52 Sarga अयोध्याकाण्डम्

श्रीरामायणे श्रीमदयोध्याकाण्डे द्विपञ्चाश: सर्ग:

प्रभातायां तु शर्वर्यां पृथुवक्षा महायशा: ।

उवाच राम: सौमित्रिं लक्ष्मणं शुभलक्षणम् ।। 2.52.1 ।।

प्रभातायामिति । पृथुवक्षा इत्युत्साहातिरेकोक्ति: । महायशा इति धर्मव्यतिक्रमाभाव: सूचित: । सौमित्रिमिति “रामं दशरथं विद्धि” इत्यादिनोक्तार्थानुष्ठायित्वं सूचितम् । शुभलक्षणमित्यनेन स्वभक्तिरुक्ता ।। 2.52.1 ।।

भास्करोदयकालो ऽयं गता भगवती निशा ।

असौ सुकृष्णो विहग: कोकिलस्तात कूजति ।। 2.52.2 ।।

भास्करोदयकाल इति । भास्करशब्दो ऽयं तत्सम्बन्ध्यरुणवाची । गता गतप्राया । भगवती कामवर्धिनी । “भग: श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु” इत्यमर: । सुकृष्णो विहग: भरद्वाज: । कोकिल: कोकिलश्चेत्यर्थ: ।। 2.52.2 ।।

बर्हिणानां च निर्घोष: श्रूयते नदतां वने ।

तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम् ।। 2.52.3 ।।

वने नदतामिति नगरस्थक्रीडामयूरव्यावृत्तगम्भीरध्वनिरुक्ता । शीघ्रगामिति नावं विना दुस्तरत्वोक्ति: । सागरङ्गमामिति महत्त्वोक्ति: ।। 2.52.3 ।।

विज्ञाय रामस्य वच: सौमित्रिर्मित्रनन्दन: ।

गुहमामन्त्र्य सूतं च सो ऽतिष्ठद्भ्रातुरग्रत: ।। 2.52.4 ।।

वचो विज्ञाय नदीतरणसाधनं शीघ्रमानेतव्यमित्येवं रूपं वचनतात्पर्यं ज्ञात्वा गुहं सूतं चामन्त्र्य युवाभ्यामपि रामवचनतात्पर्यं ज्ञातं किमिति सम्बोध्य भ्रातुरग्रतो ऽतिष्ठत् ।। 2.52.4 ।।

स तु रामस्य वचनं निशम्य प्रतिगृह्य च ।

स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत् ।। 2.52.5 ।।

स त्विति । प्रतिगृह्य शिरोनतिपूर्वकं तथैव करिष्यामीत्यङ्गीकृत्य ।। 2.52.5 ।।

अस्य वाहनसंयुक्तां कर्णग्राहवतीं शुभाम् ।

सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर ।। 2.52.6 ।।

तं निशम्य गुहादेशं गुहामात्यगणो महान् ।

उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत् ।। 2.52.7 ।।

तत: स प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।

उपस्थितेयं नौर्देव भूय: किं करवाणि ते ।। 2.52.8 ।।

अस्येति । अस्य रामस्य । वाहनसंयुक्तां वाह्यते नीयते ऽनेनेति वाहनमरित्रादि तेन संयुक्ताम् । कर्णग्राहवतीं कर्णमरित्रं गृह्णातीति कर्णग्राह: कर्णधार: तद्वतीम् । “कर्णं श्रोत्रमरित्रं च” इति निघण्टु: । सुप्रतारां सुष्ठु तारयितुं समर्थाम् । दृढां सुश्लिष्टसन्धिबन्धाम् । तीर्थे अवतारमार्गे । उपाहरेत्येकवचनं सचिवगणाभिप्रायेण ।। 2.52.68 ।।

तवामरसुतप्रख्य तर्तुं सागरगां नदीम् ।

नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत ।। 2.52.9 ।।

तवेति । नौरियमिति उपस्थितेति शेष: ।। 2.52.9 ।।

अथोवाच महातेजा रामो गुहमिदं वच: ।

कृतकामो ऽस्मि भवता शीघ्रमारोप्यतामिति ।। 2.52.10 ।।

अथेति । आरोप्यतामिति खनित्रपिटकवैदेहीवस्त्राभरणादिकमिति शेष: ।। 2.52.10 ।।

तत: कलापान् सन्नह्य खड्गौ बद्ध्वा च धन्विनौ ।

जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ।। 2.52.11 ।।

तत इति । तौ राघवौ । सन्नह्य कवचौ धृत्वा, कलापान् तूणीरान् खड्गौ च बद्ध्वा धन्विनौ जना: येन मार्गेण गङ्गां प्राप्नुवन्ति तेन मार्गेण जग्मतु: ।। 2.52.11 ।।

राममेवं तु धर्मज्ञमुपगम्य विनीतवत् ।

किमहं करवाणीति सूत: प्राञ्जलिरब्रवीत् ।। 2.52.12 ।।

राममिति । धर्मज्ञं भृत्यधर्मज्ञम् । विनीतवत् सविनयमिति क्रियाविशेषणम् ।। 2.52.12 ।।

