11 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे

एकादश: सर्ग:

तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।

उवाच पृथिवीपालं कैकेयी दारुणं वच: ।। 2.11.1 ।।

अथ ‘व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्’ इति मन्थरयोपदिष्टमनुतिष्ठति–तमित्यादिना ।। 2.11.1 ।।

नास्मि विप्रकृता देव केन चिन्नावमानिता ।

अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ।। 2.11.2 ।।

नास्मीति । विप्रकृता रोगग्रस्ता । नार्थकामा ऽस्मीत्यपि द्रष्टव्यम् । निग्रहानुग्रहपक्षं मनसि कृत्वाह–अभिप्राय: अभिप्रेतोर्थ:, अस्तीति शेष: । त्वया कृतं त्वया प्रतिश्रुतम् । तमिच्छामीति सम्बन्ध: ।। 2.11.2 ।।

प्रतिज्ञां प्रतिज्ञानीष्व यदि त्वं कर्तुमिच्छसि ।

अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ।। 2.11.3 ।।

प्रतिज्ञामिति । प्रतिज्ञां प्रतिजानीष्व शपथं कुर्वित्यर्थ: ।। 2.11.3 ।।

तामुवाच महातेजा: कैकेयीमीषदुत्स्मित: ।

कामी हस्तेन संगृह्य मूर्द्धजेषु शुचिस्मिताम् ।। 2.11.4 ।।

तामिति । ईषदुत्स्मित: भवदाज्ञाकारिणि मयि किं शपथेनेति किञ्चिदुद्गतस्मित: । यद्वा अभिप्रेतकरणमीषत्करमित्युत्स्मित: । यद्वा शङ्कितरोगाद्यभावात् हस्तेन मूर्द्धजेषु संगृह्येति शिरो ऽङ्के कृत्वेति भाव: । स्वाभिमुखीकरणाय वेणीमवलम्ब्येतिवार्थ: ।। 2.11.4 ।।

अवलिप्ते न जानासि त्वत्त: प्रियतमा मम ।

मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ।। 2.11.5 ।।

अवलिप्त इति । अवलिप्ते सौभाग्यगर्विते मम त्वत्त: प्रियतमा स्त्रीणां मध्ये त्वत्त: प्रियतमा नास्ति । रामादन्यो मनुज: प्रियतमो न विद्यते इति जानासीति सम्बन्ध: ।। 2.11.5 ।।

तेनाजय्येन मुख्येन राघवेण महात्मना ।

शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ।। 2.11.6 ।।

जीवनार्हेण जीवनादपि पूज्येन ।। 2.11.6 ।।

यं मुहूर्त्तमपश्यंस्तु न जीवेयमहं ध्रुवम् ।

तेन रामेण कैकेयि शपे ते वचनक्रियाम् ।। 2.11.7 ।।

अस्यैव विवरणम्–यमिति । ते वचनक्रियां तव वचनकरणं प्रतीति शेष: ।। 2.11.7 ।।

आत्मना वात्मजैश्चान्यैर्वृणेयं मनुजर्षभम् ।

तेन रामेण कैकेयि शपे ते वचनक्रियाम् ।। 2.11.8 ।।

आत्मनेति । आत्मना स्वदेहेन । आत्मजै: भरतादिभि: । अन्यैश्च प्रियबन्धुभिश्च । मूल्यभूतैरेतैर्यं रामं वृणे सर्वान् परित्यज्यापि राममेव परिगृह्णामीति भाव: ।। 2.11.8 ।।

भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे ।

एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधुमन्यसे ।। 2.11.9 ।।

भद्र इति । हे भद्रे मे हृदयं एतत् एतादृशमनुमृश्य शपथवचनानुसारित्वेन निर्धार्य उद्धरस्व उज्जीवय । एतत् वाङ्मनसयोरैकरूप्यम् । समीक्ष्य सम्यगालोच्य । यत्साधु इष्टं मन्यसे तद्ब्रूहि, त्वदभीष्टकरणमेव मज्जीवनम् । अन्यथा न जीवामीत्यर्थ: ।। 2.11.9 ।।

बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि ।

करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।। 2.11.10 ।।

बलमिति । आत्मनि बलं त्वयि विद्यमानं दृष्टिचित्तापहारिसौभाग्यबलम् । ।। 2.11.10 ।।

सा तदर्थमना देवी तमभिप्रायमागतम् ।

निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दु:सहं वच: ।। 2.11.11 ।।

सेति । तदर्थमना: मन्थरोपदिष्टरामविवासनपूर्वकभरताभिषेकरूपार्थमना: । अभिप्रायमागतं स्वाभिमतशपथं प्राप्तं निर्माध्यस्थ्यात् निर्गतमध्यस्थभावात्, पक्षपातादित्यर्थ: ।। 2.11.11 ।।

तेन वाक्येन संहृष्टा तमभिप्रायमागतम् ।

व्याजहार महाघोरमभ्यागतमिवान्तकम् ।। 2.11.12 ।।

उक्तमर्थं सविशेषमाह–तेनेति । तेन वाक्येन शपथपूर्वकं त्वदभिमतं करिष्यामीत्युक्तदशरथवचनेन ।। 2.11.12 ।।

यथा क्रमेण शपसि वरं मम ददासि च ।

तच्छृण्वन्तु त्रयस्त्रिंशद्देवा: साग्निपुरोगमा: ।। 2.11.13 ।।

दशरथवाक्यं दृढीकर्तुं नरस्य धर्माधर्मसाक्षिभूता देवता: श्रावयति–यथा क्रमेणेति । क्रमेण प्रियपुत्रसुकृतक्रमेण । यथा शपसि वरं ददासि च तथा तच्छृण्वन्त्विति सम्बन्ध: ।। 2.11.13 ।।

चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिश: ।

जगच्च पृथिवी चैव सगन्धर्वा सराक्षसा ।। 2.11.14 ।।

निशाचराणि भूतानि गृहेषु गृहदेवता: ।

यानि चान्यानि भूतानि जानीयुर्भाषितं तव ।। 2.11.15 ।।

सत्यसन्धो महातेजा धर्मज्ञ: सुसमाहित: ।

वरं मम ददात्येष तन्मे श्रृण्वन्तु देवता: ।। 2.11.16 ।।

चन्द्रादित्याविति । ग्रहा: नवग्रहा: । जगत् लोक: । “लोको विष्टपं भुवनं जगत्” इत्यमर: । लोकश्चात्र स्वर्ग एव ।। 2.11.1416 ।।

इति देवी महेष्वासं परिगृह्याभिशस्य च ।

तत: परमुवाचेदं वरदं काममोहितम् ।। 2.11.17 ।।

इतीति । परिगृह्य धर्मपाशेन संयम्य । अभिशस्य सर्वा देवता: साक्षित्वेन श्रृण्वन्त्वित्युद्घुष्य ।। 2.11.17 ।।

स्मर राजन् पुरावृत्तं तस्मिन् दैवासुरे रणे ।

तत्र चाच्यावयच्छत्रुस्तव जीवितमन्तरा ।। 2.11.18 ।।

स्मरेति । पूर्ववृत्तमेवाह तत्रेति । तत्र रात्रियुद्धे । अन्तरा मध्ये । तव जीवितम् अच्यावयत् अचालयत् । शस्त्रप्रहारादिना मूर्च्छां प्रापितवानित्यर्थ: ।। 2.11.18 ।।

तत्र चापि मया देव यत्त्वं समभिरक्षित: ।

जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ।। 2.11.19 ।।

तत्रेति । यतमानाया: सारथ्ये यत्नं कुर्वाणाया: ।। 2.11.19 ।।

तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् ।

तवैव पृथिवीपाल सकाशे सत्यसङ्गर ।। 2.11.20 ।।

तौ त्विति । हे पृथवीपाल तव सकाशे एव निक्षेपौ निक्षेपत्वेन स्थापितौ । तौ तु वरौ तावेव वरौ । मृगयामि अन्वेषयामि, इच्छामीत्यर्थ: ।। 2.11.20 ।।

