98 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टनवतितम: सर्ग:

निवेश्य सेनां तु विभु: पद्भ्यां पादवतां वर: ।

अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ।। 2.98.1 ।।

निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् ।

भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ।। 2.98.2 ।।

अथ भरतस्य रामप्राप्तिरष्टनवतितमे सर्गे–निवेश्येत्यादिना । गुरुवर्तकं गुरुवचनानुवर्तकम् ।। 2.98.12 ।।

क्षिप्रं वनमिदं सौम्य नरसङ्घै: समन्तत: ।

लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ।। 2.98.3 ।।

गुहो ज्ञातिसहस्रेण शरचापासिधारिणा ।

समन्वेषतु काकुत्स्थावस्मिन् परिवृत: स्वयम् ।। 2.98.4 ।।

क्षिप्रमिति । लुब्धै: व्याधै: ।। 2.98.34 ।।

अमात्यै: सह पौरैश्च गुरुभिश्च द्विजातिभि: ।

वनं सर्वं चरिष्यामि पद्भ्यां परिवृत: स्वयम् ।। 2.98.5 ।।

अमात्यैरिति । अमात्यै: सह पौरे: सह । गुरुभि: द्विजातिभिश्च परिवृत: पद्भ्यां सर्वं वनं चरिष्यामीति सम्बन्ध: ।। 2.98.5 ।।

यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् ।

वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ।। 2.98.6 ।।

यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम् ।

भ्रातु: पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ।। 2.98.7 ।।

यावदिति । शान्ति: दु:खशान्ति: मङ्गलं वा । “शान्ति: प्रशममङ्गले” इति वैजयन्ती ।। 2.98.67 ।।

यावन्न चरणौ भ्रातु: पार्थिवव्यञ्जनान्वितौ ।

शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ।। 2.98.8 ।।

यावन्न राज्ये राज्यार्ह: पितृपैतामहे स्थित: ।

अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति ।। 2.98.9 ।।

यावदिति । पार्थिवव्यञ्जनान्वितौ वज्रध्वजारविन्दाङ्कुशसुधाकलशादिमहाराजलक्षणयुक्तौ चरणौ यावन्न शिरसा धारयिष्यामि तावत्पर्यन्तं मे शान्तिर्न भविष्यति । यदा राम: स्वयोग्यसिंहासनाधिराज्यमौलिं धृत्वा मम योग्यं श्रीपादाख्यमौलिं ददाति तदा मे सकलदु:खशान्तिर्भविष्यतीति भाव: ।। 2.98.89 ।।

सिद्धार्थ: खलु सौमित्रिर्यश्चन्द्रविमलोपमम् ।

मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ।। 2.98.10 ।।

सिद्धार्थ इति । चन्द्रविमलोपमं निर्मलचन्द्रसदृशम् ।। 2.98.10 ।।

कृतकत्या महाभागा वैदेही जनकात्मजा ।

भर्तारं सागरान्ताया: पृथिव्या या ऽनुगच्छति ।। 2.98.11 ।।

महाकुलप्रसूता वैदेही महाभागा महाभाग्यवता । कृतकृत्या कृतार्था च । तत्फलं तद्धेतुं चाह भर्तारमिति । पृथिव्या भर्तारमित्यन्वय: ।। 2.98.11 ।।

