54 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतु:पञ्चाश: सर्ग:

यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्त्तते ।

जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ।। 2.54.2 ।।

ते भूमिभागान् विविधान् देशांश्चापि मनोरमान् ।

अदृष्टपूर्वान् पश्यन्तस्तत्रतत्र यशस्विन: ।। 2.54.3 ।।

यत्रेत्यादिश्लोकद्वयमेकान्वयम् । भूमिभागान् वनप्रदेशान् । देशान् वत्सदेशावान्तरदेशान् । एतदेवनानात्वमाह तत्रतत्रेति । यशस्विन इत्यनेन तत्तद्देशीयैरर्चितत्वमुक्तम् ।। 2.54.23 ।।

यथाक्षेमेण गच्छन् स पश्यंश्च विविधान् द्रुमान् ।

निवृत्तमात्रे दिवसे राम: सौमित्रिमब्रवीत् ।। 2.54.4 ।।

यथाक्षेमेणेति । यथाक्षेमेण क्षेमानतिक्रमेण । “यथा सादृश्य” इति पदार्थानतिवृत्तावव्ययीभाव: । “तृतीयासप्तम्योर्बहुलम्” इत्यलुक् । क्षेमहेत्ववधानमनतिक्रम्येत्यर्थ: । निवृत्तमात्रे अर्द्धमण्डलकाल इत्यर्थ: ।। 2.54.4 ।।

प्रयागमभित: पश्य सौमित्रे धूममुन्नतम् ।

अग्नेर्भगवत: केतुं मन्ये सन्निहितो मुनि: ।। 2.54.5 ।।

प्रयागमिति । प्रयागमभित: प्रयागस्याभित: । “अभित: परित:–” इत्यादिना द्वितीया । केतुं ध्वजीभूतं धूममिति सम्बन्ध: । अत: सन्निहितो मुनिरिति मन्ये ।। 2.54.5 ।।

नूनं प्राप्ता: स्म सम्भेदं मङ्गायमुनयोर्वयम् ।

तथा हि श्रूयते शब्दो वारिणो वारिघट्टित: ।। 2.54.6 ।।

नूनमिति । सम्भेदं सङ्गमम् “सम्भेद: सिन्धुसङ्गम:” इत्यमर: । वारिघट्टितो वारिण: शब्द: वारिजनितो वारिशब्द: । वारिणोरन्योन्यघट्टनज: शब्द इत्यर्थ: ।। 2.54.6 ।।

दारूणि परिभिन्नानि वनजैरुपजीविभि: ।

भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमा: ।। 2.54.7 ।।

दारूणीति । वनजैरुपजीविभि: वनोत्पन्नै: फलमूलकाष्ठाद्युपजीविभि: दारूणि इत्यत्रापि दृश्यन्त इत्यनुषज्यते ।। 2.54.7 ।।

धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे ।

गङ्गायमुनयो: सन्धौ प्रापतुर्निलयं मुने: ।। 2.54.8 ।।

धन्विनाविति । लम्बमाने अस्तगिरौ लम्बमान इव दृश्यमाने सन्धौ सङ्गमं वर्तमानं निलयम् आश्रमं तत्समीपप्रदेशं प्रापतु: ।। 2.54.8 ।।

रामस्त्वाश्रममासाद्य त्रासयन् मृगपक्षिण: ।

गत्वा मुहूर्त्तमध्वानं भरद्वाजमुपागमत् ।। 2.54.9 ।।

राम इति । त्रासनयन् अपूर्वदर्शनेन त्रासं जनयन् । मूहूर्तं मुहूर्तगम्यम् । भरद्वाजं भरद्वाजसमीपम् ।। 2.54.9 ।।

ततस्त्वाश्रममासाद्य मुनेर्दर्शनकांक्षिणौ ।

सीतयानुगतौ वीरौ दूरादेवावतस्थतु: ।। 2.54.10 ।।

तत इति । दूरादेवावतस्थतु: सायन्तनसमयत्वादग्निहोत्रावसानं प्रतीक्षमाणाववतस्थतुरित्यर्थ: ।। 2.54.10 ।।

