38 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टत्रिंश: सर्ग:

तस्यां चीरं वसानायां नाथवत्यामनाथवत् ।

प्रचुक्रोश जन: सर्वो धिक् त्वां दशरथं त्विति ।। 2.38.1 ।।

तस्यामित्यादि । त्वां धिगिति दशरथं चुक्रोशेत्यर्थ: ।। 2.38.1 ।।



तेन तत्र प्रणादेन दु:खित: स महीपति: ।

चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मन: ।। 2.38.2 ।।

स निश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् ।

कैकेयि कुशचीरेण न सीता गन्तुमर्हति ।। 2.38.3 ।।

सुकुमारी च बाला च सततं च सुखोचिता ।

नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ।। 2.38.4 ।।

तेनेति । श्रद्धाम् आदरम् ।। 2.38.24 ।।



इयं हि कस्यापकरोति किंचित् तपस्विनी राजवरस्य कन्या ।

या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञा श्रमणीव काचित् ।। 2.38.5 ।।

इयमिति । तपस्विनी पातिव्रत्यतपोयुक्ता । विसंज्ञा मुग्धा । श्रमणीव तपस्विनीव । “श्रमु तपसि खेदे च” इति धातु: ।। 2.38.5 ।।



चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा ।

यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नै: ।। 2.38.6 ।।

चीराणीति । अपास्यात् त्यजतु । इयं प्रतिज्ञा सीतायाश्चीरधारणपूर्वकवनगमनरूपप्रतिज्ञा । मम मया । तृतीयार्थे षष्ठी । समग्रा वस्त्रालङ्कारसम्पूर्णा । सर्वरत्नै: सर्वश्रेष्ठवस्तुभि: ।। 2.38.6 ।।



अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत् ।

त्वया हि बाल्यात् प्रतिपन्नमेतत्तन्मां दहेद्वेणुमिवात्मपुष्पम् ।। 2.38.7 ।।

अजीवनार्हेणेति । अजीवनार्हेण्ा जीवनानर्हेण । आसन्नमरणेनेति यावत् । मया, नृशंसा क्रूरा । प्रतिज्ञा त्वत्प्रार्थितं करिष्यामीति शपथपूर्विका प्रतिज्ञा । तावत् प्रथमं कृता । त्वया हि दत्तवरद्वयया । बाल्यात् बालिशत्वात् । एतत् प्रतिज्ञानम् । नियमेन भरताभिषेकरामविवासनरूपविषयव्यवस्थया । प्रतिपन्नं निश्चितम् । तत् मत्कृतप्रतिज्ञानम् । आत्मपुष्पं वेणुमिव मां दहेदिति योजना ।। 2.38.7 ।।



रामेण यदि ते पापे किञ्चित्कृतमशोभनम् ।

अपकार: क इह ते वैदेह्या दर्शितो ऽथ मे ।। 2.38.8 ।।

कोपे रामापराधमभ्युपेत्याह–रामेणेति । अशोभनम् अपराध: । इह विवासे । दर्शित: सम्पादित इति यावत् ।। 2.38.8 ।।



मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी ।

अपकारं कमिह ते करोति जनकात्मजा ।। 2.38.9 ।।

मृगीति । मृगीवोत्फुल्लनयनेत्यनेन मौग्ध्यमुक्तम् । मृदुशीलेत्यनेन अपराधभीरुत्वमुक्तम् ।। 2.38.9 ।।



ननु पर्याप्तमेतत्ते पापे रामविवासनम् ।

किमेभि: कृपणैर्भूय: पातकैरपि ते कृतै: ।। 2.38.10 ।।

नन्विति । पर्याप्तं यावदात्मभावि नरकानुभवायालम् ।। 2.38.10 ।।



प्रतिज्ञातं मया तावत्त्वयोक्तं देवि शृण्वता ।

रामं यदभिषेकाय त्वमिहागतमब्रवी: ।। 2.38.11 ।।

प्रतिज्ञातमिति । अभिषेकाय इहागतं रामं त्वं यदब्रवी: “सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रित: । अभिषेकमिमं त्यक्त्वा जटाचीरधरो वस ।।” इति यदब्रवी:। त्वयोक्तं तच्छृण्वता मया। तावत् रामविवासनमात्रमेव प्रतिज्ञातम्, न तु सीताप्रव्राजनमिति भाव: ।। 2.38.11 ।।



तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि ।

मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ।। 2.38.12 ।।

इतीव राजा विपलन् महात्मा शोकस्य नान्तं स ददर्श किंचित् ।

भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमग्न: ।। 2.38.13 ।।

तदिति । मया प्रतिज्ञातमतिक्रम्य । निरयं नरकं गन्तुमिच्छसि । कुत: ? हि यस्मात् या त्वं मैथिलीमपि चीरवासिनीमीक्षसे वाञ्छसि ।। 2.38.1213 ।।



एवं ब्रुवन्तं पितरं राम: संप्रस्थितो वनम् ।

अवाक्छिरसमासीनमिदं वचनमब्रवीत् ।। 2.38.14 ।।

एवमिति । सम्प्रस्थित: गन्तुमुद्यत: ।। 2.38.14 ।।



इयं धार्मिक कौसल्या मम माता यशस्विनी ।

वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते ।। 2.38.15 ।।

मया विहीनां वरद प्रपन्नां शोकसागरम् ।

अदृष्टपूर्वव्यसनां भूय: सम्मन्तुमर्हसि ।। 2.38.16 ।।

इयमित्यादि । प्रपन्नां प्राप्ताम् । भूय: अतिशयेन । सम्मन्तुं सम्मानयितुम् । ज्येष्ठपत्नीत्वेन पूर्वमेव सम्मानिता । अद्य विशेषेण मद्याञ्चयेति भाव ।। 2.38.1516 ।।



पुत्रशोकं यथा नर्च्छेत्त्वया पूज्येन पूजिता ।

मां हि सञ्चिन्तयन्तीयमपि जीवेत्तपस्विनी ।। 2.38.17 ।।

पुत्रशोकमिति । पुत्रशोकं यथा नर्च्छेत्तथा संमन्तुमर्हसीति पूर्वेण सम्बन्ध: । यद्वा उत्तरेणैवान्वय: । मां सञ्चिन्तयन्तीयं तपस्विनी अपि जीवेत् यदि जीवेत्तदा त्वया पूजिता सती पुत्रशोकं यथा नर्च्छेन्न गच्छेत्तथा कुर्वित्यर्थ: । न मच्छोकाद्यथा नश्येत्तथा त्वया पूज्येन पूजिता । मां हि सञ्चिन्तयन्तीयं त्वयि जीवेत्तपस्विनी इत्यपि पाठ: । पूर्वार्द्धस्य पूर्वेणान्वय: । त्वयि विषये जीवेत् मां चिन्तयन्त्यपि त्वदुपलालनेन जीवेदित्यर्थ: । यद्वा मां सञ्चिन्तयन्ती मच्छोकाद्यथा न नश्येत्तथा त्वया पूजिता । त्वयि जीवेदित्येकं वाक्यम् ।। 2.38.17 ।।



इमां महेन्द्रोपम जातगर्धिनीं तथा विधातु जननीं ममार्हसि ।

यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत् ।। 2.38.18 ।।

इमामिति । जातगर्धिनीं पुत्रदर्शनकांक्षिणीमित्यर्थ: । न्यस्य त्यक्त्वा ।। 2.38.18 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टत्रिंश: सर्ग: ।। 38 ।।

इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टत्रिंश: सर्ग: ।। 38 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.