36 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षङ्त्रिंश: सर्ग:

तत: सुमन्त्रमैक्ष्वाक: पीडितो ऽत्र प्रतिज्ञया ।

स बाष्पमतिनिश्वस्य जगादेदं पुन:पुन: ।। 2.36.1 ।।

तत इत्यादि । तत: कैकेयीसम्मत्यभावानन्तरम् । अत्र वरदानविषये ।। 2.36.1 ।।

सूत रत्नसुसम्पूर्णा चतुर्विधबला चमू: ।

राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ।। 2.36.2 ।।

सूतेति । अनुयात्रार्थं प्रतिविधीयतां प्रेष्यताम् ।। 2.36.2 ।।

रूपाजीवाश्च वादिन्यो वणिजश्चमहाधना: ।

शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिता: ।। 2.36.3 ।।

रूपाजीवा इति । रूपाजीवा वेश्या: । “वारस्त्री गणिका वेश्या रूपाजीवा” इत्यमर: । वादिन्य: परचित्ताकर्षणचतुरवचना: । सुप्रसारिता: शिबिरदेशे पण्यपदार्थप्रसारणं कुर्वन्त: ।। 2.36.3 ।।

ये चैनमुपजीवन्ति रमते यैश्च वीर्यत: ।

तेषां बहुविधं दत्त्वा तान्यप्यत्र नियोजय ।। 2.36.4 ।।

य इति । एनं रामं बहुविधं सुवर्णरत्नवस्त्रादिकम् । अत्र वाहिन्याम् ।। 2.36.4 ।।

आयुधानि च मुख्यानि नागरा: शकटानि च ।

अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यगोचरा: ।। 2.35.5 ।।

आयुधानीति । आयुधानि आयुधधरा: । नागरा: नगराजा: श्रेष्ठिन: । शकटानि तैलघृतादिप्रापकाणि । व्याधा: वने मार्गदर्शिन: ।। 2.36.5 ।।

निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु ।

नदीश्च विविधा: पश्यन्न राज्यस्य स्मरिष्यति ।। 2.36.6 ।।

निघ्नन्निति । राज्यस्येति “अधीगर्थदयेशां कर्मणि” इति षष्ठी ।। 2.36.6 ।।

धान्यकोशश्च य: कश्चिद्धनकोशश्च मामक: ।

तौ राममनुगच्छेतां वसन्तं निर्जने वने ।। 2.36.7 ।।

धान्यकोश इति । कोशो वासस्थानम् । अनुगच्छेतां गोण्युष्ट्रादिमुखेनेति शेष: ।। 2.36.7 ।।

यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणा: ।

ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने ।। 2.36.8 ।।

यजन्निति । विसृजत् दददिति यावत् । दक्षिणा: यज्ञदक्षिणा: ।। 2.36.8 ।।

भरतश्च महाबाहुरयोध्यां पालयिष्यति ।

सर्वकामै: सह श्रीमान् राम: संसाध्यतामिति ।। 2.36.9 ।।

एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् ।

मुखं चाप्यगमच्छोषं स्वरश्चापि न्यरुध्यत ।। 2.36.10 ।।

भरत इति । अयोध्यां पालयिष्यतीति सोपालम्भोक्ति: । सर्वकामै: सह साध्यतां प्रस्थाप्यताम् । इतिशब्द: नियोगसमाप्तिवाचक: ।। 2.36.910 ।।

सा विषण्णा च सन्त्रस्ता मुखेन परिशुष्यता ।

राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ।। 2.36.11 ।।

सेति । मुखेनेत्युपलक्षणे तृतीया ।। 2.36.11 ।।

राज्यं गतजनं साधो पीतमण्डां सुरामिव ।

निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ।। 2.36.12 ।।

राज्यमिति । पीतमण्डां “मण्डं दधिभवं मस्तु” इति मण्डशब्दो यथा दधिसारवाचक: तद्वदत्रापि मण्डशब्देन सुरासार उच्यते । साधो इति सहासोक्ति: । निरास्वाद्यतमं निर्गतभोग्यवस्तुयुक्तम् ।। 2.36.12 ।।

कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् ।

राजा दशरथो वाक्यमुवाचायतलोचनाम् ।। 2.36.13 ।।

कैकेय्यामिति । आयतलोचनामिति दैन्योक्तिमूलसौन्दर्योक्ति: ।। 2.36.13 ।।

वहन्तं किं तुदसि मां नियुज्य धुरि मा ऽहिते ।

अनार्ये कृत्यमारब्धं किन्न पूर्वमुपारुध: ।। 2.36.14 ।।

वहन्तमिति । हे अहिते अहितकारिणि धुरि वरदानहेतुकभरताभिषेचनरामविवासनरूपदुर्वहभारे । नियुज्य तथा वहन्तं मां वत्सतरमिव किं तुदसि व्यथयसि, त्वदाज्ञप्तरामविवासनकारिणं किमर्थं पुनरपि पीडयसीत्यर्थ: । किमधुना पीड्यते ? पूर्वमेव भवता दत्तं खल्वित्यत्राह अनार्य इति । हे अनार्ये आरब्धं कृत्यं सेनाप्रेषणादिकम् । पूर्वं वरप्रार्थनाकाले किमर्थं नोपारुध: नोपरुद्धवती, न प्रार्थितवतीति यावत् । वरयाचनाकाले अनुद्घाटितत्वात् सेनाप्रेषणादिकं न निवर्त्तितव्यमिति भाव: ।। 2.36.14 ।।

तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना ।

कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् ।। 2.36.15 ।।

तस्येति । द्विगुणं क्रुद्धा प्रकारान्तरेण मदभिमतं विघटयतीति बहुतरं क्रुद्धेत्यर्थ: ।। 2.36.15 ।।

तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत् ।

असमञ्ज इति ख्यातं तथा ऽयं गन्तुमर्हति ।। 2.36.16 ।।

यद्यपि पूर्वमिदं न वृतं तथाप्यर्थसिद्धमित्याशयेनाह–तवैवेति । उपारुधदिति निष्कासनमेवोच्यते । गन्तुमर्हतीति निर्देशात् तथायमिति निर्द्धन एवेत्यर्थ: ।। 2.36.16 ।।

एवमुक्तो धिगित्वेन राजा दशरथो ऽब्रवीत् ।

व्रीडितश्च जन: सर्व: सा च तं नावबुध्यत ।। 2.36.17 ।।

एवमिति । प्रतिज्ञातातिरिक्तेपि चापलवतीं निन्दति । धिगिति । सा कैकेयी । तं व्रीडितं जनं नावबुध्यत नाजीगणत् ।। 2.36.17 ।।

तत्र वृद्धो महामात्र: सिद्धार्थो नाम नामत: ।

शुचिर्बहुमतो राज्ञ: कैकेयीमिदमब्रवीत् ।। 2.36.18 ।।

तत्रेति । महामात्र: प्रधान: । शुचि: अकुटिल: ।। 2.36.18 ।।

असमञ्जो गृहीत्वा तु क्रीडत: पथि दारकान् ।

सरय्वा: प्रक्षिपन्नप्सु रमते तेन दुर्मति: ।। 2.36.19 ।।

असमञ्ज इति । दाकान् बालकान् । तेन प्रक्षेपेण । सशब्दबुद्बुददजननेन हसन् रमत इत्यर्थ: ।। 2.36.19 ।।

तं दृष्ट्वा नागरा: सर्वे क्रुद्धा राजानमब्रुवन् ।

असमञ्जं वृणीष्वैकमस्मान् वा राष्ट्रवर्द्धन ।। 2.36.20 ।।

तमिति । वृणीष्व अत्र नगरे स्थापय ।। 2.36.20 ।।

तानुवाच ततो राजा किंनिमित्तमिदं भयम् ।

ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयो ऽब्रुवन् ।। 2.36.21 ।।

तानिति । भयमित्यनन्तरमितिकरणं द्रष्टव्यम् । प्रकृतय: प्रजा: ।। 2.36.21 ।।

क्रीडतस्त्वेष न: पुत्रान् बालानुद्भ्रान्तचेतन: ।

सरय्वां प्रक्षिपन् मौर्ख्यादतुलां प्रीतिमश्नुते ।। 2.36.22 ।।

स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप: ।

तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया ।। 2.36.23 ।।

क्रीडत इति । उद्भ्रान्तचेतन: भ्रान्तबुद्धि: ।। 2.36.2223 ।।

तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम् ।

यावज्जीवं विवास्योयमिति स्वानन्वशात्पिता ।। 2.36.24 ।।

तमिति । अन्वशात् अनुशिष्टवान् ।। 2.36.24 ।।

स फालपिटकं गृह्य गिरिदुर्गाण्यलोलयत् ।

दिश: सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ।। 2.36.25 ।।

स फालेति । फालं मन्दमूलादिखननसाधनम् पिटका तद्धारणपात्रम् । एकवद्भाव: । गृह्य गृहीत्वा । अलोलयत् कन्दमूलाद्यर्थम् अखनदित्यर्थ: । यथा पापकृत्तथाचरन् अलोलयदित्यन्वय: ।। 2.36.25 ।।

इत्येनमत्यजद्राजा सगरो वै सुधार्मिक: ।

राम: किमकरोत्पापं येनैवमुपरुध्यते ।। 2.36.26 ।।

इतीति । उपरुध्यते विवास्यते ।। 2.36.26 ।।

न हि कञ्चन पश्यामो राघवस्यागुणं वयम् ।

दुर्ल्लभो ह्यस्य निरय: शशाङ्कस्येव कल्मषम् ।। 2.36.27 ।।

अथवा देवि दोषं त्वं कंचित् पश्यसि राघवे ।

तमद्य ब्रूहि तत्त्वेन ततो रामो विवास्यताम् ।। 2.36.28 ।।

अदुष्टस्य हि सन्त्याग: सत्पथे निरतस्य च ।

निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ।। 2.36.29 ।।

न हीति । निरय: निरयहेतुभूतो दोष: ।। 2.36.2729 ।।

तदलं देवि रामस्य श्रिया विहतया त्वया ।

लोकतोपि हि ते रक्ष्य: परिवाद: शुभानने ।। 2.36.30 ।।

तदिति । विहतया श्रिया अलम् अभिषेकविघातं मा कुर्वित्यर्थ: । रक्ष्य: परिहरणीय: । परिवाद: निन्दा ।। 2.36.30 ।।

श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततर: स्वन: ।

शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ।। 2.36.31 ।।

श्रुत्वेति । श्रान्ततर: हीनतर: ।। 2.36.31 ।।

एतद्वचो नेच्छसि पापवृत्ते हितं न जानासि ममात्मनो वा ।

आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता ।। 2.36.32 ।।

अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च ।

सहैव राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम् ।। 2.36.33 ।।

एतदिति । एतद्वच: सिद्धार्थवच: । कृपणं कुत्सितमित्यर्थ: । “कदर्ये कृपणक्षुद्र” इत्यमर: । कुचेष्टेत्येतदुपपादयति चेष्टाहीति ।। 2.36.3233 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षङ्त्रिंश: सर्ग: ।। 36 ।।

इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्त्रिंश: सर्ग: ।। 36 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.