ततो ऽब्रवीद्दाशरथि: सुमन्त्रं स्पृशन् करेणोत्तम दक्षिणेन ।

सुमन्त्र शीघ्रं पुनरेव याहि राज्ञ: सकाशे भव चाप्रमत्त: ।। 2.52.13 ।।

तत इति । उत्तमेति सम्बोधनम् ।। 2.52.13 ।।

निवर्त्तस्वेत्युवाचैनमेतावद्धि कृतं मम ।

रथं विहाय पद्भ्यां तु गमिष्यामो महावनम् ।। 2.52.14।।

याहीति सामान्येनोक्तं सोपपत्तिकमाह–निवर्तस्वेति । मम एतावत् कृतं हि गङ्गातीरपर्यन्तं रथेन प्रापणं कृतं हि । हीति राजाज्ञाद्योतनम् । अत:परं यानं विहाय पद्भ्यामेव महावनं गमिष्याम: । अतस्त्वं निवर्तस्वेत्येवमुवाच ।। 2.52.14 ।।

आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्त: स सारथि: ।

सुमन्त्र: पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् ।। 2.52.15 ।।

आत्मानमिति । अवेक्ष्य बुद्ध्वा । आर्त्त: अनुगमने ऽभ्यनुज्ञा न कृतेति दु:खित: ।। 2.52.15 ।।

नातिक्रान्तमिदं लोके पुरुषेणेह केनचित् ।

तव सभ्रातृभार्यस्य वास: प्राकृतवद्वने ।। 2.52.16 ।।

नातिक्रान्तमिति । तव सभ्रातृभार्यस्य वने प्राकृतवत् क्षुद्रस्येवयो ऽयं वास: तदिदं लोके केनचिदपि पुरुषेण नातिक्रान्तं नाङ्गीकृतम्, सर्वासम्मतो ऽयं तव वने वास इत्यर्थ: । किंपुनर्ममेति भाव: ।। 2.52.16 ।।

न मन्ये ब्रह्मचर्ये ऽस्ति स्वधीते वा फलोदय: ।

मार्द्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् ।। 2.52.17 ।।

न मन्य इति । त्वां ब्रह्मचर्यस्वाध्यायमार्दवार्जवयुक्तं त्वां व्यसनमागतं चेत् ब्रह्मचर्य्ये अध:शयनादिलक्षणे अध्ययनकालकृते । स्वधीते स्वाध्यायाध्ययने । मार्दवे दयालुत्व इति यावत् । आर्जवे अकौटिल्ये च । फलोदय: । फलसिद्धिर्नास्तीति मन्ये, यदि ब्रह्मचर्यादिकं फलदं स्यात् तत् त्वयि दृश्येत, न दृश्यते प्रत्युत वनवास एव दृष्ट: । अतो न तत् फलदमिति मन्ये इति भाव: । खेदातिशयादेवमुक्तम् ।। 2.52.17 ।।

सह राघववैदेह्या भ्रात्रा चैव वने वसन् ।

त्वं गतिं प्राप्स्यसे वीर त्रील्लोँकांस्तु जयन्निव ।। 2.52.18 ।।

सहेति । त्रीन् लोकान् जयन्निव विष्णुरिवेत्यर्थ: । गम्यत इति गति: । कीर्ति: तां प्राप्स्यसे, अतुलां कीर्तिं प्राप्स्यस इत्यर्थ: । सुमन्त्र: पुरवासिष्वात्मानमन्तर्भाव्य वदति ।। 2.52.18 ।।

वयं खलु हता राम ये त्वयाप्युपवञ्चिता: ।

कैकेय्या वशमेष्याम: पापाया दु:खभागिन: ।। 2.52.19 ।।

इति ब्रुवन्नात्मसमं सुमन्त्र: सारथिस्तदा ।

दृष्ट्वा दूरगतं रामं दु:खार्त्तो रुरुदे चिरम् ।। 2.52.20 ।।

वयमिति । वयं त्वामनुगता वयं त्वयाप्युपवञ्चिता: खलु रात्रौ निद्रासमये अविदितगमनेन उपवञ्चिता एव ।

अपिशब्दादभिषेकविघटनेन कैकेय्यापि वञ्चिता इति द्योत्यते । उपवञ्चिता: समीपे वञ्चिता: । वनं प्रापय्यमाना इव त्यक्ता इति वार्थ: । अत एव पापाया: कैकेय्या वशं दु:खभागिन: सन्त: एष्याम:, अतो वयं हता इत्यन्वय: ।। 2.52.1920 ।।

ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् ।

रामस्तु मधुरं वाक्यं पुन:पुनरुवाच तम् ।। 2.52.21 ।।

इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये ।

यथा दशरथो राजा मां न शोचेत्तथा कुरु ।। 2.52.22 ।।

शोकोपहतचेताश्च वृद्धश्च जगतीपति: ।

कामभारावसन्नश्च तस्मादेतद्ब्रवीमि ते ।। 2.52.23 ।।

तत इति । रोदनस्याशुचिताहेतुत्वात् स्पृष्टोदकम् आचान्तम्, अत एव शुचिम् ।। 2.52.2123 ।।

यद्यदाज्ञापयेत्किञ्चित् स महात्मा महीपति: ।

कैकेय्या: प्रियकामार्थं कार्यं तदविकांक्षया ।। 2.52.24 ।।

गुरव: स्वामिनश्च न नियम्या: अपि तु सर्वप्रकारेणानुवर्त्तनीया इत्याशयेनाह–यद्यदिति । विकाङ्क्षा अनादर: तदभावेन, आदरेणेत्यर्थ: ।। 2.52.24 ।।

एतदर्थं हि राज्यानि प्रशासति नरेश्वरा: ।

यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ।। 2.52.25 ।।

एतदिति । एतच्छब्दार्थमाह यदेशामिति । प्रशासतीति अभ्यस्तत्वाददादेश: । सर्वकृत्येषु कामात् क्रोधाद्वा प्रवृत्तेष्वित्यर्थ: ।। 2.52.25 ।।

