100 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे शततम: सर्ग:

जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।

ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ।। 2.100.1 ।।

दर्शनमात्रेण भरतो राज्यं पालयतीति कृत्वा राज्यनीतिं पृच्छति शततमे–जटिलमिति । यद्वा अथ भगवान् राम: प्रश्नव्याजेन राज्यरक्षणनीतिप्रकारान् शिक्षयति, पश्चाद्दशरथात्ययश्रवणभरतस्थण्डिलशयनादिव्यापारेण तदुपदेशावकाशाभावात् । जटिलमित्यादि । जटिलं, समीचीनमालिका दृष्टा चेदियं भरतस्य केशार्हेत्येवं दशरथो वदति स एव जटां बद्ध्वा तिष्ठतीति रामो विस्मयते । चीरवसनं श्लाघ्यचीनाम्बरं दृष्टं चेद्बालस्य भरतस्य वसनार्हमिदमिति पिता वदति स एवेदानीं वल्कलधारी तिष्ठति । प्राञ्जलिं पिता याचनापूर्वकं दिशति चेत् य: स्वीकरोति स सम्प्रति स्वाभिमतस्य स्वयमर्थी भवति । पतितं भुवि अङ्के भरतमारोप्येति स्थितिर्न लब्धा । कुसुमशय्यापि कठिनीभवेदितिमत्वा उत्सङ्गे एव पित्रा शायित: स सम्प्रति स्थले पतित: । ददर्श रामोदुर्दर्शं दत्तां दृष्टिमनाकृष्य स्थितस्य रामस्य दर्शनायोग्यनतया स्थितम् । यद्वा दुर्दर्शं जटिलत्वादिवेषेण स्नेहितजनस्य दुष्प्रेक्षम् । दुर्दुर्शं दु:खेन द्रष्टुं योग्यम्, कृच्छ्रेणाप्यभिज्ञातुमयोग्यमिति यावत् । युगान्ते भास्करं यथा न केवलं रामस्य सर्वस्यापि जनस्य दुर्दर्शतया स्थितमिति भाव: । यद्वा युगान्ते भास्करं यथा युगान्ते भुवि पतितं भास्करमिव स्थितम्, अनेन पूर्ववन्महत्तरतेजोराहित्यं तादृशावस्थानर्हत्वं च व्यज्यते । (युगान्ते भुवि पतितं भास्करं यथेत्यनेन महत्तरतेजोराशित्वं तादृशावस्थानर्हत्वं चोच्यते ।) ननु गङ्गातीरे “अद्यप्रभृति भूमौ तु शयिष्ये ऽहं तृणेषु वा । फलमूलाशनो नित्यं जटाचीराणिधारयन्” इति जटावल्कलधारणं प्रतिज्ञातम् । पुनर्नवतितमे भरद्वाजदर्शनसमये ‘वसानो वाससी क्षौमे’ इति क्षौमवस्त्रं धृतवानित्युच्यते । अत्र तु जटिलं चीरवसनमिति सिद्धवदनूद्यते । कथमेतत्सङ्गच्छत इति चेत् ? अत्राहु:–प्रतिज्ञाया रात्रौ कृतत्वात् परेद्युर्भरद्वाजदर्शनानन्तरं जटावल्कले धृतवानित्यविरोध इति । अयं च परिहार: पुरैवास्माभि: प्रतिपादित: ।। 2.100.1 ।।

कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् ।

भ्रातरं भरतं राम: परिजग्राह बाहुना ।। 2.100.2 ।।

आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघव: ।

अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ।। 2.100.3 ।।

कथञ्चिदिति । कथंचिदभिविज्ञानत्वे हेतुद्वयम्विवर्णवदनं कृशमिति ।। 2.100.23 ।।

क्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागत: ।

न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ।। 2.100.4 ।।

अतिदु:खितस्य भरतस्य दु:खमपनेतुं प्रश्नव्याजेन धर्मानुपदिशति–क्वन्वित्यादि । ते पिता क्वन्वभूत् इति प्रश्नभङ्ग्या लोकान्तरं गत: किमिति सिद्ध्यति । तत्र हेतु: यदिति । तदुपपादयति नहीति । जीवत: जीवति । अनादरे षष्ठी । वनं नागन्तुमर्हसि, शुश्रूषणपरत्वादिति भाव: । यद्वा तस्य त्वद्विरहासहिष्णुत्वादिति रामस्य प्रश्नान्तरसम्बन्धदर्शनेन भरतो नोत्तरमुक्तवानिति बोध्यम् ।। 2.100.4 ।।

चिरस्य बत पश्यामि दूराद्भरतमागतम् ।

दुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागत: ।। 2.100.5 ।।

चिरस्येति । बतेत्यद्भुते । “खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत” इत्यमर: । दूरात् दूरावस्थितकेकयनगरात् । दुष्प्रतीकं वैवर्ण्यादिना दुर्ज्ञेयावयवम् । “अङ्गं प्रतीको ऽवयव:” इत्यमर: । किं किमर्थम् ।। 2.100.5 ।।

कच्चिद्धारयते तात राजा यत्त्वमिहागत: ।

कच्चिन्न दीन: सहसा राजा लोकान्तरं गत: ।। 2.100.6 ।।

अस्मिन्नरण्ये तव किं प्रयोजनम् ? प्रयोजनं द्वेधा सम्भवति । राजनि जीवति तदाज्ञया मम दर्शनम्, राजनि मृते स्वबाल्येन बलवद्भिरपहृतराज्यत्वं वा । आद्यमाह–कच्चिदिति । धारयत इति, प्राणानिति शेष: । यस्मात्त्वमिहागत: तस्माद्राजा प्राणान् धारयते कच्चित् ? राजा जीवति चेत् त्वामत्रागच्छन्तं न सहेतेति भाव: । कच्चिन्न धरत इति पाठान्तरम् । तदा देहं धारयितुं न शक्नोति कच्चिदित्यर्थ: ।। 2.100.6 ।।

कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ।। 2.100.7 ।।

द्वितीयं पक्षं प्रश्नद्वयेन दर्शयति–कच्चिदित्यादि । राज्यं भ्रष्टं न कच्चित्, प्रजानुरागो विद्यते कच्चिदित्यर्थ: ।। 2.100.7 ।।

कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ।। 2.100.8 ।।

कच्चिच्छुश्रूषस इति पितृशुश्रूषानादरेण किमागतो ऽसीति पक्षान्तरम् ।। 2.100.8 ।।

कच्चिद्दशरथो राजा कुशली सत्यसङ्गर: ।

राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चय: ।। 2.100.9 ।।

अथ राज्ञ: आरोग्यं पृच्छति–कच्चिद्दशरथ इति । कुशली अनामय: । राज्ञो व्याधिपरिभूतत्वात् तत्कथनाय किमागतोसीति पक्षान्तरम् । सत्यसङ्गर: सत्यप्रतिज्ञ: । सत्यप्रतिज्ञां प्रेक्ष्य पश्चात्तापेन किमकुशलं प्राप्त इति हार्दो भाव: । आहर्त्ता सम्पादयिता, कर्तेति यावत् । धर्मे निश्चयो यस्य स धर्मनिश्चय: ।। 2.100.9 ।।

स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युति: ।

इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ।। 2.100.10 ।।

स कच्चिदिति । स: प्रसिद्ध: । ब्राह्मण: ब्रह्मवित् । “तदधीते तद्वेद” इत्यण् । विद्वान् सर्वविद्यासु कुशल: । धर्मनित्य: ज्ञानानुगुणमनुष्ठातेत्यर्थ: । महाद्युति: तत्कृतब्रह्मवर्चसयुक्त: । इक्ष्वाकूणामुपाध्याय: कुलगुरु: वसिष्ठ: । यथावत् यथापूर्वम् । तातवत्संपूज्यते बहुमन्यते ।। 2.100.10 ।।

सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती ।

सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ।। 2.100.11 ।।

सा तातेति । सा पूर्वं दु:खिततया अनुभूता कौसल्या सुखिनी कच्चित् । प्रजावती सुपजा: सुमित्रा च सुखिनी कच्चिदित्यन्वय: । आर्येति स्वमातुरपि बहुमानोक्ति: । कैकेयी नन्दति कच्चित्, राज्यलाभेनेति शेष: ।। 2.100.11 ।।

कच्चिद्विनयसम्पन्न: कुलपुत्रो बहुश्रुत: ।

अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहित: ।। 2.100.12 ।।

कच्चिद्विनयसम्पन्न इति । विनयसम्पन्न: निरहङ्कार: । कुलपुत्र: सत्कुलप्रसूत: । बहुश्रुतमवधारणं यस्य स तथा । अनसूयु: । छान्दस उप्रत्यय: । अनुद्रष्टा वसिष्ठोपदिष्टानामुपद्रष्टा । ते पुरोहित इत्यनेन रामस्य सुयज्ञ इव भरतस्यापि प्रातिस्विक: कश्चित्पुरोहितो ऽस्तीति गम्यते । सुयज्ञ एवोच्यत इत्यप्याहु: । सत्कृत: पूजित: कच्चिदित्यन्वय: । अनेन पुरोहित: सदा सत्कर्तव्य इति शिक्षितम् । एवमुत्तरत्रापि योजनीयम् ।। 2.100.12 ।।

