91 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितम: सर्ग:

कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।

भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ।। 2.91.1 ।।

कृतेति । तत्रैवाश्रमे निवासाय कृतबुद्धिं निश्चितबुद्धिं भरतं स मुनि: आतिथ्येन भोजनपर्य्यन्तातिथिसत्काराय न्यमन्त्रयत् प्रार्थयामास ।। 2.91.1 ।।

अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।

पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ।। 2.91.2 ।।

अब्रवीदिति । वने यत्फलमूलादिकम् उपपद्यते लभ्यते तेन तापसाहारेणातिथ्यं कृतम्, ननु एतावन्मात्रेण तुष्टो ऽस्मीति भाव: ।। 2.91.2 ।।

अथोवाच भरद्वाजो भरतं प्रहसन्निव ।

जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ।। 2.91.3 ।।

अथेति । प्रहसन्निव प्रहासावेदकानुभावयुक्त: । मुनिरित:परं किं करिष्यतीति भरताशयज्ञानेन हास:, त्वां प्रीतिसंयुक्तं मद्विषये सन्तुष्टं जाने अत एव केनचिदुपचारेण तुष्ये: तुष्टो भवे: ।। 2.91.3 ।।

सेनायास्तु तवैतस्या: कर्तुमिच्छामि भोजनम् ।

मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ।। 2.91.4 ।।

सेनाया इति । भुज्यत इति भोजनमन्नम् । अत्रादौ तथापीत्युपस्कार्य्यम्, तथापि मम प्रीतिर्यथारूपा यादृशप्रकारा तथा त्वमर्ह:, त्वं तथा प्रीतो भवितुमर्ह इत्यर्थ:, तथानुमन्तुमर्हसीत्यर्थो वा ।। 2.91.4 ।।

किमर्थं चापि निक्षिप्य दूरे बलमिहागत: ।

कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ ।। 2.91.5 ।।

किमर्थमिति । उक्तमेवार्थं व्यतिरेकमुखेनाप्याह–कस्मादित्यादिना ।। 2.91.5 ।।

भरत: प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।

ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ।। 2.91.6 ।।

भरत इति । भगवद्भयात् भवान् कुप्येदिति भयात् ।। 2.91.6 ।।

राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा ।

यत्नत: परिहर्त्तव्या विषयेषु तपस्विन: ।। 2.91.7 ।।

राज्ञेति । विषयेषु तपस्विन: स्वकीयदेशेषु वर्तमाना: ऋषय: यत्नत: परिहर्तव्या:, ससैन्येन तत्समीपं न गन्तव्यमित्यर्थ: ।। 2.91.7 ।।

वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: ।

प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ।। 2.91.8 ।।

ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।

न हिंस्युरिति तेनाहमेक एव समागत: ।। 2.91.9 ।।

कोपनिमित्तमाह–वाजिमुख्या इत्यादिना । उटजान् पर्णशाला: ।। 2.91.89 ।।

आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा ।

ततस्तु चक्रे भरत: सेनाया: समुपागमम् ।। 2.91.10 ।।

आनीयतामिति । तत: सेनानिवेशस्थलात् । इत: इह । समुपागमं समानयनम् ।। 2.91.10 ।।

अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च ।

आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ।। 2.91.11 ।।

अग्निशालामिति । अग्निशालाप्रवेश: पावनत्वार्थ:, देवतासन्निधानस्थलत्वात् । अप: पीत्वा, त्रिरिति शेष: । “त्रिराचामेत्” इति श्रुते: । परिमृज्य आस्यम्, द्विरिति शेष: । “द्वि:परिमृज्य” इति श्रुते: । चकारेण सकृदुपस्पृश्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमारभ्य इत्युक्तसंग्रह: । अनेन सर्वकर्म्माङ्गमाचमनमिति दर्शितम् । क्रियाहेतो: करणनिमित्तम् ।। 2.91.11 ।।

आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।

आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। 2.91.12 ।।

आह्वानमन्त्रमाह–आह्वय इत्यादिना । आह्वय इत्यात्मनेपदमार्षम् । विश्वकर्मा सर्वशिल्पकर्ता । त्वष्टा तु तक्षणेन गृहादिनिर्माता । यद्वा त्वष्टारमेव चेत्यवधारणेनासुरविश्वकर्म्मा मयो व्यावर्त्यते । तत्रातिथ्यनिमित्तं संविधीयतां गृहादिसंविधानं क्रियताम् ।। 2.91.12 ।।

आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।

आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। 2.91.13 ।।

वक्ष्यमाणान्नपानादिरक्षणाय लोकपालानाह्वयति–आह्वय इति । शक्रमुखान् इन्द्रप्रधानात् । शक्रस्य पृथङ्निर्देशात् त्रीन् लोकपालान् यमवरुणकुबेरान् देवानित्यग्न्यादय उच्यन्ते । संविधीयतां पालनं क्रियताम् ।। 2.91.13 ।।

