43 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिचत्वारिंश: सर्ग:

तत: समीक्ष्य शयने सन्नं शोकेन पार्थिवम् ।

कौसल्या पुत्रशोकार्त्ता तमुवाच महीपतिम् ।। 2.43.1 ।।

तत इत्यादि ।। 2.43.1 ।।

राघवे नरशार्दूले विषमुप्त्वा विजिह्मताम् ।

विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ।। 2.43.2 ।।

विवास्य रामं सुभगा लब्धकामा समाहिता ।

त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ।। 2.43.3 ।।

राघव इति । विजिह्मतां विषं कौटिल्यरूपं विषम् । राघवे उप्त्वा निक्षिप्य । निर्मुक्ता मुक्तकञ्चुकी “निर्मुक्तो मुक्तकञ्चुक:” इत्यमर: । अनेन क्रौर्यातिशय उक्त: ।। 2.43.23 ।।

अथ स्म नगरे रामश्चरन् भैक्षं गृहे वसेत् ।

कामकारो वरं दातुमपि दासं ममात्मजम् ।। 2.43.4 ।।

अथ स्मेति । अथापि भरते राज्यदानस्यावश्यकत्वेपि । रामो नगरे भैक्षं चरन् सन् गृहे वसेत्, वने विवासनं किमर्थम् ? राज्याभावेपि ममात्मजं भरतस्य दासं दातुं कामकार: इच्छा । वरं वनवासाच्छ्रेष्ठतम: ।। 2.43.4 ।।

पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टत: ।

प्रदिष्टो रक्षसां भाग: पर्वणीवाहिताग्निना ।। 2.43.5 ।।

गजराजगतिर्वीरो महाबाहुर्धनुर्धर: ।

वनमाविशते नूनं सभार्य: सहलक्ष्मण: ।। 2.43.6 ।।

पातयित्वेति । रामं स्वस्थानात् यथेष्टत: स्वेच्छया अमर्यादया पातयित्वा त्वया रामाय प्रदेयो राज्यभाग: कैकेय्या: प्रदिष्ट: । कथमिव आहिताग्निना पर्वणि देवेभ्यो देय: हविर्भाग: पुरोडाशैकदेश: रक्षसामिव, सर्वथानुचितं त्वया कृतमिति भाव: ।। 2.43.56 ।।

वने त्वदृष्टदु:खानां कैकेय्यानुमते त्वया ।

त्यक्तानां वनवासाय कान्ववस्था भविष्यति ।। 2.43.7 ।।

वन इति । वने अदृष्टदु:खानाम् अदृष्टवनदु:खानामित्यर्थ: । कैकेय्यानुमते कैकैय्या अनुमते स्थितेनेति शेष: । सवर्णदीर्घ आर्ष: । त्यक्तानां सीतारामलक्ष्मणानाम् ।। 2.43.7 ।।

ते रत्नहीनास्तरुणा: फलकाले विवासिता: ।

कथं वत्स्यन्ति कृपण: फलमूलै: कृताशना: ।। 2.43.8 ।।

त इति । रत्नहीना: श्रेष्ठवस्तुहीना: । “रत्नं स्वजातिश्रेष्ठेपि” इत्यमर: । प्रवरशय्यासनादिहीना इत्यर्थ: । तरुणी च तरुणौ च तरुणा: । “पुमान् स्त्रिया” इत्येकशेष: । फलकाले फलभोगकाले ।। 2.43.8 ।।

अपीदानीं स काल: स्यान्मम शोकक्षय: शिव: ।

सभार्य्यं यत्सह भ्रात्रा पश्येयमिह राघवम् ।। 2.43.9 ।।

अपीति । स काल: वनात्प्रत्यागमनकाल: । अपि: संभावनायाम् । इदानीमद्यदिने स्यात् स्यात्किमित्यर्थ: । शोकक्षय: शोकक्षयकर: । यत् यस्मिन्काले ।। 2.43.9 ।।