स प्रविश्य महात्मानमृषिं शिष्यगणैर्वृतम् ।

संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम् ।। 2.54.11 ।।

हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलि: ।

राम: सौमित्रिणा सार्द्धं सीतया चाम्यवादयत् ।। 2.54.12 ।।

स प्रविश्येत्यादिश्लोकद्वयम् । प्रविश्य दैवान्निर्गतशिष्यमुखेनेति शेष: । संशितव्रतं तीक्ष्णव्रतम् । एकाग्रम् एकप्रधानम्, ध्यानपरमिति यावत् । तपसा तपोवैभवेन । लब्धचक्षुषं लब्धज्ञानम् । अतीतानागतवर्तमानयावदर्थगोचरज्ञानयुक्तमित्यर्थ: । दृष्ट्वैव दर्शनोत्तरकालमेवेत्यर्थ: ।। 2.54.1112 ।।

न्यवेदयत चात्मानं तस्मै लक्ष्मण पूर्वज: ।

पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ ।। 2.54.13 ।।

भार्या ममेयं वैदेही कल्याणी जनकात्मजा ।

मां चानुयाता विजनं तपोवनमनिन्दिता ।। 2.54.14 ।।

पित्रा प्रव्राज्यमानं मां सौमित्रिरनुज: प्रिय: ।

अयमन्वगमद्भ्राता वनमेव दृढब्रत: ।। 2.54.15 ।।

न्यवेदयतेत्यादिश्लोकद्वयमेकान्वयम् । सीतालक्ष्मणयो: सर्वात्मना परतन्त्रत्वादात्मानमित्यनेन तयोरपि ग्रहणम् । कल्याणी पतिव्रतेत्यर्थ: । अनुयातेति न्यवेदयतेतिसम्बन्ध: ।। 2.54.1315 ।।

पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम् ।

धर्ममेव चरिष्यामस्तत्र मूलफलाशना: ।। 2.54.16 ।।

पित्रेति । धर्मं पितृवचनपरिपालरूपम् ।। 2.54.16 ।।

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमत: ।

उपानयत धर्मात्मा गामर्घ्यमुदकं तत: ।। 2.54.17 ।।

नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।

तेभ्यो ददौ तप्ततपा वासं चैवाम्यकल्पयत् ।। 2.54.18 ।।

तस्येति । गां मधुपर्काङ्गभूतमहोक्षम् । तथा च स्मृति:– “गोमधुपर्क्कार्हो वेदाध्यायी आचार्य ऋत्विक् स्नातको राजा वा धर्मयुक्त:” इति । अर्ध्यं पूजाविधेरङ्गम् । अन्नरसान् अदनीयरसान्, रसप्रधानान् पदार्थविशेषानित्यर्थ: । वन्यमूलफलाश्रयान् वन्यमूलफलप्रकृतिकान् ।। 2.54.1718 ।।

मृगपक्षिभिरासीनो मुनिभिश्च समन्तत: ।

राममागतमभ्यर्च्य स्वागतेनाह तं मुनि: ।। 2.54.19 ।।

मृगपक्षिभिरिति । मृगपक्षिभिरासीनो मुनिभिश्चेत्यनेन मुनिवैभवात्तिर्यञ्चो ऽपि मुनिनिर्विशेषं सञ्जातविश्वासा: सेवन्त इति गम्यते । स्वागतेनाह स्वागतमाहेत्यर्थ: । यद्वा मृगपक्षिभि: सहेति शेष: । स्वागतेनाभ्यर्च्येति सम्बन्ध: ।। 2.54.19 ।।

