40 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चत्वारिंश: सर्ग:

अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलि: ।

उपसंगृह्य राजानं चक्रुर्दीना: प्रदक्षिणम् ।। 2.40.1 ।।

तं चापि समनुज्ञाप्य धर्मज्ञ: सीतया सह ।

राघव: शोकसम्मूढो जननीमभ्यवादयत् ।। 2.40.2 ।।

अथेति । उपसंगृह्य पादग्रहणपूर्वकं प्रणम्य । दीना: वृद्धयोर्मातापित्रो: शुश्रूषा न लब्धेति दीना: ।। 2.40.12 ।।

अन्वक्षं लक्ष्मणो भ्रातु: कौसल्यामभ्यवादयत् ।

अथ मातु: सुमित्राया जग्राह चरणौ पुन: ।। 2.40.3 ।।

तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् ।

हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् ।। 2.40.4 ।।

अन्वक्षमिति । अन्वक्षम् अनुपदम् । “अन्वगन्वक्षमनुगेनुपदम्” इत्यमर: ।। 2.40.34 ।।

सृष्टस्त्वं वनवासाय स्वनुरक्त: सुहृज्जने ।

रामे प्रमादं मा कार्षी: पुत्र भ्रातरि गच्छति ।। 2.40.5 ।।

सृष्ट इति । सृष्टस्त्वम्, दैवेनेति शेष: । भ्रातरि गच्छति देव्या सह पुष्पितवनदर्शनपारवश्येन गच्छति सतीत्यर्थ: । प्रमादम् अनवधानम् । मा कार्षी: सावधानो भवेत्यर्थ: । सृष्ट इति यथा कौसल्या लोकरक्षणार्थं पुत्रं प्रासूत एवं मया सुहृज्जने रामे स्वनु रक्तस्त्वं वनवासाय सृष्ट: । वने रामानुवर्तनायोत्पादित:, अतो रामे गच्छति प्रमादं मा कार्षी: । रामगमनसौन्दर्याकृष्टमनस्कतया रक्षणकर्मण्यनवहितो माभूरित्यर्थ: । यद्वा रामे वनं गच्छति त्वमत्रैव मा तिष्ठेति भाव: ।। 2.40.5 ।।

व्यसनी वा समृद्धो वा गतिरेष तवानघ ।

एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ।। 2.40.6 ।।

रामगमने गन्तव्यतायां निमित्तमाह–व्यसनीति । गतित्वे धर्मशास्त्रानुमतिं दर्शयति एष इति ।। 2.40.6 ।।

इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् ।

दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ।। 2.40.7 ।।

[ज्येष्ठस्याप्यनुवृत्तिश्च राजवंशस्य लक्षणम् ।]

ज्येष्ठानुवर्तनादपि परमधर्मं कुलोचितं दर्शयति–इदमिति । मृधेषु युद्धेषु । तनुत्यागेनापि रामो रक्षणीय इति भाव: ।। 2.40.7 ।।

लक्ष्मणं त्वेवमुक्त्वा सा संसिद्धं प्रियराघवम् ।

सुमित्रा गच्छगच्छेति पुन:पुनरुवाच तम् ।। 2.40.8 ।।

लक्ष्मणमिति । संसिद्धं “षिधु गत्याम्” इत्यस्माद्धातोर्निष्ठायां रूपम् । गमनोद्युक्तमित्यर्थ: । गच्छगच्छेति वीप्सया सुमित्राया अपि रामानुवर्त्तने महानादरो द्योत्यते ।। 2.40.8 ।।

रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।

अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ।। 2.40.9 ।।

तत: सुमन्त्र: काकुत्स्थं प्राञ्चलिर्वाक्यमब्रवीत् ।

विनीतो विनयज्ञश्च मातलिर्वासवं यथा ।। 2.40.10 ।।

वनवासे पितृमातृनगरस्मरणे मनश्चाञ्चल्यं भविष्यतीतिधिया तत्रैव प्रतिनिधिं कल्पयति–रामतिति । यथामुखं गच्छेत्यस्य इत्युवाचेति पूर्वेण सम्बन्ध: । रामं दशरथं विद्धि, पितरमवगच्छेत्यर्थ: । जनकात्मजां मां विद्धि, मातरं विद्धीत्यर्थ: । अटवीमयोध्याम्, तद्वत् भोगस्थानं विद्धि । गच्छ तात यथासुखम् तदनुवर्तनमेव उचितं सुखमित्यर्थ: । यद्वा रामं दशरथं विद्धि दशति मत्स्यकच्छपोरगादीन् दंष्ट्राव्यापारविषयान् करोतीति दश: पक्षी “दशं दशने” इति धातु: । दशनं दंष्ट्राव्यापार: । पचाद्यच् । पृषोदरादित्वा दनुनासिकलोप: । स गरुड: रथो यस्य तम्, विष्णुं विद्धीत्यर्थ: । जनकात्मजां मां लक्ष्मीं विद्धि । अटवीमयोध्याम् अपराजिताख्यां वैकुण्ठनगरीं विद्धि । तद्वासस्थानमिति भाव: । यद्वा रामं दशरथं च विद्धि, उभयोस्तारतम्यं पश्येत्यर्थ: । मां जनकात्मजां च विद्धि, गुणत: आलोचय मदपेक्षया सीतैव तव हितपरेति भाव: । अयोध्याम् अटवीं च विद्धि एतन्नगरापेक्षया वनमेव तव कैङ्कर्यैकान्तस्थानतयोत्कृष्टमित्यर्थ: । यद्वा दशरथं रामम् उपरतं विद्धि, मां जनकस्य पितुरात्मजां विद्धि, कैकेयीविवासिततया पितृगृहवर्तिनीं विद्धीत्यर्थ: । अयोध्यामटवीं विद्धि, निर्जनेयं भविष्यतीत्यर्थ: । एवं तात्पर्यान्तराण्यूह्यानि ।। 2.40.910 ।।

रथमारोह भद्रं ते राजपुत्र महायश: ।

क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि ।। 2.40.11 ।।

रथमिति । यत्र यस्मिन् प्रदेशविषये ।। 2.40.11 ।।

चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया ।

तान्युपक्रमितव्यानि यानि देव्या ऽसि चोदित: ।। 2.40.12 ।।

चतुर्दशेति । चतुर्दशवर्षेष्वेकदिवसापनयनमपि महान् लाभ इति धिया त्वरयति तान्युपक्रमितव्यानीति । देव्यासि चोदित: अद्यैव गच्छ इति कैकेय्या चोदितत्वादित्यर्थ: । ।। 2.40.12 ।।

तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा ।

आरुरोह वरारोहा कृत्वालङ्कारमात्मन: ।। 2.40.13 ।।

तमिति । अलङ्कारं कृत्वा, श्वशुरदत्तवस्त्राभरणादिभिरिति शेष: ।। 2.40.13 ।।

अथो ज्वलनसङ्काशं चामीकरविभूषितम् ।

तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ ।। 2.40.14 ।।

वनवासं हि सङ्ख्याय वासांस्याभरणानि च ।

भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ।। 2.40.15 ।।

तथैवायुधजालानि भ्रातृभ्यां कवचानि च ।

रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् ।। 2.40.16 ।।

सीतातृतीयानारूढान् दृष्ट्वा धृष्टमचोदयत् ।

सुमन्त्र: संमतानश्वान् वायुवेगसमान् जवे ।। 2.40.17 ।।

एतच्श्लोकानन्तरमथोज्वलनेति श्लोक: पठितव्य: । अथो अति । ज्वलनसङ्काशम् आयुधपूर्णत्वादिति भाव: । वनवासं हीति श्लोकस्तथैवेति श्लोकस्सीतातृतीयानितिश्लोकश्चैकं वाक्यम् । श्वशुरो दशरथ: । सीतायै यानि ददौ तानि च रथोपस्थे प्रतिन्यस्य तथा भ्रातृभ्यां दत्तान्यायुधजालानि कवचानि सचर्म चर्मपिनद्धम् अल्पकण्डोलं कठिनं तत् खनित्रं च रथमध्ये प्रतिन्यस्य सीता तृतीयानारूढान् दृष्ट्वा अश्वानचोदयदिति योजना । धृष्टं सधैर्यम् । सम्मतान् श्रेष्ठानित्यर्थ: । यथान्यासमेव वास्तु । तदा तं रथमितिश्लोको वनवासमिति श्लोक: तथैवेति श्लोकश्चैकं वाक्यम् । सीतात्मानो ऽलङ्कारं कृत्वा यानि श्वशुरो ददौ यानि भ्रातृभ्यामानीतानि आयुधजालानि कवचानि सचर्म कठिनं च तत्सर्वं रथोपस्थे प्रतिन्यस्यारुरोहेत्यन्वय: ।। 2.40.1417 ।।

