56 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्पञ्चाश: सर्ग:

अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् ।

प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दन: ।। 2.56.1 ।।

अथेति । अनन्तरं स्वप्रबोधानन्तरम् । अवसुप्तम् ईषत्सुप्तमित्यर्थ: ।। 2.56.1 ।।

सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् ।

सम्प्रतिष्ठामहे काल: प्रस्थानस्य परन्तप ।। 2.56.2 ।।

सौमित्र इति । वन्यानां शुकपिकशारिकादीनाम् । वल्गु सुन्दरम् । काल: प्राप्त इति शेष: ।। 2.56.2 ।।

स सुप्त: समये भ्रात्रा लक्ष्मण: प्रतिबोधित: ।

जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् ।। 2.56.3 ।।

स इति । समये प्रबोधनसमये । तन्द्रीं जाड्यम् । जहौ तदाप्रभृतीति शेष: । पथि श्रमं तत्कृतोपचारमित्यर्थ: ।। 2.56.3 ।।

तत उत्थाय ते सर्वे स्पृष्ट्वा नद्या: शिवं जलम् ।

पन्थानमृषिणा ऽ ऽदिष्टं चित्रकूटस्य तं ययु: ।। 2.56.4 ।।

तत: सम्प्रस्थित: काले राम: सौमित्रिणा सह ।

सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् ।। 2.56.5 ।।

तत उत्थायेति । नद्या: कालिन्द्या: । स्पृष्ट्वेत्युपलक्षणं प्रात:कालिकस्नानादिकृत्यानाम्, तं पन्थानं पलाशवनरूपम् ।। 2.56.45 ।।

आदीप्तानिव वैदेहि सर्वत: पुष्पितान्नगान् ।

स्वै: पुष्पै: किंशुकान् पश्य मालिन: शिशिरात्यये ।। 2.56.6 ।।

आदीप्तानिति । आदीप्तानिव आ समन्ताज्ज्वलत इव । नगान् वृक्षान् । स्वै: पुष्पै: मालिन: मालावत इव स्थितान् । शिशिरात्यये वसन्तसमये ।। 2.56.6 ।।

पश्य भल्लातकान् फुल्लान्नरैरनुपसेवितान् ।

फलत्रैरवनतान्नूनं शक्ष्यामि जीवितुम् ।। 2.56.7 ।।

पश्येति । भल्लातकान् वीरवृक्षान् । फुल्लान् फुल्लपुष्पान् । अनुपसेवितान् दुर्गमत्वादिति भाव: । जीवितुं शक्ष्यामि एवमादिजीवनसाधनस्य विद्यमानत्वादिति भाव: ।। 2.56.7 ।।

पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण ।

मधूनि मधुकारीभि: सम्भृतानि नगेनगे ।। 2.56.8 ।।

द्रोणप्रमाणानि द्रोणम् आढकद्वयम्, तत्प्रमाणानि तत्प्रमाणमधुपूरितानि । मधूनि कुर्वन्तीति मधुकार्य्य: । कर्म्मण्यण् ङीप् । ताभि: मधुमक्षिकाभिरिति यावत् । सम्भृतानि निर्मितानि । नगेनगे वृक्षेवृक्षे । लम्बमानानि मधूनि मधुपटलानि पश्य ।। 2.56.8 ।।

एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति ।

रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे ।। 2.56.9 ।।

एष इति । नत्यूह: दात्यूह: । नवोद्देशे वनप्रदेशे । पुष्पसंस्तरसङ्कटे पुष्पमयास्तरणेन निबिडे ।। 2.56.9 ।।

मातङ्गयूथानुसृतं पक्षिसङ्घानुनादितम् ।

चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ।। 2.56.10 ।।

समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।

पुण्ये रंस्यामहे तात चित्रकूटस्य कानने ।। 2.56.11 ।।

ततस्तौ पादचारेण गच्छन्तौ सह सीतया ।

रम्यमासेदतु: शैलं चित्रकूटं मनोरमम् ।। 2.56.12 ।।

मातङ्गयूथानुसृतमिति । मातङ्गयूथानुसृतं गजकुलैर्व्याप्तम् । प्रवृद्धशिखरम् उन्नतशिखरम् ।। 2.56.1012 ।।