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजु: ।

हुतं च होष्यमाणं च काले वेदयते सदा ।। 2.100.13 ।।

“पितृव्यपुत्रे सापत्ने परनारीसुतेषु च । विवाहदानयज्ञादौ परिवेदो न दूषणम् ।।” इति स्मरणात् द्वैमातुरेष्वधिवेदनदोषाभावाद्यज्ञोऽपि कृत इत्यारोप्य पृच्छति–कच्चिदग्निष्विति। अथवा अग्निषु अग्निकार्येषु युक्त: सावधान: नियुक्तो वा, अग्निशुश्रूषणपर इत्यर्थ:। विधिज्ञ: अग्निहोत्राद्यश्वमेधान्तसकलयागविधिज्ञ:। मतिमान् ऊहापोहादिकल्पनचतुर:। ऋजु: प्रत्यक्षपरोक्षयोरेकरूपानुष्ठानवान्, एकरूपकरणत्रय इति वार्थ:। पुरोहित इति शेष:। काले तत्तद्धोमकाले। वेदयते तुभ्यं ज्ञापयति कच्चित् ।। 2.100.13 ।।

कच्चिद्देवान् पितृ़न् मातृ़र्गुरून् पितृसमानपि ।

वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ।। 2.100.14 ।।

कच्चिद्देवानिति । अभिमन्यसे बहुमन्यसे । देवेषु बहुमतिर्यज्ञादिभिराराधनम्, पितृषु मातृषु च वचनकरणशुश्रूषणे । भृत्यानिति पाठे–तत्र बहुमति: दानम् । गुरुष्वनुवर्तनाभिमतकरणादि, पितृसमेषु ज्ञातिष्वर्थदानम् वृद्धादिषु नमस्कारादि । वृद्धा: ज्ञानशीलवयोभि: । विद्या येषां सन्तीति वैद्या: विद्धांस: तान् । ब्राह्मणान् ब्रह्मविद: । यद्वा वैद्यान् भिषज: तेषां बहुमतिश्च धनादिना परितोषणम् । ब्राह्मणानिति जातिमात्रपरो वा । तदा विद्याशीलादिकमपरीक्ष्य ब्राह्मणत्वमात्रेण यथायोग्यं बहुमानं विवक्षितम् ।। 2.100.14 ।।

इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् ।

सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ।। 2.100.15 ।।

इष्वस्त्रवरसम्पन्नमिति–इषव: अमन्त्रका बाणा:, अस्त्राणि समन्त्रका:, वरशब्द: प्रत्येकमभिसम्बध्यते । अर्थशास्त्रं नीतिशास्त्रम् । सुधन्वानं सुधन्वनामकम् उपाध्यायं धनुर्वेदाचार्यम् । मन्यसे बहुमन्यसे ।। 2.100.15 ।।

कच्चिदात्मसमा: शूरा: श्रुतवन्तो जितेन्द्रिया: ।

कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिण: ।। 2.100.16 ।।

आत्मसमा: विश्वसनीया इति यावत् । शूरा: धीरा इति यावत् । श्रुतवन्त: नीतिशास्त्रज्ञा: । “श्रुतं शास्त्रावधृतयो:” इत्यमर: । जितेन्द्रिया: परैरलोभनीया इति यावत् । कुलीना: प्रामाणिककुलोत्पन्ना: । ते त्वया ।। 2.100.16 ।।

मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।

सुसंवृतो मन्त्रधरैरमात्यै: शास्त्रकोविदै: ।। 2.100.17 ।।

एतादृशमन्त्रिकरणे किं कारणम् ? तत्राह–मन्त्र इति । सुसंवृत: सुतरां गुप्त: । शास्त्रकोविदै: नीतिशास्त्रनिपुणै: । मन्त्रधरै: अमात्यै: । सुसंवृतो मन्त्रो हि विजयमूलं भवतीत्यन्वय: ।। 2.100.17 ।।

कच्चिन्निद्रावशं नैषी: कच्चित्काले प्रबुध्यसे ।

कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ।। 2.100.18 ।।

कच्चिदिति । अर्थनैपुणम् अर्थविषयसामर्थ्यमिति यावत् ।। 2.100.18 ।।

कच्चिन्मन्त्रयसे नैक: कच्चिन्न बहुभि: सह ।

कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ।। 2.100.19 ।।

कच्चिन्मन्त्रयस इति । एको न मन्त्रयसे कच्चित्, एकेन मन्त्रे क्रियमाणे तस्य कुत्रचिदभिनिवेशेन गुणागुणयोर्याथार्थ्यग्रहणं न सिद्ध्येदिति भाव: । बहुभि: सह न मन्त्रसये कच्चित् बहुभिस्सह मन्त्रणेपि प्रथमं तावदैकमत्यं न घटते, मन्त्रभेदश्च भवेदिति भाव: । राष्ट्रं जनपदं न परिधावति न व्याप्नोति । पूर्वं मन्त्रसंवरणमन्यहेतुतयोक्तम्, अत्र तु स्वतन्त्रतयोच्यत इति न पुनरुक्ति: ।। 2.100.19 ।।

कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।

क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ।। 2.100.20 ।।

कच्चिदर्थमिति । लघुमूलं लघुसाधनम् । महादेयं महाफलम् । अर्थं कार्यं विनिश्चित्य क्षिप्रमारभसे कच्चित्, न दीर्घयसि न विलम्बसे कच्चित् । एवमन्वयव्यतिरेकाभ्यामुक्तम् “क्षिप्रमक्रियमाणस्य काल: पिबति तत्फलम्” इति भाव: ।। 2.100.20 ।।

कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुन: ।

विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवा: ।। 2.100.21 ।।

कच्चित्ते सुकृतानीति । पार्थिवा: सामन्तनृपा: । ते सर्वकार्य्याणि मन्त्रितसर्वकार्य्याणि । सुकृतान्येव सुनिष्पन्नान्येव विदु: कच्चित् कृतरूपाणि कृतप्रायाणि वा क्षिप्रमेव फलोन्मुखानीति यावत् । कर्त्तव्यानि न विदु: मन्त्रेण कर्त्तव्यतया निश्चितानि करणात् पूर्वं न विदुरित्यर्थ: ।। 2.100.21 ।।

कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिता: ।

त्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ।। 2.100.22 ।।

कच्चिन्नेति । मन्त्रितं कार्य्यं त्वया वा तवामात्यैर्वा हेतुभिस्तर्कै: ऊहै: युक्त्या वा अनुमानेन वा ये चाप्यपरिकीर्तिता: अनुक्ता: इङ्गितादय: तैर्वा न बुद्ध्यते कञ्चित्, परैरिति शेष: । भवान् भवदीयामात्याश्च मन्त्रितार्थविषयपराभ्यूह्यस्थानानि सूक्ष्माण्यपि स्थगयन्ति कच्चिदित्यर्थ: ।। 2.100.22 ।।

कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् ।

पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्नि:श्रेयसं महत् ।। 2.100.23 ।।

मूर्खाणां सहस्रात् मूर्खसहस्रं परित्यज्यापि । ल्यब्लोपे पञ्चमी । पण्डितं विमृश्यकारिणमेकमिच्छसि कच्चित् । पण्डितपरिग्रहे हेतुमाह पण्डित इति । अर्थकृच्छ्रेषु कार्यसङ्कटेषु (पाठान्तरम् । अर्थकृच्छ्रेषु अर्थसङ्कटेषु) महन्नि:श्रेयसं प्रापयेदित्यर्थ: । (महन्नि:श्रेयसम्, अव्यभिचारितफलसाधनोपायम्) कुर्यात् उपदिशेदित्यर्थ: ।। 2.100.23 ।।

सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपति: ।

अथवाप्ययुतान्येव नास्ति तेषु सहायता ।। 2.100.24 ।।

एवमन्वयेनोपपाद्य व्यतिरेकमुखेनोपपादयति–सहस्राणीति । उपास्ते आश्रयति, संगृह्णातीत्यर्थ: । नास्तीत्यस्मात्पूर्वं तथापीत्युपस्कार्यम् । सहायता मन्त्रोपायसहायत्वम् ।। 2.100.24 ।।

एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षण: ।

राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ।। 2.100.25 ।।

पण्डितशब्दार्थं विवृण्वन्नाह–एक इति । मेधा ऽस्यास्तीति मेधावी । “अस्मायामेधास्रजोविनि:” इति विनि: । झटिति परोपन्यस्तार्थग्रहणपटुरित्यर्थ: । शूर: स्थिरबुद्धि: । दक्ष: विचारसमर्थ: । विचक्षण: अभ्यस्तनीतिशास्त्र: ।। 2.100.25 ।।

कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमा: ।

जघन्यास्तु जघन्येषु भृत्या: कर्मसु योजिता: ।। 2.100.26 ।।

कच्चिन्मुख्या इति । मुख्या: भृत्या: महत्सु मुख्येष्वेव कार्येषु वचनपरिवेषणादिषु कच्चिन्नियोजिता: न तु हीनेषु कार्येषु । मध्यमा: जात्यादिना मध्यमा भृत्या: मध्यमेष्वेव कार्येषु शय्यासनानयनादिषु नियोजिता: नतूत्तमाधमकार्य्येषु । जघन्या: जात्यादिहीना: भृत्या: जघन्येष्वेव कार्येषु पादप्रक्षालनपादुकानयनपादसंवाहनादिषु नियोजिता: नतूत्तममध्यमेषु कार्येषु योजिता: कच्चित्, अन्यथा महद्वैशसं भवेदिति भाव ।। 2.100.26 ।।

अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् ।

श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ।। 2.100.27 ।।

भृत्येषूक्तं न्यायममात्येष्वतिदिशति–अमात्यानिति । उपधातीतान् स्वव्यतिरिक्तेष्वर्थाद्युपाधिरहितान् । यद्वा सुपरीक्षातीतान् “उपधा सुपरीक्षा स्यात्” इति वैजयन्ती । श्लाघ्यवस्त्राभरणादिकं पुरुषमुखेन सम्प्रेष्य अन्त: पुरप्रेषितं परराजप्रेषितमिति प्रलोभ्य परीक्षां कुर्वन्ति राजान:, तामतीतानित्यर्थ: । पितृपैतामहान् कुलक्रमागतान् । शुचीन् करणत्रयशुद्धियुक्तान् ।। 2.100.27 ।।

कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् ।

राष्ट्रं तवानुजानन्ति मन्त्रिण: कैकयीसुत ।। 2.100.28 ।।

कच्चिन्नोग्रेणेति । तव उग्रेण दण्डेन उद्वेजितप्रजं पीडितप्रजायुक्तं राष्ट्रं राज्यं मन्त्रिण: नानुजानन्ति नानुमन्यन्ते कच्चित्, राजानं त्वामुग्रदण्डात् निवर्तयन्ति कच्चिदित्यर्थ: ।। 2.100.28 ।।

कच्चित्त्वां नावजानन्ति याजका: पतितं यथा ।

उग्रप्रतिग्रहीतारं कामयानमिव स्त्रिय: ।। 2.100.29 ।।

कच्चित्त्वामिति । उग्रप्रतिग्रहीतारमित्युपमानोपमेययो: साधारणविशेषणम् । अग्रेण दण्डोपायेनादण्ड्येभ्यो धनग्रहणं कुर्वन्तं त्वाम् उग्रप्रतिग्रहीतारम् उग्रेण दुर्दानेन धनप्रतिग्रहीतारं पतितं यष्टुकामं पतितं याजका ऋत्विज इव, उग्रेण कर्मणा बलात्कारेण प्रतिग्रहीतारं कामयानं पुरुषं स्त्रिय इव वचनाज्जानन्ति कच्चित्, प्रजा इति शेष: । प्रजावमानहेतुभूतं न्यायातिक्रमेण उग्रकरग्रहणं त्वयि नास्ति कच्चिदिति भाव: ।। 2.100.29 ।।

उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् ।

शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ।। 2.100.30 ।।

उपायेति । उपायेषु सामाद्युपायेषु । कुशलं निपुणं । वैद्यं कणिकोक्तकुटिलनीतिविद्याविदम् (चाणक्याद्युक्तकुटिलनीतिशास्त्रविदम् ।) भृत्यसन्दूषणे रतम् अन्तरङ्गभृत्यानां सन्दूषणे असद्दोषोद्घाटनेन तद्विघटने रतम् । शूरं राजहिंसनेपि निर्भयम् । ऐश्वर्यकामं क्रमेण राजैश्वर्याक्रमणकामं च पुरुषं यो न हन्ति स राजा तनैव वध्यते, राज्याद्भ्रष्टो भवतीत्यर्थ: । एवंविध: पुरुष: त्वत्सन्निधौ न वर्तते कच्चिदित्यर्थ: ।। 2.100.30 ।।

कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचि: ।

कुलीनश्चानुरक्तश्च दक्ष: सेनापति: कृत: ।। 2.100.31 ।।

सङ्ग्राह्यसेनापतिगुणानाह–कच्चिद्धृष्ट इति । हृष्यतीति हृष्ट: राजकृतसत्कारेण सन्तुष्ट: । यद्वा धृष्ट इति च्छेद: । धृष्ट: व्यवहारेषु प्रगल्भ: । शूर: परनिग्रहपर: । मतिमान् तत्तत्समयानुगुणस्वपरसेनाव्यूहतद्भेदनसेनानयनादिचतुरबुद्धियुक्त: । धृतिमान् विपदिप्रशस्तधैर्य: । शुचि: बाह्याभ्यन्तरशुद्धियुक्त: । यद्वा शुचि: स्वामिनि सविश्वास: । कुलीन: सत्कुलप्रसूत: । अनुरक्त: स्वस्मिन्निरवधिकप्रीतिमान् । दक्ष: कार्यकुशल: एवंविध: सेनापति: कृत: कच्चित्, तादृशं पूर्वसेनापतिं विहायातादृशमन्यं न परिगृहीतवानसि कच्चिदित्यर्थ: ।। 2.100.31 ।।

बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदा: ।

दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिता: ।। 2.100.32 ।।

बलवन्त इति । बलवन्त: अत्यन्तबला: । ते प्रसिद्धा: । मुख्या: गणमुख्या: । युद्धविशारदा: युद्धे समर्था: । दृष्टं साक्षात्कृतम् अपदानं पूर्ववृत्तं पौरुषं येषां ते तथोक्ता: । विक्रान्ता: शूरा: । “शूरो वीरश्च विक्रान्त:” इत्यमर: । सत्कृत्य मानिता: पारितोषिकदानपूर्वकं श्लाघिता: कच्चित् ।। 2.100.32 ।।

कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।

सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ।। 2.100.33 ।।

कच्चिद् बलस्येति । बलस्य सैन्यस्य । सम्प्राप्तकालं कालप्राप्तम् । दातव्यं तत्तत्काले देयम् । भक्तमन्नं वेतनं प्रतिमासं देयां भृतिं च । यथोचितं तत्तकार्य्योचितं ददासि । न विलम्बसे कच्चित् कालातिक्रमणं विना ददासि कच्चित् ।। 2.100.33 ।।

कालातिक्रमणाच्चैव भक्तवेतनयोर्भृता: ।

भर्त्तु: कुप्यन्ति दुष्यन्ति सो ऽनर्थ: सुमहान् स्मृत: ।। 2.100.34 ।।

विलम्बे दोषमाह–कालातिक्रमणादिति । भृता: भृतिजीविन:, भटा इति यावत् । भर्तु: कुप्यन्ति भर्तारं प्रति कुप्यन्ति । दुष्यन्ति कोपेन विकृता भवन्ति, स विकार: सुमहाननर्थ: स्मृत: अनर्थकरो भवेदित्यर्थ: ।। 2.100.34 ।।

कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्रा: प्रधानत: ।

कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिता: ।। 2.100.35 ।।

कच्चित् सर्व इति । कुलपुत्रा: क्षत्त्रियकुलप्रसूता: ज्ञातय इति वा । प्रधानत: प्रधाना: । सार्वविभक्तिकस्तसि: ।। 2.100.35 ।।

कच्चिज्जानपदो विद्वान् दक्षिण: प्रतिभानवान् ।

यथोक्तवादी दूतस्ते कृतो भरत पण्डित: ।। 2.100.36 ।।

कच्चिज्जानपद इति । जानपद: स्वजनपदभव: । परजनपदभवश्चेत्पक्षपातमाचरेत् । विद्वान् पराभिप्रायज्ञ: । दक्षिण: समर्थ: । प्रतिभानवान् प्रत्युत्पन्नमति:, परोक्तस्याविलम्बमुचितोत्तरज्ञ इति यावत् । यथोक्तवादी उक्तमनतिक्रम्य सन्देशप्रतिसन्देशवदनशील: । कार्योपयोगितया बहुमुखं व्याहरन्नपि स्वाम्युक्तमजहदेव व्यवहर्त्तेति यावत् । पण्डित: परिच्छेत्ता । “परिच्छेदो हि पाण्डित्यम्” इत्युक्ते: ।। 2.100.36 ।।