प्रतियाते महारण्यं चिररात्राय राघवे ।

बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च ।। 2.40.18 ।।

प्रतियात इति । चिररात्राय चिरकालम् । नगरे मूर्च्छा बभूव नगरस्थस्त्रीबालादिषु दु:खातिशयेन विसंज्ञता बभूवेत्यर्थ: । बलमूर्च्छा अश्वगजादिमोह: । जनस्य उत्सवार्थमागतजनपदजनस्य ।। 2.40.18 ।।

तत्समाकुलसम्भ्रान्तं मत्तसङ्कुपितद्विपम् ।

हयशिञ्जितनिर्घाषं पुरमासीन्महास्वनम् ।। 2.40.19 ।।

तदिति । समाकुलम् अन्त:करणक्षोभयुक्तम् । सम्भ्रान्तं बाह्येन्द्रियक्षोभयुक्तं, सर्वेन्द्रियक्षोभवत् पौरजनयुक्तमित्यर्थ: । मत्तसङ्कुपितद्विपं व्यसनातिशयेन सङ्कुपितमत्तद्विपमित्यर्थ: । हयशिञ्जितनिर्घोषं परितापातिशयेन ततइतश्चलतां हयानां भूषणरवेण सञ्जातघोषमित्यर्थ: । “भूषणानां तु शिञ्जितम्” इत्यमर: । अत एव महास्वनमासीत् ।। 2.40.19 ।।

तत: सबालवृद्धा सा पुरी परमपीडिता ।

राममेवाभिदुद्राव घर्मार्त्ता सलिलं यथा ।। 2.40.20 ।।

तत इति । परमपीडिता रामविरहदु:खेनेति शेष: ।। 2.40.20 ।।

पार्श्वत: पृष्ठतश्चापि लम्बमानास्तदुन्मुखा: ।

बाष्पपूर्णमुखा: सर्वे तमूचुर्भृशनिस्वना: ।। 2.40.21 ।।

संयच्छ वाजिनां रश्मीन् सूत याहि शनै: शनै: ।

मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति ।। 2.40.22 ।।

पार्श्वत इति । लम्बमाना: रथैकदेशमाश्रित्येति शेष: ।। 2.40.2122 ।।

आयसं हृदयं नूनं राममातुरसंशयम् ।

यद्देवगर्भप्रतिमे वनं यानि न भिद्यते ।। 2.40.23 ।।

आयसमिति । देव गर्भप्रतिमे देवकुमारसदृशे ।। 2.40.23 ।।

कृतकृत्या हि वैदेही छायेवानुगता पतिम् ।

न जहाति रता धर्मे मेरुमर्कप्रभा यथा ।। 2.40.24 ।।

अहो लक्ष्मण सिद्धार्थ: सततं प्रियवादिनम् ।

भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि ।। 2.40.25 ।।

महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान् ।

एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ।। 2.40.26 ।।

एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् ।

नरास्तमनुगच्छन्त: प्रियमिक्ष्वाकुनन्दनम् ।। 2.40.27 ।।

अथ राजा वृत: स्त्रीभिर्दीनाभिर्दीनचेतन: ।

निर्ज्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ।। 2.40.28 ।।

शुश्रुवे चाग्रत: स्त्रीणां रुदन्तीनां महास्वन: ।

यथा नाद: करेणूनां बद्धे महति कुञ्जरे ।। 2.40.29 ।।

कृत्यकृत्येति । मेरुमर्कप्रभा यथेति सूर्यस्य प्रादक्षिण्येन मेरुगमनमिति सर्वदा तस्य मेरुसम्बन्धो ऽस्त्येव ।। 2.40.2429 ।।