प्रतिगृह्य च तामर्चामुपविष्टं स राघवम् ।

भरद्वाजो ऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ।। 2.54.20 ।।

मुनिराहेत्येतद्विवृणोति–प्रतिगृह्येति ।। 2.54.20 ।।

चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् ।

श्रुतं तव मया चेदं विवासनमकारणम् ।। 2.54.21 ।।

अवकाशो विविक्तो ऽयं महानद्यो: समागमे ।

पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम् ।। 2.54.22 ।।

एवमुक्तस्तु वचनं भरद्वाजेन राघव: ।

प्रत्युवाच शुभं वाक्यं राम: सर्वहिते रत: ।। 2.54.23 ।।

चिरस्य चिरम् ।। 2.54.2123 ।।

भगवन्नित आसन्न: पौरजानपदो जन: ।

सुदर्शमिह मां प्रेक्ष्य मन्ये ऽहमिममाश्रमम् ।। 2.54.24 ।।

आगमिष्यति वैदेहीं मां चापि प्रेक्षको जन: ।

अनेन कारणेनाहमिह वासं न रोचये ।। 2.54.25 ।।

एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् ।

रमेत यत्र वैदेही सुखार्हा जनकात्मजा ।। 2.54.26 ।।

भगवन्नित्यादि । इत: एतदाश्रमापेक्षया । इह आश्रमे । सुदर्शं सुखेन द्रष्टुं शक्यम् । प्रेक्ष्य ज्ञात्वा वैदेहीं मां च प्रेक्षको जन: इममाश्रममागमिष्यतीत्यहं मन्ये । अनेनकारणेन इह वासं न रोचय इत्यन्वय: । मां प्रेक्षक इत्यत्र “अकेनोर्भविष्यदाधमर्ण्ययो:” इति षष्ठीप्रतिषेध: । एकान्ते पौरजनाविदिते । पश्य चिन्तय ।। 2.54.2426 ।।

एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनि: ।

राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत् ।। 2.54.27 ।।

एतदिति । अर्थग्राहकम् अर्थबोधकं यथा भवति तथा । यद्वा अर्थग्राहकं बह्वर्थवत् अब्रवीत् ।। 2.54.27 ।।

दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि ।

महर्षिसेवित: पुण्य: सर्वत: सुखदर्शन: ।। 2.54.28 ।।

गोलाङ्गूलानुचरितो वानरर्क्षनिषेवित: ।

चित्रकूट इति ख्यातो गन्धमादनसन्निभ: ।। 2.54.29 ।।

दशक्रोश इत्यादि । यस्मिन् गिरौ निवत्स्यसि स गिरिरितो दशक्रोश:, दशक्रोशावस्थित इत्यर्थ: । गन्धमादनसन्निभ: गन्धमादनपर्वतसन्निभ: । अतीतानागतवर्त्तमानज्ञो महर्षि: गोलाङ्गूलानुचरितो वानरर्क्षनिषेवित इति केवलत्रिवर्गाभिधानेन एतत्सजातीया एव रामस्य सहाया अपि भविष्यन्तीति सूचितवानिति गम्यते ।। 2.54.2829 ।।

यावता चित्रकूटस्य नर: श्रृङ्गाण्यवेक्षते ।

कल्याणानि समाधत्ते न पापे कुरुते मन: ।। 2.54.30 ।।

यावतेति । नर: यावता दूरेण चित्रकूटस्य शृङ्गाण्यवेक्षते तावता कल्याणानि पुण्यकर्माणि समाधत्ते प्राप्नोति । यद्वा समाधत्ते आचरति पापे मनो न कुरुते, तत्र वसन् किमुतेति भाव: । यद्वा यावता कालेन ।। 2.54.30 ।।

ऋषयस्तत्र बहवो विहृत्य शरदां शतम् ।

तपसा दिवमारूढा: कपालशिरसा सह ।। 2.54.31 ।।

ऋषय इति । तत्र चित्रकूटे । शरदां शतं तपसा विहृत्यक्रीडन्त इव महत्तप: परिसमाप्येत्यर्थ: । कपालशिरसा सह दिवमारूढा: तपश्चरणेन निरन्तरकपालासनेन प्रक्षीणत्वक्शिरोरुहतया कपालावशिष्टशिरसा सह दिवमारूढा इत्यर्थ: । कपालशिरसेत्येतच्छरीरोपलक्षणम् । सशरीरा: स्वर्गं गता इत्यर्थ: । यद्वा कपालशिरा इति कस्यचिदृषे: संज्ञा । कपालशिरसा कपालरूपशिरोयुक्तेनेत्यध्याहृतशरीरपदविशेषणमित्येके । कपालमात्रावशिष्टं शिरो यस्मिन्निति तपोविशेषणमित्येके ।। 2.54.31 ।।