प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च ।

पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ।। 2.91.14 ।।

सर्वा नदीर्द्वेधा विभज्याह्वयति–प्राक्स्रोतस इति । सह युगपत् ।। 2.91.14 ।।

अन्या: स्रवन्तु मैरेयं सुरामन्या: सुनिष्ठिताम् ।

अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ।। 2.91.15 ।।

तासां कर्त्तव्यमाह–अन्या इति । अन्या: काश्चन मैरेयं मिरादेशे भवं खर्जूरादिहेतुकं मद्यविशेषम् । सुरां “गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा” इत्युक्तां त्रिविधां सुराम् । सुनिष्ठितां सुनिष्पादिताम् । इक्षुकाण्डरसोपमम् । काण्डो वर्ग: ।। 2.91.15 ।।

आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।

तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वश: ।। 2.91.16 ।।

गानार्थमाह्वयति–आह्वय इति । देवगन्धर्वान् मनुष्यगन्धर्वभिन्नान् । हहाहुहूनितिच्छान्दसो ह्रस्व: । अप्सरसां द्वैविध्यमाह–देवीर्गन्धर्वीरिति । देवी: देवजाती: । गन्धर्वी: गन्धर्वजाती: । अत एव “एते वै गन्धर्वाप्सरसां गृहा:” इति श्रौतप्रयोग: ।। 2.91.16 ।।

घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।

नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ।। 2.91.17 ।।

आवश्यकत्वेन प्रधानाप्सरसो विशिष्याह्वयति–घृताचीमित्यादिना । घृतवदञ्च्यते पूज्यत इति घृताची । विश्वै: समस्तै: अञ्च्यत इति विश्वाची । मिश्रकेशीं निरन्तरकेशीं श्रेष्ठकेशीं वा । बुसेभ्योलमलम्बुसाम् । बुसा बुधा: देवा: वर्णविपर्यय: । नागानां दन्ता इव शुभ्रा: दन्ता: यस्यास्तां नागदन्ताम् । हेमां हेमवर्णाम् । पुनश्च हेमामिति पाठे–पूर्वोक्तहेमापेक्षया अस्या व्यावृत्तिमाह अनिद्रकृतस्थलामिति । अद्रौ महेन्द्रे मयेन कृतनिवासां स्वयम्प्रभाबिलस्थामित्यर्थ: । हिमामिति पाठे–हिमवच्छीतलाङ्गीम् । यद्वा हिममस्यास्तीति हिमा । अद्रिकृतस्थला चान्या एवमेतान्यन्वर्थनामानि ।। 2.91.17 ।।

शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषित: ।

सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदा: ।। 2.91.18 ।।

शक्रमिति । शक्रं या उपतिष्ठन्ति रम्भोर्वशीमेनकादय: । ब्रह्माणं चतुर्मुखं तल्लोकेप्यप्सरस: सन्ति । “तं पञ्चशतान्यप्सरसां प्रतिधावन्ति” इति श्रुते: । इदं च मत्तान्तरमनुसृत्योक्तम् । तुम्बुरुणा तासां गानशिक्षकेण सपरिच्छदा: । नृत्यगीताद्युपकरणसहिता: सालङ्कारा वा ।। 2.91.18 ।।

वनं कुरुषु यद्दिव्यं वासोभूषणपत्त्रवत् ।

दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ।। 2.91.19 ।।

भोगोपकरणान्याहूय भोगस्थानान्याह्वयति–वनमिति । वनं चैत्ररथाख्यम्, तच्चोत्तरकुरुदेशे वर्त्तते । दिव्यं देवार्हम् । वासोभूषणान्येव पत्राण्यस्मिन् सन्तीति वासोभूषणपत्रवत् । शश्वत् सर्वदा । दिव्यनार्य्य एव फलानि यस्मिन् तत् तथा । एवम्भूतं यत्कौबेरमस्ति तत् इह वने एतु आगच्छतु । उत्तरदिक्पालत्वेन कुबेराधिष्ठितत्वात् कौबेरमित्युक्तम् । इयं च कुबेरं प्रत्येवोक्ति: । नदीनामिव वनस्याह्वानं तदधिष्ठातृदेवताद्वारा ।। 2.91.19 ।।

इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।

भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ।। 2.91.20 ।।

एवं कुबेरं प्रत्युक्त्वा अन्नपतिं चन्द्रं प्रत्याह–इहेति । मे मन्निमित्तम् । भगवान् माहात्म्यवान् । सोम ओषधीनामधिपतिश्चन्द्र: उत्तममन्नं विधत्तां सम्पादयतु । अन्नं चतुर्विधत्वेन विशेषयति–भक्ष्यमित्यादि । भक्ष्यं खाद्यमपूपादि । भोज्यम् ओदनादि । चोष्यं शुष्कादि । लेह्यं रसायनादि । विविधम् एकैकमनेकविधं । तदपि बहु अनल्पम् ।। 2.91.20 ।।