यद्यथा स महाराजो नालीकमधिगच्छति ।

न च ताम्यति दु:खेन सुमन्त्र कुरु तत्तथा ।। 2.52.26 ।।

यदिति । अलीकमप्रियम् । “अलीकं त्वप्रिये ऽनृते” इत्यमर: ।। 2.52.26 ।।

अदृष्टदु:खं राजानं वृद्धमार्यं जितेन्द्रियम् ।

ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वच: ।। 2.52.27 ।।

अदृष्टदु:खमिति । मम हेतो: मदर्थं । मम प्रतिनिधित्वेनेत्यर्थ: ।। 2.52.27 ।।

नैवाहमनुशोचामि लक्ष्मणो न च मैथिली ।

अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति च ।। 2.52.28 ।।

स्वविश्लेषजनितदु:खेन राजा न निर्वहेदिति भिया तदाश्वासकानि वाक्यान्याह–नैवाहमिति । लक्ष्मणो न च मैथिलीत्यत्र शोचतीति विपरिणाम: कर्त्तव्य: । वत्स्यामहेत्यत्र आर्ष: सन्धि: ।। 2.52.28 ।।

चतुर्दशसु वर्षेषु निवृत्तेषु पुन:पुन: ।

लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ।। 2.52.29 ।।

चतुर्दशस्विति । पुन:पुनर्द्रक्ष्यसि “नित्यवीप्सयो:” इति द्विवचनम् । आदरातिशयेन सदा द्रक्ष्यसीत्यर्थ: ।। 2.52.29 ।।

एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे ।

अन्याश्च देवी: सहिता: कैकेयीं च पुन:पुन: ।। 2.52.30 ।।

आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् ।

सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च ।। 2.52.31 ।।

एवमित्यादि । राजानं मे मातरम् अन्या: देवी: सहिता: कौसल्यया सह वर्तमाना: कैकेयीं च पुन:पुनरेवमुक्त्वा अथ कौसल्यामारोग्यं पादाभिवन्दनं च ब्रूहीत्यन्वय: । आर्यस्य शास्त्रोदितज्येष्ठानुवर्त्तनरूपपरमधर्मवेदित्वात् लक्ष्मणस्यार्यत्वोक्ति: । कौसल्यां प्रत्येव पादाभिवन्दनकथनम् अन्यत्र निषेधात् । “आचार्यवदाचार्यदारे वृत्ति: पादसंवाहनवर्जम्” इति निषेधस्य सपत्नीमातृष्वपि तुल्यत्वात् ।। 2.52.3031 ।।

ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय ।

आगतश्चापि भरत: स्थाप्यो नृपमते पदे ।। 2.52.32 ।।

भरतं च परिष्वज्य यौवराज्ये ऽभिषिच्य च ।

अस्मत्सन्तापजं दु:खं न त्वामभिभविष्यति ।। 2.52.33 ।।

ब्रूया इति । नृपमते राज्ञामभिमते । पदे यौवराज्य इत्यर्थ: । अभिषिच्य स्थितमिति शेष: । नाभिभविष्यतीत्यत्रेतिकरणं द्रष्टव्यम् । अस्य ब्रूया इत्यनेन सम्बन्ध: ।। 2.52.3233 ।।

भरतश्चापि वक्तव्यो यथा राजनि वर्त्तसे ।

तथा मातृषु वर्तेथा: सर्वास्वेवाविशेषत: ।। 2.52.34 ।।

यथा च तव कैकेयी सुमित्रा च विशेषत: ।

तथैव देवी कौसल्या मम माता विशेषत: ।। 2.52.35 ।।

तातस्य प्रियकामेन यौवराज्यमवेक्षता ।

लोकयोरुभयो: शक्यं नित्यदा सुखमेधितुम् ।। 2.52.36 ।।

निवर्त्यमानो रामेण सुमन्त्र: शोककर्शित: ।

तत्सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत् ।। 2.52.37 ।।

भरत इत्यादिश्लोकेनोक्तमर्थं विवृणोति–यथेति । सुमित्रोक्ति: शत्रुघ्नपक्षपातात् । अवेक्षता अङ्गीकुर्वता त्वयेति शेष: । नित्यदा सर्वदा । छान्दसो दाप्रत्यय: । इति भरतश्चापि वक्तव्य इति पूर्वेणान्वय: ।। 2.52.3437 ।।

यदहं नोपचारेण ब्रूयां स्नेहादविक्लव: ।

भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि ।। 2.52.38 ।।

यदिति । अहमविक्लव: धृष्टस्सन् यद्वाक्यं ब्रूयां तन्नोपचारेण किंतु स्नेहात् । तद्वाक्यं त्वं तावत् साकल्येन क्षन्तुमर्हसीति सम्बन्ध: । (पाठभेद: । तवस्नेहादविक्लवो निर्भय: यद्वच: उपचारेण न ब्रूयाम् । सेवाधर्मं विहाय

ब्रूयाम् । तद्वाक्यं भक्तिमानिति हेतो: क्षन्तुमर्हसि) ।। 2.52.38 ।।

कथं हि त्वद्विहीनो ऽहं प्रतियास्यामि तां पुरीम् ।

तव तावद्वियोगेन पुत्रशोकाकुलामिव ।। 2.52.39 ।।

कथमिति । तवतावद्वियोगेनेतिपाठ: । तव तातेतिपाठे–तात स्वामिन्नित्यर्थ: । वृद्धत्वाद्वत्सेति सम्बोधनंपव वा । पुत्रवियोगज: शोक: पुत्रशोक: तेनाकुलामिव स्थितां पुरीमित्यन्वय: ।। 2.52.39 ।।

