106 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकव्ये श्रीमदयोध्याकाण्डे षडुत्तरशततम: सर्ग:

एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।

ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् ।

उवाच भरतश्चित्रं धार्मिको धार्मिकं वच: ।। 2.106.1 ।।

को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।

न त्वां प्रव्यथयेद्दु:खं प्रीतिर्वा न प्रहर्षयेत् ।। 2.106.2 ।।

एवमुक्त्वा त्विति । निरुत्तरमुक्तवन्तं रामं प्रति मुखान्तरेण उत्तरस्योच्यमानत्वाच्चित्रमित्युक्तम् ।। 2.106.12 ।।

सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ।। 2.106.3 ।।

सम्मत इति । वृद्धानां त्रैविद्यवृद्धानाम् । सम्मत: सर्वज्ञत्वेन सम्मत: तथापि तान् संशयान् पृच्छसीति सम्बन्ध: ।। 2.106.3 ।।

यथा मृतस्तथा जीवन् यथा ऽसति तथा सति ।

यस्यैष बुद्धिलाभ: स्यात्परितप्येत केन स: ।। 2.106.4 ।।

पितृवियोगोदिजनितदु:खेन मया कथितामिति हि भवतोक्तम्, मम तादृशदु:खप्रसङ्ग एव नास्तीत्याह–यथा मृत इति । मृत: पुरुषो यथा द्वेषविषयो न भवति जीवन्नपि तथा । यथा असति तथा सति अविद्यमाने वस्तुनि यथा रागो नास्ति विद्यमाने वस्तुन्यपि तथा । इत्येष बुद्धिलाभो यस्य स केन हेतुना परितप्येत, न केनापीत्यर्थ: । भवदुक्तप्रकारेण मम दु:खलेशोपि नास्तीति भाव: ।। 2.106.4 ।।

परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप ।

स एवं व्यसनं प्राप्य न विषीदितुमर्हति ।। 2.106.5 ।।

किमर्थं तर्हि शोकमूलवचनं त्वयोक्तमित्याशङ्क्य भवद्व्यसनासहतयेत्याह–परावरज्ञ इति । य: परावरज्ञ: त्रिकालज्ञ: आत्मानात्मज्ञो वा परमात्मजीवात्मस्वरूपज्ञो वा । स: एवं व्यसनं प्राप्यापि व्यथितुं नार्हति तथा त्वमपीति सम्बन्ध: । अथापि तव राज्यभ्रंशवनवासरूपव्यसनं त्वद्विश्लेषं चाहं कथं सहेयेति भाव: ।। 2.106.5 ।।

अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गर: ।

सर्वज्ञ: सर्वदर्शी च बुद्धिमांश्चासि राघव ।। 2.106.6 ।।

अमरेति । अपरोपमेति पृथक्पदम् । सत्त्व: सत्त्वगुणसम्पन्न: । अर्श आद्यच् । स्वाश्रितानां सत्त्वगुणकार्यतत्त्वज्ञानप्रवर्तकत्वाद्वा सत्त्व इत्युच्यते । “सत्त्वस्यैष प्रवर्तक:” इति हि श्रुति: । महात्मा महाधैर्य: अत एव सत्यसङ्गर: सत्यप्रतिज्ञ: । सर्वज्ञ इत्यादिभिस्त्रिभिर्भूतवर्तमानभावियावद्वस्तुज्ञानवत्त्वमुक्तम् ।। 2.106.6 ।।

न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ।

अविषह्यतमं दु:खमासादयितुमर्हति ।। 2.106.7 ।।

प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।

क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ।। 2.106.8 ।।

न त्वामिति । प्रभवाभवकोविदम् उत्पत्तिविनाशज्ञमित्यर्थ: । भूतानामिति शेष: । अविषह्यतममपि अस्मदादीनामिति शेष: । दु:खं राज्यभ्रंशवनवासादिहेतुकम् । नासादयितुमर्हति नाभिभवितुमर्हति ।। 2.106.78 ।।

धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् ।

हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ।। 2.106.9 ।।

धर्मबन्धेन धर्मपाशेन ।। 2.106.9 ।।

कथं दशरथाज्जात: शुद्धाभिजनकर्मण: ।

जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ।। 2.106.10 ।।

जुगुप्सितं लोकगर्हितम् ।। 2.106.10 ।।

गुरु: क्रियावान् वृद्धश्च राजा प्रेत: पितेति च ।

तातं न परिगर्हेयं दैवतं चेति संसदि ।। 2.106.11 ।।

क्रियावान् यज्ञादिक्रियावान् । संसदि सभायाम् ।। 2.106.11 ।।

को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।

स्त्रिया: प्रियं चिकीर्षु: सन् कुर्याद्धर्मज्ञ धर्मवित् ।। 2.106.12 ।।

धर्मार्थयोर्हीनं धर्मार्थाभ्यां हीनम्, कामप्रधानमिति यावत् ।। 2.106.12 ।।

अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुति: ।

राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुति: कृता ।। 2.106.13 ।।

अन्तकाले विनाशकाले । मुह्यन्ति मोहं प्राप्नुवन्ति, विपरीतबुद्धिं प्राप्नुवन्तीति यावत् । पुराश्रुति: पुरातनी गाथेत्यर्थ: ।। 2.106.13 ।।

साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् ।

तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ।। 2.106.14 ।।

साध्वर्थमिति । क्रोधात् विषमद्यैव पास्यामीत्युक्तकैकेयीक्रोधात् । मोहात् कैकेयीविषयमोहात् । साहसात् साहसकरणात्, अविमृश्यकारित्वादिति यावत् । तातस्य यदविक्रान्तं यद्धर्मातिक्रमणं तत्साध्वर्थमभिसन्धाय समीचीनार्थं स्मृत्वा भवान् प्रत्याहरतु निवर्त्तयतु ।। 2.106.14 ।।

पितुर्हि यदतिक्रान्तं प्रत्रो य: साधुमन्यते ।

तदपत्यं मतं लोके विपरीतमतो ऽन्यथा ।। 2.106.15 ।।

पितुरिति । साधुमन्यते साधुकर्तुं मन्यत इत्यर्थ: । तदपत्यं मतं पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ।। 2.106.15 ।।

तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितु: ।

अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ।। 2.106.16 ।।

कैकेयीं मां च तातं च सुहृदो बान्धवांश्च न: ।

पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ।। 2.106.17 ।।

क्व चारण्यं क्व च क्षात्त्र क्व जटा: क्व च पालनम् ।

ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ।। 2.106.18 ।।

तदपत्यं भवानस्तु तादृशमपत्यमस्तु । माभिपत्ता प्राप्तुं नार्हतीत्यर्थ: ।। 2.106.1618 ।।

एष हि प्रथमो धर्म: क्षत्ित्रयस्याभिषेचनम् ।

येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ।। 2.106.19 ।।

तापसधर्मावलम्बनं क्षत्त्रियाणामप्यस्तीत्याशङ्क्याह–एष हीत्यादिना ।। 2.106.19 ।।

कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।

आयतिस्थं चरेद्धर्मं क्षत्त्रबन्धुरनिश्चितम् ।। 2.106.20 ।।

क इति । प्रत्यक्षं परिदृश्यमानत्यागभोगयुक्तं धर्मं परलोकश्रेय:साधनं प्रजापालनरूपं धर्ममुत्सृज्य संशयस्थमप्रत्यक्षम् अङ्गलोपादिसम्भावनया संशयितफलसिद्धिकमित्यर्थ: । अलक्षणं लक्षणरहितम् । क्रियाशक्तिरपूर्वं वा इति दुर्निरूपमित्यर्थ: । आयातिस्थं कालान्तरभाविफलम् । अनिश्चितं क्षत्त्रियेण प्रथममिदमनुष्ठेयमिति केनापि प्रमाणेनानिश्चितम् । तापसधर्म: क: क्षत्त्रिय: चरेत्, न कोपीत्यर्थ: ।। 2.106.20 ।।

अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।

धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ।। 2.106.21 ।।

अथ क्लेशजनमेव त्वं धर्मं चरितुमिच्छसि तथापि चातुर्वर्ण्यपालनतत्तद्धर्मस्थापनादिक्लेशयुक्तत्वाद्राज्यपालनमेवाचरेत्याह–अथेति ।। 2.106.21 ।।

चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।

प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ।। 2.106.22 ।।

सर्वाश्रमधर्मापेक्षया श्रेष्ठतमो गार्हस्थ्यधर्म: कथं त्यज्यत इत्याह–चतुर्णामिति ।। 2.106.22 ।।

श्रुतेन बाल: स्थानेन जन्मना भवतो ह्यहम् ।

स कथं पालयिष्यामि भूमिं भवति तिष्ठति ।। 2.106.23 ।।

स्वशक्त्यापि भवतैव राज्यं पालयितव्यमित्याह–श्रुतेनेति । श्रुतेन विद्यया । स्थानेन पदेन, प्राप्तिक्रमेणेति यावत् ।। 2.106.23 ।।