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।

त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकै: ।। 2.100.37 ।।

कच्चिदष्टादशान्येष्विति । अन्येषु परपक्षेषु । अष्टादशतीर्थानि स्वपक्षे पञ्चदशतीर्थानि च । अविज्ञातै: परस्परमन्यैश्चाविज्ञातै: । विज्ञातत्वे तेषां साङ्केतिकव्यवहार: प्रादुष्यात् । एकस्मिन् तीर्थे त्रिभिस्त्रिभि: चारकै: वेषान्तरधारिभिश्चारै: । कृत्रिमार्थे कप्रत्यय: । वेत्सि कच्चित्, एतानि न्यायतो ऽन्यायतो वा प्रवर्तन्त इति जानासि कच्चिदित्यर्थ: । तानीमानि अष्टादशनीतिशास्त्रोक्तानि तीर्थानि–मन्त्रिपुरोहितयुवराजसेनापतिदौवारिकान्तर्वंशिककारागाराधिकृतार्थसञ्चयकृत्कार्यनियोजकप्राड्विवाकसेना नायकनगराध्यक्षकर्मान्तिकसभ्यधर्माध्यक्षदण्डपालदुर्गपालराष्ट्रान्तपाला: । एष्वेव मन्त्रिपुरोहितयुवराजव्यतिरिक्तानि स्वपक्षे पञ्चदशतीर्थानि । मन्त्रिपुरोहितयुवराजसेनापतय: प्रसिद्धा: । दौवारिक: अन्त:पुरादिद्वाररक्षणाधिकृतजननिर्वाहक: । अन्तर्वंशिक: अन्त:पुरकार्यनिर्वाहक: । कारागारम् अपराधिनां बन्धनगृहम्, तत्राधिकृत: कारागाराधिकृत: । अर्थसञ्चयकृत् धनाध्यक्ष: । कार्यनियोजक: राजाज्ञाया बहि: प्रचारकर्ता । प्राड्विवाक: व्यवहारप्रष्टा । तल्लक्षणमुक्तम्– “विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्वं प्राग्वदति प्राड्विवाकस्तत: स्मृत: ।।” इति। सेनानायक: सेनाया: भृतिजीवनादि दानाध्यक्ष:। नगराध्यक्ष: रात्रौ नगरशोधननगरद्वारप्राकारादिरक्षणसंविधानादिकर्ता। कर्मान्तिक: कार्यान्ते वेतनग्राहिणां सैनिकव्यतिरिक्तानां सर्वेषां राज्ञस्सकाशात् एकधा स्वयं वेतनं गृहीत्वा प्रत्येकं तद्यो दापयति स:। सभ्य: प्रतिदिनं सभालङ्करणराजमन्त्रिप्रभृतिसमुचितासनविधानसभ्यानयनासभ्यनिरोधनयथोचितनिवेशनसभानिश्शब्दीकरणसभारक्षणादिविधायिजननिर्वाहक:। धर्माध्यक्ष: दायभागादिविषये विवादं कुर्वतां विवादपदविशोधनपूर्वकं यथाधर्मशास्त्रं विवादशमनकर्ता। दण्डपाल: परस्वापहरणाद्यपराधकारिणां राजाज्ञाप्रकारेण करशिरश्छेदादिविधायिजननियोजक:। दुर्गपाल: गिरिजलवनादिदुर्गसन्ततरक्षकजननिर्वाहक:। राष्ट्रान्तपाल: स्वराष्ट्रसीमान्ते सर्वासु दिक्षु परराजाक्रमणादिनिवारणाय सदा तद्रक्षणं कुर्वतां निर्वाहक:। स्वकीयमन्त्रिपुरोहितयुवराजा न परीक्ष्या:, तेषां सदा स्वसमीपवर्तित्वेन तत्स्वभावस्य स्वेनैव ज्ञातत्वात्। तथोक्तं नीतिशास्त्रे– “चारान् विचारनयेत्तीर्थेष्वात्मनश्च परस्य च। पाषण्डादीनविज्ञातानन्योन्यमितरैरपि ।। मन्त्रिणं युवराजं च हित्वा स्वेषु पुरोहितम् ।।” इति। स्वेषु मन्त्रिणं युवराजं पुरोहितं च हित्वेत्यन्वय:। एषां तीर्थशब्दवाच्यत्वमुक्तं हलायुधे– “योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि। पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्शनेष्वपि ।।” इति ।। 2.100.37 ।।

कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा ।

दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ।। 2.100.38 ।।

कच्चिद्व्यपास्तानिति । व्यपास्तान् निष्कासितान् । प्रतियातान् पुनरागतान् । अहितान् शत्रून् दुर्बलाननवज्ञाय वर्त्तसे कच्चित्, दुर्बला इत्यवज्ञां कृत्वा न वर्त्तसे कच्चिदिति भाव: । प्रतियानमवष्टम्भमन्तरेण न सम्भवतीति मत्वा तेषु सावधानतया स्थातव्यमिति भाव: ।। 2.100.38 ।।

कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे ।

अनर्थकुशला ह्येते बाला: पण्डितमानिन: ।। 2.100.39 ।।

कच्चिन्नेति । लोकायतिकान् लोकेष्वायतं विस्तृतं लोकायतं प्रत्यक्षप्रमाणम् । यद्वा लोकायतशब्दाभ्यां प्रत्यक्षमनुमानं चोच्यते । लोक्यते साक्षात्क्रियते ऽनेनेति लोके: प्रत्यक्षप्रमाणम्, आ समन्ताद्व्याप्य धूमादिसमीपवर्ती वह्न्यादिर्यत्यते गृह्यते ऽनेनेति आयतमनुमानं तदेषामस्तीति लोकायतिका: । “अत इनिठनौ” इति ठन् प्रत्यय: । नास्तिका बौद्धचार्वाकादय: तान् ब्राह्मणान् न सेवसे कच्चित् । असेवायां हेतुमाह अनर्थेति । अर्थेषु तत्त्वार्थेषु कुशला: यथावज्ज्ञानवन्त: ते न भवन्तीत्यनर्थकुशला: । यद्वा अनर्थ: धर्मानुष्ठानश्रद्धावैकल्यतन्मूलकसज्जनबहिष्कारनरकपतनादि: तत्र कुशला:, दूर्बोधनेन तत्सम्पादका इत्यर्थ: । बाला: तत्त्वज्ञानविरोध्यज्ञानयुक्ता: । अथ च पण्डितमानिन: अपण्डितमात्मानं पण्डितं मन्वाना: । एते अनर्थकुशला हि ।। 2.100.39 ।।

धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधा: ।

बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ।। 2.100.40 ।।

अनर्थकुशलत्वमेवोपपादयति–धर्मशास्त्रेष्विति । दुर्बुधा: वेदमार्गविपरीतबुद्धय: । ते मुख्येषु तामसस्मृतिपुराणादिव्यावृत्तेषु सात्त्विकमहर्षिप्रणीतेषु सज्जनादरणीयेषु । धर्मशास्त्रेषु धर्मप्रमापकशास्त्रेषु विद्यमानेषु तत्सम्प्रदायपरम्परया पठ्यमानेषु सत्सु । आन्वीक्षिकीं बुद्धिं प्राप्य शुष्कतर्कविषयां बुद्धिमास्थाय । निरर्थं निष्प्रयोजनं प्रवदन्ति । “आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतर: ।।” इति स्मृते: ।। 2.100.40 ।।

वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकै: ।

सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ।। 2.100.41 ।।

ब्राह्मणै: क्षत्ित्रयैर्वैश्यै: स्वकर्मनिरतै: सदा ।

जितेन्द्रियैर्महोत्साहैर्वृतामार्यै: सहस्रश: ।। 2.100.42 ।।

प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।

कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ।। 2.100.43 ।।

वीरैरित्यादिश्लोकत्रयमेकं वाक्यम् । अयोध्यां सत्यनामां परिरक्षसि कच्चित्, सत्यनामां “डाबुभाभ्यामन्यतरस्याम्” इति डाप् । अयोध्येति नाम सत्यं यथा भवति तथा रक्षसि कच्चिदित्यर्थ: । सत्यनामात्वमूलं वीरैरध्युषितामित्यादि । तत्फलानि सत्यनामात्वादीनि । आर्यै: पूज्यै: । तत्र हेतव: स्वकर्मनिरतत्वादय: । वैद्यजनाकुलां वैद्यजना: विद्वज्जना: तैरावृताम् । सुमुदितां सुसन्तुष्टजनामित्यर्थ: । स्फीतां समृद्धाम् ।। 2.100.4143 ।।

