50 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चाश: सर्ग:

विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वज: ।

अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत् ।। 2.50.1 ।।

विशालानिति । कोसलान् यात्वा अन्तपर्यन्तदक्षिणकोसलान् यात्वेत्यर्थ: ।। 2.50.1 ।।

आपृच्छे त्वां पुरिश्रेष्ठे काकुत्स्थपरिपालिते ।

दैवतानि च यानि त्वां पालयन्त्यावसन्ति च ।। 2.50.2 ।।

निवृत्तवनवासस्त्वामनृणो जगतीपते: ।

पुनर्द्रक्ष्यामि मात्रा च पित्रा च सह सङ्गत: ।। 2.50.3 ।।

निर्गमनावसरे शिष्टाचारप्राप्तस्य पुरदेवतानमस्कारस्य कार्यसङ्कटेनाकृतत्वादिदानीमयोध्याराज्यसीमान्ते स्थित्वा आरब्धस्य चतुर्द्दशवर्षावधिकव्रतस्य निर्विघ्नपरिसमाप्त्यर्थं पुरदेवतानमस्कारपूर्वकमभ्यनुज्ञां प्रार्थयते–आपृच्छ इत्यादिना । यानीति तान्यप्यापृच्छ इत्यर्थसिद्धम् ।। 2.50.23 ।।

ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् ।

अश्रुपूर्णमुखो दीनो ऽब्रवीज्जानपदं जनम् ।। 2.50.4 ।।

तत इति । भुजोद्यमनं रथवेगेन दूरगमनात्, अश्रुपूर्णमुखत्वं तदश्रुदर्शनात् । जनं दर्शनार्थमागतम् ।। 2.50.4 ।।

अनुक्रोशो दया चैव यथार्हं मयि व: कृत: ।

चिरं दु:खस्य पापीयो गम्यतामर्थसिद्धये ।। 2.50.5 ।।

अनुक्रोश इति । अनुक्रोश: आदर: । दया अनुकम्पा । यथार्हं स्वामित्वानुगुणम् । व: युष्माभि: । कृत: कृता चेत्यपि द्रष्टव्यम् । दु:खस्य अनुभूयमानस्य दु:खस्य । चिरं चिरकालविशिष्टत्वम् । पापीय: अशोभनम् । मद्दर्शने भवतां दु:खमभिवर्द्धते अतो गम्यताम्, अर्थसिद्धये गृहकृत्यादिकरणाय ।। 2.50.5 ।।

ते ऽभिवाद्य महात्मानं कृत्वा चापि प्रदक्षिणम् ।

विलपन्तो नरा घोरं व्यतिष्ठन्त क्वचित्क्वचित् ।। 2.50.6 ।।

त इति । व्यतिष्ठन्त रामदर्शनाशया शीघ्रं न जग्मुरित्यर्थ: ।। 2.50.6 ।।

तथा विलपतां तेषामतृप्तानां च राघव: ।

अचक्षुर्विषयं प्रायाद्यथार्क: क्षणदामुखे ।। 2.50.7 ।।

तथेति । विलपतामित्यनादरे षष्ठी । अचक्षुर्विषयं चक्षुर्विषयताभावम् । क्षणदामुखे निशामुखे ।। 2.50.7 ।।