विचित्राणि च माल्यानि पादपप्रच्युतानि च ।

सुरादीनि च पेयानि मांसानि विविधानि च ।। 2.91.21 ।।

विचित्राणीति । पादपप्रच्युतानि, नवानीति भाव: ।। 2.91.21 ।।

एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च ।

शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनि: ।। 2.91.22 ।।

एवमाह्वाने शक्तिविशेषं दर्शयति–एवमित्यादिना । समाधिना योगेन । तपसा ज्ञानेन । यद्वा अनशनादिकायक्लेशरूपेण अत एव तेजसा अनागमे दण्डनसामर्थ्येन च युक्त: मुनि: । शीक्षास्वरसमायुक्तं शीक्ष्यन्ते उपदिश्यन्ते वर्णस्वरादयो ऽनयेति शीक्षा । छान्दसो दीर्घ: । शीक्षाप्रतिपाद्यस्वरयुक्तमिति क्रियाविशेषणम् । “दृष्ट: शब्द: स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रु: स्वरतो ऽपराधात्” इति स्वरापराधस्य प्रत्यवायहेतुत्वश्रवणात् । एवम् आह्वये विश्वकर्माणमित्यारभ्योक्तरीत्या । अब्रवीत् आह्वानमन्त्रानजपदित्यर्थ: ।। 2.91.22 ।।

मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जले: ।

आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ।। 2.91.23 ।।

मनसेति । मनसा अनन्यपरेणेत्यर्थ: । ध्यायत: निरन्तरं चिन्तयत: । प्राङ्मुखस्येत्यदृष्टविशेषार्थं कृताञ्जलेरिति आह्वानमुद्रोक्ता । तानि पूर्वोक्तानि । दैवतानि विश्वकर्मादीनि । मुनिदृष्टिविषयत्वाय पृथक्पृथक् आजग्मु: ।। 2.91.23 ।।

मलयं दर्दुरं चैव तत: स्वेदनुदो़ ऽनिल: ।

उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुख: शिव: ।। 2.91.24 ।।

मलयश्चन्दनालय: । दर्दुरस्तत्समीपस्थश्चन्दनोत्पत्तिस्थानभूतो गिरि: । तदुभयं चोपस्पृश्य सुप्रियात्मा सुप्रियस्वभाव:, सुगन्ध इत्यर्थ: । अत एव सुख: सुखकर: । शिव: शीतल: । युक्त्या अङ्गस्पर्शेन । स्वेदनुद: स्वेदनिवर्त्तक: । “इगुपध–” इत्यादिना कप्रत्यय: । अनिल: वायु: । तत: गिरिद्वयाद्ववौ । इन्द्रा़द्याह्वानेन वाय्वाद्याह्वानमर्थसिद्धम् ।। 2.91.24 ।।

ततोभ्यवर्तन्त घना दिव्या: कुसुमवृष्टय: ।

दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ।। 2.91.25 ।।

तत इति । घना: निरन्तरा: “घनं निरन्तरं सान्द्रम्” इत्यमर: । पुष्पवृष्टयो ऽभ्यवर्त्तन्त, आसन्नित्यर्थ: ।। 2.91.25 ।।

प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणा: ।

प्रजगुर्देवगन्धर्वा वीणा: प्रमुमुचु: स्वरान् ।। 2.91.26 ।।

प्रववुरिति । प्रववुश्चोत्तमा वाता इति पूर्वोक्तस्यैवाविच्छेद उच्यते । वीणा: प्रमुमुचु: स्वरान्, वीणाशब्देन वीणावन्तो लक्ष्यन्ते । तदेकपरत्वव्यञ्जनाय स्वरान्मुमुचु: उत्पादयामासु: । असिश्छिनत्तीतिवत् करणे कर्तृत्वोपचारो वा ।। 2.91.26 ।।

स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।

विवेशोच्चारित: श्लक्ष्ण: समो लयगुणान्वित: ।। 2.91.27 ।।

स शब्द इति । स शब्द: द्यां च भूमिं चाधिवसतामिति शेष: । प्राणिनां श्रवणानि श्रोत्राणि विवेश । स शब्द: कीदृश: उच्चारित: वीणादिभिरुत्पादित: । श्लक्ष्ण: कोमल: । सम: निषादादिषु कुत्रचित् औत्कट्यरहित: । मन्द्रमध्यमतारश्रुतिसाम्ययुक्तो वा । लयगुणान्वित: लयो नाम नृत्तगीतवाद्यानामेककालविराम:, स एव गुणस्तेनान्वित: ।। 2.91.27 ।।

तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् ।

ददर्श भारतं सैन्यं विधानं विश्वकर्मण: ।। 2.91.28 ।।

तस्मिन्निति । अनेन गन्धर्वाप्सरसामागमनमात्रं सूचितम् । विधानं निर्माणम् । तच्च प्रपञ्चयिष्यति चतु:शालानीत्यादिना ।। 2.91.28 ।।

बभूव हि समा भूमि: समन्तात्पञ्चयोजना ।

शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभै: ।। 2.91.29 ।।

देवताकृत्यमाह–बभूवेति । शाद्वलैर्बालतृणवत्प्रदेशै: । छन्ना व्याप्ता । नीलवैडूर्य्यसन्निभै: इन्द्रनीलवैडूर्य्याभ्यां तुल्यै: ।। 2.91.29 ।।

तस्मिन् बिल्वा: कपित्थाश्च पनसा बीजपूरका: ।

आमलक्यो बभूवुश्च चूताश्च फलभूषणा: ।। 2.91.30 ।।

तस्मिन्निति । तस्मिन् भूप्रदेशे । बीजपूरका: मातुलुङ्गका: । फलान्येव भूषणानि येषां ते फलभूषणा इति सर्ववृक्षविशेषणम् । आमलक्यो बभूवुरिति पाठ: ।। 2.91.30 ।।

