103 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्युत्तरशततम: सर्ग:

वसिष्ठ: पुरत: कृत्वा दारान् दशरथस्य च ।

अभिचक्राम तं देशं रामदर्शनतर्षित: ।। 2.103.1 ।।

राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।

ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ।। 2.103.2 ।।

कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।

सुमित्रामब्रवीद्दीना याश्चान्या राजयोषित: ।। 2.103.3 ।।

अथ मातृसमागमस्त्र्युत्तरशततमे–वसिष्ठ इति । रामदर्शनतर्षित: रामदर्शने सञ्जाताभिलाष: ।

“कामो ऽभिलाषस्तर्षश्च” इत्यमर: ।। 2.103.13 ।।

इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।

वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृता: ।। 2.103.4 ।।

इत: सुमित्रे पुत्रस्ते सदा जलमतन्द्रित: ।

स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ।। 2.103.5 ।।

इदमिति । ते प्रसिद्धा: रामादय: । ये प्राक् निर्विषयीकृता: राज्यान्निष्कासिता: । वने तेषां क्लिष्टम् उपमर्दितम् इदं तीर्थमवतरणम् । केवलं निश्चितम् । “केवलं निश्चिते क्लीबे वाच्यवत्त्वेककृत्स्नयो:” इति वैजयन्ती ।। 2.103.45 ।।

जघन्यमपि ते पुत्र: कृतवान्न तु गर्हित: ।

भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणै: ।। 2.1036 ।।

जघन्यमिति । जघन्यं हीनम् । जलाहरणादिकर्म कृतवानपि न गर्हित: । कुत इत्यत्राह भ्रातुरिति । भ्रातुर्ज्येष्ठभ्रातु: । अर्थसहितं प्रयोजनसहितं यत्कर्म तत्सर्वं गुणैर्विहितम् । “ज्येष्ठभ्राता पितृसम:” इति वचनात् पितृशुश्रूषावत् गुणाय कल्पत इत्यर्थ: ।। 2.103.6 ।।

अद्यायमपि ते पुत्र: क्लेशानामतथोचित: ।

नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ।। 1.103.7 ।।

अद्येति । क्लेशानामतथोचित: इदानीं यादृशक्लेशानुभवस्तादृशक्लेशानामनुचित: । ते अयं पुत्र: नीचानर्थसमाचारं निकृष्टदु:खप्रचुरसमाचारसहितम् । सज्जम् उद्युक्तं कर्म अद्य प्रमुञ्चत्वपि । अपिशब्द: सम्भावनायाम् “अपि: सम्भावनाप्रश्नगर्हाशङ्कासमुच्चये” इति वैजयन्ती । भरतप्रार्थनया रामेण स्वराज्ये स्वीकृते लक्ष्मणस्य नीचकर्मप्रमोचनं सम्भवेदिति भाव: ।। 2.103.7 ।।

दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।

पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ।। 2.103.8 ।।

तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।

उवाच देवी कौसल्या सर्वा दशरथस्त्रिय: ।। 2.103.9 ।।

इदमिक्ष्वाकुनाथस्य राघवस्य महात्मन: ।

राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ।। 2.103.10 ।।

दक्षिणाग्रेष्विति । पितुरिति चतुर्थ्यर्थे षष्ठी ।। 2.103.810 ।।

तस्य देवसमानस्य पार्थिवस्य महात्मन: ।

नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ।। 2.103.11 ।।

चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभु: ।

कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिप: ।। 2.103.12 ।।

तस्येति । औपयिकं प्राप्तम् । “युक्तं स्यादुचितं न्याय्यं प्राप्तमौपयिकं तथा” इति हलायुध: ।। 2.103.1112 ।।