सराममपि तावन्मे रथं दृष्ट्वा तदा जन: ।

विना रामं रथं दृष्ट्वा विदीर्य्येतापि सा पुरी ।। 2.52.40 ।।

स राममिति । पूर्वं सरामं रथं दृष्ट्वा इदानीं रामं विना स्थितं रथं दृष्ट्वा जन: सा पुर्यपि विदीर्येत दु:खेन भिद्येत । पुरीशब्दो ऽत्र जनव्यतिरिक्तपश्वादिपर: ।। 2.52.40 ।।

दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् ।

सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे ।। 2.52.41 ।।

दैन्यमिति । आहवे हतवीरं हतं वीरं दृष्ट्वा स्वसैन्यमिव सूतावशेषं शून्यं रामरहितं रथं दृष्ट्वा नगरी दैन्यं गच्छेत् ।। 2.52.41 ।।

दूरेपि निवसन्तं त्वां मानसेनाग्रत: स्थितम् ।

चिन्तयन्त्यो ऽद्य नूनं त्वां निराहारा: कृता: प्रजा: ।। 2.52.42 ।।

दूर इति । प्रजा: अयोध्यावासिन्य: । दूरे निवसन्तमपि त्वां मानसेनाग्रत: स्थितं त्वां चिन्तयन्त्य: भावनाप्रकर्षेण पुरत: स्थितमिव पश्यन्त्य: निराहारा: कृता:, आहारे ऽप्यादरं न कुर्वन्तीत्यर्थ: ।। 2.52.42 ।।

दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने ।

प्रजानां सङ्कुलं वृत्तं त्वच्छोकक्लान्तचेतसाम् ।। 2.52.43 ।।

अत्रार्थे पूर्वानुभवं प्रमाणयति–दृष्टमिति । त्वत्प्रवासने प्रजानां यादृशं सङ्कुलं वृत्तं संक्षोभो जात: तादृशं त्वया दृष्टं हि ।। 2.52.43 ।।

आर्तनादो हि य: पौरैर्मुक्तस्त्वद्विप्रवासने ।

सरथं मां निशाम्यैव कुर्यु: शतगुणं तत: ।। 2.52.44 ।।

आर्तनाद इति । तत: प्रवासकालिकनादादित्यर्थ: ।। 2.52.44 ।।

अहं किं चापि वक्ष्यामि देवीं तव सुतो मया ।

नीतो ऽसौ मातुलकुलं सन्तापं मा कृथा इति ।। 2.52.45 ।।

असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् ।

कथमप्रियमेवाहं ब्रूयां सत्यमिदं वच: ।। 2.52.46 ।।

यदि प्रियं ब्रूयां तदसत्यं भवति यदि च सत्यं ब्रूयां तदप्रियं भवति अत: कौसल्यां प्रति किमपि वक्तुं न शक्यमित्यभिप्रायेणाह–अहमित्यादिना । देवीमहं किं वा वक्ष्यामि च किमपि वक्तुं शक्नोमीत्यर्थ: । तदेवोपपादयति तवेत्यादिना । तवासौ सुतो मया मातुलकुलं नीत: तस्मात् सन्तापं मा कृथा इतीदृशमसत्यंवचनमप्यहं नैव ब्रूयाम्, असत्यवचनप्रतिषेधादिति भाव: । सत्यमेव वदेत्यत्राह कथमिति । अप्रियमिदं वनप्रापणरूपं सत्यं वचनं कथं ब्रूयाम् । देव्या हानिप्रसङ्गादिति भाव: ।। 2.52.4546 ।।

मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिन: ।

कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमा: ।। 2.52.47 ।।

तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृते ऽनघ ।

वनवासानुयानाय मामनुज्ञातुमर्हसि ।। 2.52.48 ।।

ममेति । त्वद्बुन्धुजना: त्वद्वंश्या: । यद्वा त्वं त्वद्बन्धुभूतसीतालक्ष्मणरूपजनौ च त्वद्बन्धुजना: तद्वाहिन: प्रवक्ष्यन्ति वोढारो भविष्यन्ति । वहेर्लृटि रूपम् ।। 2.52.4748 ।।

यदि मे याचमानस्य त्यागमेव करिष्यसि ।

सरथो ऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया ।। 2.52.49 ।।

यदीति । त्यक्तमात्र: तत्क्षण एव त्यक्त: ।। 2.52.49 ।।

भविष्यन्ति वने यानि तपोविघ्नकराणि ते ।

रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ।। 2.52.50 ।।

भविष्यन्तीति । रथेन साधनेन प्रतिबाधिष्ये अहमेव रथीभूत्वा निवर्त्तयिष्यामीत्यर्थ: । तानि सत्त्वानीति पाठ: । सर्वाणीति पाठे–सत्त्वानीति शेष: ।। 2.52.50 ।।

त्वत्कृतेन मयावाप्तं रथचर्याकृतं सुखम् ।

आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ।। 2.52.51 ।।

त्वदिति । त्वत्कृते त्वन्निमित्तम् । रथचर्याकृतं सुखं मया नावाप्तम् । राज्याभिषिक्तत्वद्रथचर्याकृतसुखं मया भाग्यहीनेन न लब्धम्, तथापि त्वत्कृतेन त्वत्साहाय्यकरणेन वनवासकृतमपि सुखम् आशंसे इच्छामि । राज्ये रथचर्याकृतसुखाभावेपि वने सारथित्वेन परिचर्याकरणकृतं वापि सुखं मम भवत्विति भाव: । यद्वा त्वत्कृतेन त्वया कृतेनानुग्रहेणेत्यर्थ: । रथचर्य्याकृतं रथप्रेरणकृतं सुखं मया अवाप्तम् । एवं त्वत्कृतेनानुग्रहेण वनवासकृतं सुखमप्यहमाशंस इति ।। 2.52.51 ।।