उत्तरेभ्य: कुरुभ्यश्च वनं दिव्योपभोगवत् ।

आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ।। 2.91.31 ।।

उत्तरेभ्य इति । वनमाहूतं कौबेरवनं दिव्योपभोगवत् दिव्योपभोगार्हम् । नदीति जात्येकवचनम् । तीरजै: वृक्षैरिति शेष: ।। 2.91.31 ।।

चतु:शालानि शुभ्राणि शालाश्च गजवाजिनाम् ।

हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ।। 2.91.32 ।।

चतु:शालानीति । चतु:शालानि सञ्जवनानि “चतु:शालं सञ्जवनम्” इति हलायुध: । आजग्मुरिति विपरिणाम: । तोरणानि बन्धनमाला: “बन्धी बन्धनमाला तु तोरणं परिकीर्तितम्” इति हलायुध: । वन्दनमालेति पाठान्तरम् ।। 2.91.32 ।।

सितमेघनिभं चापि राजवेश्मसु तोरणम् ।

दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ।। 2.91.33 ।।

चतुरश्रमसम्बाधं शयनासनयानवत् ।

दिव्यै: सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।

उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ।। 2.91.34 ।।

सितमेघेत्यारभ्य धौतनिर्मलभाजनमित्यन्तमेकं वाक्यम् । आजगामेति । क्रिया द्रष्टव्या । सितमेघनिभं सुधालेपनधवलत्वात् । दिव्यमाल्यकृताकारं दिव्यमालाभि: कृतालङ्कारम् । दिव्यगन्धैर्दिव्यचन्दनै: । समुक्षितं सिक्तम् । चतुरश्रं चतुष्कोणम् । असम्बाधं विशालम् । शयनासनयानवत् यानं शिबिकादि । रसै: शर्कदादिभि: । दिव्यभोजनवस्त्रवत् दिव्यभोजनानि सूक्ष्मशाल्यन्नादीनि दिव्यवस्त्राणि सूक्ष्मवस्त्राणि उपकल्पितानि सर्वान्नानि नानाविधापूपादीनि यस्मिन् तत् । धौतनिर्मलभाजनं धौतत्वेन निर्मलानि भाजनानि यस्मिन् तत्तथा ।। 2.91.3334 ।।

क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ।

प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।

वेश्म तद्रत्नसम्पूर्णं भरत: केकयीसुत: ।। 2.91.35 ।।

क्लृप्तसर्वासनमित्यत्र स्नानभोजना़द्यासनान्युच्यन्ते । शयनासनेत्यत्र राजासनं तत्साहचर्याच्छयनं च महाशयनम्, स्वास्तीर्णशयनोत्तममित्यत्र निद्रार्थशयनम् । तत्र भरतस्य प्रवेशमाह प्रविवेशेति । महाबाहुरित्यनेन तदर्हत्वमुच्यते । केकयीसुत इत्यनेन केकयीदत्तराज्येप्यनादर: किमत्र आदरं करिष्यतीति द्योत्यते । महर्षिणा भरद्वाजेन ।। 2.91.35 ।।

अनुजग्मुश्च तं सर्वे मन्त्रिण: सपुरोहिता: ।

बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ।। 2.91.36 ।।

अनुजग्मुरिति । वेश्मसंविधिं वेश्मसंविधानम् ।। 2.91.36 ।।

तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।

भरतो मन्त्रिभि: सार्द्धमभ्यवर्त्तत राजवत् ।। 2.91.37 ।।

तत्रेति । राजासनं राजार्हासनम् । अभ्यवर्त्तत अभितो वर्त्तिष्ट, प्रदक्षिणं कृतवानिति यावत् । राजवत् राजतुल्यं राममिवेत्यर्थ: ।। 2.91.37 ।।

आसनं पूजयामास रामायाभिप्रणम्य च ।

वालव्यजनमादाय न्यषीदत् सचिवासने ।। 2.91.38 ।।

आसनमिति । आसनं पूजयामासेत्यत्र राजवदित्यनुकर्ष: । रामाय आसनोपरि स्थितत्वेन भाविताय । वालव्यजनमादाय स्वशेषत्वानुगुणतयेति भाव: । सचिवासने सचिवार्थं क्लृप्ते आसने, सिंहासनाध:प्रदेशस्थ इत्यर्थ: ।। 2.91.38 ।।

आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिता: ।

तत: सेनापति: पश्चात् प्रशास्ता च निषेदतु: ।। 2.91.39 ।।

आनुपूर्व्यादिति । सेनापति: दण्डनायक: । प्रशास्ता शिबिरनियन्ता ।। 2.91.39 ।।

ततस्तत्र मुहूर्त्तेन नद्य: पायसकर्दमा: ।

उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ।। 2.91.40 ।।

तत इति । मुहूर्त्तेन अल्पकालेन ।। 2.91.40 ।।

तासामुभयत:कूलं पाण्डुमृत्तिकलेपना: ।

रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजा: ।। 2.91.41 ।।

तासामिति । उभयत:कूलम् उभयो: कूलयोरित्यर्थ: । पाण्डुमृत्तिकलेपना: सुधानुलिप्ता इत्यर्थ: । “ङ्यापो:–” इति ह्रस्व: । ब्रह्मण: भरद्वाजस्य उपातिष्ठन्तेत्येतदनुषज्यते ।। 2.91.41 ।।

