112 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशोत्तरशततम: सर्ग:

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।

विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ।। 2.112.1 ।।

अथ भरतस्य समाधानं कृत्वा प्रस्थापनं द्वादशोत्तरशततमे–तमित्यादि । भातृभ्यां सङ्गमं भातृभ्यामन्योन्यसौहार्देन कृतं सङ्गमं प्रेक्ष्य विस्मिता अभूवन्निति शेष: ।। 2.112.1 ।।

अन्तर्हितास्त्वृषिगणा: सिद्धाश्च परमर्षय: ।

तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ।। 2.112.2 ।।

अन्तर्हिता इति । अन्तर्हिता: पूर्वमेवान्तर्धानं प्राप्ता: ऋषिगणा: राजर्षिगणा: सिद्धा: देवजातिविशेषा: । परमर्षय: देवर्षय: । इदमुत्तरत्र “एतावदुक्त्वा वचनं गन्धर्वा: सहमर्षय: । राजर्षयश्चैव” इत्यत्र व्यक्तीभविष्यति ।। 2.112.2 ।।

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।

श्रुत्वा वयं हि सम्भाषामुभयो: स्पृहयामहे ।। 2.112.3 ।।

स धन्य इति । धर्मविक्रमौ धर्मशूरौ । वयमुभयो: सम्भाषां श्रुत्वा स्पृहयामहे पुन:पुन: श्रोतुं वाञ्छाम इत्यर्थ: । वयं ययोरुभयो: सम्भाषां श्रुत्वा स्पृहयामहे तादृशौ धर्मज्ञौ धर्मविक्रमौ द्वौ पुत्रौ यस्य स धन्य इत्यन्वय: ।। 2.112.3 ।।

ततस्त्वृषिगणा: क्षिप्रं दशग्रीववधैषिण: ।

भरतं राजशार्दूलमित्यूचु: सङ्गता वच: ।। 2.112.4 ।।

तत इति । सङ्गता: ऐककण्ठ्यं प्राप्ता: ।। 2.112.4 ।।

कुले जात महाप्राज्ञ महावृत्त महायश: ।

ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ।। 2.112.5 ।।

सदानृणमिमं रामं वयमिच्छामहे पितु: ।

अनृणत्वाच्च कैकेय्या: स्वर्गं दशरथो गत: ।। 2.112.6 ।।

एतावदुक्त्वा वचनं गन्धर्वा: समहर्षय: ।

राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गता: ।। 2.112.7 ।।

ह्लादितस्तेन वाक्येन शुभेन शुभदर्शन: ।

राम: संहृष्टवदनस्तानृषीनभ्यपूजयत् ।। 2.112.8 ।।

कुल इति । पितरं यद्यवेक्षसे पितरं सुखास्थितं यदि मन्यस इत्यर्थ: ।। 2.112.58 ।।

स्रस्तगात्रस्तु भरत: स वाचा सज्जमानया ।

कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ।। 2.112.9 ।।

स्रस्तगात्र इति । सज्जमानया स्खलन्त्या स्वमनोरथस्य सर्वथा असिद्धत्वात् शिथिलगात्रत्वं

सज्जमानवाक्त्वं च ।। 2.112.9 ।।

राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।

कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ।। 2.112.10 ।।

रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।

पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ।। 2.112.11 ।।

राजधर्ममिति । राजधर्मं राज्यपरिपालनधर्मम् । कुलधर्मानुसन्ततिं ज्येष्ठाभिषेकरूपकुलधर्मस्यानुस्यूतिम् ।। 2.112.1011 ।।

ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च न: ।

त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षका: ।। 2.112.12 ।।

इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।

शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ।। 2.112.13 ।।

ज्ञातय इति । सुहृद: शोभनहृदया: । पर्जन्यं रसदब्दम् इन्द्रं वा । “पर्जन्यौ रसदब्देन्द्रौ” इत्यमर: ।। 2.112.1213 ।।

इत्युक्त्वा न्यपतद् भ्रातु: पादयोर्भरतस्तदा ।

भृशं सम्प्रार्थयामास राममेव प्रियंवद: ।। 2.112.14 ।।

एवं स्वबुद्धिशक्त्युपन्यस्तोपायान्तरवैफल्यदर्शनेन गत्यन्तराभावात् भरतो राममेव प्रपद्यत इत्याह– इत्युक्त्वेति ।। 2.112.14 ।।

तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् ।

श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ।। 2.112.15 ।।

तमङ्क इति । स्वप्रदनस्यामोघत्वात् तदानीं पूर्वकृतदेवसङ्घशरणागतिफलप्रदानप्रवृत्त्यनुकूलपितृवचनपरिपालनावरुद्धावसरतया तन्निर्वर्तनानन्तरं फलप्रदित्सुस्तावद्विलम्बसहनाय सान्त्वपूर्वमङ्कमारोपयति । रामदिव्यदेहसंस्पर्शकृतपुष्ट्यतिशयद्योतनाय श्याममित्यादिविशेषणम् । मत्तहंसस्वरत्वामादरातिशयं द्योतयति । किञ्च स्वररामणीयकेन पूर्वहंसभूतावस्थासूचकेन सदा त्वत्करपुष्करहंसभूतमपि मां कथं वियोजयितुमिच्छसीति च सूच्यते । स्वयमङ्के कृत्वेत्यन्वय: ।। 2.112.15 ।।

