111 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततम: सर्ग:

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहित: ।

अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ।। 2.111.1 ।।

अथ रामनिवर्त्तनोपायान् पुनरुपन्यस्य निरस्यति एकादशोत्तरशततमे–वसिष्ठस्त्वित्यादिना ।। 2.111.1 ।।

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: ।

आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ।। 2.111.2 ।।

एवं कुलधर्मोपपादनेपि सर्वं तत्पितृनियोगव्यतिरिक्तविषयमिति मत्वा तूष्णींस्थितस्य रामस्याशयं जानन् वसिष्ठ: पुनर्निवर्त्तनहेत्वन्तरमाह–पुरुषस्येत्यादिना ।। 2.111.2 ।।

पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।

प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ।। 2.111.3 ।।

सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप ।

मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। 2.111.4 ।।

पितेति मातुरप्युपलक्षणम्, शरीरमेव मातापितरौ जनयत इत्यर्थ: । तस्मात्प्रज्ञादानात् गुरु: मातापितृभ्यां गरीयानित्यर्थ: । “स हि विद्यातस्तं जनयति तच्छ्रेष्ठं जन्म” इति वचनादिति भाव: ।। 2.111.34 ।।

इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा ।

एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ।। 2.111.5 ।।

इमा इति । परिषद: ब्राह्मणसमूहा: । श्रेणय: पौरजना: क्षत्त्रिया: वैश्याश्च ते त्वत्सम्बन्धिन: येषु विषये धर्मं परिपालनरूपं चरन् सतां गतिं सतां पूर्वेषां राज्ञां मार्गं नातिवर्ते: नातिवर्तेथा: ।। 2.111.5 ।।

वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् ।

अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। 2.111.6 ।।

वृद्धाया इति । अवर्तितुं शुश्रूषामकर्तुं नार्हसि । अस्यास्तु “पितु: शतगुणं माता” इत्युक्ताया: ।। 2.111.6 ।।

भरतस्य वच: कुर्वन् याचमानस्य राघव ।

आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ।। 2.111.7 ।।

एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् ।

प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ।। 2.111.8 ।।

भरतस्येति । ‘सान्त्विता मामिका माता’ इत्यादिप्रार्थयमानस्य । आत्मानम् आत्मभूतं भरतं नातिवर्त्तेथा इत्युदार: । सत्यधर्मनिष्णातत्वस्वभावमित्यपरे । स्वसाधारणधर्मत्वादाश्रितपारतन्त्र्यं नातिवर्तेथा इत्याचार्या: । स एव हि सर्वेश्वरस्य स्वभाव: स्वत:सिद्ध: । सत्यधर्मपराक्रमेति दृष्टान्तार्थम् । यथा सत्यवचनमनतिक्रमणीयं यथा च धर्मो नातिक्रमणीय: तथा आश्रितपारतन्त्र्यमपीत्यर्थ: । सत्यधर्मयो: पराक्रम: अनुष्ठानशूरत्वं यस्येति बहुव्रीहि: ।। 2.111.78 ।।