सुभगश्चित्रकूटो ऽसौ गिरिराजोपमो गिरि: ।

यस्मिन् वसति काकुत्स्थ: कुबेर इव नन्दने ।। 2.98.12 ।।

सुभग इति । असौ चित्रकूट: । सुभग: भाग्यशाली । गिरिराजोपमश्च गिरिराजोपम: हिमवत्पर्वतसदृश: । नन्दने नन्दयतीति नन्दनं चैत्ररथम् । सुभग इत्यादि सुभग: प्रदेशान्तरेभ्यो ऽतिरमणीय: । सुभग: सर्वेषामुद्देश्यतम: । अत्र हेतुं यस्मिन्नित्युत्तरार्धे वक्ष्यति । चित्रकूट: स्वभावतोपि रमणीय: । असौ गिरि: अयोध्यां परित्यज्यापि रामेण आदरणीय: । यद्वा गिरिराजोपम: गिरिराजो ऽत्र श्रीनिवाससान्निध्यस्थानभूतो वेङ्कटाचल: । तत्र उभयत्र हेतुमाह यस्मिन्निति । काकुत्स्थ: अयोध्याधिपति: स्वदेशं विहाय अपरिचिते यस्मिन् वसति । तत्रानुरूपं दृष्टान्तमाह कुबेर इति । चैत्ररथवासयोग्य: कुबेर: इन्द्रोद्याने नन्दन इव । यद्वा स्वगृहं विहाय स्वगृहोद्याने विहरमाणो वैश्रवण इव वसतीत्यर्थ: । ‘इक्ष्वाकूणामियं भूमिं सशैलवनकानना’ इत्युक्तेश्चित्रकूटोपि रामविषयो हि, नन्दनोपमानेन रामस्य चित्रकूटे भोग्यताप्रकर्ष उच्यते । काकुत्स्थ: ककुत्स्थकुलोद्भव: । यथा स्वकुलमकृतार्थयत् तथा स्ववासस्थलमप्यकृतार्थयदिति भाव: । यद्वा कुबेर इव नन्दने भूवाचकेन कुशब्देन जगदुपलक्ष्यते, बेरं शरीरं कुबेरो जगच्छरीर: परमात्मा । नन्दन इव वैकुण्ठनन्दनवन इव ।। 2.98.12 ।।

कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् ।

यदध्यास्ते महातेजा राम: शस्त्रभृतां वर: ।। 2.98.13 ।।

कृतेति । कृतकार्यं कृतार्थम् । दुर्गं दुष्प्रवेशम् । व्यालनिषेवितं दुष्टसर्पाश्रितम् । कृतकृत्यत्वे हेतु: यदित्यादि । वनं दुर्गमिति स्थलस्वभावेन वासानर्हत्वमुक्तम् । महातेजा इत्यादिना रामवैभवापेक्षयापि वासानर्हत्वमुच्यते ।। 2.98.13 ।।

एवमुक्त्वा महातेजा भरत: पुरुषर्षभ: ।

पद्भ्यामेव महाबाहु: प्रविवेश महद्वनम् ।। 2.98.14 ।।

एवमिति । महातेजा इत्यादिना पद्भ्यां गमनानर्हत्वमुच्यते ।। 2.98.14 ।।

स तानि द्रुमजालानि जातानि गिरिसानुषु ।

पुष्पिताग्राणि मध्येन जगाम वदतां वर: ।। 2.98.15 ।।

स इति । द्रुमजालानि मध्येन द्रुमजालानां मध्येनेत्यर्थ: । मध्यशब्दस्य दिग्वाचित्वात् “एनपा द्वितीया” इति द्वितीया । वदतां वर इत्यनेन रामसन्निधौ वक्तव्यविशेषं चिन्तयन्नेव जगामेत्युक्तम् ।। 2.98.15 ।।

स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम् ।

रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम् ।। 2.98.16 ।।

स इति । अग्नेर्ध्वजं धूमम् । पूर्वं धूमाग्रदर्शनम् अधुना समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्ति: ।। 2.98.16 ।।

तं दृष्ट्वा भरत: श्रीमान् मुमोह सहबान्धव: ।

अत्र राम इति ज्ञात्वा गत: पारमिवाम्भस: ।। 2.98.17 ।।

तमिति । मुमोह मोहसदृशं पारवश्यं प्राप । मुमोदेति च पाठ: । अम्भस: समुद्रस्य पारं गत इव, अभूदिति शेष: ।। 2.98.17 ।।

स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम् ।

गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ।। 2.98.18 ।।

स इति । निशम्य दृष्ट्वा । दीर्घाभाव आर्ष: । तत्समीपस्थजनेभ्य: श्रुत्वेति वार्थ: । अत एव पुण्यजनोपपन्नमित्युच्यते । गुहेनेति प्रधानजनोपलक्षणपरम् । चमूं पुनर्निवेश्य अन्वेषणार्थमागतां चमूमपि स्थापयित्वा । महात्मा दृढाध्यवसाय: ।। 2.98.18 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टनवतितम: सर्ग: ।। 2.98.18 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टनवतितम: सर्ग: ।। 98 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.