प्रसीदेच्छामि ते ऽरण्ये भवितुं प्रत्यनन्तर: ।

प्रीत्याभिहितमिच्छामि भव मे प्रत्यनन्तर: ।। 2.52.52 ।।

प्रसीदेति । प्रत्यनन्तर: समीपवर्ती । मे प्रत्यनन्तरो भवेति प्रीत्याभिहितमिच्छामि । त्वत्कर्तृकमभिधानमिच्छामीत्यर्थ: । क्रियतामिति मां वदेतिवत् ।। 2.52.52 ।।

इमे चापि हया वीर यदि ते वनवासिन: ।

परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ।। 2.52.53 ।।

इम इति । परमां गतिं स्वामिशुश्रूषणादिति भाव: ।। 2.52.53 ।।

तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् ।

अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम् ।। 2.52.54 ।।

तवेति । मूर्ध्नेत्यस्य सोपचारमिति फलितार्थ: । सर्वथा सर्वप्रकारेण ।। 2.52.54 ।।

न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना ।

राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ।। 2.52.55 ।।

नहीति । महेन्द्रस्य राजधानी स्वर्ग: ।। 2.52.55 ।।

वनवासे क्षयं प्राप्ते ममैष हि मनोरथ: ।

यदनेन रथेनैव त्वां वहेयं पुरीं पुन: ।। 2.52.56 ।।

वनवास इति । वनवासे क्षयं प्राप्ते वनवासे समाप्ते सतीत्यर्थ: । वहेयमिति यत् अयं मे मनोरथ इति सम्बन्ध: ।। 2.52.56 ।।

चतुर्दश हि वर्षाणि सहितस्य त्वया वने ।

क्षणभूतानि यास्यन्ति शतसङ्ख्या ऽन्यतो ऽन्यथा ।। 2.52.57 ।।

चतुर्द्दशेति । त्वया सहितस्येति ममेति शेष: । क्षणभूतानि क्षणतुल्यानि, अतो ऽन्यथा त्वद्विरह इत्यर्थ: । शतसङ्ख्यानि भवेयुरिति शेष: । शतगुणितानि भविष्यन्तीति भाव: ।। 2.52.57 ।।

भृत्यवत्सल तिष्ठन्तं भर्त्तृपुत्रगते पथि ।

भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ।। 2.52.58 ।।

एवं बहुविधं दीनं याचमानं पुन:पुन: ।

रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ।। 2.52.59 ।।

जानामि परमां भक्तिं मयि ते भर्तृवत्सल ।

शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमित: ।। 2.52.60 ।।

भृत्येति । हे भृत्यवत्सल भक्तं भृत्यम् । अत एव स्थित्यां मर्यादायां स्थितम् । अस्खलितमर्यादम् अत एव भर्तृपुत्रगते स्वामिपुत्रेण त्वया गते पथि वनगमने तिष्ठन्तं निश्चितत्वदनुगमनं मां त्वं हातुं नार्हसि ।। 2.52.5860 ।।

नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी

कैकेयी प्रत्ययं गच्छेदिति रामो वनं गत: ।। 2.52.61 ।।

परितुष्टा हि सा देवी वनवासं गते मयि ।

राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ।। 2.52.62 ।।

एष मे प्रथम: कल्पो यदम्बा मे यवीयसी ।

भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् ।। 2.52.63 ।।

नगरीमित्यादिश्लोकत्रयमेकान्वयम् । रामो वनं गत इति कैकेयी प्रत्ययं विश्वासं गच्छेत् । धार्मिकं राजानं मिथ्यावादीति नातिशङ्केत । भरतारक्षितं भरतेन आ समन्तात् रक्षितं पुत्रराज्यम् अवाप्नुयादिति च यत्, एष: मे प्रथम: कल्प: कर्तव्येषु प्रयोजनेषु मुख्य: । “मुख्य: स्यात् प्रथम: कल्प:” इत्यमर: ।। 2.52.6163 ।।

मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज ।

सन्दिष्टश्चासि यानर्थांस्तांस्तान् ब्रूयास्तथातथा ।। 2.52.64 ।।

ममेति । यानर्थान् सन्दिष्टोसि तानर्थान् दशरथादीनुदिश्य तथातथा ब्रूया इति सम्बन्ध: ।। 2.52.64 ।।

इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुन:पुन: ।

गुहं वचनमक्लीबो रामो हेतुमदब्रवीत् ।। 2.52.65 ।।

नेदानीं गुह योग्यो ऽयं वासो मे सजने वने ।

अवश्यं ह्याश्रमे वास: कर्त्तव्यस्तद्गतो विधि: ।। 2.52.66 ।।

सो ऽहं गृहीत्वा नियमं तपस्विजनभूषणम् ।

हितकाम: पितुर्भूय: सीताया लक्ष्मणस्य च ।

जटा: कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ।। 2.52.67 ।।

इतीति । हेतुमत् युक्तिमत् । नेदानीमित्यनेन इह वस्तव्यमिति गुहप्रार्थनं द्योतितम् । मे सजने सजनप्रदेशे अयं वासो न योग्य: । तद्गतो विधि: आश्रमवासगत: तद्विषय इत्यर्थ: । विधि: पितृनियमनम् । सो ऽहं “सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रित: । अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस ।।” इति कैकेय्या नियुक्तोऽहम्। तपस्विजनभूषणं तपस्विजनातिशयावहम्। नियमम् अध:शयनादिकम्। गृहीत्वा अङ्गीकृत्य। पितु:सीताया लक्ष्मणस्य च भूयो हितकाम: अति शयेन परलोकसाधनपुण्यकाम: सन्। जटा: कृत्वा गमिष्यामि तदर्थं न्यग्रोधक्षीरमानय। जटाकरणस्य सीतालक्ष्मणयो: प्रियत्वाभावेपि हितत्वमस्त्येव तयोरपि तेन धर्मातिशयात्। रामजटाकरणे हि सहधर्मचारिण्या: सीताया अपि धर्म: सिद्ध:। लक्ष्मणस्य च तदनुरोधेन जटाकरणाद्धर्म:। यद्वा हितकाम: न तु प्रियकाम इत्यर्थ: ।। 2.52.6567 ।।

तत्क्षीरं राजपुत्राय गुह: क्षिप्रमुपाहरत् ।

लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटा: ।। 2.52.68 ।।

तत्क्षीरमिति । लक्ष्मणस्य चेति । तेनापि भ्रातृवदवस्थानस्य सङ्कल्पितत्वादिति भाव: । अकरोदिति लक्ष्मणे प्रयोज्यकर्तृत्वं बोध्यम् ।। 2.52.68 ।।

दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत् ।। 2.52.69 ।।

ऋषि: खिद्यति–दीर्घबाहुरिति । जटिलत्वं जटावत्त्वम् । तुन्दादित्वादि लच् ।। 2.52.69 ।।

तौ तदा चीरवसनौ जटामण्डलधारिणौ ।

अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ।। 2.52.70 ।।

तस्यामप्यवस्थायां दर्शनीयतमत्वमाह–तावित्यादिश्लोकेन ।। 2.52.70 ।।

ततो वैखानसं मार्गमास्थित: सहलक्ष्मण: ।

व्रतमादिष्टवान् राम: सहायं गुहमब्रवीत् ।। 2.52.71 ।।

तत इति । विखना नाम ब्रह्मनखोत्पन्न: कश्चिन्मुनि: “ये नखा: ते वैखानसा: । ये वालास्ते वालखिल्या:” इत्युक्ते: । सिंहादिशब्दवद्वर्णविपर्यय: । तेन प्रोक्तं वैखानसम् । प्रोक्तार्थे अण् । मार्गं धर्ममित्यर्थ: । वानप्रस्थधर्ममिति यावत् । आस्थित: आश्रित: । व्रतं ब्रह्मचर्यादिनियमम् । आदिष्टवान् अङ्गीकृतवान् । नन्वत्र सर्वो वानप्रस्थधर्मो ऽङ्गीकृत: उत य: कश्चित् ? नाद्य:–तस्य पुनर्गार्हस्थ्यग्रहणायोगात् “आरूढपतितो हि स:” इत्युत्तराश्रमप्राप्तस्य पुन: पूर्वाश्रमावरोहो हि निन्दित: । न द्वितीय:–गृहस्थस्य वनस्थासाधारणजटाधारणादिकरणे शाखारण्डवदाश्रमरण्डतापत्ते: । मैवम्, पितृनियोगकृतसाङ्कल्पिकनियमविशेषस्य युधिष्ठिरादिसंन्यासधर्मवदविरुद्धत्वात् । उक्तं हि मनुना–“सम्यक्सङ्कल्पज: कामो धर्ममूलमिदं स्मृतम्” इति । सहायं गङ्गावतरणसहायम् । सखायमिति च पाठ: ।। 2.52.71 ।।

अप्रमत्तो बले कोशे दुर्गे जनपदे तथा ।

भवेथा गुह राज्यं हि दुरारक्षतमं मतम् ।। 2.52.72 ।।

अप्रमत्त इति । बले चतुरङ्गबले । कोशे अर्थौघे । “कोशो ऽस्त्री कुड्मले खड्गपिधाने ऽर्थौघदिव्ययो:” इत्यमर: । दुरारक्षं दु:खेन आ समन्तात् रक्षितुं शक्यम् (पाठभेद: । दु:खेन आरक्षा रक्षणं यस्य तद्दुरारक्षम् । अतिशयेन दुरारक्षं दुरारक्षतमम् । भवेथा इत्यार्षमात्मनेपदम् ) ।। 2.52.72 ।।

ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दन: ।

जगाम तूर्णमव्यग्र: सभार्य: सहलक्ष्मण: ।। 2.52.73 ।।

स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दन: ।

तितीर्षु: शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् ।। 2.52.74 ।।

तत इति । अव्यग्र: अव्यासक्त: “व्यग्रो व्यासक्त आकुल:” इत्यमर: ।। 2.52.7374 ।।

आरोहं त्वं नरव्याघ्र स्थितां नावमिमां शनै: ।

सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ।। 2.52.75 ।।

आरोहेति । स्थितामिमां नावं परिगृह्य सीतां शनैरारोपय । अन्वक्षम् अनुपदं त्वं चारोहेति सम्बन्ध: । यद्वा त्वं प्रथममारोह अन्वक्षं मनस्विनीं सीतां परिगृह्य कराग्रयोर्गृहीत्वा आरोपयेत्युपचारोक्ति: । मनस्विनीमिति निन्दायां मतुप् । भीरुमिति यावत् । पूर्वारोहणे ऽसौ बिभीयादिति भाव: ।। 2.52.75 ।।