यन्मातापितरौ वृत्तं तनये कुरुत: सदा ।

न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ।। 2.111.9 ।।

यथाशक्ति प्रदानेन स्नापनोच्छादनेन च ।

नित्यं च प्रियवादेन तथा संवर्द्धनेन च ।। 2.111.10 ।।

‘सति धर्मिणि धर्माश्चिन्त्यन्ते’ इति न्यायेन सर्वधर्मसम्पादनबीजभूतशरीरोत्पादकत्वात् अत्यन्ताज्ञानदशायामपि सर्वप्रकारसंरक्षणणेन बहुविधोपकारकत्वाच्चाचार्यवचनादपि पितृवचनमवश्यं कर्तव्यम् अत एव “मातृदेवो भव पितृदेवो भव आचार्य देवो भव” इति चरमपर्वण्याचार्य उपात्त इत्यभिप्रायेणाह–यन्मातेत्यादिना श्लोकद्वयेन । तनये तनयसम्पादननिमित्तं यद्वृत्तं व्रतोपवासदेवताराधनादिकं कुरुत:, तन्न सुप्रतिकरं सुतरामशक्यप्रत्युपक्रियम् । मात्रा पित्रा च उत्पत्त्यनन्तरं यथाशक्ति प्रदानेन स्तन्यान्नादिप्रदानेन स्नापनोच्छादनेन नित्यं प्रियवादेन सदा संवर्धनेन च यत्कृतं तच्च सुप्रतिकरम् ।। 2.111.910 ।।

स हि राजा जनयिता पिता दशरथो मम ।

आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ।। 2.111.11 ।।

स हीति । जनयितापितेति गौणपितृव्यावृत्ति: । आज्ञातम् प्रतिज्ञातम् । एवं प्रथमं प्रतिज्ञातत्वात् मातृवचनं भ्रातृवचनं च कर्तुं नार्हामीति भाव: ।। 2.111.11 ।।

एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् ।

उवाच परमोदार: सूतं परमदुर्मना: ।। 2.111.12 ।।

एवमिति । प्रत्यनन्तरं समीपस्थं परमोदार: सान्त्वितामामिकेत्यादिना दत्तराज्यनिर्वाहक: ।। 2.111.12 ।।

इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।

आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ।। 2.111.13 ।।

इहेति । इह स्थण्डिले भूमौ कुशानास्तर आस्तृणीहि, पावनत्वार्थमित्यर्थ: । अत एव वक्ष्यति ‘कुशानास्तीर्य राघव:’ इति । प्रत्युपवेक्ष्यामि प्रतिरोत्स्यामीत्यर्थ: ।। 2.111.13 ।।

अनाहारो निरालोको धनहीनो यथा द्विज: ।

शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ।। 2.111.14 ।।

प्रत्युपवेशप्रकारमाह–अनाहार इति । निरालोक: अवकुण्ठितानन: । धनहीन: वृद्ध्यर्थम् ऋणप्रदानान्निर्धन: । शेष्ये शयिष्ये । इडभाव आर्ष: ।। 2.111.14 ।।

स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: ।

कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ।। 2.111.15 ।।

राममवेक्षन्तं रामानुज्ञां काङ्क्षन्तमित्यर्थ: । कुशोत्तरं कुशास्तरणम् । उपस्थाप्य आनीय स्वयमेवास्तरत् आस्तृणात्, शयनं कृतवानित्यर्थ: ।। 2.111.15 ।।

तमुवाच महातेजा रामो राजर्षिसत्तम: ।

किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ।। 2.111.16 ।।

तमिति । किं कुर्वाणं किमपकारं कुर्वाणम् । तात इति सान्त्वनार्थमुक्तम् ।। 2.111.16 ।।

ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति ।

न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ।। 2.111.17 ।।

उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।

पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ।। 2.111.18 ।।

ब्राह्मण इति । एकपार्श्वेन एकपार्श्वशयनेन । मूर्द्धाभिषिक्तानाम् अभिषिक्तक्षत्त्रियाणाम् ।। 2.111.1718 ।।

आसीनस्त्वेव भरत: पौरजानपदं जनम् ।

उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ।। 2.111.19 ।।

आसीन इति । नानुशासथेत्यत्र इतिकरणं बोध्यम् ।। 2.111.19 ।।

ते तमूचुर्महात्मानं पौरजानपदा जना: ।

काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ।। 2.111.20 ।।

त इति । काकुत्स्थं रामम् अभिजानीम: अभितो जानीम:, सत्यसन्धं जानीम इत्यर्थ: ।। 2.111.20 ।।

एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति ।

अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ।। 2.111.21 ।।

तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।

एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ।। 2.111.22 ।।

सम्यग्वदतीत्येतदुपपादयति–एष इत्यादिना । अञ्जसा शीघ्रं व्यावर्त्तयितुं न शक्ता स्म इति तं भरतमूचुरित्यन्वय: ।। 2.111.2122 ।।

एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव ।

उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ।। 2.111.23 ।।

एतदिति । एतदुभयं मद्वचनं पौरजनवचनं चेत्यर्थ: । सम्यक्सम्पश्य कर्त्तव्यं सम्यक् निरूपय । मां च स्पृश तथोदकमिति क्षत्त्रियाविहितप्रत्युपवेशनप्रायश्चित्तार्थमित्यर्थ: । वसिष्ठादिषु विद्यमानेषु स्वस्पर्शनविधै: इत: परमेवंविधं न क्रियत इति शपथार्थं जलं स्पृष्ट्वा मां स्पृशेत्यपि सिद्धम् ।। 2.111.23 ।।

अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।

श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ।। 2.111.24 ।।

न याचे पितरं राज्यं नानुशासामि मातरम् ।

आर्यं परमधर्मज्ञं नानुजानामि राघवम् ।। 2.111.25 ।।

अथेत्यादि । न याचे न याचितवान् । नानुशासामि नानुशास्मि, एवंकुर्विति नानुशिष्टवानस्मीत्यर्थ: । नानुजानामि वनवासाय नानुज्ञातवानस्मीत्यर्थ: ।। 2.111.2425 ।।

यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: ।

अहमेव निवत्स्यामि चतुर्दश समा वने ।। 2.111.26 ।।

धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: ।

उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ।। 2.111.27 ।।

यदीति । अवश्यं पितुर्वच: कर्तव्यं वने वस्तव्यं चेति यदि मन्यसे तर्हि अहमेव त्वत्प्रतिनिधित्वेन वने वत्स्यामि । त्वं तु मत्प्रतिनिधित्वेना ऽयोध्यां पालय, एवंच सत्युभाभ्यां सम्यक् पितृवचनं कृतं भवेदिति भाव: । इति भरतो वाक्यमब्रवीदित्यन्वय: ।। 2.111.2627 ।।

विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम ।

न तल्लोपयितुं शक्यं मया वा भरतेन वा ।। 2.111.28 ।।

विक्रीतमिति । आहितम् आधिरूपेण न्यस्तं विक्रयस्त्याग: क्रय: स्वीकार इति भेद: । मह्यं वनवासं दत्त्वा तन्मूल्यत्वेन राज्यं स्वीकृतवान् । यद्वा मम वनवासमाधिं कृत्वा तव राज्यं दापितवान् तल्लोपयितुं न शक्यमित्यर्थ: ।। 2.111.28 ।।

अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: ।

युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ।। 2.111.29 ।।

जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।

सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ।। 2.111.30 ।।

अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: ।

भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ।। 2.111.31 ।।

वारुणस्नानाशक्तस्य मान्त्रस्नानवदशक्तस्यैव प्रतिनिधिस्वीकार: । अहं तु वनवासे शक्त: अत: प्रतिनिध्याचरणं न पितृऋणमोचनमित्याह–उपधिरित्यादिना । उपधि: प्रतिनिधिरित्यर्थ: । मया शक्तेन जुगुप्सित: हीनकल्पत्वेन निन्दित: । “हीनकल्पं न सेवेत पुरुषो विभवे सति” इति वचनादिति भाव: । कैकेय्या युक्तं योग्यमेवोक्तं पित्रा च सुकृतं धर्म्यं कृतम् आवाभ्यां तदकरणे हीनकल्पकरणे च पितुरनृतं स्यात् ।। 2.111.2931 ।।

वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।

अनृतन्मोचयानेन पितरं तं महीपतिम् ।। 2.111.32 ।।

वृत इति । पितरम् अनेन राज्यपरिपालनेन अनृतात् मोचयेत्यर्थ: ।। 2.111.32 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततम: सर्ग: ।। 111 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामापयणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकादशोत्तरशततत: सर्ग: ।। 111 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.