46 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्चत्वारिंश: सर्ग:

ततस्तु तमसातीरं रम्यमाश्रित्य राघव: ।

सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ।। 2.46.1 ।।

सीतामुद्वीक्ष्य लक्ष्मणं प्रति कथनं वक्ष्यमाणस्यानुत्कण्ठाकारणस्य सीताविषयेपि तुल्यत्वज्ञापनाय ।। 2.46.1 ।।

इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम् ।

वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि ।। 2.46.2 ।।

इयमिति । वनवासस्य पूर्वा प्रथमा । अद्येयं निशा इदानीमुपस्थिता रात्रि: । प्रहितागतप्रया । अत: स त्वम् उत्कण्ठितुं नार्हसि । सीतामुद्वीक्ष्य सौमित्रिमब्रवीदित्यस्यैवं वाभिप्राय:अतिसुकुमारी सीता कथं पद्भ्यामेव वनं गच्छेदिति नोत्कण्ठितुमर्हसीति ।। 2.46.2 ।।

पश्य शून्यान्यरण्यानि रुदन्तीव समन्तत: ।

यथानिलयमायद्भिर्निलीनानि मृगद्विजै: ।। 2.46.3 ।।

पश्येति । शून्यानि निष्प्रभाणि । यथानिलयं यथास्थानम् । आयद्भिरागच्छद्भि: । मृगद्विजैर्निलीनानि । व्याप्तानि तात्कालिकतच्छब्दे: रुदन्तीव । निष्प्रभत्वेन रोदनोत्प्रेक्षा ।। 2.46.3 ।।

अद्यायोध्या तु नगरी राजधानी पितुर्मम ।

सस्त्रीपुंसागतानस्मान् शोचिष्यति न संशय: ।। 2.46.4 ।।

वनरोदनोत्प्रेक्षया उद्बुद्धसंस्कारो नगरवृत्तान्तं स्मरति–अद्येति । स्त्रीपुंसेति “अचतुरविचतुरसुचतुरस्त्रीपुंस” इत्यादिना निपातनादकारान्तत्वम् ।। 2.46.4 ।।

अनुरक्ता हि मनुजा राजानं बहुभिर्गुणै: ।

त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा ।। 2.46.5 ।।

शोचनहेतुमाह–अनुरक्ता इति । गुणैर्हेतुभि: राजानं प्रत्यनुरक्ता हि राजानमित्युपादानमौद्धत्यपरिहाराय ।। 2.46.5 ।।

पितरं चानुशोचामि मातरं च यशस्विनीम् ।

अपि वा ऽन्धौ भवेतां तु रुदन्तौ तावभीक्ष्णश: ।। 2.46.6 ।।

पितरमिति । रुदन्ताविति सन्ततरोदनवशेनान्धौ स्यातामित्यर्थ: ।। 2.46.6 ।।

भरत: खलु धर्मात्मा पितरं मातरं च मे ।

धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति ।। 2.46.7 ।।

भरतस्यानृशंसत्वं विचिन्त्याहं पुन:पुन: ।

नानुशोचामि पितरं मातरं चापि लक्ष्मण ।। 2.46.8 ।।

एवमपि काचित्प्रत्याशास्तीत्याह–भरत इति ।। 2.46.78 ।।

त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम् ।

अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ।। 2.46.9 ।।

त्वया चोदितमेव कृतमित्याह–त्वयेति । कार्यम् अवश्यकर्त्तव्यम् । तत्र हेतु: अन्वेष्टव्येति ।। 2.46.9 ।।

अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् ।

एतद्धि रोचते मह्यं वन्ये ऽपि विविधे सति ।। 2.46.10 ।।

एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघव: ।

अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ।। 2.46.11 ।।

अद्भिरिति । अद्भिरेव वत्स्यामि अपएवाहारीकृत्य वत्स्यामि । वनवासोपक्रमदिवसत्वादस्य पुण्यक्षेत्रत्वाच्चोपवास: । एतद्धि रोचते नान्यत्, अनुरक्तजनदु:खस्मरणादिति भाव: ।। 2.46.1011 ।।

सो ऽश्वान् सुमन्त्र: संयम्य सूर्ये ऽस्तं समुपागते ।

प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तर: ।। 2.46.12 ।।

स इति । प्रभूतयवसान् पर्याप्ततृणान् “यवसं तृणमर्ज्जुनम्” इत्यमर: । प्रत्यनन्तर: प्रतिगतमनन्तरकृत्यं येन स तथोक्त: । अवगतानन्तरकार्य इत्यर्थ: । सन्निहित इत्यर्थ इत्येके ।। 2.46.12 ।।