स भ्रातु: शासनं श्रुत्वा सर्वमप्रतिकूलयन् ।

आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्तत: ।। 2.52.76 ।।

लक्ष्मणस्तु निपुणतया प्रथमं सीतामारोप्य पश्चात्स्वयमारूढ इत्याह–स भ्रातुरिति । अप्रतिकूलयन् यथातथावाप्यारोहणशासनमनुतिष्ठन् । आत्मवान् रामाशयज्ञ इत्यर्थ: । पूर्वं मनस्विनीमित्युक्तम्, इदानीमात्मवानित्युक्तम् । उभाभ्यामारोपणे दोषशङ्काराहित्यं चोक्तम् ।। 2.52.76 ।।

अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वज: ।

ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् ।। 2.52.77 ।।

अथेति । ज्ञातीन् बन्धून् अचोदयत् नौ: पारं नीयतामित्यचोदयत् ।। 2.52.77 ।।

राघवो ऽपि महातेजा नावमारुह्य तां तत: ।

ब्रह्मवत् क्षत्त्रवच्चैव जजाप हितमात्मन: ।। 2.52.78 ।।

राघव इति । ब्रह्मवत्क्षत्र्रवदित्यर्हार्थे वतिप्रत्यय: । ब्राह्मणार्हं क्षत्ित्रयार्हम् । आत्मनो हितं जजाप “दैवीं नावम्” इत्यादिब्रह्मक्षत्त्रसाधारणमन्त्रं जजापेत्यर्थ: । यद्वा ब्रह्मक्षत्शत्रब्दयुक्तं मन्त्रं जजापेत्यर्थ: । स च मन्त्र: सुत्रामाणमित्यादि: । तत्र ह्यरिष्टनेमि: पृतनाजिदिति ब्रह्मक्षत्त्रशब्दौ श्रुतौ ।। 2.52.78 ।।

आचम्य च यथाशास्त्रं नदीं तां सह सीतया ।

प्राणमत् प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभ: ।। 2.52.79 ।।

अनुज्ञाय सुमन्त्रं च सबलं चैवं तं गुहम् ।

आस्थाय नावं रामस्तु चोदयामास नाविकान् ।। 2.52.80 ।।

पूर्वोक्तं नावारोहणं विवृण्वन्नाह–आचम्येत्यादिना ।। 2.52.7980 ।।

ततस्तैश्चोदिता सा नौ: कर्णधारसमाहिता ।

शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् ।। 2.52.81 ।।

मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता ।

वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ।। 2.52.82 ।।

तत इति । कर्णधारसमाहिता समाहितकर्णधारा । शुभस्फ्यवेगाभिहता शुभानां स्फ्यानामरित्राणां वेगेनाभिहता प्रणुन्ना ।। 2.52.8182 ।।

पुत्रो दशरथस्यायं महाराजस्य धीमत: ।

निदेशं पारयित्वेमं गङ्ग त्वदभिरक्षित: ।। 2.52.83 ।।

चतुर्दश हि वर्षाणि समग्राण्युष्यकानने ।

भ्रात्रा सह मया चैव पुन: प्रत्यागमिष्यति ।। 2.52.84 ।।

पुत्र इति । निदेशं चतुर्दशवर्षावधिकवनवासविषयनियोगम् । पारयित्वा निर्विघ्नं परिसमाप्य । उष्य उषित्वा । प्रत्यागमिष्यति, यदेति शेष: ।। 2.52.8384 ।।

ततस्त्वां देवि सुभगे क्षेमेण पुनरागता ।

यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी ।। 2.52.85 ।।

तत इति । तत: तदा । सुभगे सुर्कीर्ते “भग: श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु” इत्यमर: । क्षेमेण कुशलेन सह । यक्ष्ये पूजयिष्यामि । सर्वकामसमृद्धिनीति व्रीह्यादित्वादिनि: ।। 2.52.85 ।।

त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे ।

भार्या चोदधिराजस्य लोके ऽस्मिन् संप्रदृश्यसे ।। 2.52.86 ।।

त्वमिति । ब्रह्मलोकं समीक्षसे ब्रह्मकमण्डल्वां द्रवीभूतधर्मरूपतया स्थित्वा ब्रह्मप्रक्षालितविष्णुपादोद्भवत्वादिति भाव: । अत एव विष्णुपादोद्भवामिति पूर्वमुक्तम् ।। 2.52.86 ।।

सा त्वां देवि नमस्यामि प्रशंसामि च शोभने ।

प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ।। 2.52.87 ।।

गवां शतशहस्रं च वस्त्राण्यन्नं च पेशलम् ।

ब्राह्मणेभ्य: प्रदास्यामि तव प्रियचिकीर्षया ।। 2.52.88 ।।

सेति । प्रशंसामि स्तौमि । शिवेन क्षेमेण । पेशलं रम्यम् । तव प्रियचिकीर्षया ब्राह्मणमुखेन हि देवतानां ग्रहणमिति भाव: ।। 2.52.8788 ।।

