29 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनत्रिंश: सर्ग:

एतत्तु वचनं श्रुत्वा सीता रामस्य दु:खिता ।

प्रसक्ता श्रुमुखी मन्दमिदं वचनमब्रवीत् ।। 2.29.1 ।।

एतदिति । पूर्वसर्गान्ते इदमित्युक्तावपि पुनरिदमित्युक्तिर्विशेषणविशेषाभिधानार्था । प्रसक्ताश्रुमुखी ईषदश्रुमुखीत्यर्थ: ।। 2.29.1 ।।

ये त्वया कीर्त्तिता दोषा वने वस्तव्यतां प्रति ।

गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृतान् ।। 2.29.2 ।।

य इति । वस्तव्यतां वासित्वम् । तान् दोषान् । तव स्नेहपुरस्कृतान् गुणानित्येवविद्धि । प्रेयसा त्वया सह वर्तमानाया: मम कोकिलालापचन्दनमलयमारुतवत् सुखकरान् जानीहीत्यर्थ: । अमुमर्थमुपरितनसर्गे कुशकाशेत्यादिश्लोकैर्विवरिष्यति ।। 2.29.2 ।।

मृगा: सिंहा गजाश्चैव शार्दूला: शरभास्तथा ।

पक्षिण: सृमराश्चैव ये चान्ये वनचारिण: ।। 2.29.3 ।।

अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव ।

रूपं दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति ।। 2.29.4 ।।

मृगा इत्यादि । शरभा: अष्टपादमृगा: । सृमरा: गवया: । भये भयहेतौ । अस्मान् दृष्ट्वा अभिमुखमायास्यन्तीत्युक्तवान् राम: । इयं त्वपसर्पेयुरिति तत् परिजहार ।। 2.29.34 ।।

त्वया च सह गन्तव्यं मया गुरुजनाज्ञया ।

त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ।। 2.29.5 ।।

त्वयेति । गुरुजनाज्ञया पित्रोराज्ञया त्वया च सह मया गन्तव्यम् । “अर्द्धो वा एष आत्मनो यत्पत्नी” इति श्रुत्युक्तप्रक्रियया जायापत्योरेकात्मत्वात् त्वद्विषयादेश एव मद्विषयादेश इत्यर्थ: । त्वद्वियोगेन हेतुना । मे मया ।। 2.29.5 ।।

न च मां त्वत्समीपस्थामपि शक्नोति राघव ।

सुराणामीश्वर: शक्र: प्रधर्षयितुमोजसा ।। 2.29.6 ।।

न चेति । अपिशब्दो भिन्नक्रम: । सुराणामीश्वरोपीत्यर्थ: ।। 2.29.6 ।।

पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् ।

काममेवंविधं राम त्वया मम विदर्शितम् ।। 2.29.7 ।।

पतिहीनेति । या नारी पतिहीना पतिवियुक्ता सा जीवितुं न शक्ष्यतीत्येवंविधं त्वया मम कामम् अत्यर्थम् । विदर्शितम् उपदिष्टम् ।। 2.29.7 ।।

अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् ।

पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ।। 2.29.8 ।।

अथेति । अथचापि अपिचेत्यर्थ: । हे महाप्राज्ञ पुरा पितृगृहे वसन्त्या मया ब्राह्मणानां ब्राह्मणेभ्य: ज्योतिर्विद्भ्य: । मे मया वने वस्तव्यं किलेति सत्यं वचनं मया श्रुतम् ।। 2.29.8 ।।

लक्षणिभ्यो द्विजातिभ्य: श्रुत्वाहं वचनं पुरा ।

वनवासकृतोत्साहा नित्यमेव महाबल ।। 2.29.9 ।।

लक्षणिभ्य इति । लक्षणिभ्य: सामुद्रिकलक्षणज्ञेभ्य: । लक्षणज्ञानमस्त्येषामिति इनि: ।। 2.29.9 ।।

आदेशो वनवासस्य प्राप्तव्यस्स मया किल ।

सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा ।। 2.29.10 ।।

आदेश इति । स: ब्राह्मणोक्त: वनवासस्यादेश: आदिष्टो वनवास इत्यर्थ: । मया प्राप्तव्य: किल, ललाटलिखितस्यापरित्याज्यत्वादिति भाव: । सा एवमादिष्टाहं त्वया सह यास्यामि नान्यथा केवलं स्वेच्छया न यास्यामीत्यर्थ: ।। 2.29.10 ।।

कृतादेशा भविष्यामि गमिष्यामि सह त्वया ।

कालश्चायं समुत्पन्न: सत्यवाग् भवतु द्विज: ।। 2.29.11 ।।

फलितमाह–कृतादेशेत्यादि । अयं काल: वनवासकाल: । द्विज: लक्षणवादी । जातावेकवचनम् ।। 2.29.11 ।।

वनवासे हि जानामि दु:खानि बहुधा किल ।

प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभि: ।। 2.29.12 ।।

वनवास इति । वनवासे दु:खानि जानामि, तानि अकृतात्मभि: अशिक्षितमनस्कै: । प्राप्यन्ते न तु मादृशैर्जनैरिति भाव: ।। 2.29.12 ।।