पिता हि राजा काकुत्स्थ: श्रीमान् सन्नस्तदाभवत् ।

परिपूर्ण: शशी काले ग्रहेणोपप्लुतो यथा ।। 2.40.30 ।।

पितेति । सन्न: अवसन्नतेजा इत्यर्थ: ।। 2.40.30 ।।

स च श्रीमानचिन्त्यात्मा रामो दशरथात्मज: ।

सूतं सञ्चोदयामास त्वरितं वाह्यतामिति ।। 2.40.31 ।।

स इति । अचिन्त्यात्मा इयत्तया परिच्छेत्तुमशक्यधैर्यइत्यर्थ: ।। 2.40.31 ।।

रामो याहीति सूतं तं तिष्ठेति स जनस्तदा ।

उभयं नाशकत् सूतं कर्तुमध्वनि चोदित: ।। 2.40.32 ।।

राम इति । याहि तिष्ठेति उभयत्राचोदयदिति शेष: । उभयं यानं स्थानं च । अध्वनि रामजनाभ्यां चोदित: सन् कर्तुं नाशकत् ।। 2.40.32 ।।

निर्गच्छति महाबाहौ रामे पौरजनाश्रुभि: ।

पतितैरभ्यवहितं प्रशशाम महीरज: ।। 2.40.33 ।।

निर्गच्छतीति । अभ्यवहितं सिक्तम् ।। 2.40.33 ।।

रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम् ।

प्रयाणे राघवस्यासीत् पुरं परमपीडितम् ।। 2.40.34 ।।

रुदिताश्रुपरिद्यूनमिति । हाहाकृतं हाहाकारवत् । मत्त्वर्थीयलोप: । अचेतनं मूढम् । राघवस्य दशरथस्य । पुरं पुरस्थजना: ।। 2.40.34 ।।

सुस्राव नयनै: स्त्रीणामास्रमायाससम्भवम् ।

मीनसंक्षोभचलितै: सलिलं पङ्कजैरिव ।। 2.40.35 ।।

सुस्रावेति । नयनै: नयनेभ्य: । आयाससम्भवं खेदजनितम् । संक्षोभ: उल्ललनम् । सलिलं मकरन्दरूपम् ।। 2.40.35 ।।

दृष्ट्वा तु नृपति: श्रीमानेकचित्तगतं पुरम् ।

निपपातैव दु:खेन हतमूल इव द्रुम: ।। 2.40.36 ।।

दृष्ट्वेति । एकचित्तगतम् एकचित्ततां गतम् ।। 2.40.36 ।।

ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठत: ।

नराणां प्रेक्ष्य राजानं सीदन्तं भृशदु:खितम् ।। 2.40.37 ।।

तत इति । प्रेक्ष्य, स्थितानामिति शेष: ।। 2.40.37 ।।

हा रामेति जना: केचिद्राममातेति चापरे ।

अन्त:पुरं समृद्धं च क्रोशन्त: पर्यदेवयन् ।। 2.40.38 ।।

हा रामेति । हा रामेति परिदेवनप्रकार: । राममातेत्यत्रापि हेत्यनुषञ्जनीयम् । सन्धिरार्ष: । राममातरित्यर्थ: । जना: क्रोशन्त: सन्त: । पर्यदेवयन् अरुदन् । समृद्धम् अन्त:पुरम् । अन्त:पुरजनश्च पर्यदेवयदिति विपरिणामेनानुषङ्ग: ।। 2.40.38 ।।

अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् ।

राजानं मातरं चैव ददर्शानुगतौ पथि ।। 2.40.39 ।।

अन्वीक्षमाण इति । अन्वीक्षमाण: आक्रोशानुसोरण पश्चात्सामान्यत ईक्षमाण: ।। 2.40.39 ।।

स बद्ध इव पाशेन किशोरो मातरं यथा ।

धर्मपाशेन संक्षिप्त: प्रकाशं नाभ्युदैक्षत ।। 2.40.40 ।।

पदातिनौ च यानार्हावदु:खार्हौ सुखोचितौ ।

दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् ।। 2.40.41 ।।

स इति । किशोरो ऽश्वबाल: । संक्षिप्त: बद्ध इति यावत् । प्रकाशं नाभ्युदैक्षत अपाङ्गेनाभ्युदैक्षतेत्यर्थ: ।। 2.40.4041 ।।