तं तु पर्वतमासाद्य नानापक्षिगणायुतम् ।

बहुमूलफलं रम्यं सम्पन्नं सरसोदकम् ।। 2.56.13 ।।

मनोज्ञो ऽयं गिरि: सौम्य नानाद्रुमलतायुत: ।

बहुमूलफलो रम्य: स्वाजीव: प्रतिभाति मे ।। 2.56.14 ।।

मुनयश्च महात्मानो वसन्त्यस्मिन् शिलोच्चये ।

अयं वासो भवेत्तावदत्र सौम्य रमेमहि ।। 2.56.15 ।।

इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलि: ।

अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ।। 2.56.16 ।।

तान् महर्षि: प्रमुदित: पूजयामास धर्मवित् ।

आस्यतामिति चोवाच स्वागतं तु निवेद्य च ।। 2.56.17 ।।

तं त्वित्यारभ्य अभिवादयन्नित्यन्तमेकं वाक्यम् । तं त्विति । सरसोदकं स्वादूदकम् । स्वाजीव: शोभन: आजीवो जीविका यस्मिन् स तथोक्त: । शिलोच्चये पर्वते । इति इतिनिश्चित्य । आश्रमं वाल्मीकीयम् । अभिवादयन् अभ्यवादयन् । तदानीं चित्रकूटे वाल्मीकेर्वास:, भरतागमनानन्तरमृषिनिर्गमनकथनात्तत्त:प्रभृति तमसातीर इति ज्ञेयम् । अतो न बालकाण्डकथाविरोध: ।। 2.56.1317 ।।

ततो ऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रज: ।

संनिवेद्य यथान्यायमात्मानमृषये प्रभु: ।। 2.56.18 ।।

लक्ष्मणानय दारूणि दृढानि च वराणि च ।

कुरुष्वावसथं सौम्य वासे मे ऽभिरतं मन: ।। 2.56.19 ।।

तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् ।

आजहार ततश्चक्रे पर्णशालामरिन्दम: ।। 2.56.20 ।।

तत इत्यादिश्लोकद्वयमकं वाक्यम् । यथान्यायं यथाक्रमम् । आत्मानमृषये संनिवेद्य अमुकस्य पुत्रो ऽहम् अयं मद्भ्राता इयं मद्भार्या एतादृशकार्यार्थमागता वयमित्येवमुक्त्वा । वराणि जम्बूप्रभृतीनि गृहनिर्माणार्हाणि । तिन्त्रिणीमधूकादेस्त्याज्यत्वात् । आनय आवसथं कुरुष्वेति लक्ष्मणमब्रवीदिति सम्बन्ध: ।। 2.56.1820 ।।

तां निष्ठितां बद्धकटां दृष्ट्वा राम: सुदर्शनाम् ।

शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् ।। 2.56.21 ।।

तामिति । निष्ठितां निश्चलां वातादिना चालयितुमशक्यां भित्तिसहितां परिनिष्पन्नाम् । बद्धकटां कुड्यार्थे कल्पितास्तरणां बद्धबाह्यावरणां वा । “कटे वर्षावरणयो:” इति धातु: । सुदर्शनां शोभनदर्शनाम् ।

शुश्रूषमाणं परिचर्यां कुर्वन्तम् । एकाग्रम् इत:परं किंवा आज्ञापयिष्यतीति सावधानम् ।। 2.56.21 ।।

ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् ।

कर्त्तव्यं वास्तुशमनं सौमित्रे चिरजीविभि: ।। 2.56.22 ।।

ऐणेयमिति । ऐणेयम् एणसम्बन्धि । एणाढ्ढञ् आर्ष: । शालां शालाधिष्ठात्रीस्तत्तद्दिग्वासिनीर्देवता: । तास्तु ‘शय्यादेशे कामलिङ्गेन देहल्यामन्तरिक्षलिङ्गेन’ इत्यादिनगरखण्डप्रतिपाद्या: । तादृशयागार्थं पूर्वं वास्तुशमनं वास्तुशान्ति: गृहप्रवेशार्हं कर्म कर्तव्यम्, गृहदेशे वर्तमानभूतपिशाचादीनां शमनं कर्तव्यमित्यर्थ: । कर्तव्यं चिरजीविभिरित्यनेन अकरणे आयु: क्षयो दर्शित: । तदुक्तं ब्रह्माण्डपुराणे “न च व्याधिभयं तस्य न च बन्धुजनक्षय: । जीवेद् वर्षशतं स्वर्गकल्पमेवं वसेन्नर: ।।” इति ।। 2.56.22 ।।

