84 Sarga अयोध्याकाण्डम्

श्रीरामयणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरशीतितम: सर्ग:

ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् ।

निषादराजो दृष्ट्वैव ज्ञातीन् सन्त्वरितो ऽब्रवीत् ।। 2.84.1 ।।

तत इत्यादि । गङ्गामन्वाश्रितां प्राप्ताम् अत एव निविष्टां कृतनिवेशां ध्वजिनीं सेनां दृष्ट्वा । सन्त्वरित: ससम्भ्रम: ।। 2.84.1 ।।

महतीयमित: सेना सागराभा प्रदृश्यते ।

नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ।। 2.84.2 ।।

महतीति । इत: इह श्रृङ्गिबेरपुरे । अस्य सेनारूपवस्तुन: । चिन्तयन्नहं मनसापि नास्यान्तमधिगच्छामीति सम्बन्ध: ।। 2.84.2 ।।

यथा तु खलु दुर्बुद्धिर्भरत: स्वयमागत: ।

स एष हि महाकाय: कोविदारध्वजो रथे ।। 2.84.3 ।।

यथेति । स इक्ष्वाकुकुलक्रमागत: कोविदारध्वज: रथे दृश्यते । हि यस्मात् अतो भरत: स्वयमागत: यथा तु खलु ध्रुवमित्यर्थ: । कोविदारध्वज: दुर्बुद्धिरित्यनेन भरतो रामद्रोहाकाङ्क्षया आगच्छतीति शङ्कितवानिति गम्यते ।। 2.84.3 ।।

बन्धयिष्यति वा दाशानथवा ऽस्मान् वधिष्यति ।

अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ।। 2.84.4 ।।

सम्पन्नां श्रियमन्विच्छंस्तस्य राज्ञ: सुदुर्ल्लभाम् ।

भरत: कैकयीपुत्रो हन्तुं समधिगच्छति ।। 2.84.5 ।।

तदेव स्थापयिष्यतिबन्धयिष्यतीत्यादिना । दाशानस्मान् बन्धयिष्यति अथवा वधिष्यति हनिष्यति । हनो लृटि वधादेश आर्ष: । अथ अथवा । दाशरथिं ज्ञातिभूतमिति भाव: । विवासितं दुर्बलमित्यर्थ: । सम्पन्नाम् अप्रच्युताम् । रामागमने हि श्री: प्रच्युता स्यात् । कैकयीपुत्र इति दुष्प्रकृतित्वे हेतु: । तस्य राज्ञ: राजत्वार्हस्य रामस्य सुदुर्लभाम् ।। 2.84.45 ।।

भर्त्ता चैव सखा चैव रामो दाशरथिर्मम ।

तस्यार्थकामा: सन्नद्धा गङ्गानूपे प्रतिष्ठत ।। 2.84.6 ।।

किमतो ऽभवदित्यत्राह–भर्तेति । अर्थकामा: अर्थेच्छव:, यूयमिति शेष: । अनूपे तीरे ।। 2.84.6 ।।

तिष्ठन्तु सर्वे दाशाश्च गङ्गामन्वाश्रिता नदीम् ।

बलयुक्ता नदीरक्षा मांसमूलफलाशना: ।। 2.84.7 ।।

तिष्ठन्त्विति । सर्वे दाशाश्च गङ्गामन्वाश्रिता: सन्त: बलयुक्ता: सेनायुक्ता: । नदीरक्षा: नदीतरणमार्गं रक्षन्त: । मांसमूलफलाशना: नावारोपितमांसाद्यशना: तिष्ठन्तु ।। 2.84.7 ।।

नावां शतानां पञ्चानां कैवर्त्तानां शतंशतम् ।

सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ।। 2.84.8 ।।

नावामित्यादि । पञ्चानां शतानां नावाम् एकैकस्या नाव: कैवर्त्तानां शतं शतं तिष्ठन्तु, शतंशतं कैवर्त्ता: तिष्ठन्त्वित्यर्थ: ।। 2.84.8 ।।

यदा तुष्टस्तु भरतो रामस्येह भविष्यति ।

सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ।। 2.84.9 ।।

रामस्य तुष्ट: रामविषये तुष्ट: । यदादुष्ट इति पाठे–अदुष्ट इति पदछेद: । स्वस्तिमतीति अन्यथा हन्तव्येति भाव: ।। 2.84.9 ।।

इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च ।

अभिचक्राम भरतं निषादाधिपतिर्गुह: ।। 2.84.10 ।।

तमायान्तं तु संप्रेक्ष्य सूतपुत्र: प्रतापवान् ।

भरतायाचचक्षे ऽथ विनयज्ञो विनीतवत् ।। 2.84.11 ।।

उपायनं कौशेयादि । मां सं मृगाणाम् ।। 2.84.1011 ।।

एष ज्ञातिसहस्रेण स्थपति: परिवारित: ।

कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ।। 2.84.12 ।।

तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुह: ।

असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ।। 2.84.13 ।।

एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरत: शुभम् ।

उवाच वचनं शीघ्रं गुह: पश्यतु मामिति ।। 2.84.14 ।।

स्थपति: प्रभु: । दण्डकारण्ये कुशल: तत्र सञ्चरणसमर्थ इत्यर्थ: । विजानीते तं देशमित्यर्थ: ।। 2.84.1214 ।।

लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभि: परिवारित: ।

आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् ।। 2.84.15 ।।

प्रह्व: कृतप्रणाम: ।। 2.84.15 ।।

निष्कुटश्चैव देशो ऽयं वञ्चिताश्चापि ते वयम् ।

निवेदयामस्ते सर्वे स्वके दासकुले वस ।। 2.84.16 ।।

अयं देश: मदधिष्ठितवनप्रदेश: । ते निष्कुट: गृहारामभूत: । “गृहारामस्तु निष्कुट:” इत्यमर: । त्वद्भोगयोग्य इति यावत् । वयं च वञ्चिता: अत्र गमनानिवेदनेन वञ्चिता इत्यर्थ: । निवेदने हि प्रत्युद्गमनादिकं कर्तुं शक्यमिति भाव: । सर्वे वयं ते, त्वदीया इत्यर्थ: । अत: स्वके दासकुले दासगृहे वसेति निवेदयाम: विज्ञापयाम: । पूर्वं गङ्गामासाद्येति गङ्गापर्यन्तमार्गकरणेपि अद्य मनुष्यप्रेरणाभावात्त्वदागमनं न ज्ञातवानस्मीति गुहेनोच्यते ।। 2.84.16 ।।

अस्ति मूलं फलं चैव निषादै: समुपाहृतम् ।

आर्द्रञ्च मांसं शुष्कञ्च वन्यं चोच्चावचं महत् ।। 2.84.17 ।।

वन्यं नीवारश्यामाकप्रियंग्वादिधान्यम् ।। 2.84.17 ।।

आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् ।

अर्चितो विविधै: कामै: श्व: ससैन्यो गमिष्यसि ।। 2.84.18 ।।

आशंसे प्रार्थयामि । स्वाशिता सुष्ठु भोजिता ।। 2.84.18 ।।

इत्यार्षे श्रीरामयणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरशीतितम: सर्ग: ।। 84 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुरशीतितम: सर्ग: ।। 84 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.