ततो धान्यधनोपेतान् दानशीनजनाञ्छिवान् ।

अकुतश्चिद्भयान् रम्यांश्चैत्ययूपसमावृतान् ।। 2.50.8 ।।

उद्यानाम्रवणोपेतान् सम्पन्नसलिलाशयान् ।

तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ।। 2.50.9 ।।

लक्षणीयान् नरेन्द्राणां ब्रह्मघोषाभिनादितान् ।

रथेन पुरुषव्याघ्र: कोसलानत्यवर्त्तत ।। 2.50.10 ।।

दुस्त्यजामपि राज्यश्रियं तृणीकृत्य गतवान् राम इति द्योतयितुमृषि: कोसलानभिवर्णयति–तत इत्यादिना । धनधान्ययो: प्रयोजनमाह दानेति । चैत्ययूपसमावृतान् चैत्यानि देवतायतनानि यूपा: सर्वतोमुखादियागप्रख्यापका: यूपाकारत्वेन स्थापिता: स्तम्भा: । उद्यानानि पुष्पवाटिका: । सम्पन्ना: सम्पूर्णा: गोकुलैराकुलं निबिडं यथा भवति तथा सेवितान् । नरेन्द्राणां लक्षणीयान् एकैकशो नगरसदृशत्वेन लक्षयितुं योग्यान् । कोसलान् कोसलदेशस्थग्रामान् ।। 2.50.810 ।।

मध्येन मुदितं स्फीतं रम्योद्यानसमाकुलम् ।

राज्यं भोग्यं नरेन्द्राणां ययौ धृतिमतां वर: ।। 2.50.11 ।।

मध्येनेति । मध्येन मार्गेण भोग्यस्यापि राज्यस्य त्यागमृषिर्विस्मयते धृतिमतां वर इति ।। 2.50.11 ।।

तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम् ।

ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम् ।। 2.50.12 ।।

तत्रेत्यादि । तत्र कोसलाद्दक्षिणदेशे त्रिभि: पथिभिर्गच्छतीति त्रिपथगा ताम्, स्वर्गमर्त्यपाताललोकगामिनीमित्यर्थ: । शिवतोयाम् अच्छतोयाम् ।। 2.50.12 ।।

आश्रमैरविदूरस्थै: श्रीमद्भि: समलंकृताम् ।

काले सरोभिर्हृष्टाभि: सेविताम्भो ह्रदां शिवाम् ।। 2.50.13 ।।

आश्रमैरित्यादि । श्रीमद्भि: धर्मसमृद्धिमद्भि: । काले क्रीडाकाले उचितकाले वा । सेवितानि प्राप्तानि अम्भांसि येषां तादृशा ह्रदा: यस्यां सा । शिवां क्रीडार्थं सेवनेपि पावनाम् ।। 2.50.13 ।।

देवदानवगन्धर्वै: किन्नरैरुपशोभिताम् ।

नानागन्धर्वपत्नीभि: सेवितां सततं शिवाम् ।। 2.50.14 ।।

नानागन्धर्वपत्नीभि: गन्धर्वाणां नानात्वं देवगन्धर्वमनुष्यगन्धर्वभेदात् सेविताम् । शिवामिति पूर्ववत् । सेवितृभेदेप्येकरूपपावनत्वकथनान्नानर्थक्यम् ।। 2.50.14 ।।

देवाक्रीडाशताकीर्णां देवो़द्यानशतायुताम् ।

देवार्थमाकाशगमां विख्यातां देवपद्मिनीम् ।। 2.50.15 ।।

देवाक्रीडा: देवार्हक्रीडापर्वता: । देवोद्यानानि देवार्होद्यानानि । देवार्थमाकाशगमां देवपूजनार्थमाकाशं प्राप्ताम् । देवपद्मिनीं देवार्हाम्भोजयुक्तामित्यर्थ: ।। 2.50.15 ।।

जलाघाताट्टहासोग्रां फेननिर्मलहासिनीम् ।

क्वचिद्वेणीकृतजलां क्वचिदावर्त्तशोभिताम् ।। 2.50.16 ।।

गङ्गां स्त्रीत्वेन रूपयति–जलाघातेत्यादिना । जलाघात: शिलासु जलपतनं तेन तच्छब्दो लक्ष्यते स एवाट्टहास: सघोषहास: तेनोग्राम् । फेनमेव निर्मलहास: तद्वतीम् । वेणीकृतजलां निम्नोन्नतशिलापतनेन वेण्याकारतया कृतजलाम् ।। 2.50.16 ।।