प्रविविक्तमहं मन्ये तं वासं भवत: सुखम् ।

इह वा वनवासाय वस राम मया सह ।। 2.54.32 ।।

प्रविविक्तमिति । प्रविविक्तं प्रकर्षेण विजनम् ।। 2.54.32 ।।

स रामं सर्वकामैस्तं भरद्वाज: प्रियातिथिम् ।

सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् ।। 2.54.33 ।।

स राममिति । सर्वकामै: प्रतिजग्राह अतिथियोग्यसत्कारैर्वशीकृतवानित्यर्थ: । (पाठभेद: । प्रतिजग्राह उपचचार) ।। 2.54.33 ।।

तस्य प्रयागे रामस्य तं महर्षिमुपेयुष: ।

प्रपन्ना रजनी पुण्या चित्रा: कथयत: कथा: ।। 2.54.34 ।।

सीतातृतीय: काकुत्स्थ: परिश्रान्त: सुखोचित: ।

भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम् ।। 2.54.35 ।।

प्रभातायां रजन्यां तु भरद्वाजमुपागमत् ।

उवाच नरशार्दूलो मुनिं ज्वलिततेजसम् ।। 2.54.36 ।।

तस्येति । प्रपन्ना प्राप्ता ।। 2.54.3436 ।।

शर्वरीं भगवन्नद्य सत्यशील तवाश्रमे ।

उषिता: स्मेह वसतिमनुजानातु नो भवान् ।। 2.54.37 ।।

शर्वरीमिति । वसतिमनुजानातु पूर्वोक्तां वसतिं प्रतिगन्तुमनुज्ञां करोत्वित्यर्थ: ।। 2.54.37 ।।

रात्र्यां तु तस्यां व्युष्टायां भरद्वाजो ऽब्रवीदिदम् ।

मधुमूलफलोपेतं चित्रकूटं व्रजेति ह ।। 2.54.38 ।।

रात्र्यामिति । व्रजेत्यब्रवीदित्यन्वय: । हेति पादपूरणे हर्षे वा ।। 2.54.38 ।।

वासमौपयिकं मन्ये तव राम महाबल ।

नानानगगणोपेत: किन्नरोरगसेवित: ।। 2.54.39 ।।

मयूरनादाभिरुतो गजराजनिषेवित: ।

गम्यतां भवता शैलश्चित्रकूट: स विश्रुत: ।

पुण्यश्च रमणीयश्च बहुमूलफलायुत: ।। 2.54.40 ।।

तत्र कुञ्जरयूथानि मृगयूथानि चाभित: ।

विचरन्ति वनान्ते ऽस्मिन् तानि द्रक्ष्यसि राघव ।। 2.54.41 ।।

वासमिति । तत्रेति शेष: । औपयिकं युक्तम् । “युक्तमौपयिकम्” इत्यमर: । नानानगगणोपेत: नानावृक्षनिचयोपेत: ।। 2.54.3941 ।।

सरित्प्रस्रवणप्रस्थान् दरीकन्दरनिर्द्दरान् ।

चरत: सीतया सार्द्धं नन्दिष्यति मनस्तव ।। 2.54.42 ।।

सरित्प्रस्रवणप्रस्थानिति । सरितो नद्य: प्रस्रवणानि तनुतरजलप्रवाहा: प्रस्था: सानव: स्तान् । दरीकन्दरनिर्द्दरान् दर्य: पाषाणसंश्लेषस्थानानि कन्दरा: गुहा: । निर्द्दरा: विदीर्णपाषाणसन्धय: तान् ।। 2.54.42 ।।

प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम् ।

मृगैश्च मत्तैर्बहुभिश्च कुञ्जरै: सुरम्यमासाद्य समावसाश्रमम् ।। 2.54.43 ।।

प्रहृष्टेति । कोयष्टिका: टिट्टिभका: । “कोयष्टिकष्टिट्टिभक:” इत्यमर: ।। 2.54.43 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतु:पञ्चाश: सर्ग: ।। 54 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतु:पञ्चाश: सर्ग: ।। 54 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.