मृगं हत्वानय क्षिप्रं लक्ष्मणेह शुभेक्षण ।

कर्त्तव्य: शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर ।। 2.56.23 ।।

भ्रातुर्वचनमाज्ञाय लक्ष्मण: परवीरहा ।

चकार स यथोक्तं च तं राम: पुनरब्रवीत् ।। 2.56.24 ।।

कथं कर्त्तव्यमित्यपेक्षायामाह कर्त्तव्य इति । शास्त्रदृष्ट: शास्त्रेषु निर्णीत: विधि: प्रकार: कर्त्तव्य: । धर्मं तदनुकूलधर्मशास्त्रम् । अनुस्मर अवधेहीत्यर्थ: ।। 2.56.2324 ।।

ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम् ।

त्वर सौम्य मुहूर्तो ऽयं ध्रुवश्च दिवसो ऽप्ययम् ।। 2.56.25 ।।

ऐणेयमिति । श्रपयस्व पच । अयं मुहूर्त: ध्रुव: स्थिर: । अयं शोभनतिथिनक्षत्रयुक्तो दिवसो वासरश्च ध्रुव:, स्थिर इत्यर्थ: । (पाठभेद: । अयं सौम्यमुहूर्त: शुभमुहूर्त: । अयं दिवसश्च ध्रुव यजमानस्थैर्य्यकारी) ।। 2.56.25 ।।

स लक्ष्मण: कृष्णमृगं हत्वा मेध्यं प्रतापवान् ।

अथ चिक्षेप सौमित्रि: समिद्धे जातवेदसि ।। 2.56.26 ।।

स इति । समिद्धे सम्यग्दिप्ते । जातवेदसि अग्नौ । चिक्षेप पपाचेत्यर्थ: ।। 2.56.26 ।।

तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् ।

लक्ष्मण: पुरुषव्याघ्रमथ राघवमब्रवीत् ।। 2.56.27 ।।

तामिति । निष्ठप्तं सोष्णं छिन्नशोणितं क्षीणशोणितम् ।। 2.56.27 ।।

अयं कृष्ण: समाप्ताङ्ग: श्रृत: कृष्णमृगो यथा ।

देवतां देवसङ्काश यजस्व कुशलो ह्यसि ।। 2.56.28 ।।

अयमिति । कृष्ण: कृष्णमृग: । समाप्ताङ्ग: परिपूर्णावयव: । श्रृत: पक्व: । कृष्णमृगो यथा पूर्णावयवत्वात् पाकत: श्यामत्वाच्च पूर्वावस्थ इव दृश्यत इत्यर्थ: । कुशलोसि यजने समर्थोसि ।। 2.56.28 ।।

राम: स्नात्वा तु नियतो गुणवाञ्जप्यकोविद: ।

सङ्हेणाकरोत् सर्वान् मन्त्रान् सत्रावसानिकान् ।। 2.56.29 ।।

राम इति । गुणवान् प्रायत्यादिगुणवान् । जप्यकोविद: जप्यमन्त्रेषु समर्थ: । सङ्ग्रहेण सङ्क्षेपेण । सत्रावसानिकान् सत्रं वास्तुयाग: यैर्मन्त्रैरवसीयते परिसमाप्यते ते सत्रावसाना:, सत्रावसाना एव सत्रावसानिका: । विनयादेराकृतिगणत्वात् स्वार्थे ठक् । छान्दसो वृद्ध्यभाव: । अकरोत् यावता वास्तुशान्तिकर्म समाप्यते तावन्मन्त्रान् जजापेत्यर्थ: । मन्त्रजपपूर्वकं कर्म्माण्यकरोदित्यर्थ: ।। 2.56.29 ।।