तेनैव च मुहूर्त्तेन दिव्याभरणभूषिता: ।

आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता: स्त्रिय: ।। 2.91.42 ।।

तेनेति । आगुराजग्मु: । सहस्रमेव साहस्रम् । ब्रह्मणाचतुर्मुखेन । स्त्रिय: अप्सरस: ।। 2.91.42 ।।

सुवर्णमणिमुक्तेन प्रवालेन च शोभिता: ।

आगुर्विंशतिसाहस्रा: कुबेरप्रहिता: स्त्रिय: ।। 2.91.43 ।।

सुवर्णेति । सुवर्णमणिमुक्तेन सुवर्णानि सुवर्णमयाभरणानि मणयो रत्नानि मुक्ताश्च सुवर्णमणिमुक्तं तेन । “जातिरप्राणिनाम्” इति एकवद्भाव: ।। 2.91.43 ।।

याभिर्गृहीतपुरुष: सोन्माद इव लक्ष्यते ।

आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणा: ।। 2.91.44 ।।

याभिरिति । गृहीत आलिङ्गित: याभि: यैरित्यर्थ: । एतदर्थस्य पूर्वेण वान्वय: । कुबेरप्रहिता: गन्धर्वाप्सरस: । तथा हि श्रुति: “गन्धार्वाप्सरसो वा एतमुन्मादयन्ति । य उन्माद्यति” इति । याभिर्गृहीता: पुरुषा: सोन्मादा इति होच्यते । इति च पाठ: । तदा उच्यते श्रुत्येति शेष: । हेति प्रसिद्धौ ।। 2.91.44 ।।

नारदस्तुम्बुरुर्गोप: प्रवरा: सूर्य्यवर्चस: ।

एते गन्धर्वराजानो भरतस्याग्रतो जगु: ।। 2.91.45 ।।

नारद इति । नारदो ब्रह्मपुत्रादन्य: तुम्बुरुसाहचर्य्यात् । स हि पर्वतसहचर: । आह्वानसमये तुम्बुरुणेत्यस्योपलक्षणार्थत्वात् । गन्धर्वराजान इति टजभाव आर्ष: ।। 2.91.45 ।।

अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।

उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ।। 2.91.46 ।।

अलम्बुसेति । भरतमुपानृत्यन् भरतमुद्दिश्याधिकमनृत्यन् । “उपो ऽधिके च” इति कर्म्मप्रवचनीयसंज्ञा । अत्र भरद्वाजस्य शासनादुपानृत्यन्नित्यनेन भरतस्य रामे वृत्तिविशेषमातिथ्यव्याजेन परीक्षितवानृषिरिति गम्यते ।। 2.91.46 ।।

यानि माल्यानि देवेषु यानि चैत्ररथे वने ।

प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ।। 2.91.47 ।।

एवं भरतस्य रामशेषतयैवावस्थानम् न तु भोगलौल्येनेत्युक्त्वा सेनाभोगं प्रपञ्चयति–यानीत्यादिना । देवेषु देवोद्यानेषु, नन्दनादिष्वित्यर्थ: । चैत्ररथस्य पूर्वं कुरुदेशस्थत्वेनोक्तेरिदं चैत्ररथं तद्बोध्यम् । प्रयागे प्रयागस्थितभरद्वाजाश्रमवनवृक्षेष्वित्यर्थ: । तेजसा प्रभावेन ।। 2.91.47 ।।

बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: ।

अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ।। 2.91.48 ।।

आहूतानां भरतशेषत्वेन विनियोगात् सैनिकानां नर्त्तकादीनि दर्शयति–बिल्वा इति । बिल्वा: बिल्ववृक्षा: । मार्दङ्गिका: मृदङ्गवादका: । “तदस्य शिल्पम्” इति ठक् । आसन् तद्रूपास्तत्कार्यकारिणो भवन्नित्यर्थ: । विभीतका: कलिवृक्षा: । शम्याग्राहास्तालग्राहका आसन् । “शम्या यज्ञायुधे ताले मशके च क्रियान्तरे” इति वैजयन्ती । भरते चोक्तं “वह्नितालशम्यातालक्रिया” इति ।। 2.91.48 ।।

तत: सरलतालाश्च तिलका नक्तमालका: ।

प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना: ।। 2.91.49 ।।

तत इति । सरला: देवदारुविशेषा: । ताला: प्रसिद्धा: । तिलका: क्षुरकनामका वृक्षा: । नक्तमालका: करञ्जनाख्या वृक्षा । कुब्जा: स्थगुमन्त: । वामना ह्रस्वा: । सम्पेतु: सम्पन्ना: ।। 2.91.49 ।।

शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: ।

मालती मल्लिका जातिर्याश्चान्या: कानने लता: ।। 2.91.50 ।।

प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् ।

सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: ।

मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ।। 2.91.51 ।।

अथ स्त्रीलिङ्गवृक्षाणां स्त्रीभावपरिग्रहमाह–शिंशिपेत्यादिसार्धश्लोकद्वयमेकान्वयम् । शिंशुपादय: प्रमदाविग्रहं कृत्वा यावदिच्छथ तावद्भक्ष्यन्तामित्यवदन्निति सम्बन्ध: । सुरापा: हे सुरापानप्रवृत्ता: । इमा: सुरा: पिबत । हे बुभुक्षिता: पायसपानेच्छव: । इदं पायसं भक्ष्यतामिति वचनविपरिणामेनानुषज्यते । सुमेध्यानि परिशुद्धानि ।। 2.91.5051 ।।

उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।

अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च ।। 2.91.52 ।।

संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: ।

परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना: ।। 2.91.53 ।।

उच्छाद्येति । उच्छाद्य उद्वर्त्तनं कृत्वा । “उद्वर्त्तनोच्छादने द्वे” इत्यमर: । तैलादिना शशीरमर्दनं कृत्वेत्यर्थ: । वल्गुषु रम्येषु । एकमेकमिति “एकम्बहुव्रीहिवत्” इति बहुव्रीहिवद्भावाभाव आर्ष: । संवाहन्त्य: संवाहयन्त्य: पादसंवाहनं कुर्वन्त्य: । परिमृज्य जलार्द्रमङ्गं वस्त्रादिना परिमृज्य अलङ्कृत्येति वार्थ: । अन्योन्यं रहसि पाययन्ति, सुरा इति शेष: ।। 2.91.5253 ।।

हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् ।

अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ।। 2.91.54 ।।

हयानिति । वाहनपा: ऋषिप्रभावसिद्धा वाहनपा: वाहनरक्षका: तेषां हयादीनां यथाविधि यथायोग्यं भोज्यम् तत्तद्वाहनानुगुणं भोज्यमित्यर्थ: । हयादीन् अभोजयन् । ण्यन्तत्वाद्द्विकर्मकत्वम् । सुरभे: सुतान् वृषभान् ।। 2.91.54 ।।

इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।

इक्ष्वाकुवरयोधानां चोदयन्तो महाबला: ।। 2.91.55 ।।

महाबला: ऋषिप्रभावसिद्धवाहनपा: । इक्ष्वाकुवरयोधानां वाहनान् वाहनानि । इक्षून् मधुलाजान् मधुमिश्रलाजान् । “भक्ष्येण मिश्रीकरणम्” इति समास: । चोदयन्त: भक्षणार्थं प्रेरयन्त: सन्त: भोजयन्ति स्म ।। 2.91.55 ।।

नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: ।

मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ ।। 2.91.56 ।।

अश्वं बघ्नातीत्यश्वबन्ध: अश्वग्राहक: । नाजानात् न ज्ञातवान् । तत्र हेमतुमाह मत्तेति । मदकरद्रव्यसेवया मत्ता: प्रमत्ता: मधुपानादिना कार्य्याकार्य्यविवेकशून्या: । मुदिता: स्रक्चन्दनादिभोगातिशयेन हृष्टा: । तत्र तदा ।। 2.91.56 ।।

तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: ।

अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन् ।। 2.91.57 ।।

तर्पिता इति । अप्सरोगणा: वनलताभूता: न त्वाहूता:, तासां भरतवेश्मप्रवेशकथनात् । सैन्या: सेनायां समवेता: । उदैरयन् उक्तवन्त: ।। 2.91.57 ।।

नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।

कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ।। 2.91.58 ।।

इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: ।

अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ।। 2.91.59 ।।

उदीरणप्रकारमाह–नेत्यादिना । न गमिष्याम इत्यत्र विसर्गलोपश्छान्दस: । भरतस्य कुशलमस्तु भरतो यथातथावा तिष्ठत्वित्यर्थ: । एव रामस्येत्यत्रापि । पादाभ्यामतन्तीति पादात्ता: । “अत सातत्यगमने” इति धातु: । ते च ते योधाश्च पादातयोधा: । चकाराद्रथिकसमुच्चय: । हस्त्यश्वानामारोहा: सादिन: हस्त्यादिबन्धका: तद्भृत्या: तं विधिं सत्कारं लब्ध्वा अनाथा: स्वामिरहिता:, स्वतन्त्रा इति यावत् । नैवायोध्यामित्येतां वाचमुदैरयन्निति सम्बन्ध: ।। 2.91.5859 ।।

सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: ।

भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन् ।। 2.91.60 ।।

नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: ।

समन्तात् परिधावन्ति माल्योपेता: सहस्रश: ।। 2.91.61 ।।

सम्प्रहृष्टा इति । विनेदु: जगर्जु: ।। 2.91.6061 ।।

ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।

दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति: ।। 2.91.62 ।।

तत इति । तदन्नं पूर्वोक्तभक्ष्यादिचतुर्विधान्नम् । भक्षणे पुनर्भक्षणे । मतिरभवत्, भक्ष्यसौष्ठवादिति भाव: ।। 2.91.62 ।।

प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: ।

बभूवुस्ते भृशं दृप्ता: सर्वे चाहतवासस: ।। 2.91.63 ।।

प्रेष्या: परिचारका: । चेट्य: दास्य: । वध्व: योधाङ्गना: । बले सेनायां तिष्ठन्तीति बलस्था: । सर्वविशेषणमेतत् । अहतवासस: नूतनवस्त्रा: । यद्वा आहतवासस: निर्णिक्तवासस: ।। 2.91.63 ।।

कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: ।

बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ।। 2.91.64 ।।

नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा ।

रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत ।। 2.91.65 ।।

कुञ्जरा इति । खरसहितोष्ट्रा: खरोष्ट्रा: । मृगपक्षिण: क्रीडार्थं सैनिकैरानीता: । सुभृता: सुतृप्ता: सुपुष्टा वा । तत्र सेनायाम् । अन्य: अन्यं नाकल्पयत् ऋषिकृतव्यतिरिक्तम् अन्नादिकं नाकरोदित्यर्थ: ।। 2.91.6465 ।।

आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: ।

फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै: ।। 2.91.66 ।।

पुष्पध्वजवती: पूर्णा: शुक्लस्यान्नस्य चाभित: ।

ददृशुर्विस्मितास्तत्र नरा लौही: सहस्रश: ।। 2.91.67 ।।

आजैरित्यादिश्लोकद्वयमेकान्वयम् । आजै: अजमांसै: । वाराहै: वराहमांसै: । निष्ठानवरसञ्चयै: व्यञ्जनश्रेष्ठसमूहै: । “निष्ठानं व्यञ्जनं स्मृतम्” इति हलायुध: । फलनिर्यूहसंसिद्धै: सम्यङ्निष्पन्नफलयुक्तशर्करादिक्वाथरसै: । “द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके” इति वैजयन्ती । सूपै: मुद्गाढकीचणकादिसूपै: । गन्धरसान्वितै: पाकभेदोत्थगन्थरसयुक्तै: । पुष्पध्वजवती: अलङ्कारार्थपरिकल्पितपुष्पशिल्पवती: । शुक्लस्यान्नस्य पूर्णा: शुक्लेनान्नेन च पूर्णा: । लौही लोहमयपात्री: । सर्वलोहेषु प्रधानत्वात् सुवर्णमत्र लोहशब्देनोच्यते ।। 2.91.6667 ।।

बभूवुर्वनपार्श्वेषु कूपा: पायसकर्दमा: ।

ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुत: ।। 2.91.68 ।।

बभूवुरिति । पायसान्येव कर्दमानि येषु ते तथोक्ता: ता: । गाव: पूर्वमेव वनचर्य्य: कामदुघा: यावदभीष्टक्षीरपुरका: आसन् । “दुह: कब्घश्च” मधुस्रुत: मधुस्राविण: । (मधुश्च्युत: मधुस्राविण:) ।। 2.91.68 ।।

वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृता: ।

प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटै: ।। 2.91.69 ।।

वाप्य इति । अत्रासन्नित्यनुषज्यते । प्रतप्तपिठरै: प्रतप्तपिठरसंस्कृतै: “संस्कृतं भक्षा:” इत्यण् । तस्य लुक् । पिठरा: कुण्डानि । “उखा स्थाली चरु: कुम्भी पिठर: कुण्डमुच्यते” इति हलायुध: । मार्गमायूरकौक्कुटै: मृगमयूरकुक्कुटमांसै: ।। 2.91.69 ।।

पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।

न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ।। 2.91.70 ।।

स्थाल्य: कुम्भ्य: करम्भ्यश्च दधिपूर्णा: सुसंस्कृता: ।

यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिन: ।। 2.91.71 ।।

ह्रदा: पूर्णा रसालस्य दघ्न: श्वेतस्य चापरे ।

बभूवु: पायसस्यान्ये शर्करायाश्च सञ्चया: ।। 2.91.72 ।।

पात्रीणामित्यारभ्य सञ्चया इत्यन्तमेकं वाक्यम् । पात्रीणाम् अन्नधानकुम्भीनाम् । स्थालीनां व्यञ्जनपात्राणाम् । नियुतानि लक्षाणि । न्यर्बुदानि दशकोट्य: । पात्राणि भोजनपात्राणि, अमत्राणीति यावत् । दधिपूर्णा इति स्थाल्यादित्रयविशेषणम् । स्थाल्य: पिठरा: । कुम्भ्य: क्षुद्रकुम्भा: । करम्भ्य: विशालास्यगुरुस्थाल्य: । करम्भ्य: कर्कर्य इत्याहु: । सुसंस्कृता: दधिसंस्कारकशुण्ठ्यादियुक्ता: । यौवनस्थस्य नातिनूतनस्य नातिपुराणस्येत्यर्थ: । मथनानन्तरं यामान्तरितस्येत्यर्थ: । कपित्थस्य कपित्थपरिमलयुक्ततक्रस्येत्यर्थ: । “तक्रं कपित्थं मथित्तम्” इति वैजयन्ती: । गौरस्य शुभ्रस्य । रसालस्य तक्रविशेषस्य । “अपक्वतक्रं सव्योषं चतुर्जातं गुडार्द्रकम् । सजीरकं रसालं स्यान्मज्जिका शिखरिण्यपि ।।” इति वैजयन्ती। सव्योषं शुण्ठीपिप्पलीमरिचियुक्तम्। चतुर्जातगुडार्द्रकं चतुर्जातै: एलालवङ्गकक्कोलनागपुष्पै: गुडेन शर्करया आर्द्रकेन च युक्तम्। कपित्थेन पूर्णा: अपरे ह्रदा बभूवु:। रसालेन पूर्णा अपरे ह्रदा बभूवु:। दध्ना पूर्णाश्चापरे ह्रदा:। अन्ये पायसेन पूर्णा:। पायसस्यान्य इति पाठ:। सर्वत्र तृतीयार्थे षष्ठी। तद्व्यञ्जनार्थं शर्कराया: सञ्चया: राशयश्च बभूवुरित्यर्थ:। शर्करायावसञ्चया इति च पाठ:। शर्करामिश्रयवविकारापूपसञ्चया इत्यर्थ: ।। 2.91.7072 ।।

कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।

ददृशुर्भाजनस्थानि तीर्थेषु सरितां नरा: ।। 2.91.73 ।।

कल्कानिति । कल्कान् आमलक्यादिकल्कान् । चूर्णकषायान् चूर्णानि माषादिचूर्णानि कषाया: क्वथितानि । स्नान्त्येभिरिति स्नानानि । तैलोष्णोदकादीनि । भाजनस्थानि कटाहादिमहापात्रस्थानि । तीर्थेषु अवतारेषु ।। 2.91.73 ।।

शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।

शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठत: ।। 2.91.74 ।।

दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ।

पादुकोपानहश्चैव युग्मानि च सहस्रश: ।। 2.91.75 ।।

आञ्जनी: कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च ।

मर्मत्राणानि चित्राणि शयनान्यासनानि च ।। 2.91.76 ।।

प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।

अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ।। 2.91.77 ।।

आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् ।

नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ।। 2.91.78 ।।

निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वश: ।। 2.91.79 ।।

शुक्लानिति । शुक्लान् निर्मलान् । अंशुमत: कूर्चवत: । दन्तधावनसञ्चयान् दन्तकाष्ठसमूहान् । स्नानानन्तरमलङ्कारोपकरणानि दर्शयति–शुक्लानिति । चन्दनकल्कान् चन्दनपङ्कान् । समुद्गेषु सम्पुटकेषु । “समुद्गक: सम्पुटक:” इत्यमर: । अवतिष्ठत: वर्त्तमानान् । परिमृष्टान् निर्मलीकृतान् । पादुका: दारुनिर्म्मिता: उपानहश्चर्म्मनिर्म्मिता: । युग्मानि द्वन्द्वानि । आञ्जनी: अञ्जनयुक्ता: करण्डिका: । कङ्कतान् केशमार्जनान् । “कङ्कत केशमार्जनम् ।” इति निघण्टु: । कूर्चान् स्नानाद्युपयुक्तासनानि श्मश्रुप्रसाधकान् वा । शस्त्राणि योधैरलङ्कारार्थं धार्य्याणि । मर्मत्राणानि कवचादीनि । प्रतिपानह्रदान् ग्रासग्रहणानन्तरं भुक्तजीर्णार्थं पानार्हह्रदान् । अवगाह्यसुतीर्थान् अवगाहनयोग्यावतारप्रदेशयुक्तान् । सोत्पलपुष्करान् उत्पलमिन्दीवरम्, पुष्करं पद्मम् । आकाशवर्णप्रतिमान् आकाशवन्निर्म्मलानित्यर्थ: । सुखप्लवान् सुखेन प्लव: स्नानं येषु तथोक्तान् । यवससञ्चयान् तृणसमूहान् । “यवसंतृणमर्ज्जुनम्” इत्यमर: । पशूनां निर्वापार्थान् पशुभ्यो विश्राणनार्थान् ।। 2.91.7479 ।।

व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।

दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ।। 2.91.80 ।।

इत्येवं रममाणानां देवानामिव नन्दने ।

भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ।। 2.91.81 ।।

व्यस्मयन्तेति । स्वप्नकल्पत्वोक्तिरयत्नसिद्धत्वात् अपूर्वत्वात् आश्चर्य्यकरत्वाच्च तादृक् वाचामभूमिम् । भरतस्य भरताय ।। 2.91.8081 ।।

प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।

भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गना: ।। 2.91.82 ।।

प्रतिजग्मुरिति । अनुज्ञाप्य अनुज्ञां कारयित्वा ।। 2.92.82 ।।

तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिता: ।

तथैव दिव्या विविधा: स्रगुत्तमा: पृथक् प्रकीर्णा मनुजै: प्रमर्दिता: ।। 2.91.83 ।।

इदं चातिथ्यकरणमैन्द्रजालिकवन्न मिथ्येत्याह–तथैवेति । मत्ता: दृप्ता: भोगैस्तृप्ता: मदिरोत्कटाश्च मद्येन मत्ताश्च । “मत्ते शौण्डोत्कटक्षीबा:” इत्यमर: । तथैव अनुभवकाल इवावर्त्तिषतेत्यर्थ: । प्रमर्दिता: प्रकीर्णाश्च भोगवशादिति भाव: । पृथक् पूर्वस्रग्भ्यो विलक्षणा: ।। 2.91.83 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितम: सर्ग: ।। 91 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकनवतितम: सर्ग: ।। 91 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.