न हि तत् पुरुषव्याघ्रो दु:खजं दर्शनं पितु: ।

मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विप: ।। 2.40.42 ।।

नहीति । सहितुं सोढुम् । तोत्रार्दित: वैणुकेन पीडित: । “तोत्रं वैणुकम्” इत्यमर: ।। 2.40.42 ।।

प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् ।

बद्धवत्सा यथा धेनू राममाता ऽभ्यधावत ।। 2.40.43 ।।

प्रत्यगारमिति । बद्धवत्सा वत्सकारणात् अगारं प्रत्यायान्ती धेनुरिव । वत्सला राममाता अभ्यधावत् रथमिति शेष: ।। 2.40.43 ।।

तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् ।

क्रोशन्तीं रामरामेति हा सीते लक्ष्मणेति च ।। 2.40.44 ।।

रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम् ।

असकृत् प्रैक्षत सतां नृत्यन्तीमिव मातरम् ।। 2.40.45 ।।

तथेत्यादि । नृत्यन्तीमिवेति तद्वदितस्तत: परिभ्रमन्तीमित्यर्थ: ।। 2.40.4445 ।।

तिष्ठेति राजा चुक्रोश याहियाहीति राघव: ।

सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा ।। 2.40.46 ।।

तिष्ठेति । सुमन्त्रस्य आत्मा मन: चक्रयोरन्तरेव रथपूर्वपश्चाद्भागस्थितयोश्चक्रयोर्मध्यगत: पुरुष इव बभूव । दशरथरामवचनाभ्यामतिसङ्कटं प्राप्त इत्यर्थ: ।। 2.40.46 ।।

नाश्रौषमिति राजानमुपालब्धोपि वक्ष्यसि ।

चिरं दु:खस्य पापिष्ठमिति रामस्तमब्रवीत् ।। 2.40.47 ।।

राजवचनातिक्रमणे महान् दोषो भविष्यतीत्याशङ्कायामाह–नाश्रौषमिति । पुनरागमनानन्तरं राज्ञा किमर्थं मद्वाक्ये न स्थितो ऽसीति निन्दितोपि नाश्रौषं त्वद्वचनमिति वक्ष्यसि । किमर्थमेवमसत्यवचनम् ?तत्राह चिरमिति । दु:खस्य इदानीमनुभूयमानदु:खस्य । चिरं विलम्ब: पापिष्ठम् अतिदुस्सहम् ।। 2.40.47 ।।

रामस्य स वच: कुर्वन्ननुज्ञाप्य च तं जनम् ।

व्रजतोपि हयान् शीघ्रं चोदयामास सारथि: ।। 2.40.48 ।।

रामस्येति । तं जनं कौसल्यां परिवेष्ट्यागतमवरोधजनम् । अनुज्ञाप्य रामेणानुज्ञां प्रापय्येत्यर्थ: ।। 2.40.48 ।।

न्यवर्त्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् ।

मनसाप्यश्रुवेगैश्च न न्यवर्त्तत मानुषम् ।। 2.40.49 ।।

न्यवर्ततेति । राज्ञो जन: राजसम्बन्ध्यवरोधजन: । मानुषं मानुषाणां समूह: । समूहार्थे ऽण्प्रत्यय: । मनसा अश्रुवेगैश्च निवृत्तावरोधजनस्य मनसा अश्रुवेगैश्च सह न न्यवर्ततेति सम्बन्ध: ।। 2.40.49 ।।

यमिच्छेत् पुनरायान्तं नैनं दूरमनुव्रजेत् ।

इत्यमात्या महाराजमूचुर्दशरथं वच: ।। 2.40.50 ।।

कालोचितकर्तव्यज्ञा: सचिवा: शास्त्रार्थकथनेन राजानं निवर्तयन्ति–यमिच्छेदिति ।। 2.40.50 ।।

तेषां वच: सर्वगुणोपपन्नं प्रस्विन्नगात्र: प्रविषण्णरूप: ।

निशम्य राजा कृपण: सभार्यो व्यवस्थितस्तं सुतमीक्षमाण: ।। 2.40.51 ।।

तेषामिति । व्यवस्थित: स्थितवान् ।। 2.40.51 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चत्वारिंश: सर्ग: ।। 40 ।।

इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चत्वारिंश: सर्ग: ।। 40 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.