37 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तत्रिंश: सर्ग:

महामात्रवच: श्रुत्वा रामो दशरथं तदा ।

अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ।। 2.37.1 ।।

महामात्रेत्यादि । महामात्रवच: सिद्धार्थवच: । विनीतवत् विनीत इव । अभ्यभाषत सविनयमाहेत्यर्थ: ।। 2.37.1 ।।

त्यक्तभोगस्य मे राजन् वने वन्येन जीवत: ।

किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वत: ।। 2.37.2 ।।

त्यक्तभोगस्येति । अनुयात्रेण अनुगतबलेन । भोगत्यागेपि सङ्गो वर्त्तते लौकिकानां, सोपि नास्तीत्याह त्यक्तसङ्गस्य सर्वत इति ।। 2.37.2 ।।

यो हि दत्त्वा गजश्रेष्ठं कक्ष्यायां कुरुते मन: ।

रज्जुस्नेहेन किं तस्य त्यजत: कुञ्जरोत्तमम् ।। 2.37.3 ।।

य इति । कक्ष्यायाम् इभबन्धनरज्जौ “कक्ष्या प्रकोष्ठे हर्म्यादौ काञ्च्यां मध्येभबन्धने” इत्यमर: ।। 2.37.3 ।।

तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते ।

सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ।। 2.37.4 ।।

तथेति । ध्वजिन्या सेनया । सर्वाणि त्वया मह्यं दातुमुद्युक्तानि । अनुजानामि प्रददामि । भरतायेति शेष: । सर्वाणि कार्याणि सम्यक्जानामीति वार्थ: । चीराणि वल्कलवस्त्राणि । आनयन्तु परिचारका इति शेष: ।। 2.37.4 ।।

खनित्रपिटके चोभे समानयत गच्छत ।

चतुर्दश वने वासं वर्षाणि वसतो मम ।। 2.37.5 ।।

अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् ।

उवाच परिधत्स्वेति जनौघे निरपत्रपा ।। 2.37.6 ।।

खनित्रपिटकेति । खनित्रपिटके खनित्रम् अवदारणम्, पिटकम् अल्पार्थे कन्प्रत्यय: । फलमूलाद्याहरणयोग्याल्पकण्डोल: । “कण्ठोलपिटौ” इत्यमर: । वासं वसत: वासं कुर्वत इत्यर्थ: ।। 2.37.56 ।।

स चीरे पुरुषव्याघ्र: कैकेय्या: प्रतिगृह्य ते ।

सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्तह ।। 2.37.7 ।।

लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे ।

तापसाच्छादने चैव जग्राह पितुरग्रत: ।। 2.37.8 ।।

स इति । स राम: कैकेय्यास्सकाशात् मुनिवस्त्राणि परिगृह्य तेषु द्वे चीरे उत्तरीयान्तरीयरूपे । सूक्ष्मवस्त्रमवक्षिप्य अवस्तह, आदीधरदित्यर्थ: ।। 2.37.78 ।।

अथात्मपरिधानार्थं सीता कौशेयवासिनी ।

समीक्ष्य चीरं सन्त्रस्ता पृषती वागुरामिव ।। 2.37.9 ।।

अथेति । सन्त्रस्ता, अभवदिति शेष: । पृषती मृगी । वागुरां मृगबन्धनीम् “वागुरा मृगबन्धनी” इत्यमर: ।। 2.37.9 ।।

सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मना: ।

कैकेयीकुशचीरे ते जानकी शुभलक्षणा ।। 2.37.10 ।।

अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी ।

गन्धर्वराजप्रतिमं भर्त्तारमिदमब्रवीत् ।। 2.37.11 ।।

सेति । व्यपत्रपमाणा विशेषेण लज्जमाना । कैकेयीकुशचीरे कैकेयीसम्बन्धिनी कुशचीरे । धर्मज्ञा पातिव्रत्यधर्मज्ञा । धर्मदार्शिनी स्वानुष्ठानेन पातिव्रत्यधर्मप्रदर्शिनी । बध्नन्तीतीदमब्रवीदिति सम्बन्ध: ।। 2.37.1011 ।।

कथं नु चीरं बध्नन्ति मुनयो वनवासिन: ।

इति ह्यकुशला सीता सा मुमोह मुहुर्मुहु: ।। 2.37.12 ।।

कथमिति । मुमोह स्तब्धा बभूवेत्यर्थ: ।। 2.37.12 ।।

कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना ।

तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा ।। 2.37.13 ।।

तस्यास्तत् क्षिप्रमागम्य रामो धर्मभृतां वर: ।

चीरं बबन्ध सीताया: कौशेयस्योपरि स्वयम् ।। 2.37.14 ।।

रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम् ।

अन्त:पुरगता नार्यो मुमुचुर्वारि नेत्रजम् ।। 2.37.15 ।।

तदेव विवृणोति–कृत्वेति ।। 2.37.1315 ।।

ऊचुश्च परमायस्ता रामं ज्वलिततेजसम् ।

वत्स नैवं नियुक्तेयं वनवासे मनस्विनी ।। 2.37.16 ।।

ऊचुरिति । एवं त्वमिव इयं सीता वनवासे न नियुक्तेति, पित्रेति यावत् ।। 2.37.16 ।।

पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् ।

तावद्दर्शनमस्यां न: सफलं भवतु प्रभो ।। 2.37.17 ।।

लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक ।

नेयमर्हति कल्याणी वस्तुं तापसवद्वने ।। 2.37.18 ।।

कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी ।

धर्मनित्य: स्वयं स्थातुं न हीदानीं त्वमिच्छसि ।। 2.37.19 ।।

पितुरिति । तावत् तवागमनपर्यन्तम् । पितुर्वाक्यानुरोधेन विजनं वनं गतस्य तव दर्शनम् । अस्यां सफलं भवतु, त्वामिवैनां द्रक्ष्याम इति भाव: ।। 2.37.1719 ।।