अतो दु:खतरं लोके न किञ्चित् प्रतिभाति मा ।

यत्र राम: पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ।। 2.103.13 ।।

राज्यैश्वर्य्ययोग्यतया ऋद्धिमान् इत्युक्ति: ।। 2.103.13 ।।

रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।

कथं दु:खेन हृदयं न स्फोटति सहस्रधा ।। 2.103.14 ।।

स्फोटति । स्फुटति ।। 2.103.14 ।।

श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।

यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ।। 2.103.15 ।।

एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।

ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ।। 2.103.16 ।।

सर्वभोगै: परित्यक्तं रामं सम्प्रेक्ष्य मातर: ।

आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिता: ।। 2.103.17 ।।

तासां राम: समुत्थाय जग्राह चरणान् शुभान् ।

मातृ़णां मनुजव्याघ्र: सर्वासां सत्यसङ्गर: ।। 2.103.18 ।।

सत्या सत्यार्था । लौकिकी लोकविदिता, लोकप्रसिद्धेति यावत् । देवता इति श्रुति: सत्येत्यन्वय: ।। 2.103.1518 ।।

ता: पाणिभि: सुखस्पर्शैर्मृद्वङ्गुलितलै: शुभै: ।

प्रममार्जू रज: पृष्ठाद्रामस्यायतलोचना: ।। 2.103.19 ।।

ता इति । रामस्यायतलोचना इति पाठ: ।। 2.103.19 ।।

सौमित्रिरपि ता: सर्वा: मातृ़: सम्प्रेक्ष्य दु:खित: ।

अभ्यवादयतासक्तं शनै रामादनन्तरम् ।। 2.103.20 ।।

असक्तम् अविरतम् । “अविरतमनवरतं स्यादेकार्थमनारतमसक्तमपि” इति हलायुध: ।। 2.103.20 ।।

यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रिय: ।

वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ।। 2.103.21 ।।

सीतापि चरणांस्तासामुपसंगृह्य दु:खिता ।

श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रत: स्थिता ।। 2.103.22 ।।

तां परिष्वज्य दु:खार्त्तां माता दुहितरं यथा ।

वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ।। 2.103.23 ।।

विदेहराजस्य सुता स्नुषा दशरथस्य च ।

रामपत्नी कथं दु:खं सम्प्राप्ता निर्जने वने ।। 2.103.24 ।।

ववृतिरेचक्रुरित्यर्थ: ।। 2.103.2124 ।।

पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।

काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदै: ।। 2.103.25 ।।

मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम्

भृशं मनसि वैदेहि व्यसनारणिसम्भव: ।। 2.103.26 ।।

ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रज: ।

पादावासाद्य जग्राह वसिष्ठस्य च राघव: ।। 2.103.27 ।।

पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिप: ।

प्रगृह्य पादौ सुसमृद्धतेजस: सहैव तेनोपविवेश राघव: ।। 2.103.28 ।।

ते मुखं प्रेक्ष्य स्थितामिति शेष: । मां मनसि स्थित: सन्निति शेष: । आश्रयमाश्रयभूतं काष्ठादिकम् ।। 2.103.2528 ।।

ततो जघन्यं सहितै: समन्त्रिभि: पुरप्रधानैश्च सहैव सैनिकै: ।

जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ।। 2.103.29 ।।

ततो जघन्यं वसिष्ठरामोपवेशादनन्तरमुपोपविष्ट: । “प्रसमुपोद: पादपूरणे” इति द्विर्वचनम् ।। 2.103.29 ।।

उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।

श्रिया ज्वलन्तं भरत: कृताञ्जलिर्यथा महेन्द्र: प्रयत: प्रजापतिम् ।। 2.103.30 ।।

कृताञ्जलि: अभूदिति शेष: ।। 2.103.30 ।।

किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।

इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ।। 2.103.31 ।।

स राघव: सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिक: ।

वृता: सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यै: सहितास्त्रयो ऽग्नय: ।। 2.103.32 ।।

इतीवेत्यत्र इवशब्दो वाक्यालङ्कारे ।। 2.103.3031 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्युत्तरशततम: सर्ग: ।। 103 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने त्र्युत्तरशततमस्सर्ग: ।। 103 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.