104 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरधिकशततम: सर्ग:

तं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम् ।

लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ।। 2.104.1 ।।

अथ रामभरतयोरुक्तिप्रत्युक्ती चतुरुत्तरशततमे–तं त्वित्यादिना । गुरुवत्सलं गुरौ स्वस्मिन् भक्तम्, समाज्ञाय ज्ञात्वा प्राप्तराज्यपरित्यागेन जटावल्कल धारणादिना च स्वस्मिन् भक्तियुक्तं ज्ञात्वेत्यर्थ: । समाश्वास्येति पाठे–प्रियवचनादिभि: सम्यगाश्वास्येत्यर्थ: ।। 2.104.1 ।।

किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया ।

यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ।। 2.104.2 ।।

यस्मात् कारणात् त्वं चीरजटाजिनी सन् इमं देशमागत: एतत् एतत्कारणं किम् ? अहं त्वया प्रव्याहृतं श्रोतुमिच्छेदयं श्रोतुमिच्छामि, न तु ऊहेयेति भाव: ।। 2.104.2 ।।

किं निमित्तमिमं देशं कृष्णाजिनजटाधर: ।

हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ।। 2.104.3 ।।

इत्युक्त: कैकयीपुत्र: काकुत्स्थेन महात्मना ।

प्रगृह्य बलवद्भूय: प्राञ्जलिर्वाक्यमब्रवीत् ।। 2.104.4 ।।

एवमुक्तेपि शोकेन तूष्णीं स्थितं पुन: पृच्छति–किं निमित्तमित्यादिश्लोकद्वयेन । काकुत्स्थेन बलवत्प्रगृह्य गाढं परिष्वज्य तत्सर्वं वक्तुमर्हसीति भूय उक्त: कैकयीपुत्र: प्राञ्जलिर्वाक्यमब्रवीदित्यन्वय: ।। 2.104.34 ।।

आर्य्यं तात: परित्यज्य कृत्वा कर्म सुदुष्करम् ।

गत: स्वर्गं महाबाहु: पुत्रशोकाभिपीडित: ।। 2.104.5 ।।

आर्यमिति । सुदुष्करं कर्म कृत्वा ज्येष्ठार्हं राज्यं स्त्रीनियोगात् कनिष्ठसात्कृत्येत्यर्थ: । आर्यं त्वां परित्यज्य विवास्य ।। 2.104.5 ।।

स्त्रिया नियुक्त: कैकेय्या मम मात्रा परन्तप ।

चकार सुमहत्पापमिदमात्मयशोहरम् ।। 2.104.6 ।।

स्त्रियेति । सुमहत्पापं सुपुत्रस्य वने प्रव्राजनरूपम् ।। 2.104.6 ।।

सा राज्यफलमप्राप्य विधवा शोककर्शिता ।

पतिष्यति महाघोरे निरये जननी मम ।। 2.104.7 ।।

सा एवंरूपपापप्रेरणकर्त्री ।। 2.104.7 ।।

तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि ।

अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ।। 2.104.8 ।।

इमा: प्रकृतय: सर्वा विधवा मातरश्च या: ।

त्वत्सकाशमनुप्राप्ता: प्रसादं कर्त्तुमर्हसि ।। 2.104.9 ।।

तस्य कैकेयीसम्बन्धात् प्राप्तापवादस्येत्यर्थ: । राज्येन हेतुना ।। 2.104.89 ।।

तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।

राज्यं प्राप्नुहि धर्मेण सकामान् सुहृद: कुरु ।। 2.104.10 ।।

आनुपूर्व्या युक्तं ज्येष्ठानुक्रमेण सङ्गतम् आत्मनि युक्तं च । भरणसमर्थे त्वय्येव प्राप्तम् ।। 2.104.10 ।।

भवत्वविधवा भूमि: समग्रा पतिना त्वया ।

शशिना विमलेनेव शारदी रजनी यथा ।। 2.104.11 ।।

भवत्विति । पतिनेति नाभाव आर्ष: । रजनी यथा रजनीव । भूमि: शशिनेव त्वया अविधवा भवतु ।। 2.104.11 ।।

एभिश्च सचिवै: सार्द्धं शिरसा याचितो मया ।

भ्रातु: शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ।। 2.104.12 ।।

ममैकस्य शोकाश्रुपातमसहमान: कथमेषामश्रूणि सहिष्यत इति मत्वा युद्धाय संनद्धैरिव रथगजतुरगपदातिभि: सार्द्धमागतो ऽस्मि । सचिवै: मम हि याचनमुपेक्ष्यमस्मद्राज्यानेर्वाहकै: पूजनीयै: सचिवैर्याचितं तवानतिक्रमणीयं हि । याचित: ममाग्रत: स्थितिरेवालं तव कार्यकरणाय किंपुनर्याचनेपि कृते । शिरसा याचित: “शिरसा याचतस्तस्य वचनं न कृतं मया” इति खलु तव हृदयमनुशेते । मया एतावत्पर्य्यन्तं त्वमेव मां याचित्वा मम मनोरथं पूरितवानसि । भ्रातु: किमर्थं याचितव्यं तवानुजो न भवामि किम् । शिष्यस्य अनुजो भूत्वा भवता सह किमंशभाक् तिष्ठामि मन्त्रसम्बन्धो ऽपि त्वत्त: खलु । दासस्य शिष्यो भूत्वा क्रयविक्रयार्हो न भवामि किम् अत: प्रसादं कर्तुमर्हसि उक्तैरमोघै: हेतुभिर्मम याञ्ञां सफलां कुरुष्व ।। 2.104.12 ।।

तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् ।

पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ।। 2.104.13 ।।

एभिश्च सचिवैरित्यस्य विवक्षितं दर्शयति–तदिति । तत्पुरवर्तनदशायामसन्निहितमिदम्, इदानीं सन्निहितम् ।

शाश्वतं सनातनम्, परम्पराप्राप्तमिति यावत् । पूजितं पूजार्हम् । प्रकृतीनां मन्त्रिपृभृतीनां मण्डलं समूहम् नातिक्रमितुमर्हसि, तद्वचनं नातिक्रमणीयमित्यर्थ: ।। 2.104.13 ।।

एवमुक्त्वा महाबाहु: सबाष्प: कैकयीसुत: ।

रामस्य शिरसा पादौ जग्राह विधिवत्पुन: ।। 2.104.14 ।।

तं मत्तमिव मातङ्गं नि:श्वसन्तं पुन:पुन: ।

भ्रातरं भरतं राम: परिष्वज्येदमब्रवीत् ।। 2.104.15 ।।

एवमिति । महाबाहु: प्रसारितबाहुरिति यातव् । कैकयीसुत: मातुर्दोषादियमवस्थेति भाव: । पुनरिति पूर्वं याचितवान् तत: शरणागतिमकरोदित्यर्थ: ।। 2.104.1415 ।।

कुलीन: सत्त्वसम्पन्नस्तेजस्वी चरितव्रत: ।

राज्यहेतो: कथं पापमाचरेत्त्वद्विधो जन: ।। 2.104.16 ।।

कुलीन इति । कुलीन: महाकुलप्रसूत: । सत्त्वसम्पन्न: सत्त्वगुणसम्पन्न: । पापं ज्येष्ठविषयप्रातिकूल्यरूपम् ।। 2.104.16 ।।

न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन ।

न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ।। 2.104.17 ।।

नेति । बाल्यात् अज्ञानादित्यर्थ: ।। 2.104.17 ।।

कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ ।

उपपन्नेषु दारेषु पुत्रेषु च विधीयते ।। 2.104.18 ।।

कामेति । कामकार: स्वच्छन्दकरणम् । उपपन्नेषु शिष्यदासादिषु ।। 2.104.18 ।।

वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभि: ।

भार्य्या: पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ।। 2.104.19 ।।

वयमिति । लोके भार्यादय: साधुभिर्यथा सङ्ख्याता: नियाम्यत्वेन परिगणिता:, वयमपि तथा दशरथस्येति त्वं ज्ञातुमर्हसि । अनुर्निरर्थक: ।। 2.104.19 ।।

वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् ।

राज्ये वापि महाराजो मां वासयितुमीश्वर: ।। 2.104.20 ।।

वन इति । चीरं द्रुमवल्कलं वसनमुत्तरीयं यस्यतम् । कृष्णाजिनम् अम्बरम् अधराम्बरं यस्य तम् । ईश्वर: नियन्ता ।। 2.104.20 ।।

यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् ।

तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ।। 2.104.21 ।।

यावदिति । पितरि यावत् यत्परिमाणकं गौरवं जनन्यामपि तावत् तत्परिमाणकं गौरवम्, कर्तव्यमिति शेष: । यत्तच्छब्दाभ्यां “यत्तदेतेभ्य: परिमाणे वतुप्” इति वतुप् ।। 2.104.21 ।।

एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।

मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ।। 2.104.22 ।।

त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।

वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ।। 2.104.23 ।।

एवं कृत्वा महाराजो विभागं लोकसन्निधौ ।

व्यादिश्य च महातेजा दिवं दशरथो गत: ।। 2.104.24 ।।

फलितमाह–एताभ्यामिति । समाचरे समाचरामि, कथं समाचराणीत्यर्थ: ।। 2.104.2224 ।।

स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।

पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ।। 2.104.25 ।।

चतुर्दशसमा: सौम्य दण्डकारण्यमाश्रित: ।

उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ।। 2.104.26 ।।

सचेति । पित्रा दत्तं भागं यथा यथावत् उपभोक्तुमित्यन्वय: ।। 2.104.2526 ।।

यदब्रवीन्मां नरलोकसत्कृत: पिता महात्मा विबुधाधिपोपम: ।

तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ।। 2.104.27 ।।

यदिति । परमात्मनो हितम् आत्मन: परं हितम् ।। 2.104.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरधिकशततम: सर्ग: ।। 104 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुरुत्तरशततमस्सर्ग: ।। 104 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.