सुप्त्वेवोपस्थितौ वीरौ कदायोध्यां गमिष्यत: ।

यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ।। 2.43.10 ।।

सुप्त्वेति । उपस्थितौ नगरसमीपमागतौ ।। 2.43.10 ।।

कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ ।

नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि ।। 2.43.11 ।।

कदायोध्यां महाबाहु: पुरीं वीर: प्रवेक्ष्यति ।

पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ।।2.43.12 ।।

कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ ।

लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ ।। 2.43.13 ।।

कदेति । पुरी पौरजन: ।। 2.43.1113 ।।

प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ ।

उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ।। 2.43.14 ।।

प्रविशन्ताविति । उदग्रायुधनिस्त्रिंशौ आयुधशब्देनात्र धनुरुच्यते । निस्त्रिंश: खड्ग: “खड्गे तु निस्त्रिंश:” इत्यमर: ।। 2.43.14 ।।

कदा सुमनस: कन्या द्विजातीनां फलानि च ।

प्रदिशन्त्य: पुरीं हृष्टा: करिष्यन्ति प्रदक्षिणम् ।। 2.43.15 ।।

कदेति । द्विजातीनां ब्राह्मणानाम् । कन्या: सुमनस: पुष्पाणि फलानि च प्रदिशन्त्य: सत्य: पुरीं कदा प्रदक्षिणम् करिष्यन्ति । अयमौत्तराणां मङ्गलाचार: ।। 2.43.15 ।।

कदा परिणतो बुद्ध्या वयसा चामरप्रभ: ।

अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव लालयन् ।। 2.43.16 ।।

कदेति । बुद्ध्या परिणत:, ज्ञानवृद्ध इत्यर्थ: । वयसा च अमरप्रभ:, पञ्चविंशतिवर्ष इत्यर्थ: । अमरा हि सदा पञ्चविंशतिवर्षा: । लालयन् लालनां जनयन् ।। 2.43.16 ।।

निस्संशयं मया मन्ये पुरा वीर कदर्यया ।

पातुकामेषु वत्सेषु मातृ़णां शासिता: स्तना: ।। 2.43.17 ।।

निस्संशयमिति । कदर्यया क्षुद्रया । पातुकामेषु स्तन्यपानकामेषु । शातिता: वियोजिता इति यावत् ।। 2.43.17 ।।

साहं गौरिव सिंहेन विवत्सा वत्सला कृता ।

कैकेय्या पुरुषव्याघ्र बलावत्सेव गौर्बलात् ।। 2.43.18 ।।

साहमिति । बालवत्सा गौरिव वत्सला साहं सिंहेन गौरिव कैकेय्या बलाद्विवत्सा कृतेति सम्बन्ध: ।। 2.43.18 ।।

न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् ।

एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ।। 2.43.19 ।।

नहीति । तावद्गुणैर्जुष्टं यावन्त: कल्याणगुणा: सन्ति तावद्भिर्गुणैर्युक्तमित्यर्थ: ।। 2.43.19 ।।

न हि मे जीविते किंचित् सामर्थ्यमिह कल्प्यते ।

अपश्यन्त्या: प्रिय: पुत्रं महाबाहुं महाबलम् ।। 2.43.20 ।।

नहीति । कल्प्यते दैवेनेति शेष: । कल्पत इति पाठे–विद्यत इत्यर्थ: ।। 2.43.20 ।।

अयं हि मां दीपयते समुत्थितस्तनूजशोकप्रभवो हुताशन: ।

महीमिमां रश्मिभिरुद्धतप्रभो यथा निदाघे भगवान् दिवाकर: ।। 2.43.21 ।।

अयमिति । दीपयते सन्तापयति । उद्धूतप्रभ: उत्कटकिरण: ।। 2.43.21 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिचत्वारिंश: सर्ग: ।। 43 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्रिचत्वारिंश: सर्ग: ।। 43 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.