हीनबुद्धिगुणो बालो हीन: स्थानेन चाप्यहम् ।

भवता च विनाभूतो न वर्त्तयितुमुत्सहे ।। 2.106.24 ।।

इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् ।

अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवै: ।। 2.106.25 ।।

कथमेवमुच्यते बालत्वस्य ममापि तुल्यत्वात् भवदपेक्षया अहं कियान्वृद्ध इत्यत आह–हीनेति । हीनबुद्धि गुण: सद्गुणबुद्धिरहित: वर्तयितुं स्थातुं भवता विना तूष्णीं स्थातुमपि नोत्सहे, किं पुना राज्यं कर्तुमिति भाव: ।। 2.106.2425 ।।

इहैव त्वा ऽभिषिञ्चन्तु सर्वा: प्रकृतय: सह ।

ऋत्विज: सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदा: ।। 2.106.26 ।।

इहेति । सह संभूय ।। 2.106.26 ।।

अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।

विजित्य तरसा लोकान् मरुद्भिरिव वासव: ।। 2.106.27 ।।

अभिषिक्त इति । विजित्य स्थित इति शेष: । मरुद्भिर्देवै: ।। 2.106.27 ।।

ऋणानि त्रीण्यपाकुर्वन् दुर्हृद: साधु निर्द्दहन् ।

सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ।। 2.106.28 ।।

अद्यार्य मुदिता: सन्तु सुहृदस्ते ऽभिषेचने ।

अद्य भीता: पलायन्तां दुर्हृदस्ते दिशो दश ।। 2.106.29 ।।

रामं राज्याङ्गीकरणाय प्रोत्साहयति–ऋणानीत्यादिना । दुर्हृद: शत्रून् ।। 2.106.2829 ।।

आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।

अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ।। 2.106.30 ।।

आक्रोशमिति । आक्रोशं शापम् । “शाप आक्रोश आक्षेप:” इति हलायुध: । जनकर्तृकमिति शेष: । तत्रभवन्तं पूज्यम् । तत्रभवानत्रभवानितिशब्दौ वृद्धै: पूज्ये प्रयुज्येते ।। 2.106.30 ।।

शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि ।

बान्धवेषु च सर्वेषु भूतेष्विव महेश्वर: ।। 2.106.31 ।।

अथैतत् पृष्ठत: कृत्वा वनमेव भवानित: ।

गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ।। 2.106.32 ।।

शिरसेति । मयि बान्धवेषु च करुणां कुर्विति सम्बन्ध: । महेश्वरो विष्णु: । “यद्वेदादौ स्वर: प्रोक्तोवेदान्ते च प्रतिष्ठित: । तस्य प्रकृतिलीनस्य य: पर: स महेश्वर:” इति पूर्वप्रकृतदहरविद्याकरणमन्त्रप्रणवप्रकृतिभूताकारवाच्यो महेश्वर: इत्युक्ते: । दहरोपास्यश्चापहतपाप्मत्वादिगुणक: पुरुषोत्तम: “स उत्तम: पुरुष:” इति तत्समानप्रकरणे छान्दोग्ये श्रवणात् । अपहतपाप्मत्वं च रुद्रस्य नास्ति “अनपहतपाप्मा वा अहमस्मि” इति रुद्रेणैवोक्ते: । भूतसंहाराधिकृतस्य रुद्रस्य भूतेषु करुणा च गगनकुसुमतुल्या । अत: “स एकाकी न रमते । न ततो विजुगुप्सित:” इत्यादिश्रूतिस्मृत्यादिभि: सुप्रसिद्धापारकारुण्यवात्सल्यादिगुणगण: पुरुषोत्तम एव महेश्वर इति दिक् ।। 2.106.3132 ।।

तथाहि रामो भरतेन ताम्यता प्रसाद्यमान: शिरसा महीपति: ।

न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थित: ।। 2.106.33 ।।

तथेति । गमनाय अयोध्यां प्रतीति शेष: । तद्वचने तस्मिन् वचने ।। 2.106.33 ।।

तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दु:खित: ।

न यात्ययोध्यामिति दु:खितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षित: ।। 2.106.34 ।।

तदद्भुतमिति । समं युगपत् ।। 2.106.34 ।।

तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातर: ।

तथा ब्रुवाणं भरतं प्रतुष्टुवु: प्रणम्य रामं च ययाचिरे सह ।। 2.106.35 ।।

तमिति । नैगमयूथवल्लभा: निगम: पुरं तत्र भवा: नैगमा: । “निगमो निश्चये वेदे पुरे पथि वणिक्पथे” इति वैजयन्ती । यूथवल्लभा गणमुख्या: । विसंज्ञाश्रुकला: विगतसंज्ञा: अश्रुक्लिन्नाश्चेत्यर्थ: ।। 2.106.35 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकव्ये श्रीमदयोध्याकाण्डे षडुत्तरशततम: सर्ग: ।। 106 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षडुत्तरशततम: सर्ग: ।। 106 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.