उपास्य तु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम् ।

रामस्य शयनं चक्रे सूत: सौमित्रिणा सह ।। 2.46.13 ।।

उपास्येति । उपासनं नमस्कार: । सूतजातेरपि नमस्कारमात्रं सम्भवति ।। 2.46.13 ।।

तां शय्यां तमसातीरे वीक्ष्य वृक्षदलै: कृताम् ।

राम: सौमित्रिणा सार्द्धं सभार्य: संविवेश ह ।। 2.46.14 ।।

सभार्यं सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मण: ।

कथयामास सूताय रामस्य विविधान् गुणान् ।। 2.46.15 ।।

तामिति । वृक्षदलै: सौमित्रिणा सार्द्धं सूतेन कृतां वीक्ष्य इत्यन्वय: ।। 2.46.1415 ।।

जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रवि: ।

सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ।। 2.46.16 ।।

जाग्रत इति । तां रात्रिमिति अत्यन्तसंयोगे द्वितीया । सर्वां रात्रिं जाग्रत: सूतस्य सूताय । रामस्य गुणान् कालक्षेपार्थं ब्रुवत: सौमित्रे: सौमित्रौ ब्रुवति सति । रविरुदित: उदितुमारब्ध:, उष:कालो ऽभूदित्यर्थ: । यद्वा उदयपर्यन्तं गमनकालेपि गुणा न ब्रवीदिति भाव: ।। 2.46.16 ।।

गोकुलाकुलतीरायास्तमसाया विदूरत: ।

अवसत्तत्र तां रात्रिं राम: प्रकृतिभि: सह ।। 2.46.17 ।।

पूर्वकथाशेषं प्रस्तौति–गोकुलेति । विदूरत: अदूरत: । प्रकृतिभि: पौरश्रेणिभि: । “राज्याङ्गानि प्रकृतय: पौराणां श्रेणयोपि च” इत्यमर: ।। 2.46.17 ।।

उत्थाय तु महातेजा: प्रकृतीस्ता निशाम्य च ।

अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् ।। 2.46.18 ।।

उत्थायेति । निशाम्य दृष्ट्वा ।। 2.46.18 ।।

अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्वपि ।

वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम् ।। 2.46.19 ।।

अस्मदिति । अस्मद्व्यपेक्षान् अस्मास्वेव विशेषेणापेक्षावत: ।। 2.46.19 ।।

यथैते नियमं पौरा: कुर्वन्त्यस्मन्निवर्त्तने ।

अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ।। 2.46.20 ।।

यथेति । पौरा: अस्मन्निवर्त्तने यथा येन प्रकारेण नियमं कुर्वन्ति तेन प्रकारेण प्राणानपि असिष्यन्ति त्यक्ष्यन्ति । निश्चयं तु निवर्तननिश्चयं तु न त्यक्ष्यन्तीति सम्बन्ध: ।। 2.46.20 ।।

यावदेव तु संसुप्तास्तावदेव वयं लघु ।

रथमारुह्य गच्छाम पन्थानमकुतोभयम् ।। 2.46.21 ।।

यावदिति । यावदेव यावत्येव काले । तावदेव तावत्येवकाले । लघु क्षिप्रम् । रथमारुह्य गच्छाम ।

“लघुक्षिप्रमरं द्रुतम्” इत्यमर: ।। 2.46.21 ।।

अतो भूयो ऽपि नेदानीमिक्ष्वाकुपुरवासिन: ।

स्वपेयुरमुरक्ता मां वृक्षमूलानि संश्रिता: ।। 2.46.22 ।।

अत इति । इक्ष्वाकुपुरवासिन: मामनुरक्ता: इदानीमिव भूय: पुनर्वृक्षमूलानि संश्रिता: न स्वपेयु: अतो रथमारुह्य गच्छामेति पूर्वेण सम्बन्ध: ।। 2.46.22 ।।

