81 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकाशीतितम: सर्ग:

ततो नान्दीमुखीं रात्रिं भरतं सूतमागधा: ।

तुष्टुवुर्वाग्विशेषज्ञा: स्तवैर्मङ्गलसंहितै: ।। 2.81.1 ।।

तत इति । नान्दीमुखीं रामानयनाभ्युदयप्रारम्भयुक्ताम् । यद्वा भरताभिषेकाय वसिष्ठेन कृतनान्दीमुखाभ्युदययुक्ताम् । यद्वा शोकविगमाय कृताभ्युदयामित्यर्थ: । रात्रिं रात्रौ, अपररात्र इत्यर्थ: । यद्वा रात्रिं प्राप्येति शेष: । मङ्गलसंहितै: मङ्गलशब्दसहितै: ।। 2.81.1 ।।

सुवर्णकोणाभिहत: प्राणदद्यामदुन्दुभि: ।

दध्मु: शङ्खांश्च शतशो नादांश्चोच्चावचस्वरान् ।। 2.81.2 ।।

कोणो वादनदण्ड: । यामावसानसूचको दुन्दुभि: यामदुन्दुभि: । प्राणदत् नदति स्म । नाद्यन्ते एभिरिति नादा: काहल्यादय: तान् । उच्चावचस्वरान् निम्नोन्नतस्वरान् । मन्द्रमध्यमताररूपेण नानास्वरानित्यर्थ: ।। 2.81.2 ।।

स तूर्यघोष: सुमहान् दिवमापूरयन्निव ।

भरतं शोकसन्तप्तं भूय: शोकैररन्ध्रयत् ।। 2.81.3 ।।

तत: प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च ।

नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ।। 2.81.4 ।।

अरन्ध्रयत् व्यदारयेत् । अरन्धयदिति पाठे–अपचत् अतपदित्यर्थ: ।। 2.81.34 ।।

पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् ।

विसृज्य मयि दु:खानि राजा दशरथो गत: ।। 2.81.5 ।।

कैकेय्या हेतुभूतया जायमानं लोकस्य सूतमागधादे: अपकृतम् अनुचितं कर्म पश्य । यद्वा लोकस्य जनस्य कैकेय्या महद्यथाभवति तथा ऽपकृतम् । तदेवाह विसृज्येत्यादि ।। 2.81.5 ।।

तस्यैषा धर्मराजस्य धर्ममूला महात्मन: ।

परिभ्रमति राजश्रीर्नौरिवाकर्णिका जले ।। 2.81.6 ।।

यो हि न: सुमहान्नाथ: सोपि प्रव्राजितो वनम् ।

अनया धर्ममुत्सृज्य मात्रा मे राघव: स्वयम् ।। 2.81.7 ।।

इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् ।

कृपणं रुरुदु: सर्वा: सस्वरं योषितस्तदा ।। 2.81.8 ।।

तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित् ।

सभामिक्ष्वाकुनाथस्य प्रविवेश महायशा: ।। 2.81.9 ।।

राजश्री: प्रधाने राजनि वर्त्तमाने ज्येष्ठपुत्रस्य युवराजत्वेन प्राप्तेत्येवमविच्छिन्ना राज्यलक्ष्मी: । अकर्णिका कर्णो ऽरित्रं “कर्ण: श्रोत्रमरित्रं च” इति भुवन: । सो ऽस्यास्तीति कर्णी स एव कर्णिक:, कर्णधारक इति यावत् । तद्रहिता ।। 2.81.69 ।।

शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम् ।

सुधर्मामिव धर्मात्मा सगण: प्रत्यपद्यत ।। 2.81.10 ।।

स काञ्चनमयं पीठं सुखास्तरणसंवृतम् ।

अध्यास्त सर्ववेदज्ञो दूताननुशशास च ।। 2.81.11 ।।

शातकुम्भमयीं स्वर्णमयीम् । मणिरत्नसमाकुलां मणिश्रेष्ठसमावृतां “रत्नं स्वजातिश्रेष्ठे ऽपि” इत्यमर: । यद्वा मणयो मुक्ता: “मणिर्द्वयोरश्मजातौ मुक्तादिके ऽपि च” इत्यमर: । रत्नानि पद्मरागादीनि । अत्र सभामिति विशेष्यम् । सगण: सशिष्यगण: ।। 2.81.1011 ।।

ब्राह्मणान् क्षत्ित्रयान् वैश्यानमात्यान् गणवल्लभान् ।

क्षिप्रमानयताव्यग्रा: कृत्यमात्ययिकं हि न: ।। 2.81.12 ।।

गणवल्लभान् गणाध्यक्षान् । आत्ययिकम् अत्यय: कृच्छ्रं तत्र भवमात्ययिकम्, यत्नसाध्यमित्यर्थ: ।। 2.81.12 ।।

सराजभृत्यं शत्रुघ्नं भरतं च यशस्विनम् ।

युधाजितं सुमन्त्रं च ये च तत्र हिता जना: ।। 2.81.13 ।।

ततो हलहलाशब्द: सुमहान् समपद्यत ।

रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम् ।। 2.81.14 ।।

ततो भरतमायान्तं शतक्रतुमिवामरा: ।

प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा ।। 2.81.15 ।।

सराजभृत्यं राजान्तरङ्गभृत्यसहितम् । युधाजिदिति विजयाख्यमन्त्रिणो नामान्तरं सुमन्त्रशब्दसाहचर्यात् । ये च तत्र भरते हिता: हितपरा: जना: तानप्यानयतेति पूर्वेण सम्बन्ध: ।। 2.81.1315 ।।

ह्रद इव तिमिनागसंवृत: स्तिमितजलो मणिशङ्खशर्कर: ।

दशरथसुतशोभिता सभा सदशरथेव बभौ यथापुरा ।। 2.81.16 ।।

शर्कराशब्देनात्र स्थूलवालुका उच्यन्ते । ह्रदश्च समुद्रसमीपस्थ: । तिमिशङ्खादिसाहचर्यात् । अत्र स्तिमितजलेन वसिष्ठस्य तिमिनागाभ्यां भरतशत्रुघ्नयोर्मण्यादिभिरमात्यादीनां च साम्यम् ।। 2.81.16 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकाशीतितम: सर्ग: ।। 81 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकाशीतितम: सर्ग: ।। 81 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.