तासामेवंविधा वाच: शृण्वन् दशरथात्मज: ।

बबन्धैव तदा चीरं सीतया तुल्यशीलया ।। 2.37.20 ।।

चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरु: ।

निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ।। 2.37.21 ।।

तासामिति । सीतयेति षष्ठ्यर्थे तृतीया । बबन्धैवेति कैकेय्यनुज्ञाभावादिति भाव: ।। 2.37.2021 ।।

अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि ।

वञ्चयित्वा च राजानं न प्रमाणे ऽवतिष्ठसे ।। 2.37.22 ।।

अतीति । अतिप्रवृत्ते अतिक्रम्य प्रवर्त्तमाने प्रमाणे मर्यादायाम् । “प्रमाणं हेतुमर्यादाशास्त्रयत्नप्रमातृषु” इत्यमर: ।। 2.37.22 ।।

न गन्तव्यं वनं देव्या सीतया शीलवर्जिते ।

अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ।। 2.37.23 ।।

न गन्तव्यमिति । प्रकृतं प्रस्तुतम् । आसनं सिंहासनम् । अनुष्ठास्यति अधिष्ठास्यति ।। 2.37.23 ।।

आत्मा हि दारा: सर्वेषां दारसङ्ग्रहवर्तिनाम् ।

आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ।। 2.37.24 ।।

अथ यास्यति वैदेही वनं रामेण सङ्गता ।

वयमप्यनुयास्याम: पुरं चेदं गमिष्यति ।। 2.37.25 ।।

आत्मेति । दारसङ्ग्रहवर्त्तिनां गृहस्थानाम् । आत्मेयमिति “अर्द्धो वा एष आत्मनो यत्पत्नी” इति श्रुतेरिति भाव: ।। 2.37.2425 ।।

अन्तपालाश्च यास्यन्ति सदारो यत्र राघव: ।

सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ।। 2.37.26 ।।

भरतश्च सशत्रुघ्न: चीरवासा वनेचर: ।

वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम् ।। 2.37.27 ।।

तत: शून्यां गतजनां वसुधां पादपै: सह ।

त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ।। 2.37.28 ।।

न हि तद्भविता राष्ट्रं यत्र रामो न भूपति: ।

तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ।। 2.37.29 ।।

अन्तपाला इति । अन्तपाला: राष्ट्रान्तपरिपालका: दण्डनायका: । सहोपजीव्यं जीवाजीवरूपधनसहितम् । सपरिच्छदं दासदासीशकटादिपरिकरयुक्तम् ।। 2.37.2629 ।।

न ह्यदत्तां महीं पित्रा भरत: शास्तुमर्हति ।

त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपते: ।। 2.37.30 ।।

यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि ।

पितृवंशचरित्रज्ञ: सो ऽन्यथा न करिष्यति ।। 2.37.31 ।।

अदत्तां प्रीतिपूर्वकमदत्ताम् ।। 2.37.3031 ।।

तत्त्वया पुत्रगर्द्धिन्या पुत्रस्य कृतमप्रियम् ।

लोके हि न स विद्येत यो न राममनुव्रत: ।। 2.37.32 ।।

तदिति । पुत्रगर्द्धिन्या पुत्रविषयस्नेहयुक्तया ।। 2.37.32 ।।

द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान् ।

गच्छत: सह रामेण पादपांश्च तदुन्मुखान् ।। 2.37.33 ।।

द्रक्ष्यसीति । पादपांश्च तदुन्मुखानिति वृक्षाणां तदुन्मुखत्वं नाम रामविषयस्नेहासक्तत्वम् । तथोपरिष्टात् स्पष्टी भविष्यति “अपिवृक्षा: परिम्लाना: सपुष्पाङ्कुरकोरका: ।” इति ।। 2.37.33 ।।

अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम् ।

न चीरमस्या: प्रविधीयतेति न्यवारयत्तद्वसनं वसिष्ठ: ।। 2.37.34 ।।

एवं वसिष्ठो भाव्यर्थमुक्त्वा प्रकृतमाह–अथेत्यादि । व्यपनीय निरस्य । प्रविधीयत इतीति वक्तव्ये प्रविधीयतेति सन्धिरार्ष: ।। 2.37.34 ।।

एकस्य रामस्य वने निवासस्त्वया वृत: केकयराजपुत्रि ।

विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण ।। 2.37.35 ।।

न प्रविधीयत इत्येतदुपपादयति–एकस्येति । प्रतिकर्मनित्या अलङ्कारनियता । नित्यमलङ्करणयोग्येत्यर्थ: ।। 2.37.35 ।।

यानैश्च मुख्यै: परिचारकैश्च सुसंवृता गच्छतु राजपुत्री ।

वस्त्रैश्च सर्वै: सहितैर्विधानैर्नेयं वृता ते वरसम्प्रदाने ।। 2.37.36 ।।

यानैरिति । विधानै: भृङ्गाराद्युपकरणै: ।। 2.37.36 ।।

तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे ।

नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तु: प्रतिकारकामा ।। 2.37.37 ।।

तस्मिन्निति । प्रतिकारकामा प्रतिकारं सदृशकरणं कामयमाना, भर्तृसदृशतया वनवासकरणमिच्छन्तीत्यर्थ: । विनिवृत्तभावा चीरपरिधानाद्विनिवृत्तभावा न बभूवेति ।। 2.37.37 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तत्रिंश: सर्ग: ।। 37 ।।

इति श्रीगोविन्दीराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तत्रिंश: सर्ग: ।। 37 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.