क्वचित्स्तिमितगम्भीरां क्वचिद्वेगजलाकुलाम् ।

क्वचिद्गम्भीरनिर्घोषां क्वचिद्भैरवनिस्वनाम् ।। 2.50.17 ।।

क्वचिदगाधस्थले स्तिमितगम्भीरां निश्चलगम्भीराम् । गम्भीरनिर्घोषो मृदङ्गादेरिव भैरवो निस्वनो ऽशन्यादेरिव ।। 2.50.17 ।।

देवसङ्घाप्लुतजलां निर्मलोत्पलशोभिताम् ।

क्वचिदाभोगपुलिनां क्वचिन्निर्मलवालुकाम् ।। 2.50.18 ।।

आभोगपुलिनां परिपूर्णतायुक्तपुलिनां विशालसैकतामित्यर्थ: । “आभोग: परिपूर्णता” इत्यमर: । निर्मलवालुकां निर्मलसिकताम् ।। 2.50.18 ।।

हंससारससंघुष्टां चक्रवाकोपकूजिताम् ।

सदामत्तैश्च विहगैरभिसन्नादितान्तराम् ।

क्वचित्तीररुहैर्वृक्षैर्मालाभिरुपशोभिताम् ।। 2.50.19 ।।

सारसो हंसविशेष: । विहगै: हंसादिभिन्नै: पक्षिविशेषै: ।। 2.50.19 ।।

क्वचित्फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम् ।

क्वचित्कुमुदषण्डैश्च कुड्मलैरुपशोभिताम् ।। 2.50.20 ।।

नानापुष्परजोध्वस्तां समदामिव च क्वचित् ।

व्यपेतमलसङ्घातां मणिनिर्मलदर्शनाम् ।। 2.50.21 ।।

क्वचित् फुल्लोत्पलच्छन्नामिति पूर्वमुत्पलशोभोक्ता, अत्र तच्छन्नत्वमिति विशेष: । कुड्मलै: कह्लारादिकुड्मलै: । नानापुष्परजोभि: ध्वस्तां वर्णान्तरं प्राप्तामित्यर्थ: । एवं रक्तवर्णत्वात् समदामिव स्थिताम् । व्यपेतमलसङ्घाताम् अत एव मणिनिर्मलदर्शनां वैडूर्य्यमणिवन्निर्मलदर्शनाम् ।। 2.50.2021 ।।

दिशागजैर्वनगजैर्मत्तैश्च वरवारणै: ।

देवोपवाह्यैश्च मुहु: सन्नादितवनान्तराम् ।। 2.50.22 ।।

प्रमदामिव यत्नेन भूषितां भूषणोत्तमै: ।

फलै: पुष्पै: किसलयैर्वृतां गुल्मैर्द्विजैस्तथा ।। 2.50.23 ।।

शिंशुमारैश्च नक्रैश्च भुजङ्गैश्च निषेविताम् ।

विष्णुपादच्युतां दिव्यामपापां पापनाशिनीम् ।। 2.50.24 ।।

वरवारणै: राजगजै: । देवोपवाह्यै: देवानां वाहनभूतै: । फलै: पुष्पै: किसलयैरेव भूषणोत्तमैरिति व्यस्तरूपकम् । यद्वा फलपुष्पादिभिर्वृताम् अत एव भूषितां प्रमदामिव स्थितामितिवार्थ: । द्विजै: पक्षिभि: । शिंशुमारै: नक्रविशेषै । यद्वा शिंशुमारै: जलकपिभि: । “शिंशुमारस्त्वम्बुकपि:” इति वैजयन्ती । अत्र विष्णुपादच्युतामित्युक्त्या बालकाण्डे हिमवत्प्रभवत्वं तत्र प्रादुर्भावमात्रेणेति ज्ञेयम् ।। 2.50.2224 ।।

