117 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततम: सर्ग:

राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।

न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ।। 2.117.1 ।।

अथ रामस्यात्र्याश्रमप्रवेश: सप्तदशोत्तरशततमे–राघव इत्यादिना ।। 2.117.1 ।।

इह मे भरतो दृष्टो मातरश्च सनागरा: ।

सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ।। 2.117.2 ।।

बहुकारणान्येवाह–इह म इत्यादिना ।। 2.117.2 ।।

स्कन्धावारनिवेशेन तेन तस्य महात्मन: ।

हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ।। 2.117.3 ।।

स्कन्धावारनिवेशेन सेनानिवेशेन । करीषैश्च उपमर्द इत्यत्र वाक्यसंहिताया अनित्यत्वान्न सन्धिकार्य्यम् । “पदेषु संहिता नित्या नित्या धातूपसर्गयो: । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ।।” इति वचनात् ।। 2.117.3 ।।

तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: ।

प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत: ।। 2.117.4 ।।

सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: ।

तं चापि भगवानत्रि: पुत्रवत् प्रत्यपद्यत ।। 2.117.5 ।।

तस्मादिति । प्रातिष्ठत प्रस्थित: ।। 2.117.45 ।।

स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।

सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ।। 2.117.6 ।।

आतिथ्यमादिश्य आतिथ्यं कृत्वा ।। 2.117.6 ।।

पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।

सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत: ।। 2.117.7 ।।

सत्कृतां सर्वै: सत्कृताम् ।। 2.117.7 ।।

अनसूयां महाभागां तापसीं धर्मचारिणीम् ।

प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: ।

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ।। 2.117.8 ।।

प्रतिगृह्णीष्वेत्यत्र इतिकरणं द्रष्टव्यम् ।। 2.117.8 ।।

दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।

यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ।। 2.117.9 ।।

उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।

दशवर्षसहस्राणि यया तप्तं महत्तप: ।। 2.117.10 ।।

अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: ।

देवकार्यनिमित्तं च यया संत्वरमाणया ।

दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ ।। 2.117.11 ।।

दशवर्षाणीत्यारभ्य सेयं मातेव तेनघेत्यन्तमेकं वाक्यम् । दशवर्षाण्यनावृष्ट्या लोके दग्धे सति यया स्वतपोमहिम्ना निरन्तरं मूलफले सृष्टे । जाह्नवी च प्रवर्तिता । यया दशवर्षसहस्राणि महत्तपस्तप्तं कृतम् । यया व्रतै: कृच्छ्रचान्द्रायणादिभि: प्रत्यूहास्तपोविघ्नाश्च निवर्तिता: निरस्ता: । देवकार्यनिमित्तं सन्त्वरमाणया यया दशरात्रमेकारात्रिश्च कृता दशरात्रावधिक: काल: एकरात्रत्वेन कृत इत्यर्थ: । इयं कथा पुराणेषु द्रष्टव्या । उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता, सेयमनसूया ते मातेव मातृवत्पूजनीयेत्यर्थ: ।। 2.117.911 ।।

तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् ।

अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।

अनसूयेति या लोके कर्मभि: ख्यातिमागता ।। 2.117.12 ।।

एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: ।

सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ।। 2.117.13 ।।

राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।

श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम् ।। 2.117.14 ।।

सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: ।

तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ।। 2.117.15 ।।

तामित्यादि । या कर्मभिरनन्यशक्यै: परानुग्रहार्थतपोविशेषै: अनसूया असूयारहितेति लोके ख्यातिमागता । यद्वा कर्मभि: पातिव्रत्यवर्द्धकै: अन्याभि: कर्त्तुमशक्यै: पतिरक्षणादिकर्मभि: । अनसूया अस्पर्द्धनीयमाहात्म्ययुक्तत्वादसूयितुमशक्या इति लोके ख्यातिमागता तामिमां वैदेही अनुगच्छत्विति सम्बन्ध: ।। 2.117.1215 ।।

शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् ।

सततं वेपमानाङ्गी प्रवाते कदली यथा ।। 2.117.16 ।।

तां तु सीता महाभागामनसूयां पतिव्रताम् ।

अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ।। 2.117.17 ।।

शिथिलामित्यादिश्लोकद्वयमेकान्वयम् । शिथिलां श्लथसन्धिबन्धावयवसन्निवेशाम् । वलितां सञ्जातवलिकाम् ।। 2.117.1617 ।।

अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।

बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ।। 2.117.18 ।।

अनामयम् आरोग्यम् । “अनामयं स्यादारोग्यम्” इत्यमर: ।। 2.117.18 ।।

तत: सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।

सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ।। 2.117.19 ।।

दिष्ट्या भाग्येन धर्ममवेक्षसे पातिव्रत्यधर्ममवधानेन समीक्षसे ।। 2.118.19 ।।

त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।

अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ।। 2.117.20 ।।

नगरस्थो वनस्थो वा पापो वा यदि वा शुभ: ।

यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया: ।। 2.117.21 ।।

दु:शील: कामवृत्तो वा धनैवा परिवर्जित: ।

स्त्रीणामार्यस्वभावानां परमं दैवतं पति: ।। 2.117.22 ।।

ज्ञातिजनं बन्धुजनम् । मानम् अहङ्कारम् । वने अवरुद्धं चतुर्दशवर्षाणि वने वस्तव्यमिति पित्रा नियुक्तम् ।। 2.117.2022 ।।

नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।

सर्वत्रयोग्यं वैदेहि तप:कृतमिवाव्ययम् ।। 2.117.23 ।।

सर्वत्रयोग्यं सर्वावस्थासु रक्षणसमर्थम् ।। 2.117.23 ।।

न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रिय: ।

कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति या: ।। 2.117.24 ।।

प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।

अकार्यवशमापन्ना: स्त्रियो या: खलु तद्विधा: ।। 2.117.25 ।।

त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावरा: ।

स्त्रिय: स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ।। 2.117.26 ।।

कामवक्तव्यहृदया: कामविषयवक्तव्यहृदया:, कामरूपार्थाभिलाषिण्य इति यावत् । यद्वा मदनविधेयहृदया: । भर्तृनाथा: भर्तृ़णां नाथभूता:, भर्तृनियामिका इत्यर्थ: । यद्वा भर्तारं नाथन्ते याचन्त इति तथा, परपुरुषकाङ्क्षिण्य इत्यर्थ: ।। 2.117.2426 ।।

तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।

भवस्व भर्त्तु: सहधर्मचारिणी यशश्च धर्मं च तत: समाप्स्यसि ।। 2.117.27 ।।

समयानुवर्त्तिनीं आचारानुवर्त्तिनी । “समया: शपथाचारकालसिद्धान्तसंविद:” इत्यमर: । भर्तु: सहधर्मचारिणी भवस्व भव । आर्षमात्मनेपदम् । तत: भर्तु: सहधर्मचारिणीत्वेन यशश्च धर्मं च कालान्तरानुभाव्यसुखसाधनमदृष्टं च समाप्स्यसि । यद्वा भर्तु: सहधर्मचारिणी एवम्भूता त्वं तत: भर्तु: सहधर्मचारिणीत्वरूपहेतो: यशश्च भवस्व प्राप्नुहीत्यर्थ: । धर्मं च समाप्स्यसि भूप्राप्तावत्मनेपदीति गणपाठात् प्राप्त्यर्थस्य भवतेरात्मनेपदम् । पातिव्रत्यधर्मेण सर्वै: श्लाघां प्राप्य कालान्तरे तज्जन्यादृष्टद्वारा निरतिशयं श्रेय: समवाप्स्यसीत्यर्थ: । इति धर्मचारिण्यनसूया सीतामब्रवीदिति सम्बन्ध: ।। 2.117.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततम: सर्ग: ।। 117 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तदशोत्तरशततम: सर्ग: ।। 117 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.