सुराघटसहस्रेण मांसभूतौदनेन च ।

यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता ।। 2.52.89 ।।

सुराघटसहस्रेणेति । मांसभूतौदनेन मांसरूपान्नेनेति यावत् ।। 2.52.89 ।।

यानि त्वत्तीरवासीनि दैवतानि वसन्ति च ।

तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ।। 2.52.90 ।।

पुनरेव महाबाहुर्मया भ्रात्रा च सङ्गत: ।

अयोध्यां वनवासात्तु प्रविशत्वनघो ऽनघे ।। 2.52.91 ।।

तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता ।

दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ।। 2.52.92 ।।

तीरं तु समनुप्राप्य नावं हित्वा नरर्षभ: ।

प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतप: ।। 2.52.93 ।।

यानीति । तीर्थानि मणिकर्णिकादीनि । आयतनानि काश्यादीनि ।। 2.52.9093 ।।

अथाब्रवीन्महाबाहु: सुमित्रानन्दवर्द्धनम् ।

भव संरक्षणार्थाय सजने विजने ऽपि वा ।। 2.52.94 ।।

अवश्यं रक्षणं कार्यमदृष्टे विजने वने ।

अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु ।। 2.52.95 ।।

पृष्ठतो ऽहं गमिष्यामि त्वां च सीतां च पालयन् ।

अन्योन्यस्येह नो रक्षा कर्त्तव्या पुरुषर्षभ ।। 2.52.96 ।।

भवेति सावधान इति शेष: । अदृष्टे अदृष्टपूर्वे । न: आवयो: “अस्मदो द्वयोश्च” इति बहुवचनम् । तावच्छब्द: साकल्यार्थक: । अन्योन्यस्य साकल्येन रक्षा कर्त्तव्येति सम्बन्ध: ।। 2.52.9496 ।।

न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।

अद्य दु:खं तु वैदेही वनवासस्य वेत्स्यति ।। 2.52.97 ।।

प्रनष्ट जनसम्बाधं क्षेत्रारामविवर्जितम् ।

विषमं च प्रपातं च वनं ह्यद्य प्रवेक्ष्यति ।। 2.52.98 ।।

श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणो ऽग्रत: ।

अनन्तरं च सीताया राघवो रघुनन्दन: ।। 2.52.99 ।।

यत्नस्यावश्यकर्त्तव्यत्वे युक्तिमाह–नहीति । अतिक्रान्ता अतिक्रान्तकाला । काचन क्रिया न सुकरा हि पुन: सन्धातुं न शक्या हीत्यर्थ: । तस्मात्काले सावधानतयास्माभि: स्थातव्यमिति भाव: । सम्बाध: सम्मर्द: । क्षेत्रं शाल्यादिवृद्धिस्थलम् । विषमं निम्नोन्नतप्रदेशयुक्तम् । प्रपतन्त्यस्मिन्निति प्रपात: गर्त: । हि यस्मादद्य प्रवेक्ष्यति तस्माद्दु:खं वेत्स्यतीति सम्बन्ध: । इति सुमित्रानन्दवर्द्धनमब्रवीदित्यन्वय: ।। 2.52.9799 ।।

गतं तु गङ्गापरपारमाशु रामं सुमन्त्र: प्रततं निरीक्ष्य ।

अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्मुमोच बाष्पं व्यथितस्तपस्वी ।। 2.52.100 ।।

गतमिति । गङ्गापरपारं गङ्गाया: अपरं पारम् । प्रततं नीरीक्ष्य अविच्छिन्नं निरीक्ष्येत्यर्थ: । तपस्वी सन्तापयुक्त: । “तपसन्तापे” इति धातु: । प्रतपन्निति पाठे–तापवानित्यर्थ: । तपस्वी शोचनीय: । अध्वप्रकर्षात् मार्गविप्रकर्षात् । विनिवृत्तदृष्टि: विनिवृत्तदृष्टिव्यापार: ।। 2.52.100 ।।

स लोकपालप्रतिमप्रभाववांस्तीर्त्वा महात्मा वरदो महानदीम् ।

तत: समृद्धाञ्छुभसस्यमालिन: क्रमेण वत्सान् मुदितानुपागमत् ।। 2.52.101 ।।

स इति । वत्सान् वत्सदेशान् । मत्स्यानिति पाठो लेखकप्रमादकृत: । इत्थं हि देशव्यवस्था दृश्यते–गङ्गायमुनयोर्मध्ये प्रयागप्रदेशो वत्सदेश: । तत: पश्चिमभागे पाञ्चाल: । यमुनादक्षिणतीरे शूरसेनदेश: । तस्मात्पश्चिमतो मत्स्यदेश इति । सलोकपालप्रतिमप्रभाववानिति पाठ: । अन्यथा वृत्तभङ्ग: स्यात् ।। 2.52.101 ।।

तौ तत्र हत्वा चतुरो महामृगान् वराहमृश्यं पृषतं महारुरुम् ।

आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम् ।। 2.52.102 ।।

ताविति । चातुर्विध्यमेवाह–वराहमित्यादि । ऋश्यादयो हरिणभेदा: । ऋश्यं पृषतं महारुरुं च आदाय, स्वीकृत्येत्यर्थ: । मेध्यमिति ऋश्यादि सर्वविशेषणम् । काले सायंकाले । त्वरितत्वोक्ति: सायंकालत्वात् बुभुक्षितत्वाच्च । द्विवचनेन सीतां कुत्रचिद्वनस्पतिमूले निक्षिप्य मृगग्रहणार्थं गत्वा पुनरागताविति गम्यते ।। 2.52.102 ।।

इत्यार्षे श्रीरामायणे श्रीमदयोध्याकाण्डे द्विपञ्चाश: सर्ग: ।। 52 ।।

इति श्रीगोविन्दराज0 श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्विपञ्चाश: सर्ग: ।। 52 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.