समुद्रमहिषीं गङ्गां सारसक्रौञ्चनादिताम् ।

आससाद महाबाहु: श्रृङ्गवेरपुरं प्रति ।। 2.50.25 ।।

सारसक्रौञ्चनादितां सरो निवासो येषां ते सारसा: पक्षिविशेषा: “सो ऽस्य निवास:” इत्यण् । अतो हंससारससंघुष्टामित्यनेन न पौनरुक्त्यम् । श्रृङ्गवेरपुरं प्रति गङ्गामाससाद श्रृङ्गवेरपुरं प्रति गच्छन् गङ्गामाससादेत्यर्थ: । यद्वा श्रृङ्गवेरपुरं प्रति श्रृङ्गवेरपरसमीपे गङ्गामाससादेत्यर्थ: ।। 2.50.25 ।।

तामूर्मिकलिलावर्त्तामन्ववेक्ष्य महारथ: ।

सुमन्त्रमब्रवीत् सूतमिहैवाद्य वसामहे ।। 2.50.26 ।।

तामिति । ऊर्मिकलिलावर्त्ताम् उर्मिमिश्रावर्त्ताम् ।। 2.50.26 ।।

अविदूरादयं नद्या बहुपुष्पप्रवालवान् ।

सुमहानिङ्गुदीवृक्षो वसामो ऽत्रैव सारथे ।। 2.50.27 ।।

अविदूरादिति । अविदूरात्समीपे इङ्गुदीवृक्षस्तापसतरु: ।। 2.50.27 ।।

द्रक्ष्याम: सरितां श्रेष्ठां सम्मान्यसलिलां शिवाम् ।

देवदानवगन्धर्वमृगमानुषपक्षिणाम् ।। 2.50.28 ।।

द्रक्ष्याम इति । सम्मान्येत्यस्य देवेत्यादिना सम्बन्ध: ।। 2.50.28 ।।

लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम् ।

उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयै: ।। 2.50.29 ।।

लक्ष्मण इति । बाढमित्यङ्गीकारे ।। 2.50.29 ।।

रामो ऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दन: ।

रथादवातरत्तस्मात् सभार्य: सहलक्ष्मण: ।। 2.50.30 ।।

सुमन्त्रोप्यवतीर्य्या स्मान्मोनचयित्वा हयोत्तमान् ।

वृक्षमूलगतं राममुपतस्थे कृताञ्जलि: ।। 2.50.31 ।।

राम इति । अभियाय प्राप्य ।। 2.50.3031 ।।

तत्र राजा गुहो नाम रामस्यात्मसम: सखा ।

निषादजात्यो बलवान् स्थपतिश्चेति विश्रुत: ।। 2.50.32 ।।

स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् ।

वृद्धै: परिवृतो ऽमात्यैर्ज्ञातिभिश्चाप्युपागत: ।। 2.50.33 ।।

तत्रेत्यादि । तत्र देशे राजा तद्देशाधिपति: आत्मसम: प्राणसम: । निषादजात्य: निषादजातौ भव: । दिगादित्वाद्यत् । बलवान् चतुरङ्गबलवान् । स्थपति: । निषादाधिपति: । “स्थपति: पुन: स्थापत्ये ऽधिपतौ तक्ष्णि” इति वैजयन्ती । ननु “हीनप्रेष्यं हीनसख्यं हीनगेहनिवेषणम्” इत्युपपातकपरिगणितं हीनजातिसख्यं महाकुलप्रसूतस्य रामस्य कथमुपपद्यत इति चेत्, सत्यम्, “निषादस्थपतिं याजयेत्” इति निषादाधिपतेर्यज्ञसम्बन्धश्रवणात् अत्यन्तानुचितं न भवतीत्यनुमन्तव्यम् । वस्तुतस्तु– “न शूद्रा भगवद्भक्ता विप्रा भागवता: स्मृता: । सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्द्दने ।।” इत्युक्तरीत्या रामभक्तोऽयमत्युत्तम एव गुहस्य भगवत्प्रियत्वं ‘गुहेन सहितो रामो लक्ष्मणेन च सीतया’ इति दर्शितम् ।। 2.50.3233 ।।