तत् प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् ।

अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ।। 2.11.21 ।।

तदिति । वरमिति जात्येकवचनम् ।। 2.11.21 ।।

वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृत: ।

प्रचस्कन्द विनाशाय पाशं मृग इवात्मन: ।। 2.11.22 ।।

वाङ्मात्रेणेति । वाङ्मात्रेण पूर्वदत्तवरस्मारकवचनमात्रेण । कैकेय्या स्ववशे कृत: राजा वाङ्मात्रेण मृगशब्दानुकारिणा लुब्धककथितेन । आत्मनो विनाशाय पाशं मृग इव वागुरां मृग इव धर्मपाशं प्रचस्कन्द गतवान् । “स्कन्दिर् गतिशोषणयो:” इति धातु: । वरप्रदानमङ्गीचकारेत्यर्थ: । यद्वा वागुरां प्राप्तो मृग इव प्रचस्कन्द शोषणं प्राप्त इत्यर्थ: ।। 2.11.22 ।।

तत:परमुवाचेदं वरदं काममोहितम् । वरौ यौ मे त्वया देव तदा दत्तौ महीपते ।। 2.11.23 ।।

तत इत्यादि ।। 2.11.23 ।।

तौ तावदहमद्यैव वक्ष्यामि शृणु मे वच: ।। 2.11.24 ।।

ताविति । तौ वरौ वक्ष्यामितौ वरौ विभज्य प्रदातुं प्रकारं वक्ष्यामीत्यर्थ: ।। 2.11.24 ।।

अभिषेकसमारम्भो राघवस्योपकल्पित: ।

अनेनैवाभिषेकेण भरतो मे ऽभिषेच्यताम् ।। 2.11.25 ।।

यो द्वितीयो वरो देव दत्त: प्रीतेन मे त्वया ।

तदा दैवासुरे युद्धे तस्य कालो ऽयमागत: ।। 2.11.26 ।।

अभिषेकसमारम्भ इति । अभिषेकसमारम्भ: अभिषेकसामग्री । य इति शेष: । अभिषेकेण अभिषेकसामग्र्या ।। 2.11.2526 ।।

नव पञ्च च वर्षाणि दण्डकारण्यमाश्रित: ।

चीराजिनजटाधारी रामो भवतु तापस: ।। 2.11.27 ।।

नवेति । चीरं वल्कलम् ।। 2.11.27 ।।

भरतो भजतामद्य यौवराज्यमकण्टकम् ।

एष मे परम: कामो दत्तमेव वरं वृणे ।। 2.11.28 ।।

अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम् ।। 2.11.29 ।।

विलम्बव्यावृत्त्यर्थमाह–भरत इत्यादिना । दत्तमेव, न तु नूतनं किञ्चिदर्थये ।। 2.11.2829 ।।

स राजराजो भव सत्यसङ्गर: कुलं च शीलं च हि रक्ष जन्म च ।

परत्रवासे हि वदन्त्यनुत्तमं तपोधना: सत्यवचो हितं नृणाम् ।। 2.11.30 ।।

सत्यस्यावश्यकर्त्तव्यत्वमाह–स इति । राजराज: स त्वं सत्यसङ्गर: सत्यप्रतिज्ञ: भव । तेन सत्यसङ्गरत्वेन कुलादित्रयं रक्ष । सत्यस्य रक्षकत्वमुपपादयति परत्रेति । नृणां हितं सत्यवच: । परत्रवासे स्वर्गलोकादिवासे । अनुत्तमं अत्यन्तोत्तमसाधनं वदन्ति ।। 2.11.30 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादश: सर्ग: ।। 11 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने श्रीमदयोध्याकाण्डव्याख्याने एकादशस्सर्ग: ।। 11 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.