पौरा ह्यात्मकृताद्दु:खाद्विप्रमोक्ष्या नृपात्मजै: ।

न ते खल्वात्मना योज्या दु:खेन पुरवासिन: ।। 2.46.23 ।।

अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् ।

रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति ।। 2.46.24 ।।

अथ रामो ऽब्रवीच्छ्रीमान् सुमन्त्रं युज्यतां रथ: ।

गमिष्यामि ततो ऽरण्यं गच्छ शीघ्रमित: प्रभो ।। 2.46.25 ।।

सूतस्तत: संत्वरित: स्यन्दनं तैर्हयोत्तमै: ।

योजयित्वाथ रामाय प्राञ्जलि: प्रत्यवेदयत् ।। 2.46.26 ।।

पौरा इति । आत्मकृतात् स्वकृतात् । आत्मना स्वेन ।। 2.46.2326 ।।

अयं युक्तो महाबाहो रथस्ते रथिनां वर ।

तमारोह सुभद्रं ते ससीत: सहलक्ष्मण: ।। 2.46.27 ।।

अयमिति । युक्त: सज्ज: ।। 2.46.27 ।।

तं स्यन्दनमधिष्ठाय राघव: सपरिच्छद: ।

शीघ्रगामाकुलावर्त्तां तमसामतरन्नदीम् ।। 2.46.28 ।।

तमिति । सपरिच्छद: धनु:कवचादिसहित: । आकुलावर्त्ताम् आवर्त्ताकुलाम् ।। 2.46.28 ।।

स संतीर्य्य महाबाहु: श्रीमान् शिवमकण्टकम् ।

प्रापद्यत महामार्गमभयं भयदर्शिनाम् ।। 2.46.29 ।।

स संतीर्येति । महामार्गं प्रापद्यत जलस्थितरथादवतीर्य पद्भ्यामेव महामार्गं प्रापदित्यर्थ: । भयदर्शिनां श्वापदादीनाम् । अभयं तत्सम्बन्धिभयरहितमित्यर्थ: ।। 2.46.29 ।।

मोहनार्थं तु पौराणां सूतं रामो ऽब्रवीद्वच: ।

उदङ्मुख: प्रयाहि त्वं रथमास्थाय सारथे ।। 2.46.30 ।।

मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुन: ।

यथा न विद्यु: पौरा मां तथा कुरु समाहित: ।। 2.46.31 ।।

मोहनार्थमिति । मोहनं वञ्चनम् । ननु सदयस्य रामस्य स्वविरहासहिष्णूनां स्वस्मिन्निरतिशयप्रेमभाजां वञ्चनमनुचितम् । उच्यते–नेदं वञ्चनम् । व्रणचिकित्सान्यायेन नागरिकाणामुन्मस्तकानन्देन सत्ता न भवेदिति सुसात्म्यानुभवप्रदानार्थं वनवासव्याजेन विश्लेषस्य सङ्कल्पिततया हितव्यापारत्वेन वञ्चनत्वासम्भवात् । यदि रामस्य तथा सङ्कल्पो न भवेत्तर्हि कथं निश्शेषसर्वजननिद्राकरणम्, सुमन्त्रलक्ष्मणवत्तेष्वेकस्यापि निर्निद्रत्वापत्ते: । मोहनमेवाह उदङ्मुख इत्यादि । पौराणां मोहनार्थमुदङ्मुख: प्रयाहि अयोध्यां प्रति रामो निवृत्त इति पौराणां भ्रान्तिमुत्पादयितुमुदङ्मुखो याहीत्यर्थ: । स्वस्य रथेनोदङ्मुखं गत्वा मार्गान्तरेण वनगमनस्य कर्तुं शक्यत्वेपि अयोध्याभिमुखगमने व्रतभङ्ग स्यादिति धिया सुमन्त्रमभिमुखो याहीत्युक्तवान् । तथा कुर्विति पौराणां मोहनार्थं सूतमब्रवीदिति सम्बन्ध: ।। 2.46.3031 ।।

रामस्य वचनं श्रुत्वा तथा चक्रे स सारथि: ।

प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ।। 2.46.32 ।।

रामस्येति । प्रत्यागम्येति मार्गान्तरेण प्रत्यागम्येत्यर्थ: ।। 2.46.32 ।।

तौ संप्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्द्धनौ ।

प्रचोदयामास ततस्तुरङ्गमान् स सारथिर्येन पथा तपोवनम् ।। 2.46.33 ।।

ताविति । सम्प्रयुक्तं सम्यगानीतं रथं समास्थितौ, अभूतामिति शेष: । येन पथा तपोवनं प्राप्यते तेन प्रचोदयामास ।। 2.46.33 ।।

तत: समास्थाय रथं महारथ: ससारथिर्दाशरथिर्वनं ययौ ।

उदङ्मुखं तं तु रथं चकार स प्रयाणमाङ्गल्यनिमित्तदर्शनात् ।। 2.46.34 ।।

तत इति । स: सुमन्त्र: । प्रयाणमाङ्गल्यानिमित्तदर्शनात् प्रयाणानुकूलमङ्गलसूचकनिमित्तदर्शनाद्धेतो रथमुदङ्मुखं चकार निमित्तस्वीकारार्थमुदङ्मुखं चकारेत्यर्थ: । तत: निमित्तस्वीकारानन्तरम् । रथमास्थाय वनं ययावितिसम्बन्ध: । प्रयाणे दक्षिणपादोद्धारवत् उदङ्मुखगमनं मङ्गलायेति भाव: ।। 2.46.34 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्चत्वारिंश: सर्ग: ।। 46 ।।

इति श्रीगोविन्दराज0 श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्चत्वारिंश: सर्ग: ।। 46 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.