कच्चिच्चित्यशतैर्जुष्ट: सुनिविष्टजनाकुल: ।

देवस्थानै: प्रपाभिश्च तटाकैश्चोपशोभित: ।। 2.100.44 ।।

प्रहृष्टनरनारीक: समाजोत्सवशोभित: ।

सुकृष्टसीमा पशुमान् हिंसाभि: परिवर्जित: ।। 2.100.45 ।।

अदेवमातृको रम्य: श्वापदै: परिवर्जित: ।

परित्यक्तो भयै: सर्वै: खनिभिश्चोपशोभित: ।। 2.100.46 ।।

विवर्जितो नरै: पापैर्मम पूर्वै: सुरक्षित: ।

कच्चिज्जनपद: स्फीत: सुखं वसति राघव ।। 2.100.47 ।।

कच्चिच्चित्यशतैरित्यादिश्लोकचतुष्टयमेकं वाक्यम् । चित्यशतै: चैत्यशतैरिति च पाठ: । उभयत्रापि अश्वमेधान्तमहायज्ञचयनप्रदेशसमूहैरित्यर्थ: । सुनिविष्टजनाकुल: सुप्रतिष्ठितजनव्याप्त: । सुप्रतिष्ठितत्वं च राजन्यत्वसुवृष्ट्यारोग्यादिदेशगुणाकृष्टचित्ततया देशान्तरजिगमिषाराहित्येन तत्रैवासक्तत्वम् । देवस्थानै: देवालयै: । प्रपाभि: पानीयशालाभि:, मार्गप्रवर्तिताभिरिति शेष: । “प्रपा पानीयशालिका” इत्यमर: । तटाकै: सस्यादिवृद्धिनिमित्तैर्महाजलाशयै: । समाजोत्सवशोभित: समाजै: धर्मनिर्णयार्थसभाभि: शोभित: । यद्वा नदीतटाकादितीरवनेषु समस्तवस्तुविक्रयसौकर्याय निखिलजनविदिततया कृतवारसङ्केत: । कृतापणो वणिजां समूह: समाज इत्युच्यते । यद्वा समाजयुक्तोत्सवशोभित: । सुकृष्टसीमा अकृष्टा ईषत्कृष्टा च भूमिर्न तत्रास्तीत्यर्थ: । यद्वा सर्वदा सुकृष्टप्रायसीमा, अकृष्टपच्यभूमियुक्त इत्यर्थ: । पशुमान् गवाजादिपशुसमृद्ध: । हिंसाभि: ईतिभि: षड्भि: “अतिवृष्टिरनावृष्टिर्मूषिका: शलभा: खगा: । अत्यासन्नाश्च राजान: षडेता ईतय: स्मृता: ।।” इत्युक्ताभि: परिवर्जित:। यद्वा परस्परहिंसारहित इत्यर्थ:। अदेवमातृक: देवमातृकदेशरहित:, वृष्ट्येकनिष्पाद्यसस्यकदेशरहित इत्यर्थ:। सरयूतीरस्थत्वेन सर्वतो नदीमातृक इति यावत्। “नद्यम्बुजीवनो देशो नदीमातृक उच्यते। वृष्टिनिष्पाद्यसस्यस्तु विज्ञेयो देवमातृक: ।।” इति हलायुध: । रम्य: आरामादिशोभितत्वेन रमणीय: । श्वापदै: व्याघ्रादिहिंस्रपशुभि: परिवर्जित: । भयै: सर्वै: भयहेतुभिश्चोरादिभि: सर्वै: परित्यक्त: परितस्त्यक्त:, तत्समीपदेशेपि चोरादिभयं नास्तीत्यर्थ: । खनिभि: रत्नसुवर्णरजताद्याकरै: । “खनि: स्त्रियामाकर: स्यात्” इत्यमर: । पुन: कच्चिच्छब्देन प्रतिविशेषणं प्रश्ना इति गम्यते “आद्यन्तयो: प्रयुक्तो ऽयं कुतो नान्वेति मध्यत: । प्रष्टव्यतायां तुल्यायां केनार्धजरतीक्रम: । आदरातिशयो ऽनेन श्रीमत् कोसलगोचर: । गम्यते रघुनाथस्य मुक्तिर्येनापिपीलिकम् ।। ” ।। 2.100.4447 ।।

कच्चित्ते दयिता: सर्वे कृषिगोरक्षजीविन: ।

वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ।। 2.100.48 ।।

कच्चित्ते दयिता इति । कृषिगोरक्षजीविन: वैश्या: । दयिता: कश्चित् अर्थसम्पादनद्वारा अभिमता: । वार्त्तायां क्रयविक्रयात्मकवाणिज्ये सति । “वार्त्ता वागिङ्गितोदन्तवाणिज्यादिषु वर्त्तते” इति वैजयन्ती । संश्रितो लोक: त्वत्संश्रितो जन: सुखमेधते हि ।। 2.100.48 ।।

तेषां गुप्तिपरीहारै: कच्चित्ते भरणं कृतम् ।

रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिन: ।। 2.100.49 ।।

तेषामिति । गुप्तिपरीहारै: इष्टप्रापणानिष्टनिवारणै: । ते त्वया तेषां भरणं पोषणं कृतं कच्चित् । तस्यावर्जनीयत्वमाह रक्ष्या हीति ।। 2.100.49 ।।

कच्चित् स्त्रिय: सान्त्वयसि कच्चित्ताश्च सुरक्षिता: ।

कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ।। 2.100.50 ।।

कच्चित्स्त्रिय इति । स्त्रिय: स्वस्त्रिय: । सान्त्वयसि तदनुकूलतया वर्त्तसे । सुरक्षिता: अन्यपुरुषसम्भाषणादिभ्य इति शेष: । आसां स्त्रीणाम्, वचनमिति शेष: । न श्रद्धधासि आदरेण यथार्थबुद्ध्या न श्रृणोषीत्यर्थ: । गुह्यं न भाषसे ताभ्य इति शेष: । स्त्रीणामतिचञ्चलमतित्वेन रहस्यभेदप्रसङ्गादिति भाव: ।। 2.100.50 ।।

कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुका: ।

कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ।। 2.100.51 ।।

कच्चिन्नागवनमिति । नागवनं गजोत्पत्तिस्थानभूतं वनम् । तदरक्षणे परैर्गजग्रहणप्रसङ्ग इति भाव: । धेनुका: गजग्रहणसाधनभूता: करिण्य: । “करिणी धेनुका वशा” इत्यमर: । गणिकाश्वानां गणिका: करिण्य: “वेश्याकरिण्योर्गणिका” इति वैजयन्ती । गणिकाश्चाश्वाश्च गणिकाश्वा: तेषां गणिकाश्वानां कुञ्जराणां च न तृप्यसि कच्चित् । तत्सम्पादनविषये तृप्तिं न प्राप्नोषि कच्चिदित्यर्थ: । “पूरणगुण–” इत्यादिना समासप्रतिषेधेन सूचिता षष्ठी ।। 2.100.51 ।।

कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।

उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ।। 2.100.52 ।।

कच्चिद्दर्शयस इति । विभूषितम्, आत्मानमिति शेष: । महापथे सभायामिति यावत् । प्रात: सभायां स्थित्वा मनुष्याणां विभूषितमात्मानं दर्शयसे कच्चिदिति सम्बन्ध: । अन्यथा राजारोग्ये तेषां शङ्का स्यादिति भाव: ।। 2.100.52 ।।

कच्चिन्न सर्वे कर्मान्ता: प्रत्यक्षास्ते ऽविशङ्कया ।

सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ।। 2.100.53 ।।

कच्चिन्न सर्व इति । कर्मान्ता: कर्मान्तिका:, कर्मकरा इति यावत् । अविशङ्कया ते न प्रत्यक्षा: कच्चित्, निर्भयतया त्वत्सन्निधिं प्राप्ता न कच्चिदित्यर्थ: । अथवा ते सर्वे पुन: उत्सृष्टा न कच्चित्, दर्शनाप्रदानेन परित्यक्ता न कच्चिदित्यर्थ: । अविशङ्कया प्रवेशे अवज्ञादिकं सम्भवेत् । दर्शनाभावे कार्यहानि: स्यात् अत: अत्र कर्मान्तिकविषये मध्यमेव कारणम् । अतिदर्शनादर्शनयोर्मध्यमरीत्याश्रयणमेवार्थसिद्धिकारणम् । अतिदर्शने दृप्तानां तेषां स्वामिन्यनादर: स्यात् । अत्यदर्शने स्वकार्यविज्ञापनावसरालाभात्किमनेनेति कोप: स्यात् राजकार्यहानिश्च, तस्माद्यथोचितसमये दर्शनप्रदानमेवोचितमिति भाव: ।। 2.100.53 ।।

कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकै: ।

यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ।। 2.100.54 ।।

कच्चित्सर्वाणीति । दुर्गाणि औदकपार्वतवार्क्षैरिणधान्वनानि । धनधान्यायुधोदकै: यन्त्रै: शिल्पिभिर्धनुर्द्धरैश्च परिपूर्णानि कच्चित् । अत्र कामन्दक:– “औदकं पार्वतं वार्क्षमैरिणं धान्वनं तथा । जलान्नायुधयन्त्राढ्यं वीरयौधैरधिष्ठितम् । गुप्तिप्रधानमाचार्या दुर्गं समनुमेनिरे ।।” इति ।। 2.100.54 ।।

आयस्ते विपुल: कच्चित् कच्चिदल्पतरो व्यय: ।

अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ।। 2.100.55 ।।

आय इति । आय: धनागम: कोश: सञ्चितधनम् । अपात्रेषु नटविटगायकेषु न गच्छति कच्चित् । तेभ्योपरिमितं न देयमिति भाव: ।। 2.100.55 ।।

देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।

योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्यय: ।। 2.100.56 ।।

धनव्ययस्योचितविषयमाह–देवतार्थ इत्यादिना ।। 2.100.56 ।।

कच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा ।

अपृष्ट: शास्त्रकुशलैर्न लोभाद्वध्यते शुचि: ।। 2.100.57 ।।

कच्चिदार्य इति । विशुद्धात्मा विशुद्धस्वभाव: । शुचि: करणत्रयशुद्धियुक्त: । आर्य्य: सज्जन: । यदृच्छया चोरकर्मणा । आक्षारित: अभिशस्त: । “आक्षारित: क्षारितोभिशस्त:” इत्यमर: । शास्त्रकुशलै: अपृष्ट: प्रश्नेन अशोधित: सन् । लोभाद्धनलोभात् न वध्यते कच्चित् ।। 2.100.57 ।।

गृहीतश्चैव पृष्टश्च काले दृष्ट: सकारण: ।

कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ।। 2.100.58 ।।

गृहीत इति । पृष्ट: प्रश्नै: शोधित: । काले कालविशेषे । दृष्ट: सकारण: चौर्यलब्धद्रव्यवत्तया वा दृष्ट: । लोभात् मुषितं धनं तव दास्यामीति तद्दत्तधनलोभान्न मुच्यते कच्चित् ।। 2.100.58 ।।

व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।

अर्थं विरागा: पश्यन्ति तवामात्या बहुश्रुता: ।। 2.100.59 ।।

व्यसन इति । आढ्यस्य दुर्गतस्य दरिद्रस्य च । व्यसने विवादरूपसङ्कटे प्राप्ते । अर्थं व्यवहारम् । “अर्थ: स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ।।” इति वैजयन्ती। विरागा: विगतधनरागा:। पश्यन्ति परीक्षन्ते कच्चित् ।। 2.100.59 ।।

यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।

तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासत: ।। 2.100.60 ।।

यानीति । मिथ्याभिशस्तानां राज्ञाम् अविचार्यप्रवर्तितमिथ्याभियोगानां प्रजानां यानि अस्राणि अश्रूणि पतन्ति तानि प्रीत्यर्थमनुशासत: राज्ये न्यायान्यायावविचार्य्य केवलभोगार्थं राज्यं कुर्वत इत्यर्थ: ।। 2.100.60 ।।

कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव ।

दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ।। 2.100.61 ।।

कच्चिद्वृद्धानिति । दानेन अभिमतवस्तुप्रदानेन, मनसा स्नेहेन, वाचा सान्त्ववचनेन एतैस्त्रिभिर्बुभूषसे, प्राप्तुमिच्छसि वशीकर्त्तुमिच्छसि कच्चिदिति यावत् । भू प्राप्तावात्मनेपदी इति गणपाठे पठितत्वादात्मनेपदी ।। 2.100.61 ।।

कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् ।

चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ।। 2.100.62 ।।

कच्चिद्गुरूनिति । चैत्यान् देवतावासभूतचतुष्पथस्थमहावृक्षान् । सिद्धार्थान् निष्पन्नप्रयोजनान् । यागादिना लब्धामुष्मिकप्रयोजनानिति यावत् ।। 2.100.62 ।।

कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुन: ।

उभौ वा प्रीतिलोभेन कामेन च न बाधसे ।। 2.100.63 ।।

कच्चिदर्थेनेति । अर्थेन धर्मं न बाधसे कच्चित् । धर्मार्जनयोग्ये पूर्वाह्णे अर्थार्जनं कृत्वा धर्मं न बाधसे कच्चिदित्यर्थ: । धर्मेणार्थं न बाधसे अर्थार्जनयोग्ये अपराह्णे धर्मार्जनं कृत्वा अर्थं न नाशयसि कच्चिदित्यर्थ: । प्रीतिलोभेन सुखाभिलाषेण हेतुना । कामेन सायंकालविहितेन कामेन उभौ वा न बाधसे कच्चित् । यद्वा अर्थेन हेतुना धर्मं न बाधसे कच्चित्, धर्मं हित्वा अर्थं न गृह्णासीत्यर्थ: । तथा धर्मेण हेतुना कुटुम्बनिर्वाहाद्यपेक्षितमर्थं न बाधसे । धर्मार्थावुभावपि प्रीतिलोभेन सुखेच्छया कामेन च हेतुना न बाधसे, गणिकादिसक्तावुभयमपिहि नश्यति ।। 2.100.63 ।।

कच्चिदर्थं च धर्मं च कामं च जयतां वर ।

विभज्य काले कालज्ञ सर्वान् वरद सेवसे ।। 2.100.64 ।।

उक्तमर्थं सविशेषमाह–कच्चिदिति । अर्थं च धर्मं च कामं च सर्वान् काले विभज्य सेवसे । प्रातर्दानादिधर्मकाल:, तदनन्तरम् आस्थान्यां राज्यविचारेणार्थकाल:, रात्रौ कामकाल इत्येवं विभज्य सेवस इत्यर्थ: । जयतां वर तेषां कालान्तरे प्रवृत्तिनिवर्तनसमर्थेत्यर्थ: ।। 2.100.64 ।।

कच्चित्ते ब्राह्मणा: शर्म सर्वशास्त्रार्थकोविदा: ।

आशंसन्ते महाप्राज्ञ पौरजानपदै: सह ।। 2.100.65 ।।

कच्चित इति । शर्म सुखम् । आशंसन्ते प्रार्थयन्ते ।। 2.100.65 ।।

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।

अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ।। 2.100.66 ।।

नास्तिक्यमित्यादि । नास्ति परलोक इति मतिर्यस्य स नास्तिक: “अस्ति नास्ति दिष्टं मति:” इति ठञ् । तस्य भाव: नास्तिक्यम् । अनृतमसत्यवचनम् । क्रोधं मातापित्राचार्यब्राह्मणदुर्बलादिषु कृतापराधेष्वपि तद्विषयकं क्रोधम् । प्रमादम् अनवधानत्वम् । दीर्घसूत्रतां चिरक्रियत्वम् । “दीर्घसूत्रश्चिरक्रिय:” इत्यमर: । ज्ञानवतां सज्जनानाम् । अदर्शनं दर्शनाकरणम्, ज्ञानिनां दर्शनं हि निखिलश्रेयोमूलम् । आलस्यं मदकरवस्तुसेवाजनितं कार्यापटुकरणकत्वमित्यर्थ: । पञ्चवृत्तितां पञ्चेन्द्रियपरवशताम् ।। 2.100.66 ।।

एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।

निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ।। 2.100.67 ।।

अर्थानामेकचिन्तनं राज्यकार्याणां मन्त्र्यनादरेण स्वयमेक एव स्थित्वा पार्यालोचनम् । अनर्थज्ञै: विपरीतार्थदर्शिभि: ।। 2.100.67 ।।

मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वत: ।

कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ।। 2.100.68 ।।

मङ्गलस्य प्रातर्दर्पणाद्यवलोकनस्य । अप्रयोगम् अननुष्ठानम् । मङ्गलाद्यप्रयोगमिति पाठे–अमङ्गलाचरणमित्यर्थ: । सर्वत: प्रत्युत्थानं नीच स्यानीचस्याप्यागमने प्रत्युत्थानमित्यर्थ: । यद्वा सर्वदिगवस्थितशत्रूद्देशेन युगपद्दण्डयात्रामिति वा । एतांश्चतुर्दशेत्यनेन अन्येषामपि बहूनां दोषाणां विद्यमानत्वम्, तेषु सर्वेषूक्तानामवश्यहेयत्वं च ज्ञायते ।। 2.100.68 ।।

दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वत: ।

अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ।। 2.100.69 ।।

दशेत्यादि । दशवर्गादिकान् बुद्ध्वा यथावदनुमन्यसे कच्चित् दशवर्गादिकान् त्याज्यत्वेनोपादेयत्वेन च ज्ञात्वा यथावदनुतिष्ठसि कच्चिदिति वाक्यार्थ: । पूर्वोक्तसङ्ग्रहो ऽयमुपदेश: । दशवर्गस्तावत्– “मृगयाक्षो दिवास्वाप: परिवाद: स्त्रियो मद: । तौर्यत्रिकं वृथाट्या च कामजो दशको गुण: ।।” इति मनुनोक्त:। तौर्यत्रिकं नृत्यगीतवाद्यम्। वृथाट्या वृथापर्यटनम्। कामन्दकस्तु प्रकारान्तरेण लोभक्रोधालस्यासत्यवचनत्वप्रमादभीरुत्वास्थिरत्वमौढ्यानयावमन्तृत्वानि दशवर्ग इत्याशयेनाह– “लुब्ध: क्रूरोऽलसो सत्य: प्रमादी भीरुरस्थिर:। मूढोऽनयोऽवमन्ता च सुखच्छेद्यो रिपुर्मत: ।।” इति । पञ्चवर्ग: पञ्च दुर्गाणि । तथाह मनु:– “औदकं पार्वतं वार्क्षमैरिणं धान्वनं तथा । शस्तं प्रशस्तमतिभिर्दुर्गं दुर्गोपचिन्तकै: ।।” इति यद्वा पञ्चवर्ग: पञ्चविधवैराणि। अत्रापि कामन्दक: “सापत्नं वस्तुजं स्त्रीजं वाग्जातमपराधजम्। वैरप्रभेदनिपुणैर्वैरं पञ्चविधं स्मृतम् ।।” इति चतुर्वर्ग: सामदानभेददण्डा: । यथा कामन्दकीये “साम दानं च भेदश्च दण्डश्चेति चतुर्विधम्” इति । यद्वा यतुर्विधमित्राणि वा । यथाह कामन्दक:– “औरसं तन्तुसम्बन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ।।” इति। यद्वा धनानां न्यायार्जनादिधर्मचतुष्टयं वा। तदपि तत्रैवोक्तम्– “न्यायेनार्जनमर्थस्य रक्षणं वर्धनं तथा। सत्पात्रे प्रतिपत्तिश्च राज्यवृत्तं चतुर्विधम् ।।” इति । सप्तवर्ग: स्वाम्यमात्यादि: । यथोक्तम्– “स्वाम्यमात्याश्च राष्ट्रं च दुर्गं कोशो बलं सुहृत् । परस्परोपकारीदं राज्यं सप्ताङ्गमुच्यते ।।” इति यद्वा स्वपक्षस्थ्ाजनावान्तरभेदसप्तकं वा। यथाह– “निजोऽथ मैत्रश्च समाश्रितश्च सुबन्धुज: कार्य्यसमुद्भवश्च। भृत्यो गृहीतो विविधोपचारै: पक्षं बुधा: सप्तविधं वदन्ति ।।” इति । यद्वा प्रधानव्यूहा: सप्त वा सप्तवर्ग: । यथा–“श्येन: सूची च वज्रश्च शकटो मकरस्तथा । दण्डाख्य: पद्मनामा च व्यूहा: सप्त प्रधानत: ।।” इति अष्टवर्गमाह कामन्दक:– “कृषिवाणिज्यदुर्गाणि सेतु: कुञ्जरबन्धनम्। खन्याकर: करादानं शून्यानां च निवेशनम्। अष्टवर्गमिमं साधु स्वस्थवृत्तो न लोपयेत् ।।” इति । यद्वा पैशुन्याद्यष्टकं वा अष्टवर्ग: । यथा– “पैशुन्यं साहसं द्रोहमीर्ष्यासूयार्थदूषणम् । वाग्दण्डयोश्च पारुष्यं क्रोधजो ऽपि गुणो ऽष्टक: ।।” इति। ईर्ष्या क्षान्त्यभाव: क्षान्तिविरोधी वा कश्चिद्गुण:, अज्ञदुर्बलकृतापराधासहिष्णुत्वमिति यावत्। असूया तु गुणेष्वपि दोषारोप:। वाक्पारुष्यं दण्डपारुष्यं च गुणद्वयम्। अथ त्रिवर्ग: धर्मार्थकामा:। यद्वा उत्साहप्रभुत्वमन्त्रशक्तयस्त्रिवर्ग:। यद्वा परेषां क्षयस्थानवृद्धय:। “क्षय: स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्” इत्यमर:। यद्वा अशक्यसमुद्यमादिकार्यव्यसनत्रयं वा। यथाह कामन्दक:– “वस्तुष्वशक्येषु समुद्यमश्च शक्येषु मोहादसमुद्यमश्च। शक्येष्वकालेषु समुद्यमश्च त्रिधैव कार्य्यं व्यसनं वदन्ति ।।” इति । तिस्रो विद्या: त्रयीवार्त्तादण्डनीतय: “आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च” इति विद्यायाश्चतुर्विधत्वेपि आन्वीक्षिक्यास्त्रय्यामन्तर्भाव: । तथाह कामन्दक: “त्रयी वार्त्ता दण्डनीतिरिति विद्या हि मानवा: । त्रय्या एव विशेषो ऽयमियमान्वीक्षिकी मता ।।” इति। त्रयी वेद:, वार्ता कृषिगोरक्षवाणिज्यम्, दण्डनीति: नीतिशास्त्रम् ।। 2.100.69 ।।

इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् ।

कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ।। 2.100.70 ।।

इन्द्रियाणां जयं जयोपायम् । षड्गुणा एव षाड्गुण्यम् । स्वार्थे ष्यञ् । ते च सन्धिविग्रहयानासनद्वैधीभावसमाश्रया: । दैवमानुषं देवमनुष्येभ्य आगतं व्यसनमित्यर्थ: । दैवं मानुषं च व्यसनं प्रत्येकं पञ्चविधम् । यथाह कामन्दकीये– “हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा । इति पञ्चविधं दैवं मानुषं व्यसनं परम् ।। आयुक्तकेभ्यश्चोरेभ्य: परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च व्यसनं पञ्चधा भवेत् ।।” इति आयुक्तका: अधिकारिण:। कृत्यम् अलब्धवेतनावमानितकोपितभीषितेषु शत्रुसम्बन्धिष्वभिमतवस्तुप्रदानेन कर्त्तव्यं भेदनम्। अत्राप्याह कामन्दक:– “अलब्धवेतनो लुब्धो मानी चाप्यवमानित:। क्रुद्धश्च कोपितोऽकस्मात्तथा भीतश्च भीषित:। यथाभिलषितै: कामैर्भिन्द्यादेतांश्चतुर्विधान् ।।” इति । असन्धेया: विग्राह्या: बालवृद्धादयो विंशतिविधा: । प्रतिपक्षनृपतयो विंशतिवर्ग इत्युच्यते । यथाह कामन्दकीये– “बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृत: । भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा । विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दक: । दैवोपहतकश्चैव दैवचिन्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुल: । अदेशस्थो बहुरिपुर्युक्तो ऽकालेन यश्च स: । सत्यधर्मव्यपेतश्च विंशति: पुरुषा अमी । एतै: सन्धिं न कुर्वीत विगृह्णीयात्तु केवलम् ।। ” इति ज्ञातिबहिष्कृत: बन्धुजनबहिष्कृत: । भीरव: जना: मन्त्रिसेनापतियोधा: यस्य स: भीरुजनक: । एवमेव लुब्धजन इत्यत्रापि । लुब्धा: अत्यन्तधनाशापरा: । दैवोपहतक: महर्षिशापाद्यभिहत: । दैवचिन्तक: दैवमेव सर्वं कुर्यादिति मत्वा पुरुषव्यापारमकुर्वाण: । बलव्यसनं सेनाविलय: । अदेशस्थ: प्रोषित: । अकालेन युक्त: क्रूरग्रहदशाभागादियुक्त: । यद्वा विग्रहकारणभूतो राज्यापहारादिर्विंशतिवर्ग: । अत्र च कामन्दक:– “राज्यस्त्रीस्थानदेशानां ज्ञातीनां च धनस्य च । अपहारो मदो मान: पीडा वैषयिकी तथा । ज्ञानार्थशक्तिधर्माणां विघातो दैवमेव च । मित्रार्थयोश्चावमानस्तथा बन्धुविनाशनम् । भूतानुग्रहविच्छेदस्तथा मण्डलदूशणम् । एकार्थाभिनिवेशित्वमिति विग्रहयोनय: ।।” इति। अत्रापहारशब्द: पूर्वै: षड्भि: सम्बध्यते। वैषयिकी पीडा विषयपारवश्यम्। विघातशब्दो ज्ञानादिभिश्चतुर्भिरन्वेति। दैवशब्देन देवा इन्द्रादय उच्यन्ते। तेषां विरोध्यपि विग्राह्य:। यथा दशरथस्य इन्द्रविरोधी शम्बर:। मित्रार्थयोरित्यत्र मित्रं मित्रार्थस्तदनुबन्धी चेत्यर्थ:। यद्वा मित्रं मित्रस्यार्थ: तद्धनम्। अर्थस्यावमानो हरणमेव। भूतानुग्रहविच्छेद: लोकानुग्रहराहित्यम्। मण्डलदूषणं मण्डलशब्देन स्वमन्त्रिसेनापतिसुहृदादिरुच्यते, तस्य दूषणं तद्विघटनम्। एकार्थाभिनिवेशित्वं स्वाभिमतविषयाभिलाषित्वम्। प्रकृतयश्च मण्डलं च प्रकृतिमण्डलम्। प्रकृतयस्तावत्– “अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चम:। एता: प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृता: ।।” इति कामन्दकोक्ता: । मण्डलं द्वादशविधराजात्मकम्–मध्यतो विजिगीषु: तस्य शत्रु मित्रं शत्रोर्मित्रं मित्रमित्रं शत्रुमित्रमित्रं चेति पुरोवर्तिन: पञ्च । पार्ष्णिग्राह: आक्रन्द: पार्ष्णिग्राहासार: आक्रन्दासारश्चेति पृष्ठभागस्थाश्चत्वार: । पार्श्वस्थो मध्यम: तेषां बहिरवस्थित उदासीनश्चेति । तथाच कामन्दक:– “सम्पन्नस्तु प्रकृतिभिर्महोत्साह: कृतश्रम: । जेतुमेषणशीलश्च विजिगीषुरिति स्मृत: ।। अरिर्मित्रमरेर्मित्रं मित्रमित्रमत: परम् । तथारिमित्रमित्रं च विजिगीषो: पुरस्सरा: ।। पार्ष्णिग्राहस्तत: पश्चादाक्रन्दस्तदनन्तर: । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठत: ।। अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तर: । अनुग्रहे संहतयोर्व्यस्तयोर्निग्रहे प्रभु: ।। मण्डलाद्बहिरेतेषामुदासीनो बलाधिक: । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभु: ।। ” इति अत्र शत्रुमित्रशब्दौ पुरस्तादव्यवहितानन्तरराष्ट्राधिपतिमेकव्यवहितानन्तरराष्ट्राधिपतिं च क्रमेण वदत: । पार्ष्णिग्राहाक्रन्दशब्दावपि पृष्ठतस्तादृशौ क्रमेण वदत: नतु प्रसिद्धशत्रुमित्रपरौ । “विषयानन्तरो राजा शत्रुर्मित्रमत: परम् । उदासीन: परतर: पार्ष्णिग्राहस्तु पृष्ठत: ।।” इत्यमर:। आसार: सुहृद्बलम्। “आसार: स्यान्मित्रबले” इति रत्नमाला। मध्यमशब्देन च अरिविजिगीषोर्व्यस्तयो: समस्तयोश्च निग्रहानुग्रहसमर्थ:। पार्श्वदेशस्थ: कश्चिदुक्तेभ्योऽन्यो राजोच्यते न तु मध्यवर्ती। उदासीनशब्देन च एतेषां सर्वेषामपि व्यस्तानां समस्तानां च निग्रहानुग्रहसमर्थ: कश्चिद्विप्रकृष्टदेशस्थो राजोच्यते ।। 2.100.70 ।।

यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ ।

कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ।। 2.100.71 ।।

यात्रा दण्डविधानं यात्रा यानं दण्डस्य सैन्यस्य विधानं संविधानं व्यूहभेदविधानम् । यद्वा दण्ड: शत्रुनिरसनं तस्य विधानं प्रकार: । यात्रा च दण्डविधानं च यात्रादण्डविधानम् । प्रकृतिमण्डलमित्यत्रात्रचैकवद्भाव: । सेनाव्यूहभेदा: पूर्वमुक्ता: शत्रुनिरसनप्रकाराश्च स्फुटा: सुज्ञेया इति यात्राशब्दितं यानं प्रदर्श्यते । तच्च पञ्चविधम्–बलातिशयेन पार्ष्णिग्राहादिभिर्विगृह्य शत्रूद्देशेन यानं विगृह्ययानम्, पार्ष्णिग्राहादिभि: सन्धिं कृत्वा शत्रूद्देशेन यानं सन्धाययानम्, सामन्तै: समेत्य यानं सम्भूययानम्, अन्योद्देशेन यात्राप्रसङ्गमुत्पाद्य अन्यं प्रति यानं प्रसङ्गतो यानम्, अन्यप्रसङ्गं कृत्वा बलवत्तया तमुपेक्ष्य तन्मित्रोद्देशेन यानमुपेक्ष्ययानमिति । यथा कामन्दकीये– “विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गत: । उपेक्ष्य चेति निपुणैर्यानं पञ्चविधं स्मृतम् ।।” इति। द्वियोनी इति। सन्धिविग्रहयानासनद्वैधीभावसमाश्रया: षड्गुणा: पृथक् पृथक् प्रतिपादिता:। इदानीं द्वैगुण्यमतावलम्बनेन यानादीन् सन्धिविग्रहयोरन्तर्भाव्य वदति। यानासने विग्रहस्य स्वरूपं द्वैधीभावसमाश्रयौ सन्धे रूपम्। तत्र विजिगीषोररिं प्रति यात्रायानं तयोर्मिथ: प्रतिबद्धशक्त्यो: कालप्रतीक्षया तूष्णीमवस्थानमासनम्। दुर्बलस्य प्रबलयोर्द्विषतोर्वाचिकमात्मसमर्पणं द्वैधीभाव:। तथाह– “बलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयन्। द्वैधीभावेन वर्तेत काकाक्षिवदलक्षित: ।।” इति । अरिणा पीड्यमानस्य बलवदाश्रयणं समाश्रय इति विवेक: । तदुक्तं कामन्दकेन– “यानासने विग्रहस्य रूपं सद्भिरिति स्मृतम् । सन्धेश्च सन्धिमार्गज्ञैर्द्वैधीभावसमाश्रयौ ।।” इति। एतान् पूर्वोक्तान् यथावदनुमन्यसे अनुतिष्ठसि कच्चिदित्यर्थ:। उक्तदशवर्गादीनां तत्त्वं ज्ञात्वा हेयान् जहासि ग्राह्यान् गृह्णासि कच्चिदिति यावत् ।। 2.100.71 ।।

मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ।

कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथ: ।। 2.100.72 ।।

मन्त्रिभिरिति । यथोद्दिष्टै: शास्त्रोक्तमन्त्रिलक्षणलक्षितै: । यथोद्दिष्टमिति पाठे–नीतिशास्त्रोक्तमन्त्रविचारमार्गमनतिक्रम्येत्यर्थ: । बहुभिर्मन्त्रकरणे मन्त्रभिन्नत्वसम्भवादैकमत्याभावाच्च ‘चतुर्भिस्त्रिभिरेव वा’ इत्युक्तम् । व्यस्तैस्तत्तन्मतं परिज्ञाय समस्तैश्चतुर्भिस्त्रिभिर्वा परिगणितैर्मन्त्रिभि: मिथ: रहसि मन्त्रं मन्त्रयसे कच्चित् ।। 2.100.72 ।।

कच्चित्ते सफला वेदा: कच्चित्ते सफला: क्रिया: ।

कच्चित्ते सफला दारा: कच्चित्ते सफलं श्रुतम् ।। 2.100.73 ।।

राज्ञामवश्यं सम्पादनीयानर्थान् पृच्छति–कच्चित्ते सफला वेदा इति । ते वेदा: त्वदधीता वेदा: सफला: कच्चित् । अग्निहोत्राद्यनुष्ठानेन सफलीकृता: कच्चित् । क्रियन्ते साध्यन्त इति क्रिया: धनानि । धनानि त्वत्सम्पादितानि दानभोगाभ्यां सफलीकृतानि कच्चित् । ते दारा: सफला: कच्चित् रतिपुत्राभ्यां सफला: कच्चित् ।

ते श्रुतं शास्त्रश्रवणं सफलं कच्चित् शीलवृत्ताभ्यां सफलं कच्चित् । तथा च महाभारते– “अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला दारा: शीलवृत्तफलं श्रुतम् ।। ” इति ।। 2.100.73 ।।

कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव ।

आयुष्या च यशस्या च धर्मकामार्थसंहिता ।। 2.100.74 ।।

कच्चिदेषैवेति । आयुष्या यशस्या धर्मकामार्थसंहिता उक्ता एषा बुद्धिर्मम यथा तथैव ते तव वर्तते कच्चित् ।। 2.100.74 ।।

यां वृत्तिं वर्त्तते तातो यां च न: प्रपितामहा: ।

तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ।। 2.100.75 ।।

अथ उक्तानुक्तं सकलं सङ्ग्रहेण दर्शयति–यामित्यादिना । वृत्तिमाचरन् वर्तते अवर्तिष्ट । यद्वा दशरथमरणस्याज्ञातत्वात् वर्तत इत्युक्ति: । पितामहस्य अजस्य चिरं राज्यपरिपालनाभावात् प्रपितामहा इत्युक्तम् । प्रपितामहा: प्रपितामहप्रभृतय: । यथा “सप्तमी शौण्डै:” इत्यत्र “शौण्डादिभि:” इति वृत्तिकार: । अत्र अवर्तन्तेत्यध्याहार्यम् । पित्राद्यननुष्ठितस्याननुष्ठाने प्राप्ते आह–या च सत्पथगा शुभेति । सत्पथगा सन्मार्गानुसारिणी । शुभा अनिन्दिता ।। 2.100.75 ।।

कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव ।

कच्चिदाशंसमानेभ्यो मित्रेभ्य: सम्प्रयच्छसि ।। 2.100.76 ।।

कच्चिदिति । स्वादुकृतं मधुरतया सिद्धम् । आशंसमानेभ्य:, धनमिति शेष: ।। 2.100.76 ।।

राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधर: प्रजानाम् ।

अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत: स्वर्गमुपैति विद्वान् ।। 2.100.77 ।।

एवमाचरतो राज्ञ: ऐहिकामुष्मिकफले दर्शयति–राजा त्वित्यादिना । तुशब्देन राजवैलक्षण्यमुच्यते । हि: प्रसिद्धौ । पालयित्वा, महीमिति शेष: । महामति: उक्तनीतिधर्मज्ञ: । दण्डधर: युक्तदण्डधर: । यथावत् पूर्वराजवत् । इत: अस्माल्लोकात् च्युत: प्रारब्धकर्मावसाने मृत इत्यर्थ: । विद्वान् शरीरभिन्नात्मज्ञानवान् ।। 2.100.77 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे शततम: सर्ग: ।। 100 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने शततम: सर्ग: ।। 100 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.