमीपे ।। 2.97.29 ।।

अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा ।

पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ।। 2.97.30 ।।

अध्यर्द्धमिति । अधिकमर्धं यस्मिन् तत् अध्यर्धं योजनम् सार्धयोजनमित्यर्थ: । पर्वतस्य पार्श्वे आवृत्त्य न्यविशत् मण्डलाकारेण स्थिता ।। 2.97.30 ।।

सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम् ।

प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ।। 2.97.31 ।।

सेति । चित्रकूटे चित्रकूटसमीपे । नीतिमता सेनयोपरोधे रामस्य प्रसादो न स्यादिति नीतिज्ञेन भरतेन । धर्मं पुरस्कृत्य विनीतवेषेण राजाभिगन्तव्य इति धर्ममनुसृत्य । दर्पं विधूय स्थितेन रघुनन्दनस्य प्रसादनार्थं प्रणीता आनीता सा सेना विराजते भाति स्म ।। 2.97.31 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तनवतितम: सर्ग: ।। 97 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तनवतितम: सर्ग: ।। 97 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.