कन्यया च पितुर्गेहे वनवास: श्रुतो मया ।

भिक्षिण्या: साधुवृत्ताया मम मातुरिहाग्रत: ।। 2.29.13 ।।

प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो ।

गमनं वनवासस्य कांक्षितं हि सह त्वया ।। 2.29.14 ।।

कान्ययेत्यादिश्लोकद्वयमेकान्वयम् । भिक्षिण्यास्तापस्या: । व्रीह्यादित्वादिनि: । वनवास: श्रुत: भावीति श्रुत: । इह गृहेत्वया सह वनवासस्य गमनं लीलार्थं जाह्नवीतीरतपोवनादिगमनं कांक्षितं हि त्वं च बहुविधं प्रसादितो वै प्रसादित एवेति सम्बन्ध: ।। 2.29.1314 ।।

कृतक्षणाहं भद्रते गमनं प्रति राघव ।

वनवासस्य शूरस्य चर्या हि मम रोचते ।। 2.29.15 ।।

कृतक्षणेति । कृतक्षणा कृतोत्सवा । “निर्व्यापारस्थितौ कालविशेषोत्सवयो: क्षण:” इत्यमर: । वनवासस्य वने वासो यस्य इति वनवास: तस्य । शूरस्य तव चर्या परिचर्या । मम मह्यं रोचते ।। 2.29.15 ।।

शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा ।

भर्त्तारमनुगच्छन्ती भर्त्ता हि मम दैवतम् ।। 2.29.16 ।।

शुद्धात्मत्रिति । शुद्धात्मन् ईर्ष्यादिरहित प्रेमभावात् प्रेमस्वभावात् । हि: प्रसिद्धौ । भर्त्तारं त्वामनुगच्छन्ती । विकल्मषा विगतकल्मषा भविष्यामि । नन्वत्रैव स्थित्वा कुलदेवतामाराध्य विशुद्धा भवेत्यत्राह भर्त्त हि मम दैवतमिति ।। 2.29.16 ।।

प्रेत्यभावे ऽपि कल्याण: सङ्गमो मे सह त्वया ।। 2.29.17 ।।

प्रेत्यभाव इति । प्रेत्यभावे ऽपि परलोके ऽपि । त्वया सह सङ्गम: कल्याण: शोभन: ।। 2.29.17 ।।

श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां तपस्विनाम् ।

इह लोके च पितृभिर्या स्त्री यस्य महामते ।

अदृभिर्दत्त स्वधर्मेण प्रेत्यभावेपि तस्य सा ।। 2.29.18 ।।

अत्र प्रमाणमाह–श्रुतिर्हीत्यादिसार्धश्लोकेन । पितृभिरिति बहुवचनं पितामहाद्यपेक्षया । श्रुतिमेवाह इहेति । महामत इत्यनेन न त्वां बोधयामीति सूच्यते । स्वधर्मेण स्वस्ववर्णोक्तब्राह्मादिविवाहविधिना ।। 2.29.18 ।।

एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम् ।

नाभिरोच्यसे नेतुं त्वं मां केनेह हेतुना ।। 2.29.19 ।।

एवं पूर्वोक्तश्रुतिरूपप्रबलप्रमाणसद्भावे ऽपीत्यर्थ: । अस्मान्नगरात् नेतुमित्यनेनान्वय: । यद्वा अस्मात् अद्भिर्दानाद्धेतो: ।। 2.29.19 ।।

भक्तां पतिव्रतां दीनां मां समां सुखदु:खयो: ।

नेतुमर्हसि काकुत्स्थ समानसुखदु:खिनीम् ।। 2.29.20 ।।

भक्तामिति । सुखदु:खयो: समां प्राप्तयो: सुखदु:खयोरेकरूपाम् । समानसुखदु:खिनीं त्वत्समानसुखदु:खाम् ।। 2.29.20 ।।

यदि मां दु:खिता मेवं वनं नेतुं न चेच्छसि ।

विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात् ।। 2.29.21 ।।

यदीति । आस्थास्ये स्वीकरिष्ये ।। 2.29.21 ।।

एवं बहुविधं तं सा याचते गमनं प्रति ।

नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ।। 2.29.22 ।।

एवमिति । याचते अयाचत । विजनं बन्धुजनरहितम् ।। 2.29.22 ।।

एवमुक्ता तु सा चिन्तां मैथिली समुपागता ।

स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतै: ।। 2.29.23 ।।

एवमिति । गां भुवम् ।। 2.29.23 ।।

चिन्तयन्तीं तथा तां तु निवर्त्तयितुमात्मवान् ।

ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बह्वसान्त्वयत् ।। 2.29.24 ।।

चिन्तयन्तीमिति । ताम्रोष्ठीमित्यनेन सान्त्वादिना स्थातुमशक्यत्वमुच्यते ।। 2.29.24 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनत्रिंश: सर्ग: ।। 29 ।।

इति श्रीगोविन्द0 श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनत्रिंश: सर्ग: ।। 29 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.