ततो निषादाधिपतिं दृष्ट्वा दूरादुपस्थितम् ।

सह सौमित्रिणा राम: समागच्छद्गुहेन स: ।। 2.50.34 ।।

तत इति । दूरादुपस्थितं दृष्ट्वा समागच्छदित्यनेन प्रत्युत्थानाभिगमनोक्ति: । लक्ष्मणेन सह समागच्छत् लक्ष्मणवत्तस्मिन् भ्रातृत्वबुद्धिमकरोदित्यर्थ: । समित्येकीभावे ।। 2.50.34 ।।

तमार्त: संपरिष्वज्य गुहो राघवमब्रवीत् ।

यथायोध्या तथेयं ते राम किं करवाणि ते ।। 2.50.35 ।।

ईदृशं हि महाबाहो क: प्राप्स्यत्यतिथिं प्रियम् ।। 2.50.36 ।।

तमिति । आर्त: धृतवल्कलदर्शनेन सन्तप्त: । अनेन रामस्य पूर्वमेव मृगया व्यापारादिना सख्यमस्तीति गम्यम् । इयमस्मत्पुरी ।। 2.50.3536 ।।

ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् ।

अर्ध्यं चोपानयत् क्षिप्रं वाक्यं चेदमुवाच ह ।। 2.50.37 ।।

तत इति । आद्यशब्देन पेयादिकमुच्यते । पृथग्विधं मांसादिभेदेन बहुविधम् ।। 2.50.37 ।।

स्वागतं ते महाबाहो तवेयमखिला मही ।

वयं प्रेष्या भवान् भर्त्ता साधु राज्यं प्रशाधि न: ।। 2.50.38 ।।

स्वागतमिति । इयं मही अटवीराज्यम् ।। 2.50.38 ।।

भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् ।

शयनानि च मुख्यानि वाजिनां खादनं च ते ।। 2.50.39 ।।

भक्ष्यमिति । भक्ष्यं खाद्यं व्यञ्जनादि । भोज्यम् अन्नम् । पेयं पानकादि । लेह्यं रसायनादि । खादनं घास: ।।2.50.39 ।।

गुहमेवं ब्रुवाणं तु राघव: प्रत्युवाच ह ।

अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् ।

पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च ।। 2.50.40 ।।

गुहमिति । अर्चितत्वेपि केचिन्न तन्मात्रेण तुष्यन्ति न तथा वयमित्याह–हृष्टाश्चेति । स्नेहसन्दर्शनेन राज्यं प्रशाधीति वाक्यकृतेन स्नेहप्रदर्शनेन ।। 2.50.40 ।।

भुजाभ्यां साधु पीनाभ्यां पीडयन् वाक्यमब्रवीत् ।। 2.50.41 ।।

दिष्ट्या त्वां गुह पश्यामि ह्यरोगं सह बान्धवै: ।

अपि ते कुशलं राष्ट्रे मित्रेषु च धनेषु च ।। 2.50.42 ।।

भुजाभ्यामिति । साधु पीडयन् सम्यगालिङ्गन् पीनाभ्यामित्यनेन सुखहेतुत्वमुच्यते ।। 2.50.4142 ।।

यत्त्विदं भवता किञ्चित् प्रीत्या समुपकल्पितम् ।

सर्वं तदनुजानामि न हि वर्त्ते प्रतिग्रहे ।। 2.50.43 ।।

यत्त्विति । अनुजानामि मम सर्वं सम्यक्कृतमित्यनुजानामि । प्रतिग्रहे न वर्त्ते प्रतिग्रहधर्मं नाश्रितवानस्मीति भाव: ।। 2.50.43 ।।