आगता त्वामियं बुद्धि: स्वजा वैनयिकी च या ।

भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ।। 2.112.16 ।।

आगतेति । स्वजा सहजा । वैनयिकी विनयो गुरुशिक्षा तत: प्राप्ता इयमुभयाकारा बुद्धि: । त्वामागता त्वां पूर्वमेव प्राप्तवती, अतो भृशमुत्सहसे शक्नोषि ।। 2.112.16 ।।

अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभि: ।

सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ।। 2.112.17 ।।

अमात्यैरिति । अमात्यै: प्रधानसचिवै: । मन्त्रिभि: उपमन्त्रिभि: ।। 2.112.17 ।।

लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् ।

अतीयात् सागरो वेलां न प्रतिज्ञामहं पितु: ।। 2.112.18 ।।

मया देवर्षिसङ्घैश्च पुन:पुनरुच्यमानोप्ययं निवर्त्तनेच्छां न त्यजेदिति तदिच्छा सवासना त्याजयितव्येति स्वप्रतिज्ञादार्ढ्यं दर्शयति–लक्ष्मीरित्यादिना । न प्रतिज्ञाम् अतीयामिति शेष: ।। 2.112.18 ।।

कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् ।

न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ।। 2.112.19 ।।

स्त्रिया कामकृतत्वात्त्यक्तुमियं प्रतिज्ञार्हेत्याशङ्क्याह–कामादित्यादिना । कामात् त्वद्विषयस्नेहात् । लोभात् त्वद्व्याजेन राज्यकरणलोभात् । मातृवत् मातरीव ।। 2.112.19 ।।

एवं ब्रुवाणं भरत: कौसल्यासुतमब्रवीत् ।

तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ।। 2.112.20 ।।

एवमिति । तेजसादित्यसङ्काशमित्यनेनानिवर्त्त्यप्रतिज्ञत्वमुच्यते । प्रतिपच्चन्द्रदर्शनमित्यनेन क्रमेण राज्ये पूर्णप्रतिष्ठत्वं सर्वैरपि पूज्यत्वं च द्योत्यते ।। 2.112.20 ।।

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।

एते हि सर्वलोकस्य योगक्षेमं विधास्यत: ।। 2.112.21 ।।

अथ मध्यस्थेनोभयोर्हितपरेण वसिष्ठेन नियुक्तो भरत: प्रार्थयते–अधिरोहेत्यादिना । अत एव भरद्वाजं प्रति भरतो वसिष्ठोक्तिमनुवदिष्यति– “एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते” इति ।। 2.112.21 ।।

सो ऽधिरुह्य नरव्याघ्र: पादुके ह्यवरुह्य च ।

प्रायच्छत् सुमहातेजा भरताय महात्मने ।। 2.112.22 ।।

अथ राम: स्वप्रतिज्ञां भरतकृतप्रपत्तिं च निर्वहन् तथा करोति–स इति । प्रायच्छद्गृहाणेत्यन्वयुङ्क्त ।। 2.112.22 ।।

स पादुके सम्प्रणम्य रामं वचनमब्रवीत् ।

चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ।। 2.112.23 ।।

फलमूलाशनो वीर भवेयं रघुनन्दन ।

तवागमनमाकांक्षन् वसन् वै नगराद्बहि: ।। 2.112.24 ।।

तव पादुकयोर्न्यस्तराज्यतन्त्र: परन्तप ।

चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम ।

न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ।। 2.112.25 ।।

तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ।

शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ।। 2.112.26 ।।

मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ।

मया च सीतया चैव शप्तो ऽसि रघुसत्तम ।। 2.112.27 ।।

इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ह ।। 2.112.28 ।।

स पादुके ते भरत: प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् ।

प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ।। 2.112.29 ।।

अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ ।

व्यसर्जयद्राघववंशवर्द्धन: स्थिर: स्वधर्मे हिमवानिवाचल: ।। 2.112.30 ।।

तं मातरो बाष्पगृहीतकण्ठ्यो दु:खेन नामन्त्रयितुं हि शेकु: ।

स त्वेव मातृ़रभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश राम: ।। 2.112.31 ।।

स इत्यादिसार्धश्लोकत्रयमेकान्वयम् । चदुर्दशे वर्षे सम्पूर्णे सति अहनि उत्तरवर्षादिमदिने । प्रवेक्ष्यामीत्यन्ते इतिकरणम् । इत्यब्रवीदिति पूर्वेणान्वय: ।। 2.112.2331 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशोत्तरशततम: सर्ग: ।। 112 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वादशोत्तरशततम: सर्ग: ।। 112 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.