28 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे अष्टाविंश: सर्ग:

स एव ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सल: ।

न नेतुं कुरुते बुद्धिं वने दु:खानि चिन्तयन् ।। 2.28.1 ।।

सान्त्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम् ।

निवर्त्तनार्थे ध्ार्मात्मा वाक्यमेतदुवाच ह ।। 2.28.2 ।।

‘वने निवासस्य च दु:खिताम्’ इत्युक्तं विवृणोति–स एवमित्यादिना ।। 2.28.12 ।।

सीते महाकुलीनासि धर्मे च निरता सदा ।

इहाचरस्व धर्मं त्वं मा यथा मनस: सुखम् ।। 2.28.3 ।।

सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले ।

वने दोषा हि बहवो वदतस्तान्निबोध मे ।। 2.28.4 ।।

सीत इति । मा यथा मनस: सुखं मनसो यथा सुखं भवति तथा माचरेत्यर्थ: ।। 2.28.34 ।।

सीते विमुच्यतामेषा वनवासकृता मति: ।

बहुदोषं हि कान्तारं वनमित्यभिधीयते ।। 2.28.5 ।।

सीत इति । बहुदोषम् अहिकण्टकादियुक्तत्वात् । कान्तारं महारण्यम् “महारण्ये दुर्गपथे कान्तारं पुंनपुंसकम्” इत्यमर: ।। 2.28.5 ।।

हितबुद्ध्या खलु वचो मयैतदभिधीयते ।

सदा सुखं न जानामि दु:खमेव सदा वनम् ।। 2.28.6 ।।

हितबुद्ध्येति । हितबुद्ध्या न तु त्वद्भरणक्लेशेन ।। 2.28.6 ।।

गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम् ।

सिंहानां निनदा दु:खा: श्रोतुं दु:खमतो वनम् ।। 2.28.7 ।।

महावने विद्यमानान् दोषानाह–गिरिनिर्झरेत्यादि । गिरिनिर्झरसम्भूता: गिरिनिर्झरेषु प्रवृद्धा: । श्रोतुं दु:खा: दु:खकरा: । अतो वनं दु:खं दु:खकरम् ।। 2.28.7 ।।

क्रीडमानाश्च विस्रब्धा मत्ता: शून्ये महामृगा: ।

दृष्ट्वा समभिवर्त्तन्ते सीते दु:खमतो वनम् ।। 2.28.8 ।।

क्रीडमाना इति । शून्ये निर्मानुषे प्रदेशे । विस्रब्धा: नि:शङ्का: सन्त: । क्रीडमाना: क्रीडन्त: । अत एव मत्ता: महामृगा: सिंहशार्दूलादय: । अस्मान् दृष्ट्वा अपूर्वदर्शनात्समभिवर्तन्ते हन्तुमभिमुखमागच्छेयु: ।। 2.28.8 ।।

सग्राहा: सरितश्चैव पङ्कवत्यश्च दुस्तरा: ।

मत्तैरपि गजैर्नित्यमतो दु:खतरं वनम् ।। 2.28.9 ।।

सग्राहा इति । सग्राहा: सनक्रा: । पङ्कवत्य: बहुपङ्का: । मत्तैर्गजैरुपलक्षिताश्च । अत एव दुस्तरा: सरित: सन्ति । अतो दु:खतरं पूर्वोक्तदु:खसम्मेलनादतिशयेन दु:खवत् ।। 2.28.9 ।।

लताकण्टकसङ्कीर्णा: कृकवाकूपनादिता: ।

निरपाश्च सुदुर्गाश्च मार्गा दु:खमतो वनम् ।। 2.28.10 ।।

यत्र न निर्झरादयस्तेनैव मार्गेण गमिष्याम इत्यत्राह–लता इति । लता: पदाकर्षिण्य:, कण्टका: पादवेधका: । कृकवाकव: वनकुक्कटास्तैरुपनादिता: तन्नादयुक्ता इत्यर्थ: । तन्नादा अप्यश्रुतपूर्वत्वात् भयावहा एव । निरपा: निर्गतजला: । “ऋक्पूरब्धू:–” इत्यादिना समासान्त: अप्रत्यय: ।। 2.28.10 ।।

सुप्यते पर्णशय्यासु स्वयम्भग्नासु भूतले ।

रात्रिषु श्रमखिन्नेन तस्माद्दु:खतरं वनम् ।। 2.28.11 ।।

सुप्यत इति । भूतले न तु पर्यङ्के । तत्रापि वर्णशय्यासु न तु मृदुतूलास्तरणेषु । तत्रापि स्वयं भग्नासु जीर्णतया स्वयमेव पतितासु । रात्रिषु न त्वह:सु । श्रमखिन्नेन फलमूलाद्याहरणश्रमदु:खितेन, वनवासिना सुप्यते अतो ऽस्माभिरपि तथा स्वपितव्यमिति भाव: ।। 2.28.11 ।।

अहोरात्रं च सन्तोष: कर्त्तव्यो नियतात्मना ।

फलैर्वृक्षावपतितै: सीते दु:खमतो वनम् ।। 2.28.12 ।।

अहोरात्रमिति । अहोरात्रं सायम्प्रातश्च । वृक्षावपतितै: वृक्षात्स्वयं पतितै: फलै: । नियतात्मना नियतमनस्केन, इतरानभिलाषिणेत्यर्थ: । वनवासिना सन्तोष: भोजनतृप्ति: कर्त्तव्य: ।। 2.28.12 ।।

उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि ।

जटाभारश्च कर्त्तव्यो वल्कलाम्बरधारिणा ।। 2.28.13 ।।

देवतानां पितृ़णां च कर्तव्यं विधिपूर्वकम् ।

प्राप्तानामतिथीनां च नित्यश: प्रतिपूजनम् ।। 2.28.14 ।।

उपवास इति । यथाप्राणेन यथाशक्त्या ।। 2.28.1314 ।।

कार्यस्त्रिरभिषेकश्च कालेकाले च नित्यश: ।

चरता नियमेनैव तस्माद्दु:खतरं वनम् ।। 2.28.15 ।।

कार्य इति । त्रिरभिषेकश्च नैककाल इत्याह कालेकाल इति । प्रातर्मध्याह्नसायाह्नेष्वित्यर्थ: । एतच्च न कतिपयदिनेषु किन्तु प्रतिदिनमित्याह नित्यश इति ।। 2.28.15 ।।

उपहारश्च कर्तव्य: कुसुमै: स्वयमाहृतै: ।

आर्षेण विधिना वेद्यां बाले दु:खमतो वनम् ।। 2.28.16 ।।

उपहार इति । उपहारो बलि: । “उपहारो बलिर्मत:” इति हलायुध: । आर्षेण ऋषिप्रोक्तेन । विधिना कल्पेन ।। 2.28.16 ।।

यथालब्धपेन सन्तोष: कर्त्तव्यस्तेन मैथिलि ।

यताहारैर्वचनरैर्नित्यं दु:खमतो वनम् ।। 2.28.17 ।।

यथेति । यथालब्धेन यावल्लब्धेन तेन फलादिना आहारेण सन्तोष: तृप्ति: । यताहारैर्नियताहारै: ।। 2.28.17 ।।

अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यश: ।

भयानि च महान्त्यत्र ततो दु:खतरं वनम् ।। 2.28.18 ।।

अतीति । अत्र वने वाताश्चातीव बहुला: । तिमिरञ्च रात्रिष्वतीवास्ति । बुभुक्षा चातीव भवति । भयानि पूर्वोक्तानि ।। 2.28.18 ।।

सरीसृपाश्च बहवो बहुरूपाश्च भामिनि ।

चरन्ति पृथिवीं दर्पात्ततो दु:खतरं वनम् ।। 2.28.19 ।।

सरीसृपा इति । सरीसृपा: गिरिसर्पा: । बहुरूपा: पृथुशरीरा: ।। 2.28.19 ।।

नदीनिलयना: सर्पा नदीकुटिलगामिन: ।

तिष्ठन्त्यावृत्य पन्थानं ततो दु:खतरं वनम् ।। 2.28.20 ।।

नदीनिलयना इति । नदीकुटिलगामिन: नदीवत् कुटिलगामिन: ।। 2.28.20 ।।

पतङ्गा वृश्चिका: कीटा दंशाश्च मशकै: सह ।

बाधन्ते नित्यमबले सर्वं दु:खमतो वनम् ।। 2.28.21 ।।

पतङ्गा इति । पतङ्गा शलभा: । दंशा: वनमक्षिफा: “दंशस्तु वनमक्षिका” इत्यमर: ।। 2.28.21 ।।

द्रुमा: कण्टकिनश्चैव कुशकाशाश्च भामिनि ।

वने व्याकुलशाखाग्रास्तेन दु:खतरं वनम् ।। 2.28.22 ।।

द्रुमा इति । कुशकाशयो: शाखा: कुशकाशपर्णान्येव ।। 2.28.22 ।।

कायक्लेशाश्च बहवो भयानि विविधानि च ।

अरण्यवासे वसतो दु:खमेव ततो वनम् ।। 2.28.23 ।।

कायक्लेशा इति । कायक्लेशा: व्रतोपवासादय: । अरण्यवासे अरण्यरूपवासस्थाने ।। 2.28.23 ।।

क्रोधलोभौ विमोक्तव्यौ कर्त्तव्या तपसे मति: ।

न भेतव्यं च भेतव्ये नित्यं दु:खमतो वनम् ।। 2.28.24 ।।

क्रोधलोभाविति । भेतव्ये भयहेतुविषये । प्रागुक्तसर्पादौ न भेतव्यम्, भयं न कार्यम् ।। 2.28.24 ।।

तदलं ते वनं गत्वा क्षमं न हि वनं तव ।

विमृशन्निह पश्यामि बहुदोषतरं वनम् ।। 2.28.25 ।।

तदिति । वनं गत्वा ऽलमिति “अलंखल्वो:–” इतिनिषेधार्थालमुपपदेक्त्वा । न गन्तव्यमित्यर्थ: ।। 2.28.25 ।।

वनं तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना ।

न तस्य सीता वचनं चकार तत् ततो ऽब्रवीद्राममिदं सुदु:खिता ।। 2.28.26 ।।

वनमिति । रामेण वनं नेतुं मतिर्यदा न कृता बभूव तदा सीता तस्य वचनं न चकार नाङ्गीचकार । इदम् उत्तरसर्गे वक्ष्यमाणम् ।। 2.28.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे अष्टाविंश: सर्ग: ।। 28 ।।

इति श्रीगोविन्द राजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टाविंश: सर्ग: ।। 28 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.