कुशचीराजिनधरं फलमूलाशिनं च माम् ।

विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ।। 2.50.44 ।।

राज्यान्नाद्यपरिग्रहे हेतुं दर्शयति–कुशचीराजिनधरमिति । कुशं पवित्रमेखलादिरूपम् । चीरं वल्कलम् । अजिनं कृष्णाजिनम् । धर्मे प्रणिहितं पितृवाक्यपरिपालनादिधर्मे सावधानम् । वनं गोचर: सञ्चारविषयो यस्य तम् ।। 2.50.44 ।।

अश्वानां खादनेनाहमर्थी नान्येन केनचित् ।

एतावतात्र भवता भविष्यामि सुपूजित: ।। 2.50.45 ।।

अश्वानामिति । अश्वानां खादनेन ग्रासेन अर्थी प्रयोजनवान्, अश्वघास एव प्रयोजनमित्यर्थ: । अत्र अस्मिन्समये ।। 2.50.45 ।।

एते हि दयिता राज्ञ: पितुर्दशरथस्य मे ।

एतै: सुविहितैरश्वैर्भविष्याम्यहमर्चित: ।। 2.50.46 ।।

एते हीति । सुविहितै: पोषितै: ।। 2.50.46 ।।

अश्वानां प्रतिपानं च खादनं चैव सोन्वशात् ।

गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति ।। 2.50.47 ।।

अश्वानामिति । स गुहस्तत्रैव तदानीमेव । पुरुषान् स्वभृत्यान् प्रति । अश्वानां खादनं प्रतिपानं क्षीरादिकञ्च त्वरितं दीयतामित्यन्वशात् ।। 2.50.47 ।।

ततश्चीरोत्तरासङ्ग: सन्ध्यामन्वास्य पश्चिमाम् ।

जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ।। 2.50.48 ।।

तत इति । उत्तरासङ्ग: उत्तरीयम् । अन्वास्य उपास्य । अनेन स्नानमाक्षिप्यते । भोज्यमाहारम् ।। 2.50.48 ।।

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मण: ।

सभार्यस्य ततो ऽभ्येत्य तस्थौ वृक्षमुपाश्रित: ।। 2.50.49 ।।

तस्येति । शय्याकाले पादप्रक्षालनं राज्ञोपचाराद्वा स्वशेषवृत्त्यनुरूपत्वाद्वा । यद्वा प्रक्षालनं रामकर्तृकम्, तदाचमनस्याप्युपलक्षणम् । प्रक्षाल्याचम्य शयानस्य शयाने सतीत्यर्थ: । भावलक्षणे षष्ठी । ततस्तस्मात् शयनप्रदेशात् । अभ्येत्य गुहाभिमुखमेत्य वृक्षमेवोपाश्रितस्तस्थौ ।। 2.50.49 ।।

गुहोपि सह सूतेन सौमित्रिमनुभाषयन् ।

अन्वजाग्रत्ततो राममप्रमत्तो धनुर्द्धर: ।। 2.50.50 ।।

तथा शयानस्य ततो ऽस्य धीमतो यशस्विनो दाशरथेर्महात्मन: ।

अदृष्टदु:खस्य सुखोचितस्य सा तदा व्यतीयाय चिरेण शर्वरी ।। 2.50.51 ।।

गुहो ऽपीति । सौमित्रिमनुभाषयन् रामगुणान् प्रस्तुत्य सौमित्रिं वाचयन्नित्यर्थ: । अन्वजाग्रत् जाग्रतं

सौमित्रिमन्वजाग्रत्, किमर्थम् ? राममुद्दिश्य रामं संरक्षितुमित्यर्थ: । धनुर्द्धर इत्यनेन लक्ष्मणेप्यतिशङ्का गुहस्य द्योत्यते ।। 2.50.5051 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चाश: सर्ग: ।। 50 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चाश: सर्ग: ।। 50 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.