इष्ट्वा देवगणान् सर्वान् विवेशावसथं शुचि: ।

बभूव च मनोह्लादो रामस्यामिततेजस: ।। 2.56.30 ।।

इष्ट्वा देवगणानिति । देवगणान् वास्तु देवता: । ह्लाद: तुष्टि: ।। 2.56.30 ।।

वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च ।

वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ।। 2.56.31 ।।

जपं च न्यायत: कृत्वा स्नात्वा नद्यां यथाविधि ।

पापसंशमनं रामश्चकार बलिमुत्तमम् ।। 2.56.32 ।।

वैश्वदेवबलिमिति । वैश्वदेवबलिं वैश्वदेवबलिहरणे । रौद्रं रुद्रदेवताकम् । वैष्णवं विष्णुदेवताकं च यागम् । वास्तुसंशमनीयानि गृहारिष्टशामकानि । मङ्गलानि मङ्गलकराणि पुण्याहवाचनशान्तिजपादीनि । स्नात्वेति पुन:स्नानकरणं “तत: सर्वौषधीस्नानं यजमानस्य कारयेत्” इति स्मरणादित्याहु: । वस्तुतस्तु रौद्रयागकरणात् पुन:स्नानम् । रौद्रकर्मकरणे अपउपस्पृश्येति विधानादिति ज्ञेयम् । पापसंशमनं पापशब्देन पापप्रधानानि दिवाचरनक्तंचराणि क्रूरभूतान्युच्यन्ते । तेषां संशमनम् । यद्वा पापसंशमनं “पञ्च सूना गृहस्थस्य” इत्याद्युक्तरीत्या सूनारूपपापशमनम् । वैश्वदेवबलिमित्यत्र भूतबलिमात्रोक्ति: । अत्र तद्व्यतिरिक्त: पित्रादिविषय: । यद्वा पूर्वं वैश्वदेवरूपबलिमित्यर्थ: । अत्र सर्वभूतबलि: । यद्वा पूर्वोक्तस्य सर्वस्योपसंहार: ।। 2.56.3132 ।।

वेदिस्थलविधानानि चैत्यान्यायतनानि च ।

आश्रमस्यानुरूपाणि स्थापयामास राघव: ।। 2.56.33 ।।

वन्यैर्माल्यै: फलैर्मूलै: पक्वैर्मांसैर्यथाविधि ।

अद्भिर्जपैश्च वेदोक्तैर्दर्भैश्च ससमित्कुशै: ।। 2.56.34 ।।

तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।

तदा विविशतु: शालां सुशुभां शुभलक्षणौ ।। 2.56.35 ।।

वेदीति । वेदिस्थलविधानानि बलिहरणादिवेदिस्थलसंस्थानानि । “वेदि: परिष्कृता भूमि:” इत्यमर: । चैत्यानि गन्धर्वाद्यावासस्थानानि । आयतनानि विष्ण्वा़द्यावासस्थलानि । (पाठभेद: । चैत्यानि देवतास्थानानि । आयतनानि अग्न्यगाराणि । अनुरूपाणि आश्रमस्यानुरूपाणि सूक्ष्माणीत्यर्थ: । स्थापयामास मन्त्रतस्तत्तद्देवतानां तत्रतत्रावस्थानं कल्पितवानित्यर्थ:) ।। 2.56.3335 ।।

तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम् ।

वासाय सर्वे विविशु: समेता: सभां यथा देवगणा: सुधर्माम् ।। 2.56.36 ।।

तामिति । वृक्षपर्णच्छदनां वृक्षपर्णरूपाच्छादनपटलयुक्ताम् । यथाप्रदेशं शास्त्रोक्तप्रदेशमनतिक्रम्य । “आग्नेय्यां पाकशाला” इत्यादिशास्त्रम् । सुधर्मां देवसभाम् “स्यात्सुधर्मा देवसभा” इत्यमर: ।। 2.56.36 ।।

अनेकनानामृगपक्षिसङ्कुले विचित्रपुष्पस्तबकैर्द्रुमैर्युते ।

वनोत्तमे व्यालमृगानुनादिते तदा विजर्ह्रु: सुसुखं जितेन्द्रिया: ।। 2.56.37 ।।

अनेकेति । पुष्पस्तबकपदं कर्णावतंसादिपदवन्निर्वाह्यम् । व्याला: सर्प्पा: राजा वा । जितेन्द्रिया इत्यनेन विहारो ग्राम्यभिन्नजलक्रीडापुष्पापचयादिरिति सूच्यते ।। 2.56.37 ।।

सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम् ।

ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दु:खं पुरविप्रवासात् ।। 2.56.38 ।।

सुरम्यमिति । तां प्रसिद्धाम् । सुतीर्थां शोभनजलावतरणप्रदेशाम् । हृष्ट: पुलकित: । पुरविप्रवासात्

जनितमिति शेष: ।। 2.56.38 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्पञ्चाश: सर्ग: ।। 56 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्पञ्चाश: सर्ग: ।। 56 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.